लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२८
← अध्यायः २७ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः २८ [[लेखकः :|]] |
अध्यायः २९ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीलक्ष्मि! प्राकट्यं मे ततः परम् ।
वेधसो वत्सरे त्रयस्त्रिंशे सस्याऽभिधे पुरा ।। १ ।।
कल्पे त्रिंशत्तमे त्वेकादशे मन्वन्तरे तथा ।
मेरोः पूर्वे श्वेतखण्डेऽरुणाचलोऽभवद्गिरिः ।। २ ।।
योजनोत्सेध एवायं दशयोजनविस्तृतः ।
ज्वालागर्भः सदा चास्ते वह्निरसाढ्यकन्दरः ।। ३ ।।
न पार्श्वे मानवाः सन्ति नाऽरण्यानि वनान्यपि ।।
नद्यस्तूष्णप्रवाहा वै भूमिस्त्वंगारसन्निभा ।। ४ ।।
वर्षे वर्षद्वये वर्षाऽष्टकोत्तरे शताब्दके ।
ज्वालारुणाचलो ज्वालामयो भवति सर्वतः ।। ५ ।।
वह्निरसाः प्रवर्तन्ते देशेषु च सरित्स्वपि ।
तत्प्रतापात्प्रदह्यन्ति दूरदेशा अपि प्रिये ।। ६ ।।
मानवाः पशवश्चापि पक्षिणो व्योमचारिणः ।
तापोष्मणा प्रमूर्छाऽऽप्ता व्यसवः संभवन्ति वै ।। ७ ।।
सस्यानां च वनानां च वह्निसेकेन भर्जनम् ।
दूरस्थानां भवत्येव फलपुष्पादिनाशकम् ।। ८ ।।
यां दिशां प्रति वायूनां प्रवाहा यान्ति साऽनलाः ।
शतयोजनपर्यन्ता देशा भवन्ति भर्जिताः ।। ९ ।।
वह्निसेकमृता जीवाः प्रलयस्था भवन्ति वै ।
एकदा तु महाझंझावातो बभूव चाऽम्बरे ।। 3.28.१० ।।
ज्वालारुणाऽचलश्चापि वह्निरूपो बभूव ह ।
वह्निज्वालोष्मपूराण्यावहन् प्रवायुणोदिताः ।। ११ ।।
अतिवेगेन पूर्वस्यां शतयोजनवेगिनः ।
मेरोः पार्श्वे वसतयो लक्षशो देहिनोऽभवन् ।। १ २।।
उष्मणा दग्धदेहास्ते मृताश्चिरप्रवाहिणा ।
कोटिशो गजगोऽश्वाद्या नगराणि सहस्रशः ।। १३।।
तत्राऽऽसीन्नगरं स्वामिनगरं योजनायतम् ।
प्रायशो मम भक्तैश्चाधिष्ठितं पावनैर्जनैः ।। १४।।
मठाश्च साधुसाध्वीनां यतीनामभवन् शुभाः ।
ब्रह्मचर्यव्रतानां च सतीनां धर्मयोषिताम् ।। १५।।
आश्रमा बहवश्चासन् जपयज्ञकृतां तथा ।
वैष्णवानां योगिनां च कर्मठानां महालयाः ।। १६।।
बभूवुर्यत्र देवार्था देवालयाः प्रसेविनाम् ।
मदर्थं तपसा भक्ता यत्राऽऽसन् वै विदेहिनः ।। १७।।
मम लक्ष्यपरास्त्यक्तमदर्थसर्वभोगकाः ।
मदालम्बनमात्राश्च मदाराधनतत्पराः ।।१८।।
मद्भक्तानां मण्डलानां सेवाधर्मपरायणाः ।
आत्मसर्वस्वसम्पत्सन्निवेदिनो मदात्मकाः ।। १ ९।।
साध्यभक्तिपराः सर्वे साधनस्थास्तु चाल्पकाः ।
एवंविधेऽत्र नगरे ज्वालानलोष्मणा द्रुतम् ।।3.28.२०।।
