सामग्री पर जाएँ

पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
मेघदूतम् ।

मायतने बुद्धवन्द्य चोद्देशपादपे” इति विश्वः ॥ आकुलानि संकीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः। तथा परिणतैः पक्वैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ "मृताववसिते रम्ये समाप्तावन्त इष्यते” इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः संपत्स्यन्ते भविष्यन्ति ॥ “ पोटायुवतिस्तोककतिपय-" इत्यादिना कतिपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥

 तेषां दिक्षुप्रथितविदिशालक्षणां राजधानीं
  गत्वा सद्यः फलम[]विकलं कामुकत्वस्य ल[]ब्धा ।
 तीरोपान्तस्तनितसुभगं पारयसि स्वादु[] यस्मा-
  त्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २४ ॥

 तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं यस्यास्ताम् ॥ "लक्षणं नाम्नि चिह्ने च” इति विश्वः ॥ तेषां दशार्णानां संबधिनीम् । धीयन्तेऽस्यामिति धानी ॥ 'करणाधिकरणयोश्च" इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ "कृद्योगलक्षणा पष्टी समस्यते” इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ "प्रधाननगरी राज्ञां गजधानीति कथ्यते" इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलासितायाः ॥ 'विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः” इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुट् ॥ कुतः । यस्मात्कारणात्स्वादु मधुरम् चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्गं भ्रूकुटियुक्तम् । दशनपीडयेति भावः । मुखमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा । स्तनितशब्देन भणितमपि व्यपदिश्यते । "ऊर्ध्वमुच्चलितकण्ठनासिकं हुङ्कृतं स्तनितमल्पघोपवत्" इति लक्षणान् ॥ पास्यसि ॥ पिबतेर्लुट् ॥ “कामिनामधरास्वादः सुरतदतिरिच्यते” इति भावः ॥


 ( २४.) हे मेघ! दशार्णदेशसंबंधिनी विदिशानामराजधानीं गत्वा तत्रत्यवेत्रवतीनद्याः पयो दशनपीडया नायिकाधरमिव पीत्वा द्रुतं कामिनः फलं प्राप्यसीति भावः।


  1. अतिमहत्
  2. लब्ध्वा
  3. स्वादुयुक्तम्