गुणाः। निस्समाभ्यधिकाः समाभ्यधिकरहिताः । लोके हि स्थिराणां भूधरा- दीनां स्थैर्यमाधारसापेक्षम् , भृत्यादीन् प्रति राज्ञां शेषित्व मृतिदानाद्युपाधि प्रयुक्तम् , तेषामेव राज्यादिनियन्तृत्वममात्यादिसापेक्षम् , भगवतस्त्वनी- दृशाः स्थैर्यादय इति भूधरम्थैर्यादिभ्यस्तेषामुत्कर्षरूपो व्यतिरेकालङ्कारो व्यज्यते । स च व्यज्यमाना निम्समान्यधिकत्वस्य वाच्यस्य मिभ्यङ्गमिति वासियजनामा गुणीभूतव्ययभेद । स्थिरशब्दात् ‘वर्णदृढादिभ्यः घ्यञ्च' इति चकारादिनिच । “प्रियस्थिर' इत्यादिसूत्रेण स्थिरशब्दस्य स्थादेशे प्रकृत्येकाच' इति प्रकृतिभाव च सति स्थमेति रूपम् ॥ ५१ ॥
अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् । |
अनाविलेति । अतिरस्कार्यदीधितिः तेजोऽन्तरैरनभिभवनीयप्रका- श.। त्वम् , अनाविलधिया चिन्ताविरोधिव्यापारैरकलुषधियाम् । अन्तः हृ- दये। स्फुरन् प्रकाशमानः, निरन्तरचिन्ताविषयीकृतस्सन्। अभिमत अभी- प्सिनम् । सर्व दिशसि । तान् ससारान्मोचयित्वा ‘स यदि पितृलोककामो भवति संकल्पादेवास्य पितरम्समुत्तिष्ठन्ति' इत्यादिमुक्तविषयश्रुत्युक्तप्रक्रि- यया संकल्पमात्रेण तदभिलपित सर्व प्रयच्छसीत्यर्थः । चिन्तामाणिरिव । सोऽपि दिव्यरत्नतया तेजोऽन्तरैरनभिभवनीयप्रकाश । चिन्तितोऽभिमन- मर्थ ददाति ॥ ५२ ॥
संसारमरुकान्तारे परिश्रान्तस्य देहिनः । |
संसारेति । संसार एव मरुः निर्जलप्रदेशः सुखरहितत्वेन नीरसत्वात तस्य कान्तारं दुर्गमश्वम, इष्टापूर्तादिकारिणामिहामुत्र च गतागतसाधन-