योगाभ्यासविहीनास्तु भक्ताः समन्ततो मृताः ।
योगज्ञाः साधवः सत्यो ब्रह्मभावविभाविताः ।।२१।।
सस्मरुर्मां यत्र तत्राऽनादिकृष्णनरायणम् ।
परब्रह्माऽक्षराऽतीतं श्रीकान्तं पुरुषोत्तमम् ।।।२२।।
तुष्टुवुः रुद्धमरुतश्चैकतानेन योजिताः ।
'रक्ष रक्ष परब्रह्माऽऽन्तरात्मन् पुरुषोत्तम ।।२३।।
सर्वस्वामिन् समागच्छ रक्ष ज्वालानलादसून् ।
इत्येवं त्वेकतानैश्चाभ्यर्थितस्तीव्रभक्तिभिः ।।२४।।
तूर्णं साकं त्वया लक्ष्म्या जीवोद्धारणहेतवे ।
गोचरोऽहमभवं वै गृहे गृहे जने जने ।।२५।।
मम ब्रह्मह्रदस्यैवाऽमृतबिन्दुं समक्षिपम् ।
अहं ज्वालाऽनलाद्रौ च व्योममार्गेण वै द्रुतम् ।। २६ ।।
वह्निर्लयं गतश्चापि ज्वाला शैत्यं समावहन् ।
औष्ण्यं परिणतं शैत्ये दाहशान्तिकरं तदा ।।२७।।
शैत्यामृतं तु वातेन यान् यान् मृतान्हि देहिनः ।
स्थावरान् जंगमाँश्चापि समस्पृशत्तदा च ते ।।२८।।
नवजीवनमासाद्याऽऽनन्दिता जीविनोऽभवन् ।
च्वालारुणाऽचलः सोऽपि ब्रह्मह्रदामृताऽन्वयात् ।।२९।।
शीतामृताचलो जातः क्षणात्परिणतोऽभवत् ।
आकल्पान्तं तथैवाऽऽसीत् पर्वतोऽमृतशीतलः ।।3.28.३ ०।।
भक्तैश्च योगिभिः सर्वैर्यतिभिर्ब्रह्मशीलिभिः ।
साधुभिश्च सतीभिश्च साध्वीभिस्त्यागिभिस्तथा ।।३ १।।
वैष्णवैर्मानवैश्चापि दृगग्रेऽहं निभालितः ।
प्रार्थितस्तत्र वै नित्यं स्थातुं भक्तेषु रक्षकः ।।३२।।
पूजितो वन्दितश्चापि न्यवसं वै त्वया सह ।
तस्मिन् वै स्वामिनगरेऽनादिस्वामिनरायणः ।।३३।।
स्वामिन्या च त्वया लक्ष्म्या सहितः पुरुषोत्तमः ।
इत्येवं स्वामिनीश्रिं! स्वं प्राकट्यं कथितं तव ।।३४।।
स्मर त्वं स्वामिनी लक्ष्मि! स्वामिपत्तनरक्षकम् ।
अनादिश्रीस्वामिनारायणं श्रीपुरुषोत्तमम् ।।३५।।
सार्धं त्वया रक्षयित्र्या ह्यनादिस्वामिनीश्रिया ।
पठनाच्छ्रवणाच्चापि ह्यापद्भ्यो रक्षणं भवेत् ।।३६।।
अथाऽन्यस्मिन् पाशवाख्ये चतुस्त्रिंशे तु वत्सरे ।
वेधसः सप्तषष्ट्यूर्ध्वत्रिशते कल्पके पुरा ।।३७।।
द्वादशे च मनौ भूमौ युगलं द्विजजातिकम् ।
पावनं भक्तिमल्लक्ष्म्या आसीत् कौशेयके पुरे ।।३८।।
अनपत्या द्विजपत्नी नाम्ना निर्वाणिका सती ।
द्विजं क्ष्माचोलकाख्यं स्वं पतिं प्राह सुखार्थिनी ।। ३९।।
दारिद्र्यं वर्तते नित्यं चुल्ली चान्द्रायणे स्थिता ।
दन्ता व्रतं निरशनं प्रकुर्वन्ति निरामयाः ।।3.28.४० ।।
गृहे धूम्रो न चायाति यात्रायां प्रगतो यथा ।
