सामग्री पर जाएँ

काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/द्वितीयाधिकरणम्/द्वितीयोऽध्यायः

विकिस्रोतः तः

 पदपदार्थदोषान् प्रतिपाद्य वाक्यदोषान् दर्शयितुमाह ---

 भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ १ ॥

 दुष्टानीत्यभिसंबन्धः।

 क्रमेण व्याचष्टे---

लक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २ ॥

 स्वस्माल्लक्षणाच्च्युतं वृत्तं यस्मिन् , तत् स्वलक्षणच्युतवृत्तं वाक्यं भिन्नवृत्तम् ।

 यथा-'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।'

 वैतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्यं निषिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् ।

  चिन्तयामि चिदाकाशचन्द्रलेखां सरस्वतीम् ।
  शिरसा श्लाघनाद्यस्याः सार्वज्ञं समवाप्यते ॥

 अध्यायद्वयसौहार्दमुन्मुद्रयति – पदपदार्थेति । पदपदार्थदोषनिरूपणानन्तरं वाक्यवाक्यार्थदोषनिरूपणं लब्धावसरमिति संगतिः । वाक्यदोषानुद्दिशति---भिनवृत्तेति । 'दुष्टं पदम्' इत्यादिसूत्रात् दुष्टमित्येतत् वचनविपरिणामेन वाक्यविशेषणतयानुवर्तत इत्याह--दुष्टानीति

 यथोद्देशमेषां लक्षणानि दर्शयिष्यन् , अनन्तरसूत्रमवतारयति---- क्रमेणेति । लक्षणच्युतवृत्तमिति । लक्षणहीनवृत्तानुबन्धि वाक्यमित्यर्थः । उदाहरति- -यथेति । अयि पश्यसीति । सुमनोमालभारिणीमित्यत्र " इष्टकेषीकामालानां चिततूलभारिषु” इति मालाशब्दस्य ह्रस्वः । वैतालीयलक्षणं प्रागुक्तम् । तत्र 'ताश्च समे स्युर्नो निरन्तराः' इति समपादे लघ्वक्षरषट्कस्य नैर

विरसविरामं यतिभ्रष्टम् ॥ ३॥

 विरसः श्रुतिकटुः विरामो यस्मिन् , तत् विरसविरामं यतिभ्रष्टम् ।

तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ ४ ॥

 नत् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति स्वरसंधिना अकृते प्रायेण बाहुल्येन ।

  धातुभागभेदे मन्दाक्रान्तायां यथा--
   'एतासां राजति सुमनसां दाम कण्ठावलम्बि ।'

  नामभागभेदे शिखरिण्यां यथा--
   'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः।'

न्तर्यं निषिद्धम् । अत्र 'अविरलसुम---' इति समपादे षडपि लघ्वक्षराणि प्रयुक्तानीति लक्षणच्युतत्वम् ॥

 द्वितीयं व्याख्यातुं सूत्रमुपादत्ते-- विरसविराममिति । विरामो विच्छेदनियमः । शेषं सुगमम् ।

 तद्विभागं दर्शयितुमाह- तदिति । धातुः भूवादिः । नाम प्रातिपदिकम् । धातोः प्रातिपदिकस्य वा भागतो भेदे अंशतो विच्छेदे। भागभेदमेव विशिनष्टि---- स्वरसंध्यकृत इति । स च भागभेदो यदि स्वरसंधिना कृतो न स्यात्, तस्मिन् भागभेदे सति यतिभ्रष्टं नाम दुष्टं भवति । स्वरसंधिकृते तु भागभेदे न दुष्टमिति सूचितम् । तत्र प्रथममुदाहर्तुमाह-- धातुभागभेद इति । एतासामिति । मन्दाक्रान्ताख्यमिदं वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौ न तौ तो गुरू चेत् इति तल्लक्षणादादितश्चतुर्भिः, ततः षड्भिः, ततः सप्तभिर्वर्णेविरामः कर्तव्यः । तथा सति । एतासां स-' इत्यत्र धातुभागभेदे प्राप्तस्य तस्य वैरस्यादिदं वाक्यं यतिभ्रष्टं नाम दुष्टं भवति । द्वितीयमुदाहरति-नामभागभेद इति । कुरङ्गाक्षीणामिति । शिखरिणीवृत्तमिदम् । 'रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणादादितः षड्भिः. तत एकादशभिर्यतिः कर्तव्या। ततश्च  मन्दाक्रान्तायां यथा--

