संस्काररत्नमाला (भागः २)/सप्तमं प्रकरणम्
अथ सप्तमं प्रकरणम् ।
अथामावास्यायां कर्तव्यं मासिश्राद्धमासिकश्राद्धात्मकं श्राद्धद्वयमुच्यते । तत्र[१] धर्मसूत्रोक्तं मासिश्राद्धं गृह्योक्तं मासि[२]कम् । अनयोर्भेदस्तु धर्मसूत्रे संज्ञान्तरकरणात्पुनःकालोपादानात्पृथग्धर्मापादानाच्च । न च पितरो देवतेत्यादीनां धर्माणामाकाङ्क्षितत्वान्मासिकार्थत्वमेवास्त्विति वाच्यम् । गृह्योक्तैरेव धर्मैराकाङ्क्षायाः शान्तत्वेन पितरो देवतेत्यादीनां तदर्थत्वाभावात् । न च 'तत्र द्रव्याणि--तिलमाषा व्रीहियवा आपो मूलं फलानि च' इत्येतस्य द्रव्यविशेषविधेः 'प्रयतः प्रसन्नमनाः सृष्टो भोजयेत्' इति कर्तृधर्मविधेर्ब्राह्म[३]णलक्षणविधेः पूर्वेद्युर्निवेदनादिधर्माणां च गृह्योक्ते मासिकश्राद्धे[४]ऽप्यवश्यापेक्षितत्वेन तदर्थत्वसंभवात्पितरो देवता ब्राह्मणस्त्वाहवनीयार्थ इत्यनयोर्मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धलक्षणप्रतिपादनार्थत्वेनोपयोगात्कथं कर्मभेद इति वाच्यम् । तथा सत्युपस्थितिलाघवात्तत्रैव वक्तव्ये दू[५]र विधानस्य निर्हेतुकत्वापत्तेः । न चैतेषां पाक्षिकत्वेन प्राप्तये दूरविधानमिति वाच्यम् । तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवात् । ([६] न चैवं तत्र द्रव्याणीत्यादिविधेरावश्यकत्वेन पाक्षिकत्वासंभवेऽपि उद्धरिष्यामीत्यादिविधेराकाङ्क्षाभावेनानावश्यकत्वात्पाक्षिकत्वसंभवः । तथा च दूरविधानस्य सार्थक्ये सिद्धे किमर्थं भेदकल्पनमिति वाच्यम् । तथा सत्यपि )([७]योनिगोत्रमन्त्रासंबन्धान्नार्थापेक्षो भोजयेदित्यस्योभयत्रोपादानवैयर्थ्याप[८]त्तेस्तदवस्थत्वेन सार्थक्यासंभवेन,) एतेन माध्यावर्षं व्याख्यातम्, यथा मासिक इति वचनाभ्यां माध्यावर्षपूर्वेद्युःश्राद्धाष्टकान्वष्टकाव्यतिरिक्तश्राद्धेषु सांवत्सरिकादिषु मासिकश्राद्धातिदेशस्य निरासेनेतरस्य प्रकृतिभूतस्य श्राद्धान्तरस्य चाभावेन सांवत्सरिकादीनामङ्गहीनत्वपरिहारार्थं[९] च मासिकश्राद्धे भिन्नत्वकल्पनाया आवश्यकत्वा[१०]त् । न चाऽऽस्तामङ्गहीनता । तादृशस्य कर्मण एवाभावात् । ([११]न च सांवत्सरिकश्राद्धादीनामङ्गहीनत्वपरिहारस्य दर्शश्राद्धेनैव संभवे किमर्थं मासिश्राद्धस्याङ्गहीनत्वपरिहारार्थं भेदकल्पनमिति वाच्यम् ।स्मृत्युक्तत्वाविशेषाद्विरोधाभावात्, असति बाधके धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वाच्च मासिश्राद्धदर्शश्राद्धयोरभेदस्यैव कल्पनीयतया तेनैवाङ्गहीनत्वपरिहारसंभवात् । असति बाधक इति विशेषणान्न मासिश्राद्धमासिकयोरभेदापत्तिः । नात्र ब्राह्मणलक्षणस्योभयत्रोपादानवैयर्थ्यापत्तेरेव बाधकत्वात् )। अतोऽवश्यं भेदोऽङ्गीकर्तव्य एवेति सिद्धम् । एवं च गृह्योक्तं मासिकं गृह्योक्तश्राद्धानां प्रकृतिः । धर्मसूत्रोक्तं मासिश्राद्धं धर्मशास्त्रोक्तानां महालयादीनां शास्त्रान्तरोक्तानां सांवत्सरिकादीनामिति व्यवस्थाया वक्तुं शक्यत्वेन न सांवत्सरिकादिष्वङ्गहीनत्वापत्तिः । नन्वस्तु गृह्योक्तमासिकश्राद्धात्मासिश्राद्धं भिन्नं, परं तु तद्विकृतिर्वा प्रकृतिर्वा । न तावदाद्यः । गृह्यानुक्तानां श्राद्धानां परिसंख्यातत्वेन मासिकविकृतित्वाभावात् । नापि दर्शश्राद्धविकृतित्वं तस्यैवानुक्तेः । न द्वितीयः । कृत्स्नाङ्गोपदेशाभावात् । न च यावन्त्यङ्गान्युपदिष्टानि तावद्भिरेवाङ्गैः कृत्स्नाङ्गोपदेशोऽस्त्विति वाच्यम् । होमे देवतामन्त्रेतिकर्तव्यतानामनुक्तत्वेन कृत्स्नाङ्गोपदेशा[१२]संभवात् । न चात्र होमाभावः । अतिसृष्ट उद्धरेज्जुहुयाच्चेति होमार्थानुज्ञाविशेषविधानेन तत्सत्त्वप्रदर्शनात् । न चैवमस्तु होमः । तत्र देवतामन्त्रेतिकर्तव्यतास्तु पितरो देवता, अमन्त्रास्वमु[१३]ष्मै स्वाहेति सर्वद र्विहोमाणामेष कल्प इति सूत्रैः क्रमेण सिध्यन्तीति[१४] नातः कृत्स्नाङ्गोपदेशासंभव इति वाच्यम् । एतस्य होमविधेर्विलम्बोपस्थितत्वेन दुर्बलत्वात् । न च पिण्डपितृयज्ञस्थहोमविधिरेवात्र, केवलपितृसंबधित्वेन शीघ्रोपस्थितत्वात् । तथा च न कृत्स्नाङ्गोपदेशाभाव इति वाच्यम् । मुख्यपिण्डदानस्यैवानुक्तत्वेन कृत्स्नोपदेशस्य सर्वथाऽभावेन प्रकृतित्वासंभवस्य दुरुद्धरत्वात् । न च पिण्डदानाभाव एवास्त्विति वाच्यम् । आपरपक्षिकसांवत्सरिकादिषु तदभावापत्तेः । न चैतेष्वपि पिण्डदानाभावोऽस्त्विति वाच्यम् । तथा सति युगादिश्राद्धेषु पिण्डदाननिषेधानुपपत्तेः सकलस्मृतिसूत्रनिबन्धशिष्टाचारविरोधापत्तेश्चेति चेन्न । मासिश्राद्धे जुहुयाच्चेत्यत्रत्येन चकारेण पिण्डदानस्यापि सूत्रकृता संगृहीतत्वात् । न चैतस्मिन्पिण्डदाने मासिकश्राद्धीयपिण्डदानविध्यसंभवेन कथमेतदिति वाच्यम् । पिण्डपितृयज्ञतो होमविधिप्राप्तिवत्तत्रत्यपिण्डदान[१५]स्यापि प्राप्तौ बाधकाभावात् । आतिदेशिकवचनाभावात्कथमेतयोः प्राप्तिरिति चेत् । हुत्वाऽग्नौ पितृयज्ञवत् । 