वह्निर्लज्जान्वितो भूत्वा दर्शनं न ददात्यपि ।।४१ ।।
गता तीर्थे जन्तवश्च गृहात् पिपीलिकादयः ।
कपाटस्य पिधानेऽपि प्रयोजनं न विद्यते ।।४२।।
द्वारं चोद्धाटितं नित्यं स्वर्गद्वारं यथा शुभम् ।
शालाऽऽस्ते मालिकायुक्ता केवला रागवर्जिता ।।४३।।
अपादोऽपि समायातो मोक्षो विप्र! गृहे तव ।
अहं मायास्वरूपाऽपीदानीं जंजालवर्जिता ।।४४।।
निर्गुणे त्वद्गृहे चास्मि नैर्गुण्यं समुपाश्रिता ।
जीवतोऽपि निरालम्बा स्थितिस्ते वर्तते द्विज! ।।४५।।
सालम्बाऽहं निरालम्बा जाताऽस्मि निष्परिग्रहा ।
अहो भाग्यस्य माहात्म्यं सगुणो निर्गुणायते ।।४६ ।।
भूत्वा भूत्वा विलीयन्ते चाशा निर्वाणदर्शनाः ।
काकाः कपोताश्चटकाः श्वानो मृगाश्च मूषिकाः ।।४७।।
बिडालाद्या न चायान्ति गृहं नौ वै क्वचित् पते ।
निरस्तसर्वसौभाग्ये को निवसेत् सवासनः ।।४८।।
कण्डनी पेषणी नास्ति मार्जनी नास्ति खट्विका ।
सूर्यभासा दिवा दीप्तं निशि चन्द्रग्रहादिभिः ।।४९।।
ब्रह्मधामसमं विप्र! गृहं स्वर्गं प्रभासते ।
जटा नैसर्गिकी नौ च द्योतते योगिनीजटा ।।3.28.५०।।
अहो दैवस्य दौरात्म्यं संसारे चाप्यसारता ।
सत्यामपि गृहलक्ष्म्यां भाग्यलक्ष्मीर्न विद्यते ।।५१।।
अलक्ष्मीकगृहं सत्यं ब्रह्मधामायते सदा ।
एतादृशं गृहं विप्र! चावयोर्विद्यतेऽचलम् ।।५२।।
भालं भाग्यं भोगजातं भक्ष्यं भासा न सन्ति वै ।
ततोऽवश्यं योगिसेव्यं गृहं ते राजते द्विज! ।।५३।।
गृहिसेव्यं न चैवाऽऽस्ते लक्ष्म्या हीनं च निर्गुणम् ।
तन्मया चिन्त्यते नित्यं लक्ष्मीर्यथा गृहे मम ।।५४।।
समागच्छेत्तथा लक्ष्म्या आराधना पते! मया ।
कर्तव्या व्रतयोगिन्या सम्पद्वन्मे गृहं भवेत् ।।५५।।
इत्यर्थितो निजस्वामी तथाऽस्त्वेवं जगाद तम् ।
साऽपि लक्ष्मीव्रतं चक्रे वार्षिकं दुग्धभोजना ।।५६।।
शेते पृथ्व्यां ब्रह्मचर्यपरायणा निरासना ।
करोति जागरं चार्धरात्रिं यावत् ततः सुखम् ।।५७।।
निद्राति भजते लक्ष्मि लक्ष्मि लक्ष्मीति वै हृदा ।
प्रातर्नद्यां सदा स्नाति साऽऽर्द्रवस्त्रा गृहं प्रति ।।५८।।
समागत्याऽर्चनं लक्ष्म्याः करोति पद्मपुष्पकैः ।
अष्टोत्तरशतैर्नित्यं धूपदीपादिभिस्तथा ।।५९।।
नीराजनं करोत्येव सुगन्धं चार्पयत्यपि ।
नैवेद्यं दुग्धपाकादि समर्पयति पोलिकाः ।।3.28.६०।।
अष्टोत्तरशतप्रदक्षिणानि भ्रमति श्रियम् ।
मृन्मूर्तिं श्रीं नमस्कृत्यावर्तयत्येव मालिकाः ।।६ १।।
