अथर्ववेदः/काण्डं ७/सूक्तम् ००६

विकिस्रोतः तः
← सूक्तं ७.००५ अथर्ववेदः - काण्डं ७
सूक्तं ७.००६
अथर्वा (ब्रह्मवर्चसकामः)
सूक्तं ७.००७ →
दे. आत्मा। त्रिष्टुप् , ३ पङ्क्तिः, ४ अनुष्टुप्।

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