उत्पश्यामीति ॥ हे सखे ! मेघ ! मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ "लघु क्षिप्रमरं द्रुतम्" इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः । ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥ “ककुभः कुटजेऽर्जुने" इति शब्दार्णावे ॥ पर्वत पर्वते प्रतिपर्वतम् ॥ वीप्सायां द्विरुक्तिः॥ कालक्षेपं कालविलम्बम् ॥ "क्षेपो विलम्बे निन्दायाम्" इति विश्वः॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्बहेतुं दर्शयन्नाशुगमनं प्रार्थयते-शुक्लति ॥ सजलानि सानन्दवाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ “मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः" इति यादवः ॥ केकाः स्ववाणीः ॥ "केकावाणी मयूरस्य" इत्यमरः॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः । मयूरवाणीकृतातिथ्य इत्यर्थः ॥ भवान्कथमपि यथाकथंचिदा गन्तुं व्यवस्येदुद्यञ्जीत ॥ प्रार्थने लिङ ॥ "शेषे प्रथमः" इति प्रथमपुरुषः। शेषश्चायं भवच्छन्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ "स्वागतीकृत्य केकाः" इत्यत्र केकास्वारोप्यमाणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालंकारः । तदुक्तमलंकारसर्वस्वे-'आरोग्यमाणस्य प्रकृतोपयोगित्वे परिणामः” इति ॥
पाण्डुच्छायोपवनवृतयः केतकैः सृचिभिन्नै-
नीडा[१]रम्भैगृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणत*फलश्यामजम्बूवनान्ताः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥२३॥
पाण्ड्विति ॥ हे ! मेघ ! त्वय्यासन्ने संनिकृष्टे सति दशार्णा नाम जनपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ “केतकीमुकुलाग्रेषु सूचिः स्यात्" इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ "प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः" इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलायनिर्माणैः "कुलायो नीडमस्त्रियाम्" इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ "चैत्य-
(२३) हे मेघ ! त्वयि सत्यासन्ने मानसम्प्रति हंसानां गमनादृशार्णदेश हंसविरहिता भविष्यन्तीति भावः ॥
*२ परिणतिफल, फलपरिणति.
- ↑ नीडारम्भे