'दद्याद्भुक्तेषु विप्रेषु त्रीन्पिण्डान्पितृयज्ञवत्' इति स्मृतित इति गृहाण । वस्तुतस्तु सूत्रकृता मासिश्राद्धस्य धर्मसूत्रे प्रणयनात्स्मृत्युक्तस्यैव सकलविधेर्ग्राह्यत्वं प्रदर्शितम् । प्रतिज्ञातं चास्ति पूर्वं सामयाचारिकान्धर्मान्व्याख्यास्याम इति । नातो होमपिण्डदानहीनता । एवं च स्मृतिसिद्धधर्मातिदेशस्य स्मृतित एव सिद्धत्वान्न सांवत्सरिकादिष्वपिण्डकत्वाद्यापत्तिः । सूत्रे पितरो देवता ब्राह्मणस्त्वाहवनीयार्थं इत्येतदुपादानं तु मृतपित्रुद्देश्यको विप्रस्वीकाराङ्गको द्रव्यत्यागः श्राद्धमितिश्राद्धस्वरूपप्रदर्शनार्थम् । स्मृतित एव तिलादिद्रव्याणामपि प्राप्तावत्र वचनं तिलमाषव्रीहियवानामावश्यकत्वार्थम् । आपो मूलं फलानि चेति तु अतिसंकटे तिलादिश्राद्धद्रव्यालाभे फलमूलान्यपि तावत्पितृभ्यो देयानि, एतेषामप्यलाभे श्राद्धदिन उदकमपि तावद्देयं, तेनैव श्राद्धसिद्धिरितिप्रदर्शनार्थम् । उद्धरिष्याम्यग्नौ च करिष्यामीत्यादिधर्माणामत्र वचनमशक्तौ पिण्डदानरहित एतावाननुकल्पस्तत्रैत एक धर्मा आवश्यका इति बोधयितुम् । ननु--अतिसृष्ट उद्धरेज्जुहुयाच्चेत्यादिकमेवास्तु किमर्थं मन्त्रोपादानमिति चेन्न । स्मृतिष्वामन्त्रणानुज्ञामन्त्रयोरनेकविधत्वदर्शनेन सर्वेषामपि प्राप्तौ तत्रैतावेव विवक्षितावितिप्रदर्शनार्थं तस्यात्रोपादानात् । एवमर्घ्यादीनामपि विवक्षितार्थप्रदर्शनार्थमेवोपादानं द्रष्टव्यम् । ( [१६] पितरो देवतेत्यादीनामुपादानं तु अशक्तौ पिण्डदानरहित एतावाननुकल्प इति बोधयितुम् । ) होमस्याप्यशक्तौ ब्राह्मणभोजनमात्रं कर्तव्यम् । एतज्ज्ञापयितुमेव होमविशेषविधेः पूर्वं सृष्टो भोजयेदितिभोजनविध्युपादानमिति द्रष्टव्यम् । तत्र दर्शश्राद्धमेव मासिश्राद्धं स्मृत्युक्तत्वाविशेषाद्विरोधाभावाच्च । संस्थात्वं तु गृह्योक्तस्य मासिकस्यैव । अष्टकादिसंस्थासांनिध्यात्प्रथमोपस्थितत्वादितरसंस्थावद्गृह्यान्तर्गतत्वलाभाच्च । न च बौधायनेनामाश्राद्धस्याङ्गिरसा पार्वणश्राद्धस्य तथात्वोक्तेः कथमेतदिति वाच्यम् । मासिकश्राद्धस्याप्यमायां पर्वणि चानुष्ठेयत्वेनामाश्राद्धत्वपार्वणश्राद्धत्वधर्मद्वयाक्रान्तत्वेनात्र ग्रहणे बाधकाभावात् । स च दर्शश्राद्धापरपर्यायं धर्मसूत्रोक्तं मासिश्राद्धमेव संस्थात्वेन ग्राह्यं दर्शश्राद्धस्यैव सर्वस्मृतिषु तथान्योक्तेरिति वाच्यम् । तस्य गृह्यान्तर्गतत्वाभावेन संस्थात्वाभावस्यैव कल्पनात् । न चैवं वैश्वदेवस्य संस्थात्वं न स्यात्, गृह्यान्तर्गतत्वाभावादिति वाच्यम् । इष्टापत्तेः । न चैवं संस्थासु षट्त्वापत्तिः, इष्टापत्तौ गौतमाद्युक्तसप्तसंख्याव्याघात इति वाच्यम् । शूलगवस्य गृह्यान्तर्गतत्त्वेन तेनैव सप्तसंख्यापूरणसंभवेन सप्तसंख्याव्याघातस्य सुदूरपराहतत्वात् । न च शूलगवस्य संस्थात्वे किं प्रमाणमिति वाच्यम् । गीतमादिस्मृतीनामेव तत्र प्रमाणत्वात् । न च सूत्रकृता शिवो हैव भवतीति काम्यत्वप्रतिपादनात्कथं काम्यस्य शूलगवस्य संस्थात्वमिति वाच्यम् । बौधायनगौतमाद्युक्तसंस्थात्वबलेन नित्यत्वस्यापि कल्पनात्कामप्रदाभावात् । अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानीति सूत्रेणापि नित्यत्वसिद्धेर्वक्तुं शक्यत्वाच्च । येषामकरणे दोषः । लोकशब्देन स्मृति[१७]मूलसूत्रान्तरादिरूपं शास्त्रं गृह्यते । तादृशे शास्त्रे येषां कर्मणामकरण उपालम्भो निन्दा तानि नियतानीति ह्येतस्य सूत्रस्यार्थः । अस्ति च संस्थानामकरणे शास्त्रान्तरे दोषश्रवणं 'यो ह्येकविंशतिसंस्था न करोति स पापीयान्भवति' इति । पापीयस्त्वादेव तस्य लोके निन्दाऽपि । तस्य निन्दितस्य त्वधः पतनम् । आह च याज्ञवल्क्यः--
"विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । |
ननु कैश्चिदाचार्यैर्वैश्वदेवस्यापि संस्थात्वेन परिगणनात्कैश्चित्तु शूलगवस्यैव । तथा च संस्थात्वस्य शूलगववैश्वदेवयोरुभयोरपि दृष्टत्वादुभयोरपि संस्थात्वमस्तु इति चेन्न । तथा सति संस्थासु अष्टत्वापत्तेः । 'वैश्वदेवमेके चैत्रीस्थाने समामनन्ति' इति सूत्रस्वरसतोऽन्यतरस्यैव संस्थात्वप्रतीतेश्च । नन्वस्तु वैश्वदेवस्य शूलगवस्य वा संस्थात्वं गौतमीयबौधायनीयवचनानुरोधेन मासिकश्राद्धमासिश्राद्धयो[१८]स्तूभयोरप्यमावास्यानुष्ठेयत्वरूपमनुगतं धर्ममादाय संस्थात्वमस्तु पर्वानुष्ठेयत्वरूपमनुगतं धर्ममादाय दर्शपूर्णमासयोरिवेति चेन्न । दर्शपूर्णमासयोः पर्वानुष्ठेयत्वरूपानुगतधर्मस्यातिप्रसक्तत्वेन तमादाय द्वयोरेकसंस्थात्वनिर्वाहासंभवेनैकापूर्वजनकत्वरूपमनुगतं धर्ममादायैव द्वयोरेकसंस्थात्वस्य निर्वाह्यत्वेन प्रकृते तादृशानुगतधर्मासंभवेन मासिकश्राद्धमासिश्राद्धयोरुभयोरेकसंस्थात्वस्य वक्तुमशक्यत्वात् । न हि द्वयोः श्राद्धयोरेकापूर्वजनकत्वे प्रमाणमस्ति । येन द्वयोरपि संस्थात्वं वक्तव्यम् । एवं च मासिकश्राद्धस्यैव पूर्वोक्तहेतुभिः संस्थात्वं न दर्शापरपर्यायमासिश्राद्धस्येति सिद्धम् । ननु नित्यानां संध्यावन्दनादिकर्मणां संस्थानां च को वि[१९]शेषः प्रत्यवायनिवर्तकत्वस्योभयत्रापि तुल्यत्वादिति चेत्सत्यम् । संस्थाजन्यफलेषु वैजात्यस्वीकारेण विजातीयफलजनकत्वरूपविशेषस्य संस्थास्वेव सत्त्वेन तमादाय संध्यावन्दनादिनित्यकर्मतो[२०] विशेषसिद्धेः । अथवा संस्थाशब्दो[२१] रूढो योगरूढो वा पङ्कजादिपदवत् । सम्यक्स्था स्थितिः स्वर्गे लोके येन कर्मणा सा संस्थेति योगार्थः । संध्यावन्दनादिष्वतिप्रसङ्गपरिहाराय रूढिरपीति द्रष्टव्यम् । दर्शश्राद्धापरपर्यायमासिश्राद्धस्य नित्यत्वं तु स्मृतिष्वकरणे प्रत्यवायश्रवणात् 'मासि मासि कार्यम्' इत्यापस्तम्बसूत्रे वीप्साश्रवणाच्च । अत एक प्रतिदर्शमनुष्ठानम् । मासिकश्राद्धस्य नित्यत्वं तु 'अकर्मणि दोषो येषां लोके कर्मण्युपालम्भस्तानि नियतानि' इति सूत्रात् । मातृदत्तोऽप्येतस्मादेव सूत्रान्मासिकश्राद्धस्य नित्यत्वं साधितवान् । तत्र मासिकश्राद्धस्य 'सकृत्करणमिच्छन्ति पाकयज्ञेषु केचन' इति वचनात्प्रतिदर्शं यस्मिन्कस्मिंश्चिद्दर्शे वा क्रिया । पाकयज्ञेषु पाकयज्ञसंस्थासु ।
उभयत्र पार्वणत्वं तु पर्वणि भवमिति योगात् 'अमायां क्रियते यद्धै तत्पार्वणमुदाहृतम्' इति वचनाच्च । 'त्रीनुद्दिश्य तु यत्तद्धि पार्वणं मुनयो विदुः' इतिवचनसिद्धपार्वणत्वं तु माध्यावर्षादिश्राद्धसाधारणम् । तत्राऽऽदौ पितृयज्ञोत्तरं दर्शश्राद्धं कृत्वा मासिकं कार्यम् ।
"पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । |
इति[२२]मनुवचनात्पिण्डपितृयज्ञमासिश्राद्धापरपर्यायदर्शश्राद्धयोरव्यवधाने सिद्धेऽर्थान्मासिकश्राद्धस्य दर्शानन्तर्यम् । पिण्डानां पिण्डपितृयज्ञार्थानामनुपश्चादाह्रियते क्रियत इति पिण्डान्वाहार्यकं दर्शश्राद्धम् । ([२३]द्वयोस्तन्त्रं वा । अत्राप राह्णो द्वेधाविभक्तस्याह्नो द्वितीयभाग एव ।) मासिश्राद्धसूत्रं त्वित्थम् । 'मासिश्राद्धमपरपक्षस्योत्तमेऽहनि' इति । कर्तव्यमिति शेषः । उत्तमेऽहन्यमावास्यायाम् । अपराह्णोऽत्र प्रशस्तः कालः । तदुक्तं धर्मसत्रे-- 'अपराह्णः श्रेयान्' इति । मासिश्राद्धेऽपराह्णः श्रेयान्प्रशस्त इत्यर्थः । मासिकश्राद्धसूत्रं गृह्ये-- 'अमावास्यायामपराह्णे मासिकम्' इति । मासि भवं श्राद्धं मासिकं तदमावास्यायां तिथावपराह्णे कर्तव्यमित्यर्थः । सर्वेषु कृष्णपक्षस्यामावास्याव्यतिरिक्तेष्वयुग्मदिवसेषु यस्मिन्कस्मिंश्चि[२४]द्दिवसेऽपि वा पाक्षिकी श्राद्धकर्तव्यतोक्ता गृह्ये-- 'अपरपक्षस्य वाऽयृक्ष्वहःसु' इति । अपरपक्षस्यायुक्ष्वहःसु वेत्यन्वयः । अत्रा[२५]प्यपराह्ण इत्यनुवर्तते । वाशब्दात्पाक्षिकत्वम् । एतदेव कृष्णपक्षश्राद्धमित्युच्यते । धर्मसूत्रे पुनः कृष्णपक्षश्राद्ध[२६]प्रदर्शनं फलं प्रदर्शयितुमनुवादः । प्रथमेऽहनि स्त्रीप्राय[२७]श्चित्तमित्यादिकं तु तिथिविशेषेण फलविशेष[२८]प्रदर्शनार्थम् । मासिकश्राद्धविधिस्तु--पितृभ्योऽन्न संस्कृत्येत्यारभ्य सुवीरा इ[२९]त्यन्तेन सूत्रेणोक्तः । उत्तर[३०]त्र विनियोगादेव पित्रर्थतासिद्धौ पितृभ्योऽन्न संस्कृतयेत्यत्र पितृग्रहणं पित्रादित्रय एव संप्रदानपदार्था अत्रेति न, किं तु अन्येऽपि स्मृत्युक्ता अङ्गभूताः प्रधानीभूताश्च संप्रदानपदार्था अत्र सन्तीतिज्ञापनार्थम् । तेन शास्त्रान्तरप्रोक्तानामङ्गभूतानां दे[३१]वानां प्रधानीभूतानां मातामहादीनां चात्र प्राप्तिः सिद्धा भवति[३२] । एवमष्टकादिषु । अथवा पितृग्रहणस्य प्रयोजनं मातामहादीनां प्रापणमात्रम् । देवानां प्राप्तिस्तु यथोपदेशं कुरुत इति वचनेन वैश्वदेवव्यतिरिक्तस्थले शास्त्रान्तरोक्तोपसंहार[३३]स्य ज्ञापितत्वाद्भवति[३४] । अत्र करणेऽष्टकादिष्वपि करणं नान्यथेति द्रष्टव्यम् । दक्षिणाग्रानितिवचनं प्रागग्रत्वोदगग्रत्वयोर्बाधनार्थम् । ब्राह्मणानामन्त्रयते शुचीनागन्तुकसहजदोषरहितान्नियमवतश्च मन्त्रवतो विद्यावतो नियमवत इत्येके । समाङ्गान्संपूर्णाङ्गान् । अयुजस्त्रिप्रभृत्ययुग्मसंख्याकान् । इदं च पितृविषयम् । देवविषये तु समसंख्यैव ब्राह्मणानां स्मृतितो द्रष्टव्या । योनिगोत्रम[३५]न्त्रासंबन्धान्, योनिगोत्रमन्त्रैरात्मनोऽसंबन्धान् । ( [३६] योनिसंबन्धा मातुलमातामहादयः । गोत्रसंबन्धाः सगोत्राः । मन्त्रसंबन्धा ऋत्विक्शिष्याचार्यादयः । एतद्व्यतिरिक्तान् ।) यदि योन्यादिसंबन्धरहिता वृत्तादिगुणहीना एवं लभ्यन्ते तदा वृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्य इत्यादि धर्मसूत्रतो ज्ञेयम् । अत्र सोदर्यापिशब्दाभ्यां गुणवन्तो योन्यादिसंबन्धिनोऽपि भोजयितव्या इति सूचितम् ।
तथा च मनुः--
"एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । |
नार्थापेक्षो भोजयेत् । अर्थापेक्षः प्रयोजनापेक्षः प्रयोजनमपेक्षमाणः । अस्मिन्भोजित इदं मम कार्यं भविष्यतीति बुद्ध्या न भोजयेदित्यर्थः । अग्निमुपसमाधायेति । अग्निरौपासनाग्निः । सर्वाधानिनो[३७] विधुरादेर्लौकिकाग्निरेव । लौकिकाग्नौ होमेऽयाश्चेत्यादिविधिनोत्पाद्य तमग्निं होमार्थमुपसमादधाति । श्राद्धपाकस्तु लौकिकाग्नावेव न तु गृह्याग्नौ । नचाग्नौकरणस्यौपासनाग्निसाध्यत्वात्तदर्थस्य पाकस्यापि यः प्रधानस्य कालः सोऽङ्गानां स देशः स कर्ता सोऽग्निरिति परिभाषया तत्रैव क्रियाऽऽस्तामिति वाच्यम् । सूत्रकृताऽन्नसंस्कारब्राह्मणनिमन्त्रणोत्तरमग्न्युपसमाधानस्योक्त्या परिभाषाबाधस्य ज्ञापनात्[३८] । औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तनैता आहुतीर्जुहोतीति वैश्वदेवप्रकरणस्थसूत्रात् औपासनेन साकं पचनस्य विकल्पकरणेनौपासने पचनत्वमेव नास्तीति ज्ञापितत्वेन परिभाषायाः प्रवृत्तेरेवाभावाच्च । अतो लौकिकाग्नावेव पाको न गृह्याग्नाविति । एवं मासिश्राद्धादिष्वपि ज्ञेयम् । दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्येति । ततस्तमग्निं परिस्तृणाति पुरस्ताद्दक्षिणाग्रैर्दक्षिणतः प्रागग्रैः पश्चाद्दक्षिणाग्रैरुत्तरतः प्रागग्रैरित्यर्थः । दक्षिणाप्रागाग्नेयी तदभिमुखाग्रैरित्येवं वा । एकपवित्रेणाऽऽज्यं संस्कृत्येति वाच्य एकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्य स स्कृत्येतिगुरुनिर्देशः प्रदर्शनार्थः । तेन प्रणीतादिपवित्रकार्यमपि तेनैव स्यादिति । प्रसव्यं परिषिच्येति । देव सवितरित्यनेन यः परिषेकस्तं प्रसव्यं परिषिच्येत्यर्थः । एतामेव दिशमभ्यपः प्रसिञ्चति । एतामेव दक्षिणामेव दिशं प्रत्यपः प्रसिञ्चति, यथा दूरं गच्छन्ति तथाऽञ्जलिनाऽपः सिञ्चति आपो देवीरित्यनेन । एतच्छब्दस्य सर्वनामत्वेन प्रसिद्भिवाचित्वात्पितृकर्मणि दक्षिणावृद्धि पितृणाम्, एषा वै पितृणां दिगित्यादिषु श्रुतिषु तस्या एव प्रसिद्धत्वादेतच्छ ब्देन ग्रहणम् । एवकारकरणमावाहनमपि तामेव दिशमभिमुखीकृत्य कर्तव्यमितिज्ञापनार्थम् । अथ नामधेयैर्जुहोतीत्यत्राथशब्दः पूर्वेण संबन्धार्थः । तेन