अथर्ववेदः/काण्डं ६/सूक्तम् १२०

विकिस्रोतः तः
← सूक्तं ६.११९ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२०
कौशिकः।
सूक्तं ६.१२१ →
दे. अन्तरिक्षं, पृथिवी, द्यौः, अग्निः। १ जगती, २ पङ्क्तिः, ३ त्रिष्टुप्।

यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।
अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥
भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।
द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥
यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