 'दुर्दर्शश्चक्रशिखिकपिशः शार्ङ्गिणो बाहुदण्डः ।'

 धातुनामभागपदग्रहणात् तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् ।

 यथा मन्दाक्रान्तायाम्--

 'शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः ।'

 शिखरिण्यां यथा--

 'विमिश्रः श्यामान्तेष्वररपुटचीत्कारविरुतैः।'

 स्वरसंध्यकृत इति वचनात् स्वरसंधिकृते भेदे न दोषः ।

 यथा-'किंचिद्भावोलसमसरलं प्रेक्षितं सुन्दरीणाम् ।'

'कुरङ्गाक्षीणां ग--' इत्यत्र प्रातिपदिकभागभेदे प्राप्तायास्तस्या वैरस्यात् यतिभ्रष्टं भवति । उदाहरणान्तरमाह-- दुर्दर्श इति । मन्दाक्रान्तालक्षणमुक्तम् । 'दुर्दर्शश्च' इत्यत्र विसमो विरसः । ननु पदभागभेद इति सूत्रकरणे धातुनाम्नोरुभयोरपि संग्रहाल्लाघव भवति, किं धातुनामग्रहणगौरवेणेत्याशङ्क्य, पदग्रहणे प्रकृतिप्रत्ययमध्यविरामेऽपि यतिभ्रंशः स्यात् ; स मा भूदिति धातुनामग्रहणं कृतमित्याशयवानाह-धातुनामेति । तयोर्धातुनाम्नोर्भागाः तद्भागाः तेभ्योऽतिरिक्तभेदे धातुनामभागभेदव्यतिरिक्ते भागभेद इत्यर्थः । उदाहरति यथेति । शोभां पुष्य-' इत्यत्र विरामो न वैरस्यमावहतीति भावः । धातुप्रत्ययमध्यविरामे दोषाभावं निरूप्य प्रातिपदिकप्रत्ययमध्यभेदेऽप्युदाहरति--विमिश्र इति । श्यामा रात्रिः , अररं कवाटम् । 'श्यामान्ते---' इत्यत्र प्रातिपदिकप्रत्ययमध्यविरामो न दुष्यति । विशेषणव्यावर्त्यं कीर्तयति ---- स्वरसंधीति

उदाहरति-किंचिद्भावालसमिति । अत्र चतुर्थाक्षरावसाने यतिर्विहिता । तथा च अलसमित्यत्र अकारस्य सवर्णदीर्घेणैकादेशेन कबलितत्वात्स्वरसंधिकृतोऽयं नामभागभेद इति न यतिभ्रष्टत्वम् ।

न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य

यत्यात्मकत्वात् ॥ ५॥

 वृत्तदोषात् पृथक् यतिदोषो न वक्तव्यः, वृत्तस्य यत्यात्मकत्वात् । यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यम् ।

अत आह-

न लक्ष्मणः पृथक्त्वात् ॥ ६ ॥

 नायं दोषः। लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्य, अन्यच्च यतेः---- गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति ।

विरूपपदसंधि विसंधि ॥ ७ ॥

 पदानां संधिः पदसंधिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्ररूपो वा । स विरूपो यस्मिन्निति विग्रहः॥ ननु भिन्नवृत्तयतिभ्रष्टयोरर्थतो भेदाभावात् न पृथक्कथनमर्थवदिति शङ्कामङ्कुरयितुमुपरितनं सूत्रमुपन्यस्यति-- न वृत्तेति । गुरुलधुनियमवत् यतिनियमस्यापि वृत्तलक्षणवाक्येनैवावगन्तव्यत्वात् यतिविशिष्टं च वृत्तमिति वृत्तदोषे एव यतिदोषोऽन्तर्भवतीति शङ्कितुरभिप्रायः ।

 शङ्कामिमां शकलयितुमुत्तरसूत्रमुपादत्ते-- न लक्ष्मणः पृथक्त्वादिति। यतिवृत्तयोर्लक्षणभेदात् स्वरूपभेदोऽङ्गीकर्तव्यः । तथा च वृत्तदोषे यतिदोषस्यान्तर्भावो दुर्भण इति भावः । लक्षणभेदमेवाह ---- गुरुलघ्विति । स्थानविरामेऽपि गुरुलघुविपर्यासे भवति वृत्तभङ्गः । अस्थानविरामात्मके यतिभङ्गेऽपि यथोक्तगुरुलघुनियमे सति न वृत्तभङ्ग इत्यन्वयव्यतिरेकाभ्यां भिन्नवृत्तयतिभ्रष्टयोर्भिन्नत्वात् पृथक्कथनमर्थवदित्यर्थः ।