पितृपितामहप्रपितामहनामधेयैर्होमः सिध्यति । जुहोतिवचनं द्विपित्तृकस्यापि होमाभ्यावृत्तिनिवृत्त्यर्थम् । यन्मे पितामही यन्मे प्रपितामहीत्यस्योहप्रदर्शनार्थत्वात्पितृशब्देऽपि पितामहप्रपितामहशब्दाभ्यामूहः कार्यो यथायथम्, पितामहो वृङ्क्तां प्रपितामहो वृङ्क्तामिति । वहान्नमिति मन्त्र संनमतीत्येतस्य प्रदर्शनार्थत्वादन्नस्य कू[३९]ल्या इत्यत्राप्यूहः । अत्रैके वर्णयन्ति--पूर्वानुक्रान्ताः षोडशाऽऽज्याहुतीरन्नस्य जुहोतीति । अपरे तु--आनन्तर्याद्वहाऽऽज्यमित्येतासामेव तिसृणामिति । उदीच्यानामपि पाठः । एवं ते पठन्ति--अथाऽऽज्यस्य जुहोति वहाऽऽज्यं जातवेद इति । तत्राथशब्द आज्यस्य ग्रहणं च, एवमन्नस्य जुहोतीत्यत्र तासामेव संप्रत्ययार्थम् । अथ सौविष्टकृतीं जुहोतीत्यत्राथशब्दः पूर्वेण संनिहितेनान्नहोमेन संबन्धार्थः । तेनान्नेनैव स्विष्टकृद्धोमः । एवमन्नस्येत्यनुवर्तनादन्नेन स्विष्टकृतमिति व्याख्यानम् । अथशब्दो यत्र यत्राथशब्दस्तत्र प्रधानार्थद्रव्येणैव स्विष्टकृद्धोम इतिज्ञापनार्थः । सर्वदर्विहोमाणामेष कल्प इतिसूत्रव्याख्याद्वयमध्ये पूर्वव्याख्यापक्षे वारुणीहोमादिप्राप्तिः साधिताऽस्ति तन्निवृत्त्यर्थोऽप्यथशब्दो द्रष्टव्यः । द्वितीयव्याख्याने त्वप्राप्तिरेव
ततो यज्ञोपवीती परिषेकादिकर्मशेषं समापयेत् । स्विष्टकृद्धोमस्य प्रदर्शनार्थत्वात् ।
अथान्नमभिमृशति--पृथिवी ते पा० त्वायेति । अथ प्राचीनावीती ब्राह्मणभोजनार्थमन्नमभिमृशति पृथिवी व इत्येतैः । अथशब्दो होमार्थादन्नादस्यान्नस्यान्यत्वख्यापनार्थः । प्राणे निविश्येत्यनेनानखेनाङ्गुष्ठेनान्नमुपस्पर्शयति प्रतिपुरुषमावर्त्य मन्त्रम् । भुञ्जानान्ब्राह्मणान्ब्रह्मणि म इत्यनेन समीक्षते । सकृदेव मन्त्रः । विभवादत्रान्नं धनं वा दक्षिणा । यथाश्रद्धमन्नं धनं च ददातीति पूर्वेद्युःश्राद्धेऽन्नधनदानयोरुभयोर्दक्षिणान्वोक्त्या प्रकृतावन्यतरस्यैतदतिरिक्तस्य वासआदेर्वा दक्षिणात्वस्यार्थादवगमात् । तेन दक्षिणादानमपि सूत्रविहितमेवात्र । ततो गच्छतोऽनुप्रव्रज्य शेषमनुज्ञाप्यानुगतस्तान्विप्रान्प्रदक्षिणीकृत्य प्रत्येत्योदकुम्भं समूलदर्भमुष्टिं चकारादाञ्जनादिसामग्रीं गृहीत्वाऽग्नेर्दक्षिणपूर्वभवान्तरदेशं गत्वा तत्रोपविश्य प्राचीनावीती दक्षिणाग्रान्दर्भान्स स्तीर्य तेषु दर्भेष्ववाचीनपाणिरवाचीनस्तिर्यगावर्तितः पाणिर्येन निनयनवेलायां सोऽवाचीनपाणिः । निनयनं दक्षिणहस्तेन पित्र्येण तीर्थेन कार्यमित्यर्थः । अवा चीनौ तिर्यगावर्तितौ पाणी कृताञ्जली येनेत्येतादृशे विग्रहेऽञ्जलिना निनयनं पूर्ववदेव । अवाचीनो दक्षिणः पाणिर्यस्याञ्जलेरित्येवं विग्रहेऽञ्जलिभूतस्य दक्षिणस्य पाणेरवाचीनताऽधरता कार्येति स एवार्थः । एवंभूतेन दक्षिणेन पाणिनाऽञ्जलिना वा दक्षिणापवर्गांस्त्रीनुदकपूर्णानञ्जलीन्मार्जयन्तामित्येतैस्त्रिभिर्मन्त्रैस्त्रिषु देशेषु निनयति रेचयति प्रतिमन्त्रमसाववनेनिङ्क्ष्वेत्येतैस्त्रिभिर्वा । असावित्यत्र तत्तन्नामग्रहणं संबुद्ध्यन्तम् । एवं मातामहपार्वणे तेष्ववा० ददाति । तेषु निनयनस्थानेष्ववाचीनपाणिरध आवृ[४०]त्तो दक्षिणपाणिर्यस्याङ्गुष्ठभागस्य दक्षिणं पार्श्वमधो यस्य पाणेः सोऽवाचीनपाणिः । एवंभूतो दक्षिणापवर्गान्पिण्डा[४१]न्कृतान्ददाति । कथम् । एतत्ते ततासाविति पित्रे पिण्डं ददाति । एतत्ते पितामहासाविति पितामहाय । एतत्ते प्रपितामहासाविति प्रपितामहाय । असावित्यत्र संवृद्ध्यन्तानि पित्रादिनामानि ग्राह्याणि, नात्र गोत्रवसुरूपादिशब्दोच्चारणम् । सूत्रकारेणाविधानात् । केचिदत्रापि कुर्वन्ति । सर्वेषु ये च त्वामित्यनुषङ्गः । तत्र तेषववाचीनपाणिर्दक्षिणापवर्गमेतत्ते ततासाविति पित्रे पिण्डं ददातीत्येवं लघुना सिद्धे पिण्डान्ददातीति पृथग्वचनं चतुर्थस्यापि निनयनस्थान एव दानार्थम् । इतरथा त्रीनितिवचनात्तत्र निनयनं न स्यात् । प्रपितामहात्परांस्त्रीनुद्दिश्य तूष्णीं चतुर्थं पिण्डं दद्यात् । स कृताकृतो वैकल्पिक इत्यर्थः । अप्रदानपक्षे बर्हिषि लेपनिमार्जनं कार्यम् । तूष्णींग्रहणं मन्त्रनिवृत्त्यर्थम् । अवचनादेव तत्सिद्धिरिति चेन्न । निनयनादीनामविशेषोपदेशान्मन्त्रप्रसङ्गात् । प्रधानस्य तूष्णींवचनात्तद्वशवर्तित्वात्तेषामपि तूष्णीकत्वम् ।
अथ यदि नामधेयानि न० सुवीरा इति । अथ यदि पितॄणां नामधेयानि न विद्यान्न जानीयात्तदा स्वधा पितृभ्यः पृथि[४२]वीपद्भ्य इत्येतैः पित्रादिभ्यः पिण्डान्दद्यात् । नामधेयानीत्येकशेषनिर्देशः । तेनैकस्य द्वयोस्त्रयाणां वा नाम्नो विस्मरण एतैरेव दानम् । अथशब्दः पृथगधिकारार्थः पूर्वेषां मन्त्राणां व्यतिषज्य क्रिया मा भूदित्येतदर्थम् । कुतः । अस्मिन्पक्षे मार्जयन्तामित्येव निनयनमन्त्रा भवेयुरर्थात् । अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति । अत्रेतिवचनं कालनियमार्थम् । कालान्तरे पिण्डपितृयज्ञे दर्शनात् । तेन ज्ञायते तत्रोक्तः पिण्डदानकालोपायो द्विपितृकादीनामिहापि भवतीति । अञ्जनाभ्यञ्जनयोरेव समासवचनं क्रमनियमार्थम् । तयोरनुपिण्डमितिवचनाच्चतुर्थेऽस्याप्राप्तिराशङ्क्येत तन्निवृत्त्यर्थं ददातीत्युच्यते । आङ्क्ष्वामावाङ्क्ष्वासाविति त्रिराञ्जनमनुपिण्डं ददाति । तूष्णीं च[४३]तुर्थे । त्रिर्ग्रहणं प्रति पिण्डं त्रित्वार्थम् । अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिस्त्रिरभ्यञ्जनमनुपिण्डं दद्यात् । तूष्णीं चतु[४४]र्थे । तैलमभ्यञ्जनं मस्तु वा । दध्न उपरितनः स्नेहो मस्तु । अविदिते नामधेयानि लुप्यन्ते, ततादिभिः शब्दैर्वा ब्रह्मविष्णुरुद्रशब्दैर्वोपलक्षयेत् । एतानीत्यात्मनो वाससो दशामूर्णास्तुकां वा कम्बलस्य च्छित्त्वा छित्त्वाऽनुपिण्डं क्षिपति । तूष्णीं चतुर्थे । पञ्चाशद्वर्षपर्यन्तं पूर्वं वयः । अत ऊर्ध्वमुत्तरं वयस्तत्र स्वं लोमोरस्थं प्रकोष्ठस्थं वा छित्त्वा छित्त्वाऽनुपिण्डं तेनैव मन्त्रेण क्षिपति । न दशा नोर्णास्तुका । तूष्णीं चतुर्थे । छित्त्वेतिवचनं पतितस्य ग्रहणं मा भूदित्येतदर्थम् । अन्यतरवचनादेव सिद्धे पूर्वोत्तरग्रहणं वयस्त्रित्वं केषांचिदिहोक्तं तन्मा भूदित्येतदर्थम् । एतदन्तं मातामहपिण्डेष्वपि ।