लक्ष्मि श्रि कमले पद्मे रमे नारायणीन्दिरे ।
हिरण्मयि महालक्ष्मि ईश्वरि परमेश्वरि ।।६२।।
कृष्णे हरिणि द्रव्याख्ये वैष्णवि पुरुषोत्तमि ।
सम्पद्रूपे भगवति हरिदासि हरिप्रिये ।।६३।।
ब्राह्मि वैकुण्ठिके स्मृद्धे शालग्रामि त्रयोदशि ।
चक्रिणि पद्मिनि बिन्द्वि चाब्धिजे स्वर्णरूपिणि ।।६४।।
गोशकृद्वासिनि ब्रह्महृदयस्थे धनेश्वरि ।
ऋतम्भरे प्लक्षवासे माये मे मात ईश्वरि ।।६५।।
अमाये मेरुपुत्रि त्वं धृते रौद्रि प्रशातनि ।
कौमुदि भूयसि देववीथि चाऽऽनन्तिके कले ।।६६।।
आर्षि ज्योत्स्ने शिवे शार्दूलिके सरःप्रभद्रिके ।
सर्वभद्रे स्वतन्त्रे च जये सुदर्शनि मते ।।६७।।
जलनारायणि स्वधात्मजे च माक्षिकि सति ।
पुण्डरीकि रत्निके च कृपावति च भक्तिजे ।।६८।।
अर्धश्रि पिप्पले चाऽर्धोर्ध्वे वटि पीठिकेऽच्युते ।
राजराज्ञि नैष्ठिकीश्रि शैवि स्वामिनि कानकि ।।६९।।
निर्वाणिके ब्रह्मशक्ति चात्मात्मिकेऽन्तरात्मिके ।
चञ्चद्रूपे चञ्चले च सत्त्वप्रकर्षिणि प्रभे ।।3.28.७०।।
श्रीवत्से यन्त्रिके चैन्द्रि जयन्ति मण्डलात्मिके ।
सर्वतोभद्रिके पद्मशिले प्रज्ञे तथाऽक्षरि ।।७१।।
श्रांगारिके भाग्यरूपे सिद्धे शान्तेऽवतारिणि ।
अंशे परे च विभवि कलेऽर्चे भूम्नि धामिनि ।।७२।।
जननि कारिणि रम्ये देवीश्वरीश्वरीश्वरि ।
मुक्तानिके परब्रह्मपत्नि प्रपोषिके क्रिये ।।।७३।।।
अनादिश्रीकृष्णनारायणपत्नि ह्यनादिनि ।
एवं त्वष्टादशयुक्तशताभिधानिके मयि ।।७४।।
कृपां कृत्वा समायाहि मद्गृहे वैभवेश्वरि ।
सर्वगन्धे सर्वरसे सर्वरूपे सुरूपिणि ।।७५।।
सर्वस्पर्शे सर्वशब्दे समागच्छ गृहे मम ।
सर्वानन्दे सर्वसौख्ये सर्वदे स्मृद्धिवर्धिनि ।।।७६।।।
अनन्तोद्धारसंशक्ते समायाहि गृहे मम ।
दारिद्र्यदुःखसंहन्त्रि ह्यलक्ष्मीदूरकारिणि ।।७७।।
कीर्तितेजोवर्धयित्रि सुखयित्रि स्वसत्र्जुषाम् ।
भक्ताया मे गृहे लक्ष्मि श्रि समायाहि शोभने ।।७८।।
इत्येवं सा प्रार्थयत्त्वां निर्वाणिका द्विजप्रिया ।
श्रुत्वा त्वं वीक्ष्य भक्तिं च प्रसन्नाऽचिन्तयः प्रिये ।।७९।।
तद्गृहे गन्तुमेवाऽपि दातुं च दर्शनं ह्यपि ।
मदाज्ञां त्वं समादाय याता निर्वाणिकालयम् ।।3.28.८०।।
गोचरा पुरतः स्थित्वाऽभवस्तत्र ततोऽवदः ।
नारायणं विना नैव स्थास्याम्यत्र गृहे तव ।।८१।।
तमाराधय मातर्वै माधवश्चागमिष्यति ।
इत्युक्त्वा त्वं तिरोभावं गता तस्यास्तु वर्ष्मणि ।।।८२।।
पुत्रीरूपा सुरूपा त्वमजायथाः सुकन्यका ।
