कच्छम् ॥ “ अव्ययं विभक्ति-" इत्यादिना विभक्त्यर्थे ऽव्ययीभावः ॥ "जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ॥ आविर्भूताः प्रथमा. प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिकदलीः ॥ "द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि" इति शब्दार्णवे ॥ जग्ध्वा भक्षयित्वा ॥ "अदो जन्धिः-" इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभि मतिघ्राणतर्पणम् ॥ " दग्धारण्येषु ” इति पाठे दग्धम्" इत्यधिकविशेषणम् ॥ अर्थवशात्कन्दलीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमादाय जललवमुचो मेघस्य ते तव मार्गं सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दलीमुकुलनीपकुसुमादिकं दृश्यते तत्र तत्र त्वया वृष्टमित्यनुमीयत इति भावः ॥
प्रक्षिप्तमपि व्याख्यायते-
अम्भोविन्दुग्रहणच[१]तुरांश्चातकान्वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सो[२]त्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥
अम्भ इति ॥ अम्भोविन्दूनां वर्षोंदबिन्दूनां ग्रहणे । “सर्वसहापतितमम्बु न चातकस्य हितम्" इति शास्त्राद्भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे चतुगंश्चातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणीभूता बद्धपंक्तीः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्क्तीः परिगणनयैका द्वे तिस्र इति संख्यानेन निर्दिशन्तो हस्तेन दर्शयन्तः सिद्धाः स्तनितसमये त्वदूर्जितकाले सोत्कम्पान्युत्कम्पपूर्वकाणि प्रियसहचरीणां संभ्रमेणालिङ्गितान्यासाद्य । स्वयंग्रहणाश्लेषसुखमनुभूयेत्यर्थः । त्वां मानयिष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
(२२) हे मेघ ! मित्र ! मस्सन्देशमादाय गच्छतस्ते प्रतिपर्वतं विलम्बमुत्पश्यामि ततश्च मयूरस्य वाणीमाकर्ण्य तेन प्रत्युद्गतो भवान् केनापि प्रकारेण गन्तुमुद्युन्जीतेति भावः !