अथ पात्र संक्षाल्य० तिष्ठते । अथ यत्र पिण्डार्थमोदन उद्धृतस्तत्पात्रं संक्षाल्योदकेन सम्यक्प्रक्षाल्य पुत्रान्पौत्रानित्यनेन तेनोदकेन[४५] वर्गद्वय[४६]स्य पिण्डांश्चतुर्थपिण्डदानपक्षे तावप्युपगम्य प्रसव्यं परिषिच्य तत्पात्रं न्युब्जं कृत्वा पाणी व्यत्यस्य पाण्योरग्ङ्गुलीनां व्यतिषङ्गं कृत्वा दक्षिणमुत्तरमुत्तरं च दक्षिणं बहिर्भूतपृष्ठौ पाणी कृत्वेत्येके । एवंभूतेन नमस्काराञ्जलिना नमो वः पितर इत्येतैर्नमस्कारैः सर्वान्पितॄनुपतिष्ठते । षडेते नमस्काराश्चतुर्थ्यन्तास्तेषु सर्वेषु पितरो नमो व इत्यादेरनुषङ्गः प्राक्प्राजापत्यायाः । यथापाठमेवेति केचित् । तत उदकान्तं० सुवीरा इति । तत उदकसमीपं गत्वा, एष ते तात, एष ते पितामह, एष ते प्रपितामहेत्येतैः प्रतिमन्त्रं त्रीनुदकाञ्जलीन्दक्षिणापवर्गान्निनयति पित्रादिभ्यः । एवं मातामहादिभ्य ऊहेन । तत इति वचनं तूष्णीं चतुर्थमित्याशङ्कानिवृत्त्यर्थम् । प्रत्येत्योदकान्तात्कस्मिंश्चित्पात्र उदकमासिच्य प्रति[४७]ष्ठितं स्थालीनिष्कासं तस्मिन्निक्षिप्य परायात, इत्यनेनोपप्रवर्तयति । पिण्डानां समीपं[४८] सर्वान्पितृनुद्दिश्य पिण्डानां समीपे दक्षिणापवर्गं निनयतीत्यर्थः । प्रत्येत्येतिवचनमुदकाञ्जलिदेश एवोपप्रवर्तनं मा भूदित्येतदर्थम् । एतदन्तं कृत्वा सर्वतः शेषं समवदायाश्नीयादित्येतत्कर्तव्यम् । अत्र पुनः कृत्स्नपिण्डदानविधिप्रदर्शनं पितृयज्ञोक्तानामुदपातनिनयनपराङावर्तनोष्मानुमन्त्रणोपपर्यावर्तनशेषावघ्रभक्षणकाम्यशेषाशनपुनरुदपातनिनयनोत्थापनप्रवाहणसंसाधनमनस्वत्युपस्थानप्रत्यागमनगार्हपत्योपस्थानोल्मुकप्रत्यसनपात्रप्रत्याहरणपिण्डप्रत्यवधानप्राशनार्थपत्नीसंप्रदानकपिण्डप्रदानपत्नीकर्तृकप्राशन सकृदाच्छिन्नाभ्युक्षणाभ्याधानानां परिसंख्यार्थम् । अत्र पितॄणां स्वलोकगमनं तु परायातेत्यनेन भवति । अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयतीति । पिण्डप्रतिपत्तिस्तु अत्रापि भवत्याकाङ्क्षितत्वात् ।
अथ भाष्यकृदुक्तः संग्रहः प्रदर्श्यते ।
अत्र कालनियमनिमित्ता द्रव्यनिमित्ताश्च फलविशेषास्तिथयो विधयश्च धर्मेषूक्ताः । यथा प्रथमेऽहनि स्त्रीप्राय(?) मित्यादि तिलमाषव्रीहियवा उदीच्यवृत्तिस्त्वासनगतानामित्यादीनि तानि प्रेक्ष्याणि । तृतीयमामन्त्रणं, त्रयाणामेकैकस्यैकैकस्त्रयस्त्रयो वा पुरुषा उक्ताः । ते च त्रिप्रभृतयः षड्भ्योऽयुजो ग्राह्याः । वृद्धौ फलभूयस्त्वम् । सर्वषामेकः प्रतिषिद्धः । दुर्भिक्षेऽशक्तस्य वा सर्वेषामेकोऽपि । वैश्वदेवपूर्वकं च पितॄणां भोजनं, द्वौ दैवे त्रीन्पित्र्यं, एकैकमुभयत्र वेति विरोधाभावादिच्छातस्तस्यापि संग्रहः । तथा सति पूर्वं वैश्वदेवानामन्त्रय पश्चात्पित्र्यानामन्त्रयते । ब्राह्मणानां गुणदोषबलाबलं च धर्मेषूक्तं तदप्युत्प्रेक्ष्यम् । पूर्वेद्युर्ब्राह्मणेभ्यो निवेद्योत्तरेद्युः प्रातः पुनर्निवेद्यम् । एवं तृतीयमामन्त्रणं कृत्वा श्मश्रूणि वापयित्वाऽभ्यञ्जनं स्नापनीयं च दत्त्वा स्नापयति । आज्यसंस्कारान्ते प्राचीनावीतिना ब्राह्मणान्कृतपादशौचानाचान्तान्तान्दत्तेष्वासनेषूदङ्मुखान्प्रागपवर्गात्, पित्रे पितामहाय प्रपितामहायेति संकल्प्यैकैकस्य त्रींस्त्रीन्वा प्रागपवर्गमुपवेशयेत् । प्राप्नोतु भवानिति कर्ता ब्रूयात् । प्राप्नवानीतीतरे प्रत्याहुः । यदि सन्ति वैश्वदेवास्तानपि प्राङ्मुखान्पूर्वं पितृभ्य उदगपवर्गं वृद्धक्रमेणोपवेशयति । पित्र्ये यत्क्रियते तत्सर्वं वैश्वदेवेऽपि प्रथमं कर्तव्यमिति तिलोदकवर्जं यज्ञोपवीतिनैव । प्राचीनावीत्येकपवित्रान्तर्हिते तैजसे मृन्मये वा पात्रेऽप आनीय तिलानो[४९]प्य च्छादयति । नास्य प्रचालनम् ।
ततस्तिलोदकं पात्रान्तरेणोपादायाऽऽसनगतानां हस्तेष्वानयति--अमुष्मै स्वधाऽमुष्मै स्वधेति । पित्रर्थेषु पितुर्नाम गृह्णाति । पितामहार्थेषु पितामहस्य । प्रपितामहार्थेषु प्रपितामहस्य । एकत्वे तस्यैव हस्ते त्रीण्युदपात्राणि त्रयाणां नामानि गृहीत्वा निनयति ।
ततः शुद्धोदकं प्रयच्छति । एतस्मिन्काले गन्धपुष्पधूपदीपाच्छादनादीनां [दानं] तेभ्यः कर्तव्यम् । ततोऽनुप्रकीर्य तिलान् 'उद्धरिष्याम्यग्नौ च करिष्यामि' इति ब्राह्मणानामन्त्रयते । काममुद्ध्रियतां काममग्नौ च क्रियतामिति तैः प्रत्युक्तो होमार्थमन्नमुद्धृत्य निधाय यज्ञोपवीती परिधानादि प्रतिपद्यते । एवमपि शास्त्रान्तरे दृष्टं प्रागुपसमाधानादुपवेशनाद्युद्धरणान्तं कार्यम् । पूर्ववद्ब्राह्मणेभ्यस्तिलोदकं प्रदाय शुद्धोदकं चान्नं प्रदायाङ्गुष्ठेनोपस्पर्शयति--प्राणे निविश्येत्यनेन । तृप्तान्ब्राह्मणान्मधु वाता इत्येतत्तृचं यज्ञोपवीती श्रावयेत् । अक्षन्नमीमदन्तेत्येतां च स्वधामुक्त्वाऽन्यान्यपि शाखान्तरदर्शितानि कार्याणि । भुक्तवत्सु शेषादनान्नात्किंचिदुपादाय निहितशेषेण सह पिण्डान्निधायावशिष्टमाचान्तेष्वाशयेष्वन्नं प्रकीर्य तेभ्यस्तिलोदकं पूर्ववत्प्रदाय शुद्धोदकं च । ततोऽक्षतान्प्रदाय यथाशक्ति दक्षिणां दत्त्वाऽक्षय्यमस्त्विति वाचयित्वा तिलोदकशेषं निनीय स्वधाऽस्त्विति ब्रूयात् । अस्तु स्वधेतीतरे । तत उत्थाप्य प्रसाद्योपसंगृह्य तान्भुक्तवतो गच्छतोऽनुप्रव्रज्येत्येतदन्तो भाष्यकृदुक्तः संग्रहः । तत्र देवा अस्माभिः सूत्रादेव साधिताः । एवं दक्षिणादानमपि । अत एतयोर्नित्यमेवानुष्ठानम् । इतरेषां भाषयकृदुक्तानां शक्तौ सत्यामनुष्ठानम् । भाष्यकृता त्रिप्रायमेके श्राद्धमुपदिशन्तीतिसूत्रसिद्धं त्रिवारमर्घ्यदानं स्थलत्रय उक्तं तद्बौधायनसूत्रानुसारेण । एवमन्येऽपि स्मृत्युक्ता धर्माः शक्तौ सत्यामुपसंहार्याः ।