तया चाराधितश्चाहं सवनाख्यद्रुमात्ततः ।।८३।।
प्राविरासं युवा दिव्यस्वरूपः परमेश्वरः ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।८४।।
शंखचक्रगदापद्मधरश्चोज्ज्वलकान्तिमान् ।
अनादिश्रीसावनद्रुनरायणाभिधानकः ।।।।८५।।।
भिक्षां ययाचे तस्याश्च माता ते मे ददौ तदा ।
विवाहविधिना त्वां वै सर्वसौभाग्यसुन्दरीम् ।।८६।।
ततो निर्वाणिका मां च त्वां च ररक्ष सर्वदा ।
निजे गृहे सेवमाना क्ष्माचोलस्याऽऽज्ञया प्रिये! ।।८७।।
अहं पृथ्व्यां ततो वासं चाकल्पं प्रचकार ह ।
नैर्वाणिकीश्रीसमेतो धर्ममस्थापयन् क्षितौ ।।८८।।
निर्वाणिकागृहं सम्यग्भृतं ततो ह्यजायत ।
विवाहे देवदेवेशैरर्पितानि बहून्यपि ।।८९।।
रत्नानि कल्पपात्राणि धेनवः कल्पवल्लिकाः ।
विमानानि मन्दिराणि विभूषणानि वै तदा ।।3.28.९०।।
अम्बराणि विचित्राणि शय्याः सास्तरणास्तथा ।
सौवर्णासनपर्यंकप्रेंखादोलादिकास्तथा ।।९ १ ।।
धनानि मणिमाणिक्यमौक्तिकानि शुभानि च ।
हारान् क्षेत्राणि वाटीश्च महोद्यानानि वै तथा ।।९२।।
हस्त्यश्ववृषभाँश्चापि दासदासीशतानि च ।
एवं स्मृद्धं गृहं ते चागमेनाऽभून्महोदयम् ।।९३।।
सौवर्णकलशैः राजच्छृंगं यथेन्द्रमन्दिरम् ।
एवं तव निमित्तेन प्राकट्यं मम वै तदा ।।९४।।
अभूल्लक्ष्मि स्मर सर्वं प्राकट्यं सुखसम्पदः ।
अन्येऽप्यंशाऽवताराद्या ममाऽभवन्नसंख्यकाः ।।९५।।
सर्वान् जानाम्यहं नारायणीश्रि नाऽपरे जनाः ।
यद्गृहेऽहं निवसामि तद्गृहं धामसदृशम् ।।९६।।
मुक्तेश्वरादिगम्यं च तीर्थाऽऽवासं भवत्यपि ।
सुपावनं सतां क्षेत्रं तद्भवत्येव सर्वदा ।।९७।।
यज्ञानामवताराणां वासरूपं भवत्यपि ।
धामान्यपि च सर्वाणि मन्निवासे वसन्त्यपि ।।९८।।
इत्येवं मम वासेन भुक्तिर्मुक्तिः करे स्थिता ।
वर्तते तत्र लोकानां पठनाच्छ्रवणादपि ।।९९।।
स्मरणात् सर्वसिद्धिश्च जायते नात्र संशयः ।
व्रतानां पुण्यमुत्कृष्टं यावतामपि जायते ।।3.28.१ ०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसस्त्रयस्त्रिंशद्वत्सरे ज्वालाऽरुणाचलवह्निरसैर्दह्यमानानां स्वामिनगरस्थानां प्रजानां रक्षार्थम् अनादिश्रीस्वामिनारायणस्य स्वामिनीश्रीसहितस्य प्राकट्यं, चतुस्त्रिंशद्वत्सरे निर्वाणिकाविप्राण्या लक्ष्म्या अष्टादशोत्तरशतनामभिराराधितया लक्ष्म्या साकम् अनादिश्रीसावननारायणस्य प्राकट्यमिति चेतिनिरूपणनामाऽष्टाविंशतितमोऽध्यायः ।। २८ ।।