१२ आर्षेयब्राह्मणम्
सुपर्णरूपं कृत्वाचरत् (तां. ब्रा. १४. ३. १०) इति ब्राह्मणम् । यद्वा सुपर्णो नाम ऋषिः । तेन दृष्टम् । सुपर्णशब्दात् दृष्टं सामेत्यणप्रत्ययः । चकारो वाक्यभेदद्योतनार्थः । वैश्वमनसं चेति । विश्वमनसः संबन्धि । वैश्वमनसं भवति । विश्वमनसं वा ऋषिमध्यायमुद्रजितं रक्षोऽगृह्णात् (तां. ब्रा.१५. ५.२०) इति हि ब्राह्मणम् । एतन्नामकर्षिसंबन्धि साम ॥ २ ॥
बृहद्भारद्वाजं बृहदाग्नेयं बृहद्वा सौरम् ॥ १.२.३ ॥
अग्निं दूतम् (सा. ३) इत्यस्यामेकं सामोत्पन्नम् । तद् अग्नि दृतम् (ग्राम. १.१.३.१) इति मन्द्रस्वरादिकम् । अत्र ऋषिदेवताभेदेन विकल्पत्रयम् दर्शयति- बृहद्भारद्वजं बृहदाग्नेयं बृहद्वा सौरमिति। वा-शब्दः पक्षान्तराभिधायकः। भरद्वाजसंबन्धि बृहन्नामकं वा सूर्यदेवताकं बृहन्नामकं वा साम । अमिसूर्ययोर्मेदाभावादिति तृतीयः पक्ष आश्रितः ॥ ३ ॥
श्रौतर्षाणि त्रीणि ॥ ४ ॥
अग्निवृत्राणि (सा. ४) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र अनिवृत्रा (प्राम. १. १.४.१) इत्यादिकं क मन्द्रस्वरादिकं [प्रथमम् ] | द्वितीयम् अग्निरौहोवाहाइ (ग्राम. १.१.४.२) इति तृतीयस्वरादिकम् । तृतीयम् ओग्नीः (ग्राम. १. १. ४. ३) इति चतुर्थस्वरादिकम् । [ए-] तानि श्रौतर्षाणि ॥ ४ ॥
औशने च शैरीषं चौशने वाभितः शैरीषं मद्ध्यमं शैरीषे वोत्तरे सर्वाणि वौशनानि सर्वाणि वा शैरीषाणि ॥५॥
[प्रेष्ठं वो (सा. ५) इत्यस्यां सामत्रयमुत्पन्नम् । तत्र] आधद्वितीये सामनी औशने उशनसा दृष्टे । दृष्ट सामेत्यणप्रत्ययः । तृतीये (य?) तु प्रेष्ठं वो हा उ (ग्राम. १. १.५.३) इत्यादिकम् मन्द्रस्वरादिकं शैरीषम् । एतन्नाम