([५०] अथ विश्वे देवाः ।
हेमाद्रावादित्यपुराणे[५१]--
"विश्वे(श्व)देवौ क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । |
एतदपवादो हेमाद्रौ शातातपः(पेनोक्तः)--
"नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च । |
अत्रैकोदिष्टं नवश्राद्धद्वादशाहिकमासिकव्यतिरिक्तं ज्ञेयम् । नैमित्तिके कामकालावितिवचनेनैतेषु देवविधानात् । नैमित्तिकमेकोद्दिष्टं नवश्रा[५२]द्ध[५३]द्वादशाहमासिकादीति हेमाद्रिणा व्याख्यानाच्च । अन्ये तु नैमित्तिकं सपिण्डीकरण माहुः । इष्टिषु, इष्टिश्राद्धेषु । इष्टिश्राद्धमाधानसोमयागादौ क्रियमाणमिति केचित् । कर्माङ्गश्राद्धमिष्टिश्राद्धम् । कर्माङ्गश्राद्धं तु--
"निषेककाले सोमे च सीमन्तोन्नयने तथा । |
इतिवचनोपात्तं ग्राह्यमिति हेमाद्रिः । पुरूरवआर्द्रवमु[५४](सौ)सत्यौ च(विश्वे देवास्तु) पार्वण इति सान्तोऽपि क्वचित्पाठः । पुरूरवोमार्द्रवसौ विश्वे देवा इति व्युत्पत्तिवादे द्वितीयदेवनाम मादि[५५] ( [५६]फरहितभिकारवच्च ) पठितं तत्र मूलं चिन्त्यम्)
अथ मासिश्राद्धाग्नौकरणाग्निनिर्णयः ।
तच्चाग्नौकर[५७]णं सर्वाधानिना दक्षिणाग्नौ कार्यम् । अर्धाधानिना स्मार्ताग्निमता च गृह्याग्नौ । प्रोषितकर्तृकामश्राद्धे कदाचिल्लौकिकाग्न्यभावे द्विजपाणावुदके वेति । तदुक्तं विष्णुधर्मोत्तरे--
"आहिताग्निस्तु जुहुयाद्दक्षिणेऽग्नौ समाहितः । |
अत्राऽऽहिताग्निः सर्वाधानीनि केचित् । अस्मिन्मतेऽर्धाधानिनो गृह्याग्निसद्भावात्तत्रैवाग्नौकरणं न दक्षिणाग्नाविति । आहिताग्निः सर्वाधान्यर्धाधानी चेत्यस्मिन्मते तु गृह्याग्निसद्भावेऽपि दक्षिणाग्नावेव न तु गृह्याग्नौ । पिण्डपितृयज्ञप्रकरणे दक्षिणाग्नौ जुहोतीतिवचनादग्नौकरणप्रकरणे च याज्ञवल्क्येन जुहुयात्पितृयज्ञवदितिस्मरणादिति । अतिदेशेनोपदेशबाधो न्याय्य इति शंभुशङ्खधरप्रभृतयो दक्षिणाग्न्यधिकरणत्ववादिनः । हेमाद्रिरप्येवम् । तेनैतन्मते सर्वाधान्यर्धाधान्याहिताग्न्योरमावास्याश्राद्धे विहृतदक्षिणाग्निसद्भावाद्दक्षिणाग्नावेवाग्नौकरणहोमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरसंभवे सर्वाधानिनो लौकिकाग्नावर्धाधानिनश्चौपासनाग्नावग्नोकरणहोम इति । उपदेशेनातिदेशबाधं मन्यमानोऽपरार्कस्तु पितृयज्ञवादित्यतिदेशसामान्यवचनं कर्म स्मार्तमित्युपदेशसामान्यवचनानुरोधेन दक्षिणाग्निव्यतिरिक्तप्राकृतपदार्थविषयम् । अतोऽर्धाधानिनो गृह्याग्नावेव होमः, [इत्याह] । स्मृत्यर्थसारचन्द्रिका [कार]विज्ञानेश्वरादयोऽप्येवम् । एतन्मतमयुक्तम् । फलचमसेनेव सोमस्य शरैरिव च कुशानां गृह्याग्निसत्त्वेऽपि दक्षिणाग्निना तद्बाधस्यैवोचितत्वात् । आहिताग्नेरमावास्याश्राद्धे विहृतदक्षि णाग्निसद्भावाद्दक्षिणाग्नावेव होमः । तिथ्यन्तरश्राद्धे तु विहृतदक्षिणाग्नेरभावादौपासन इति यदुक्तं तद्येषां सूत्रे दक्षिणाग्नेरुद्धरणपक्षस्तत्परम् । स्वसूत्रे तु नित्यं गार्हपत्यदक्षिणाग्नी धार्येते इति वचनेन दक्षिणाग्नेर्धारणस्यैव सर्वदा विहितत्वेन तिथ्यन्तरश्राद्धेऽपि तत्रैवाग्नौकरणहोम इति ज्ञेयम् । यद्यपि स्मार्तमग्नौकरणं श्रौते दक्षिणाग्नौ न युक्तं तथाऽप्याहिताग्निस्तु जुहुयादितिवचनाद्भवतीति हेमाद्रिमाधवचन्द्रिका[कारा]दयः । मासिकश्राद्धस्य गृह्योक्तत्वाद्गृह्याग्नावेव होमः । न दक्षिणाग्नौ । गृह्याग्नेरभावे तु लौकिकाग्नाविति द्रष्टव्यम् ।
"अग्न्यभावः स्मृतस्तावद्यावद्भार्यां न विन्दति" । |
इतिवचनात् ।
"अ[५८]ग्न्यर्थो लौकिके वाऽपि जुहुयात्कर्मसिद्धये" । |
इति वायुपुराणवाक्यात्,
"साग्निरौपासनेऽनग्निरग्नौ कुर्वीत लौकिके । |
इतिवचनाच्च तैत्तिरीयैर्ब्रह्मचारिस्नातकविधुरैर्लौकिकाग्नावेव होमः कार्यः । आपस्तम्बपदं सत्याषाढाद्युपलक्षणं, समानन्यायत्वात् । सर्वाधानिनो गृह्योक्तमासिकश्राद्धेऽपि विश्वप्रकाशवचनाल्लौकिकाग्नौ होमो भवत्येव, न तु लोप इति ज्ञेयम् । अयं होमो लौकिकाग्नावयाश्चेत्याहुतिं हुत्वा कार्यः ।
तदुक्तं बृहन्नारदीये-
"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते । |
अयाश्चेति तत्कालेऽग्निं संधाय हुत्वा तं त्यजेदित्यर्थः ।
"नष्टाग्निर्दूरभार्यश्च पार्वणे समुपस्थिते । |
इतिस्मृत्यन्तरसंवादात् । नष्टाग्निर्विधुरो दूरभार्यः प्रवासी । नष्टाग्निरिति स्नातकब्रह्मचारिणोरुपलक्षणमिति केचित् ।
विश्वप्रकाशेऽन्या अप्याहुतय उक्ताः--
"अयाश्चाग्ने मनोज्योतिरुद्बुध्यव्याहृतीस्तथा । |
तदुक्तं मत्स्यपुराणे--
"अग्न्यभावे तु विप्रस्य पाणौ वाऽथ जलेऽपि वा । |
अत्र यद्यपि 'अग्न्यभावे तु विप्रस्य' इति सामान्यत उक्तं तथाऽपि प्रकृतत्वात्संनिहितपरित्यागे कारणाभावात्,
"पित्र्ये यः पङ्क्तिमूर्धन्यस्तस्य पाणावनग्निकः । |