 अथ विसंधि वाक्यं विवरीतुमाह--विरूपपदसंधीति। स चेति। किंचिद्भावालसम्' इत्यत्र स्वरसमवायरूपः । 'ते गच्छन्ति प्रभुपरिबृढम्' इत्यत्र प्रत्यासत्तिरूपः ।

पदसंधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ ८ ॥

 विश्लेषः अवग्रहः विभागेन पदानां संस्थितिः । अश्लीलत्वम् असभ्यस्मृतिहेतुत्वम् । कष्टत्वं पारुष्यमिति ।

 विश्लेषो यथा--

 'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।' 'लोलालकानुबद्धानि आननानि चकासति ।'

 अश्लीलत्वं यथा-

 'विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।'

 विसंधिनस्त्रैविध्यं वक्तुमाह- पदसंधेरिति । विश्लेषोऽवग्रह इति । अत्र पदकालप्रसिद्धोऽवग्रहो न विवक्षितः, किंतु मात्राकालव्यवधानसाम्यादसंहिताप्रगृह्यलक्षण इत्यभिसंधायाह--- विभागेनेति । स च विश्लेषो द्विविधः- प्रगृह्यनिबन्धनः, संध्यविवक्षानिबन्धनश्च । तत्राद्यमुदाहरति-- कमले इति । यदवादि दण्डिना, 'न संहितां विवक्षामीत्यसंधानं पदेषु यत् । तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥' इति । अत्र प्रगृह्यादिहेतुकं विसंधि न भवतीति सकृत्प्रयोगविषयमिदं द्रष्टव्यम् ; असकृत्प्रयोगे तु दुष्टमेव । तदुक्तं साहित्यचूडामणौ, “प्रगृह्यादिनिबन्धनत्वे पुनरसकृद्दोषः । यथा- “धीदोर्बले अतितते उचितार्थवृत्ती' इत्यादि । सकृत्तु न दोषः । तथाच प्रयोगः- 'लीलयैव धनुषी अघिज्यताम् इति, 'सहंसपाते इव लक्ष्यमाणे” इति च । द्वितीयमुदाहरति लोलालकेत्यादि । अत्र · न संहितां विवक्षामि' इति कामचारप्रयुक्तः सकृदपि दोष एव, 'नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति काव्यसमयाध्याये वक्ष्यमाणत्वात् ।

 त्रिविधमश्लीलं क्रमेणोदाहरति-~~ अश्लीलत्वं यथेति रेचका नाम नृत्ते पाणिपादादिभ्रमणरूपाश्चत्वारो भरतशास्त्रे प्रसिद्धाः । तदुक्तं संगीतरत्नाकरे, 'रेचकानथ वक्ष्यामश्चतुरो भरतोदितान् । पदयोः करयोः कट्या ग्रीवायाश्च भवन्ति ते ॥' इति । आचार्येण सता नृत्तं सरेचकं योजनीयम् ; इदं तु नृत्तं  'चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ।'

 'विना शपथदानाभ्यां पदवादसमुत्सुकम् ।'

 कष्टत्वं यथा-

 'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा वभुः ।'

 एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह--

व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्याविरुद्धानि च ॥९॥

 वाक्यानि दुष्टानीति संबन्धः ॥

 क्रमेण व्याख्यातुमाह-

व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ १० ॥

 व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तत् व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् ।

 यथा-- ‘अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि ।'

 मुग्धायाः कथं स्मरचतुराणि चेष्टितानि ? तानि चेत् कथं मुग्धा?

विरेचकं रेचकविहीनम् । अत एवाचार्याभासयोजितम् यः स्वयमनाचार्य आचार्यवदवभासते, सोऽयमाचार्याभासः; तेन योजितम् । अत्र विरेचकयाभशेपपुरीषविनाशपदविन्यासैः, विरेचनमिथुनीभावमेहनपुरीषविनाशप्रतीतेस्त्रिविधान्यश्लीलानि द्रष्टव्यानि ।

 कष्टत्वमुदाहर्तुमाह- कष्टत्वं यथेति ॥  उक्तवक्तव्यसंगतिपूर्वकमुत्तरसूत्रमवतारयति---एवमिति । चकारेण समुच्चयमाह-वाक्यानि दुष्टानीति संबन्ध इति ।

