अथर्ववेदः/काण्डं ६/सूक्तम् ११३
← सूक्तं ६.११२ | अथर्ववेदः - काण्डं ६ सूक्तं ६.११३ ऋषिः -अथर्वा। |
सूक्तं ६.११४ → |
दे. पूषा। त्रिष्टुप्, ३ पङ्क्तिः। |
त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे ।
ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥
मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गच्छोत वा नीहारान् ।
नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि ।
ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥
सायणभाष्यम्
'मा ज्येष्ठम्' (अ ६,११२) 'त्रिते देवाः' (अ ६,११३) इति तृचाभ्यां परिवित्तिपरिवेत्तृप्रायश्चित्तार्थम् उदकघटं संपात्य अभिमन्त्र्य तयोः पर्वाणि मौञ्जपाशैर्बद्ध्वा आप्लावनम् अवसेकं वा कुर्यात् । अत्र 'नदीनां फेनान्' (अ ६,११३,२) इत्यर्धर्चेन उत्तरपाशान् नदीफेने निदध्यात् । सूत्रितं हि - “'मा ज्येष्ठम्', 'त्रिते देवाः' इति परिवित्तिपरिविविदानावुदकान्ते' मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । अवसिञ्चति । फेनेषूत्तरान् पाशान् आधाय 'नदीनां फेनान्' इति प्रप्लावयति । सर्वैश्च प्रविश्य" (कौसू ४६,२६-२९) इति ।
त्रि॒ते दे॒वा अ॑मृजतै॒तदेन॑स्त्रि॒त ए॑नन्मनु॒ष्ये॑षु ममृजे।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।१।।
त्रिते । देवाः । अमृजत । एतत् । एनः । त्रितः । एनत् । मनुष्येषु । ममृजे ।
ततः । यदि । त्वा । ग्राहिः । आनशे । ताम् । ते । देवाः । ब्रह्मणा । नाशयन्तु ॥ १ ॥
अत्र इयमाख्यायिका । पुरा खलु देवाः पुरोडाशादिकं हविः संभृत्य तल्लेपजनितपापमार्जनाय एकतो द्वितस्त्रित इति त्रीन् पुरुषान् आप्याख्यान् अग्न्युदकसंपर्कवशाज्जनयामासुः। तेषु च तत् पापं निमृष्टवन्तः। ते च आप्याः सूर्याभ्युदितादिषु परंपरया पापं निमृष्टवन्त इति । तद् एतत् सर्वं तैत्तिरीये समाम्नायते - 'देवा वै हविर्भृत्वाऽब्रुवन्' (तैब्रा ३,२,८,९) इति प्रक्रम्य 'ते देवा आप्येष्वमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते । सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि। वीरहा ब्रह्महणि तद् ब्रह्महणं नात्यच्यवत' (तैब्रा ३,२,८,११,१२) इति । तदिदमुच्यते - एतत् परिवित्तसमवेतम् एनः पापं पूर्वं देवास्त्रिते एतत्संज्ञे आप्त्ये अमृजत निमृष्टवन्तः । स च त्रितः एतत् स्वात्मनि समवेतं पापं मनुष्येषु सूर्याभ्युदितादिषु ममृजे मृष्टवान् निमार्जनेन स्थापितवान् । ततः तस्माद्धेतोः हे परिवित्त त्वा त्वां ग्राहिः ग्रहणशीला पापदेवता यदि । निपातानामनेकार्थत्वाद् अत्र यदिशब्दो यच्छब्दार्थे । या ग्राहिरानशे प्राप ते त्वदीयां तां ग्राहिं प्रागुक्ता देवाः ब्रह्मणा मन्त्रेण नाशयन्तु।
मरी॑चीर्धू॒मान्प्र वि॒शानु॑ पाप्मन्नुदा॒रान्ग॑च्छो॒त वा॑ नीहा॒रान्।
न॒दीनं॒ पेना॒मनु॒ तान्वि न॑श्य भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ।।२।।
मरीचीः । धूमान् । प्र। विश । अनु । पाप्मन् । उतऽआरान् । गच्छ । उत। वा । नीहारान्।
नदीनाम् । फेनान् । अनु । तान्। वि। नश्य। भ्रूणऽघ्नि । पूषन् । दुःऽइतानि । मृक्ष्व ॥२॥
हे पाप्मन् परिवेदनजनितपाप मरीची: अग्निसूर्यादिप्रभाविशेषान् अनु प्र विश। परिवित्तं विसृज्य प्रगच्छेत्यर्थः । अथवा धूमान् अग्नेरुत्पन्नान् अनु प्र विश । यद्वा उदारान् ऊर्ध्वं गतान् मेघात्मना परिणतांस्तान् गच्छ प्रविश । उत वा अपि वा तज्जन्यान् नीहारान् अवश्यायान् गच्छ । निपूर्वात् हरतेः कर्मणि घञ् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा ६,३,१२२ ) इति दीर्घः । तथा च तैत्तिरीये सृष्टिं प्रक्रम्य आम्नायते - 'तस्मात् तेपानाद् धूमोऽजायत । तद् भूयोऽतप्यत । xxx तस्मात् तेपानान्मरीचयोऽजायन्त । xxx तस्मात् तेपानाद् उदारा अजायन्त । तद् भूयोऽतप्यत । तद् अभ्रम् इव समहन्यत' (तैब्रा २,२,९,१;२) इति । हे पाप्मन् नदीनाम् सरितां तान् प्रसिद्धान् फेनान् फेनिलान् प्रवाहान् अनु वि विक्ष्व अनुप्रविश्य विविधं गच्छ । 'नेर्विशः' (पा १,३,१७ ) इति आत्मनेपदम् । व्यत्ययेन शपो लुक् । अन्यद् व्याख्यातम् ।
द्वा॑दश॒धा निहि॑तं त्रि॒तस्याप॑मृष्टम्मनुष्यैन॒सानि॑।
ततो॒ यदि॑ त्वा॒ ग्राहि॑रान॒शे तां ते॑ दे॒वा ब्रह्म॑णा नाशयन्तु ।।३।।
द्वादशऽधा । निऽहितम् । त्रितस्य । अपऽमृष्टम् । मनुष्यऽएनसानि ।
ततः । यदि । त्वा । ग्राहिः । आनशे । ताम् । ते । देवाः । ब्रह्मणा । नाशयन्तु ॥ ३ ॥
त्रितस्य आप्त्यस्य संबन्धि प्रागुक्तरीत्या अपमृष्टं तद् एनः द्वादशधा निहितम् द्वादशसु स्थानेषु स्थापितम् । प्रथमं देवेषु पश्चात् त्रिषु आप्येषु ततः सूर्याभ्युदितादिषु अष्टसु एवं द्वादशसु स्थानेषु निक्षिप्तम् । तद् एनः मनुष्यैनसानि भवन्ति मनुष्यसमवेतानि इदानींतनानि पापानि संपद्यन्ते । उत्तरोऽर्धर्चो व्याख्यातः ।
इति पञ्चमं सूक्तम् ।
इति सायणार्यविरचिते अथर्वसंहिताभाष्ये षष्ठकाण्डे एकादशोऽनुवाकः।
टिप्पणी