इति कात्यायनोक्तेश्च पित्रर्थविप्रस्येति गम्यते । प्रधानस्य प्रत्यङ्गमावृत्तेर्निषेधात्प्रतिमूर्धन्य इतिवचनाच्चैकस्य प्रथमोपविष्टस्यैव । यद्यप्यत्र हस्तशब्दः साधारणस्तथाऽपि 'ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् ।' इतिश्रुतेः, 'दक्षिणाचारेण कर्तव्यम्' इतिसूत्रान्तरात्, 'पाणौ दद्यात्तु दक्षिणे' इतिगार्ग्यस्मृतेश्च दक्षिणहस्त एव होमः । अनग्निकः श्राद्धकर्ता मासिकश्राद्धं चेद्दक्षिणहस्ते सोमाय पितृमत इत्यादिभिः षोडशमन्त्रैः षोडशाऽऽज्याहुतीस्तैरेव मन्त्रैः षोडशाऽऽन्नाहुतीः, अन्त्यैस्त्रिभिरन्नाहुतित्रयमेव वा, मासिश्राद्धं चेत्पिण्डपितृयज्ञाहुतित्रयमेवान्नेन हुत्वाऽवशिष्टमन्नं पङ्क्तिमूर्धन्यादन्येषां पित्र्यविप्राणामेव पात्रेषु विभज्य निदध्यात् । शेषप्रतिपत्ताविदम[५९]पिधास्यते । अजकर्णाश्वकर्णयोर्दक्षिणयोरेव ग्रहणम् । 'एकाङ्गवचने दक्षिणं प्रतीयादनादेशे' इत्याश्वलायनोक्तेः ।
शङ्खः--
"अप्सु चैव कुशस्तम्बे अग्निं कात्यायनोऽब्रवीत् । |
ब्राह्मणपाणिरेव प्रथमोऽनुकल्पः । न च जलाजकर्णादीनां निरवकाशतया समविकल्प इति वाच्यम् । ब्राह्मणाभावे विधीयमाने दर्भवटुश्राद्धे तेषां सावकाशत्वात् । पाणावग्नौकरणहोमेऽपि प्राकृता धर्माः सर्वेऽपि कार्याः पाण्यधिकरणकाग्निहोत्रवत् ।समिन्धनरूपकार्यस्याभावादिध्माभावः । इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पित्र्यविप्रपाणिं परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय पुनर्वामेनाभिघार्य जुहुयादिति स्मृत्यर्थसारे । स्मृतिचन्द्रिकाकारस्तु विप्राभ्यनुज्ञा नास्तीत्यशुद्धम् । अनग्निश्चेदाज्यं गृहीत्वा भवत्स्वेवाग्नौकरण मिति पूर्ववत्तथाऽस्त्वितिशौनकगृह्यविरोधात् । मेक्षणाभावोक्तिरपि मेक्षणकार्येऽन्यस्य विध्यभावादयुक्ता । परिसमूहनपर्युक्षणसद्भावोक्तिश्चायुक्ता । पांसुनिरसनलक्षणस्य दृष्टकार्यस्य लोपात् । नियमादृष्टमात्रस्य चाप्रयोजकत्वादित्याह । यदा तु प्रश्नाभ्यनुज्ञासद्भावस्तदा स्वसूत्रानुसारेणैव प्रश्नाभ्यनुज्ञावचने उद्धरिष्याम्यग्नौ च करिष्यामि काममुद्ध्रियतां काममग्नौ च क्रियतामिति । जलपाण्यादिषु होमेऽपि प्रश्नप्रतिवचने यथावस्थिते एव । एतेषां प्रतिनिधित्वेन प्रतिनिधिषु तच्छन्दनिगम इतिन्यायेन मुख्यशब्दप्रवृत्तेरनपायात् ।
विशेषमाह कश्यपः--
"अनग्निको यदा विप्रः श्राद्धं कुर्यात्तु पार्वणम् । |
- यमोऽपि--
"अपत्नीको यदा विप्रः श्राद्धं कुर्वीत पार्वणम् । |
भोः पित्र्यविप्रा भवदनुज्ञयोद्धरिष्यामि देवविप्रपाणावग्नौ च करिष्यामीत्यामन्त्र्य काममुद्ध्रियतां कामं देवविप्रकरेऽग्नौ च क्रियतामिति तैरनुज्ञातो देवविप्रकरेऽग्नौकरणहोमं कुर्यादित्यर्थः ।
अथ हुतावशिष्टप्रतिपत्तिः ।
तत्राग्नौ होममुक्त्वाऽऽह याज्ञवल्क्यः--
"हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । |
अत्र रौप्येष्वितिवचनात्पैतृकविप्रभाजनेष्विति गम्यते ।
तथा च यमः--
"अग्नौकरणशेषं तु पित्र्येषु प्रतिपादयेत् । |
अत्राग्निशब्दः पाण्याद्यधिकरणोपलक्षकः । अग्नौकरणशब्दस्य नामधेयत्वात् ।
- तथा च पङ्क्तिमूर्धन्यपित्र्यपाणौ होममुक्त्वाऽऽह कात्यायनः--
"हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निक्षिपेत्" इति । |
अन्यशब्दस्य प्रकृतसजातीयवचनात्पित्र्यपङ्क्त्युपविष्टविप्रपात्रेष्विविति लभ्यते ।
अत एवाऽऽह यमः--
"पित्र्यपाणिहुतोच्छेषं पित्र्यपात्रेषु निक्षिपेत् । |
अत्र पित्र्यपाणिग्रहणमुपलक्षणम् । अतो वैश्वदेविकद्विजपाणौ होमेऽपि शेषस्य पितृपात्रेष्वेव प्रक्षेपो न देवपात्रेष्विति । परस्परस्पर्शे शङ्खः--
"श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् । |
तदन्नं पात्रगतमन्नं भुञ्जीयादेव न तु त्यजेत् । ततः प्रायश्चित्तार्थं गायत्रीमष्टोत्तरशतवारं जपेदित्यर्थः । अत्र श्राद्धपङ्क्तावितिश्रवणाच्छ्राद्धव्यतिरिक्तभोजने स्पर्शे परित्याग एवेति बोध्यते । तदन्नमत्यजन्नित्यनेन स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति बोध्यते ।
यदि पात्र उच्छिष्टं पतेत्तदा तु परित्याग एव--
"उच्छिष्टमिश्रमन्नं चेद्भवेत्पात्रगतं तदा । |
इतिस्मृतिसंग्रहोक्तेः ।
उच्छिष्टं परस्य । तत्र रात्रौ ।
विप्रस्य भोजनकाले गुदस्रवणं चेत्तदा किं कार्यमित्यपेक्षायां पृथ्वीचन्द्रोदये भरद्वाजः--
"भुञ्जानेषु तु विप्रेषु प्रमादात्स्रवते गुदम् । |
क्षणपाद्यादिविधिना पुनः श्राद्धं कुर्यादित्यर्थः ।
विप्रस्य त्वापस्तम्ब आह--
"भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् । |
भूप्रकरणेऽप्येतदेव ज्ञेयम् ।
श्राद्धविप्रवमने दक्षः--
"केतितस्तु यदि श्राद्धे भोजनं मुखनिःसृतम् । |
तस्याप्यत्र कल्पनात् । अतः श्राद्धभोक्तृविषयकत्वमेव । पिण्डदानोत्तरं वमने श्राद्धस्य नाऽऽवृत्तिः । पिण्डादानात्प्राग्वमने तु पुनः श्राद्धम् । तदुक्तं पृथ्वीचन्द्रोदये स्मृतिसंग्रहे--
"अकृते पिण्डदाने तु भुञ्जानो ब्राह्मणो वमेत् । |
पिण्डदानं श्राद्धम् ।
"अकृते पिण्डदाने तु पिता यदि वमेत्तदा । |
इति तत्रैवोक्तेः । तच्च पुनः श्राद्धं श्राद्धदिन उपवासं कृत्वा परेऽहनि कार्यम् । तदुक्तं स्मृतिसंग्रहे--
"पित्रर्थानां त्रयाणां हि पिता चेद्वमते यदि । |
- तथा--"वमने वा विरेके वा तद्दिनं परिवर्जयेत्" इति ।
विरेको गुदस्रावः । एतद्वचनद्वयं निर्मूलम् । समूलत्वेऽपि न मासिकाब्दिकविषयम् । मासिश्राद्धसांवत्सरिकयोर्वान्तावामेन तस्मिन्नेव दिने कार्यम् ।
"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । |
आरब्धं श्राद्धं समापनीयमेव ।
"आरब्धं च समापयेत्" इतिवचनात् । |