 व्याहतौ परस्परविरुद्धावित्यर्थः । मुग्धायाः कथं स्मरचतुराणि चेष्टितानीति । न कथंचित्संभवन्ति, व्याहतत्वादित्यर्थः । व्याहतिमेव व्याह अ. २] कामधेनुसहिता ५९ अत्र पूर्वोत्तरयोरर्थयोविरोधात् व्यर्थमिति । उक्तार्थपदमेकार्थम् ॥ ११ ॥ उक्तार्थानि पदानि यस्मिंस्तत् उक्तार्थपदम् एकार्थम् । यथा-~~ 'चिन्तामोहमनङ्गमङ्ग! तनुते विप्रेक्षितं सुभ्रुवः।' अनङ्गः शृङ्गारः । तस्य चिन्तामोहात्मकत्वाञ्चिन्तामोहशब्दौ प्रयुक्तावुक्तार्थौ भवतः । एकार्थपदत्वात् वाक्यमेकार्थमित्युक्तम् । न विशेषश्चेदेकार्थं दुष्टम् ॥ १२ ॥ न गतार्थं दुष्टम् , विशेषश्चेत् प्रतिपाद्यः स्यात् । तं विशेषं प्रतिपादयितुमाह- धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्यै ॥ १३ ॥ रति ‘स्मरचतुराणि' इति । ___ एकार्थं समर्थयितुमाह-- उक्तार्थपदमिति। उक्ताः पदान्तरैः प्रतिपा- दिताः अर्थाः येषां तानि उक्तार्थानि । तथाविधानि पदानि यस्मिन् वाक्ये तत् उक्तार्थपदं वाक्यमेकार्थं नाम दुष्टं भवतीति वाक्यार्थः । चिन्तामोहमिति । कामिनीकटाक्षपातकलुषितान्तःकरणस्य विरहवेदनामसहमानस्य कस्यचित्कामु- कस्येयमुक्तिः । अनङ्गशब्देनात्र विप्रलम्भशृङ्गारो विवक्षितः । तस्य चिन्तामोहाद्युपचितात्मकस्यैव शृङ्गारपदार्थत्वात् तत्कथनेनैव चिन्तामोहयोरवगतत्वाच्चिन्तामोहशब्दौ गतार्थावित्येकार्थौ । नन्वेकार्थलक्षणपरीक्षायामेकार्थत्वं पदस्य प्रतीयते, न तु वाक्यस्य । तत्कथमयं वाक्यदोषः स्यादित्याशङ्क्य छत्रिन्यायेनैकदेशधर्मः समुदाये पर्यवस्यतीत्याशयवानाह--- एकार्थपदत्वादिति । ___ क्वचिदपवादं वक्तुमाह-- न विशेषश्चेदेकार्थं दुष्टामिति । यदि विशेषः प्रतिपाद्यः, तदानीमेकार्थं दुष्टं न भवतीति सूत्रार्थः ।। ६० काव्यालंकारसूत्रवृत्तिः अधि, २. धनुर्ज्याध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते, आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपत्तुम् । यथा- 'धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ।' इति । कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादि- निर्देशः संनिधेः ॥ १४ ॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि नि- र्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः । न हि कर्णादिशब्दनिर्देशम- न्तरेण कर्णादिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा- 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'आययुर्भृङ्गमुखराः शिरःशेखरशालिनः।' धनुर्ज्याध्वनाविति । श्रुतिरत्र वाचकः शब्दः । स्पष्टमवशिष्टम् । धनुर्ज्याकिणेति । ज्याशब्दमात्रप्रयोगे ज्याबन्धनेनापि किणसंभवात् भवेदनौचि- त्यम् । तथा च प्रयोगः, 'ज्याबन्धनिष्पन्दभुजेन यस्य' इति । उक्तन्यायमन्यत्रापि संचारयितुमाह- कर्णावतंसेत्यादि । उक्तार्थानामपीति । अवतंसादिभि कर्णाभरणादीन्येवोच्यन्त इति अवतंसादिप्रयोगे कर्णादीनां गतार्थत्वमित्यभिप्रायः । अन्वयं द्रढयितुं व्यतिरेकमाह --- न हीति । ‘कर्णावतंसाः कलयन्ति कम्पम्' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति' इत्यत्र लीलाचलनक्रियायोगादारूढप्रतिपत्तिर्भवत्येव । अतः ‘अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ' इत्यायुदाहर्तव्यम् ।

