अथर्ववेदः/काण्डं ७/सूक्तम् ०१८

विकिस्रोतः तः
← सूक्तं ७.०१७ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१८
भृगुः
सूक्तं ७.०१९ →
दे. धाता, सविता, ४ अग्निः, त्वष्टा, विष्णुः। १ त्रिपदा आर्षी गायत्री, २ अनुष्टुप्, ३-४ त्रिष्टुप्

7.18(7.17)
धाता दधातु नो रयिमीशानो जगतस्पतिः ।
स नः पूर्णेन यच्छतु ॥१॥
धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।
तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।
त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