पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
पूर्वमेघः ।

 तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारुद्रुमाणांस्कन्धाः प्रदेशविशेषाः ॥ “अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः" इत्यमरः ॥ तेषां संघट्टनेन संघर्षणेन जन्म यस्य स तथोक्तः जन्मोत्तरपदत्वाव्यधिकरणोऽपि बहुव्रीहिः साधुरित्युक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्चमरीणां वालभाराः केशसमूहा येन । दव एवानिर्दवाग्निर्वनवह्निः ॥ "वने च वनवह्नौ च दवो दाव इतीष्यते” इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पीडयेद्यदि । एनं दवाग्निं वारिधारासहस्त्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह-उत्तमानां महतां संपदः समृद्धय आपन्नानामार्तानामार्तिप्रशमनमापन्निवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि। अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥

 ये संरम्भोत्पतनरभसाः स्वाङ्गभंगाय तस्मि-
  न्मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
 तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्
  के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥५४॥

 य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ "संरम्भः संक्रमे कोपे" इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ॥ "रभसो वेगहर्षयोः" इत्यमरः ॥ ये शरभा अष्टापदमृगविशेषाः ॥ "शरभः शलभे चाष्टापदेप्रोक्तो मृगान्तरे" इति विश्वः ॥ मुक्तोऽष्वा शरभोत्प्लवनमार्गो येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः संभावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गातिरिक्तं फलं नास्ति लङ्घनस्येत्यर्थः ताञ्शरभांस्तुमुलाः संकुलाः करका वर्षोपलाः ॥ "वर्षोपलस्तु करका" इत्यमरः ।। तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि । आरभ्यन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्फलो येषां


 (५४) हे मेध ! हिमाद्रौ शरभाः ( अष्टापदमृगविशेषाः) पदि भवन्तं लंघचितुमुपञ्जीरन् तर्हि तान् करकावर्षणद्वारा पीडयेति भावः ।

१ त्वां मुक्तध्वनिमसहनाः. २ कायभंगाय. ३ दर्पोत्सेकादुपरि. ४ लंघयिष्यन्त्यलंब्यम्. ५ हासा.