आययुरिति । स्पष्टार्थम् । धनुर्ज्यादिसूत्र एवैकत्र कर्णावतंसादीनामपि परिगणने कर्तुं शक्येऽपि प्रयोजनभेदं प्रतिपादयितुं सूत्रभेदः कृत इति द्रष्टव्यम् ।

मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ॥ १५ ॥

 मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धेः प्रतिपत्त्यर्थमिति संबन्धः । मुक्तानां शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहारः।

 यथा---'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।

  मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥'

पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ॥ १६ ॥

 पुष्पमालाशब्दे मालाशब्देनैव गतार्थं पुष्पपदं प्रयुज्यते उत्कर्षस्य प्रतिपत्त्यर्थमिति । उत्कृष्टानां पुष्पाणां माला पुष्पमालेति ।

 यथा--- 'प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत् ।'

 ननु मालाशब्दोऽन्यत्रापि दृश्यते; यथा-- रत्नमाला, शब्दमालेति ? स तावदुपचरितस्य प्रयोगः । निरुपपदो हि मालाशब्दः पुष्परचना-

 मुक्ताहारेत्यादि । सुबोधम् । ननु हसतीव स्तनद्वयामिति हासोत्प्रेक्षणसामर्थ्यादेव हारस्य रत्नान्तरासंवलनलक्षणा शुद्धिः प्रतीयते, न मुक्ताशब्दसंनिधानात् । अन्यथा हासोत्प्रेक्षैव नोदयमासादयेत् । अतो नेदमुदाहरणमिति चेत् , मैवम् ; हारशुद्धिप्रतिपत्त्या हासोत्प्रेक्षा हासोत्प्रेक्षया च हारशुद्धिप्रतिपत्तिरिति परस्पराश्रयप्रसङ्गात् । अतो मुक्ताशब्दसंनिधानादेव हारशुद्धिप्रतिपत्तिरिति भवत्युदाहरणमिदम् । 'हारो मुक्तावली' इत्यभिधानादत्र हारशब्दो मुख्यया वृत्त्या रत्नान्तरासंवलितमुक्तागुणमभिधत्ते । अतः शुद्धेः प्रतिपत्तिः शब्दत एव सिद्धेति यदि पक्षः, तदा पुष्पमालाशब्दे पुष्पपदवन्मुक्ताहारशब्देऽपि मुक्तापदं कस्यचिदुत्कर्षस्य प्रतिपत्त्यै प्रयुज्यते । स चोत्कर्षः-- त्रासादिदोषशून्यत्वम् , स्थूलवृत्तत्वम् , स्वच्छतातिशयश्चेति व्याख्येयम् ।

 पुष्पमालेत्यादि । स्पष्टार्थम् । ननु मालाशब्दस्य रूपहंसमेघादिमालासु प्रयोगदर्शनात् तद्व्यावृत्तिः प्रयोजनं पुष्पपदस्य, न पुनरुक्तिरिति शङ्कते-नन्विति । मालाशब्दः पुष्परचनायां मुख्यः, लाक्षणिकः पुनरन्यत्रेति वृत्तिभेदान्नायं दोष इति परिहरति --- स तावदिति विशेषमेवाभिधत्त इति ।

करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ॥ १७ ॥

 करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः, तद्रूपः कलभः करिकलभ इति ॥

 यथा -- 'त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः ।'

विशेषणस्य च ॥ १८ ॥

  विशेषणस्य प्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः ।

  यथा-- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।'

तदिदं प्रयुक्तेषु ॥ १९ ॥

 तदिदमुक्तं प्रयुक्तेषु, नाप्रयुक्तेषु । न हि भवति- यथा श्रवणकुण्डलमिति, तथा नितम्बकाञ्चीत्यपि । यथा वा करिकलभ इति, तथा उष्ट्रकलभ इत्यपि ।

 करिकलभेत्यादि । व्यक्तार्थम् ।

 विशेषणस्येति। शब्दान्तरस्य संनिधानादुक्तार्थोऽपि विशेष्यशब्दः प्रयुज्यते ; स च विशेषणस्य प्रतिपत्त्यै भवति । जगादेत्यनेन गतार्थस्य वाक्छब्दस्य माधुर्यवर्णवैशद्यलक्षणप्रतिपत्त्यै प्रयोग इष्यत इति वाक्यार्थः । ‘जगाद मधुरोदारविशदाक्षरमीश्वरः' इति विन्यासकल्पनायां विशेषणस्य प्रयोगः क्रियाविशेषणत्वेऽप्युपपद्यते । अतः 'नीलनीरजविकासहारिणा कान्तमीक्षणयुगेन वीक्षते' इत्युदाहार्यम् ।

 तदेतत्सार्थकत्वसमर्थनमभियुक्तप्रयुक्तपदनिर्वाहाय, न सर्वत्रेति नियन्तुमाह-- तदिदमिति । प्रयुक्तेषु, अभियुक्तैरिति शेषः । नाप्रयुक्तेष्विति । तथोक्तं काव्यप्रकाशे, 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥' इति । अप्रयुक्तानि दर्शयति-- यथेति ।

संशयकृत्संदिग्धम् ॥ २० ॥

 यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां चाश्रुतेः संशयं करोति ; तत् संशयकृत् संदिग्धमिति ।

 यथा- ‘स महात्मा भाग्यवशान्महापदमुपागतः ।'

 किं भाग्यवशान्महापदमुपागतः, आहोस्विदभाग्यवशान्महतीमापदमिति संशयकृत् वाक्यं प्रकरणाद्यभावे सतीति ।

मायादिविकल्पितार्थमयुक्तम् ॥ २१ ॥

 मायादिना विकल्पितोऽर्थो यस्मिंस्तन्मायादिविकल्पितार्थमयुक्तम् । अस्तोकमुदाहरणम् ।

क्रमहीनार्थमपक्रमम् ॥ २२ ॥


 इत्थमेकार्थं समर्थ्य, संदिग्धं समर्थयितुमाह-संशयकृत्संदिग्धमिति । व्याचष्टे-यद्वाक्यमिति । विशिष्टानामिति । असाधारणानामित्यर्थः । उक्तलक्षणमुदाहरणे योजयति--- किं भाग्यवशादिति । लक्षणं विशिनष्टि प्रकरणादिति । अत्रादिपदेन संयोगादयो गृह्यन्ते । यथोक्तं हरिणा, 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति ।

 अयुक्तं व्यक्तयितुमाह-मायादिविकल्पितार्थमयुक्तमिति । मायादिना कुशलमतिकुण्ठनपटिष्ठकुहनादिना विकल्पितः विरुद्धतया कल्पितः अर्थो यस्मिंस्तद्वाक्यमयुक्तं भवति । अस्तोकमुदाहरणमिति । विवृतं हि विदग्धमुखमण्डने, 'प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विःसमस्तकम् । तथा व्यस्तसमस्तं च द्विर्व्यस्तकसमस्तके ॥' इत्यादिना ।

 क्रमहीनार्थमपक्रममिति । प्रतियोगिप्रतिपत्तिपूर्वकत्वात् क्रमाभावप्रतिपत्तेः  उद्देशिनाम् अनूद्देशिनां च क्रमः संबन्धः; तेन हीनोऽर्थो यस्मिन्, तत् क्रमहीनार्थमपक्रमम् ।

 यथा --- 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।'

 अत्र कीर्तिश्चन्द्रमसस्तुल्या; प्रतापः सूर्यस्य तुल्यः । सूर्यर्स्य पूर्वनिपातादक्रमः।

 अथवा प्रधानस्यार्थस्य प्रथमनिर्देशः क्रमः; तेन हीनोऽर्थो यस्मिन् तदपक्रमम् ।

 यथा- 'तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।'

 देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥ २३ ॥

 देशकालस्वभावैर्विरुद्धोऽर्थो येषु, तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि। अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् ।

 देशविरुद्धं यथा---

  सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता ।
  आक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥'

 कालविरुद्धं यथा- 'कदम्बकुसुमस्मेरं मधौ वनमशोभत ।'

प्रथमतः क्रममेकं प्रथयितुमाह- उद्देशिनामिति । तेन हीनः तदभाववान् । उदाहरणमुज्ज्वलार्थम् । अन्यं क्रममभिधत्ते--- अथवेति । प्रधानस्य अभ्यर्हितस्येत्यर्थः । मातङ्गं तुरङ्गं वा प्रयच्छेति वक्तव्ये व्युत्क्रमेणोक्तं वाक्यमस्य कवेरनभिज्ञतामापादयतीति दुष्टम् ।

 लोकविरुद्धं दर्शयितुमाह-देशकालस्वभावविरुद्धार्थानीति । अर्थद्वारेणेति। विरुद्धार्थप्रतिपादकत्वाद्वाक्यानि विरुद्धानि व्यपदिश्यन्ते । क्रमेणोदाहरति-देशविरुद्धमिति । सौवीरेष्विति । आक्षोटाः शैलोत्पन्ना गुडफलवृक्षाः । 'पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे । आक्षोटकन्दरालौ द्वौ' इत्यमरः । यमुनातीरवर्तिन्या मधुराया नगर्याः सौवीरेषु देशेष्वसंभवात् देशविरोधः । कदम्बति । मधुर्वसन्तः । 'चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः' इति  स्वभावविरुद्धं यथा- 'मत्तालिमङ्खमुखरासु च मञ्जरीषु सप्तच्छदस्य तरतीव शरन्मुखश्रीः।'

 सप्तच्छदस्य स्तबका भवन्ति, न मञ्जर्य इति स्वभावविरुद्धम् ।

 तथा-

  'भृङ्गौघैः कलिकाकोशस्तथा भृशमपीड्यत ।
  यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ।'

 कलिकायाः सर्वस्या मकरन्दस्यैतावद्बाहुल्यं स्वभावविरुद्धम् ।

कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २४ ॥


नानार्थरत्नमाला । प्रावृषि प्रसवोद्गमशालिनः कदम्बस्य वसन्ते प्रसूनप्रसङ्गासंभवात् कालविरोधः । मत्तालिमङ्खेति । मङ्खः स्तुतिपाठकः । 'नान्दीकारश्चाटुकारो मङ्खश्च स्तुतिपाठकः' इति वैजयन्ती । स्तबकाः गुच्छाः । 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः । ते नाम स्तबकाः, पुष्पाणि पुञ्जीभूय यत्र वर्तन्ते । मञ्जर्यः वल्लयः । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । यत्र आयामवती प्रसूनपरिपाटी, ता एव मञ्जर्यः । अतः सप्तच्छदस्य स्वभावतो गुच्छा एव, न तु मञ्जर्यः संभवन्तीति स्वभावविरुद्धम् । भृङ्गौघैरिति । कलिका कोरकः । अनुद्भिन्नमुकुला कलिका कलिकाकोशः । तत्र गोष्पदपूरणपर्याप्तस्य मधुनोऽसंभवात् स्वभावविरुद्धम् । गोष्पदपूरमित्यत्र- गोः पदं प्रमाणतया अवच्छेदकमस्य वर्षस्येत्यस्मिन्नर्थे गोष्पदमिति भवति ; 'गोष्पदं सेवितासेवितप्रमाणेषु' इति गोष्पदशब्दो निपातितः । गोष्पदं पूरयित्वा ववर्ष गोष्पदपूरं ववर्ष। 'वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल् । लोकविरुद्धमपि क्वचित्कविसमयप्रसिद्धेः प्राबल्यान्न दुष्टम् ; यथा--- 'सुसितवसनालंकारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का के नासि शुभप्रदः ॥' इति । एवमन्यत्रापि लोकयात्राकविमर्यादयोर्विप्रतिषेधे पूर्वदौर्बल्यमवगन्तव्यम् ।

 विद्याविरुद्धानि विवरीतुमाह-- कलाचतुर्वर्गेति । शास्त्रपदस्योभयत्र  कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु, तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः।

 कलाशास्त्रविरुद्धं यथा-

 'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकाग्रम् ।'

 कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः; तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः ।

 चतुर्वर्गशास्त्रविरुद्धानि तूदाह्रियन्ते--

 'कामोपभोगसाकल्यफलो राज्ञां महीजयः ।

 धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजय इत्यागमः, तद्विरोधाद्धर्मशास्त्रविरुद्धमेतद्वाक्यमिति ।

संबन्धः । प्रतिपाद्यस्य दुष्टत्वे प्रतिपादकमपि दुष्टं भवतीत्याह--- वाक्यानामिति । कलाशास्त्रविरुद्धमुदाहरति-- कलाशास्त्रेति । कालिङ्गमिति। कलिङ्गजनेषु दृष्टं पत्रं कालिङ्गमित्युच्यते । तच्च पतितकोटिकण्टकाग्रतया लेखनीयम् । तत्रार्थे तच्छास्त्रफक्किकामाह- कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नाय इति । विरोधस्तु परिस्फुट एव । एवमिति । भरतकलाविरोधो यथा-- 'रणद्भिराघट्टनया नभस्वतः' इत्यादावानुलोम्येन प्रातिलोम्येन वा नभस्वत्संचारक्रमेण स्वरा उत्पद्यन्ते, न पुनर्वैचित्र्येणेति कुतो रागसंबन्धिनीनां मूर्च्छनानां स्फुटीभाव इत्यादि द्रष्टव्यम् ।

 धर्मार्थकाममोक्षाः चतुर्वर्गः । 'त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गः समीक्षकः' इत्यमरः । तत्प्रतिपादकशास्त्राणि चतुर्वर्गशास्त्राणि ; तद्विरुद्धानि क्रमेणोदाहर्तुं प्रतिजानीते- चतुर्वर्गेति । तत्र धर्मशास्त्रविरुद्धमुदाहरति---- कामोपभोगेति । तत्रागमवाक्यं दर्शयति- अश्वमेधादीति । महीजयस्य राज्ञामश्वमेधादिफलत्वेन धर्मशास्त्रेऽभिधानात् , तद्विरुद्धं कामोपभोगसाकल्यफलवाक्यम् । यथा वा-- ' सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥' अत्र ग्रहोपरागं विना  'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।'

 द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ; तद्विरोधादर्थशास्त्रविरुद्धं वाक्यमिति ।

 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिरखेदालसमाननं स्मरामि ।'

 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्थानानि' इति कामशास्त्रे स्थितम् । तद्विरोधात् कामशास्त्रविरुद्धार्थं वाक्यमिति ।

  'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा ।'
  एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात् तद्विरुद्धार्थम् ।

 एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वऽन्ये शब्दा-

रात्रौ स्नानं धर्मशास्त्रविरुद्धम् , 'रात्रौ स्नानं न कुर्वीत राहोरन्यत्र दर्शनात्' इति स्मृतेः । अर्थशास्त्रमत्र दण्डनीतिः । यत्र पुनरर्थकामौ प्रधानम्, लोकयात्रानुवृत्तिमात्राय धर्मः, सा दण्डनीतिः ; यस्या भगवान् बृहस्पतिः प्रवक्ता । तद्विरुद्धमुदाहरति-- अहंकारेणेति । विरोधं विवृणोति-- द्विषज्जयस्येति । तत् कामशास्त्रम् , यत्र त्रिवर्गस्य परस्परानुपरोधादुपयोगोपदेशः; यस्य भगवान् भार्गवः प्रणेता । कामशास्त्रविरुद्धं दर्शयति-- दशनेति । विरोधं विवेचयति-उत्तरोष्ठमिति । उक्तं हि रतिरहस्ये, 'अङ्गुष्ठे पदगुल्फजानुजघने---' इत्यादि । मोक्षशास्त्रविरुद्धमुदाहरति-देवताभक्तित इति । विरोधं व्युत्पादयति--एतस्येति । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥' इत्युक्तनीत्या या ज्ञानलक्षणा भक्तिः, सात्र न विवक्षिता ; किंत्वार्तत्वादिप्रयुक्ता त्रिरूपा । ज्ञानरूपायास्तु भक्तेर्मोक्षो भवत्येव । तदुक्तं तत्रैव---- 'ज्ञानी त्वात्मैव मे मतम् ।' इति । अतः 'न तत्त्वज्ञानसंपदा' इत्येतत् 'ज्ञानादेव तु कैवल्यम्' इत्यादिमोक्षशास्त्रविरुद्धम् ।

 प्रतिपादितानाममीषां दोषाणां परिज्ञानस्य फलमाह- एत इति । र्थदोषाः सूक्ष्माः, ते गुणविवेचने वक्ष्यन्ते ; उपमादोषाश्चोपमाविचार इति ।

इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे

द्वितीयोऽध्यायः॥

समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् ॥

ये त्वन्य इति । सूक्ष्माः काव्यसौन्दर्याक्षेपानतिक्षमाः । 'ओजोविपर्ययात्मा दोषः' इत्यारभ्य तदुदाहरणप्रत्युदाहरणाभ्यां वक्ष्यन्ते; ते गुणविवेचने यथायथमवबोध्याः । यद्येवं तर्हि स्थूलत्वादुपमादोषा दोषविवेचने विविच्यन्तामित्यत आह- उपमादोषश्चेति । उपमाविचारे तद्दोषविचारणं प्रतिपत्तिसौकर्याय भवतीति भावः ।

   इति कृतरचनायामिन्दुवंशोद्वहेन
    त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
   ललितवचसि काव्यालंक्रियाकामधेना-
    वधिकरणमयासीत्पूर्तिमेतद्द्वितीयम् ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ दोषदर्शन नाम

द्वितीयमधिकरणम् ॥