केचित्तु ब्राह्मणान्तरलाभे पक्वान्नेनैतस्मिन्दिन एव कुर्यात् । अकृते पिण्डदाने त्वितिपूर्वोक्तवाक्यात् । श्राद्धविघ्ने द्विजातीनामित्यत्र श्राद्धविघ्नपदं भार्यारजोदर्शनरूपविघ्नपरमित्याहुः । ब्राह्मणास्तु त एवं संप्रदानत्वेन स्वीकार्या इति केचित् । अनेकप्राधानिके यागे यस्य कस्यचित्प्रधानस्य वैकल्ये पुनः साङ्गक्रियार्थाहवनीयान्तरप्रणयनवद्विप्रान्तरमेवेत्यन्ये । श्राद्धे पिण्डदानमेव प्रधानमिति कर्कः । विप्रभोजनमपीति मेधातिथिः । भोजनपिण्डदानाग्नौकरणानीत्युज्ज्वलाकारकपर्दिधूर्तरामाण्डारहरदत्तहेमाद्र्यादयः । तत्र येषां मते भोजनस्याङ्गत्वं तैर्नाऽऽवृत्तिः कर्मणः कार्या । होमवैकल्य उज्ज्वलाकारादिमते पुनरावृत्तिः श्राद्धस्य । तस्यापि तन्मते प्रधानत्वादिति । वस्तुतस्तु भोजनपिण्डदाने एव प्रधाने नाग्नौकरणमिति । भोजनपिण्डदानवैकल्ये पुनःश्राद्धविधानवदग्नौकरणवैकल्ये तददर्शनात् । केवलभोजनेन केवलपिण्डदानेन वा श्राद्धसिद्धिवत्केवलहोमेन श्राद्धसिद्ध्यदर्शनाच्च । तथा च होमवैकल्ये प्रायश्चित्तमात्रं कर्तव्यं न तु पुनः श्राद्धमिति द्रष्टव्यम् । वैश्वदेविकविप्रवमने होम एव नाऽऽवृत्तिरङ्गत्वात् । पितामहादिविप्रवमनेऽपि नाऽऽवृत्तिः । अकृते पिण्डदाने त्वितिवचने पितेत्युक्तेरिति केचित् । तस्यापि प्रधानत्वात्पितृवदिति तु युक्तम् ।
पिण्डोपघाते हेमाद्रौ प्रायश्चित्तकाण्डे जातूकर्ण्यः--
"श्वशृगालखरैः पिण्डः स्पृष्टो भिन्नः प्रमादतः । |
काकसंस्पर्शे तु न दोषः । पिण्डोपघातं प्रक्रम्य--
"धनस्य च विनाशः स्यात्काकसंस्पर्शनं विना" |
इति तत्रैव श्लोकगौतमोक्तेः । स्मृतिदर्पणेऽत्रिः--
"मार्जारमृषकस्पर्शे पिण्डे च विदलीकृते । |
"श्वचाण्डालादिभिः स्पृष्टः पिण्डो याद्युपहन्यते । |
अथ वैश्वदेवकालः ।
तत्राऽऽहिताग्नेर्विशेषः--
"पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ॥ |
अत्र साग्निकपदेनाऽऽहिताग्निर्गृह्यत इति हेमाद्रिः । नवीनास्तु साग्निकपदेन श्रौताग्निमान्गृह्याग्निमांश्च गृह्यत इत्याहुः । अनाहिताग्नेस्तु--अग्नौकरणानन्तरं बलिदानोत्तरं वा वैश्वदेव इति । अत्र मूलं वैश्वदेवप्रकरणे प्रदर्शितम् । अत्र पृथक्पाकेनैव वैश्वदेवहोममात्रं कृत्वा श्राद्धसमाप्त्यनन्तरं वैश्वदेवान्नेनैव बलिहरणादि कर्तव्यम् । यदा त्वन्ते तदा श्राद्धशेषेणैव । आहिताग्नेः सर्वेषु श्राद्धेष्वैकादशाहिकं मुक्त्वा श्राद्धारम्भात्प्रागेव वैश्वदेवः ।
"श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः । |
इति सालङ्कायनिवचनात् ।
समवदाय शेषं प्राश्नीयादित्यनेन शेषस्याशनं विहितं तच्च दिवैव कार्यं न रात्रौ ।
'न रात्रौ शेषमश्नीयात्' इति स्मृतौ निषेधात् । |
तस्मिन्दिन आवश्यकोपवासप्राप्तौ शेषाघ्राणं कार्यम् । तत्रापि प्राशनव्यवहारस्य शास्त्राभ्युपगतत्वात् । तन्नेव प्राशितं नेवाप्राशितमित्यर्थवादेनाप्युभयविधित्वबोधनात् । तावताऽपि शास्त्रार्थसंभवाच्च । चतुर्थ्यादिरात्रिव्रतेषु दिवा शेषाघ्राणं कृत्वा रात्रौ पूजां विधाय मूलफलादिकं भक्षयेत् । रात्रौ भोजनस्य तस्मिन्दिन उपवासस्य च निषेधात् ।
"उपवासनिषेधे तु किंचिद्भक्ष्यं प्रकल्पयेत्" |
इतिवचनेन फलमूलादिभक्षणस्य विहितत्वात् । केचित्तु रात्रावपि शेषा घ्राणमाहुः । शेषनाशे भोजनलोप इति केचित् । प्रतिनिधिभूतेनान्नेन भोजनं कार्यमित्यन्ये ।
"दन्तधावनताम्बूलतैलाभ्यङ्गमभोजनम् । |
श्राद्धदिनेषु यद्यृतुमत्या भार्यायाः षोडशदिनं पतेत्तदा तत्र विशेषमाह वसिष्ठः--
"एकादश्यां यदा राम प्रतिसंवत्सरं दिनम् | |
तथा श्राद्धकर्तुः पत्न्यां रजस्वलायां प्रवासादौ च तद्दिन एवान्नंनैव कार्यम् । तदुक्तं माधवीये लौगाक्षिणा--
"पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । |
अपुत्रकस्त्रीकर्तृकश्राद्धं तु पञ्चमेऽह्नि भवति । तदुक्तं तत्रैव श्लोकगौतमेन--
"अपुत्रा तु यदा भार्या संप्राप्ते भर्तृराब्दिके । |
दर्शश्राद्धाद्यन्नेनैव कार्यम् । तदुक्तं कालिकापुराणे--
"मासिकानि सपिण्डानि अ(आ)मावास्या(स्यं) तथाऽऽब्दिकम् । |
इदं चाप्रवासविषयम् । तथा चोशना--
"अपत्नीकः प्रवासी न यस्य भार्या रजस्वला । |
एतदपि पाकासंभवे । तथा सुमन्तुः--
"पाकाभावेऽधिकारः स्याद्विप्रादीनां नराधिप । |
मरीचिः--
"श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । |
"द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि । |
इतिस्मृत्यन्तरवचनात् ।
आमहेम्नोः परिमाणमुक्तं स्मृत्यन्तरे--
"आमं तु द्विगुणं दद्याद्धे[६०]मं दद्याच्चतुर्गुणम्" इति । |
द्विगुणामान्नदानाशक्तौ सममप्यामं दद्यादित्युक्तं प्रघट्टके । चतुर्गुणहिरण्यदानाशक्तौ द्विगुणं समं वा हिरण्यं दद्यादित्यपि तत्रैव । हेम्नोऽप्यसंभवे श्राद्धकाण्डे स्मृत्यन्तरे--
"तृणानि वा गवे दद्यात्पिण्डान्वा विधिपूर्वकम् । |
श्राद्धसंहिता सर्वमन्त्रसहितः श्राद्धकल्पः । कक्षं पर्वतदरीति हेमाद्रिः ।
बृहन्नारदीये--
"द्रव्याभावे द्विजाभावे अन्नमात्रं तु पाचयेत् । |
आशौचेन मृताहातिक्रमे तदाशौचान्ते कार्यम् । तथा च ऋष्यशृङ्गः--
"देये पितॄणां श्राद्धे तु आशौचं जायते यदि । |
आब्दिकदिने ग्रहणं चेत्तस्मिन्नेवाहनि श्राद्धमपराह्णेऽन्नादिना कार्यमित्युक्तं प्रयोगपारिजाते गोभिलेन--
"दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थिते । |
अन्नेनासंभवे हेम्ना कुर्यादामेन वा सुतः" इति ॥ |
इति तु[६१] ग्रहणदिनातिरिक्तविषयमिति निर्णयामृते ।
- यत्तु--"ग्रहणात्तु द्वितीयेऽह्नि रजोदोषात्तु पञ्चमे"
इति वचनं तन्महानिबन्धेष्वनुपलम्भान्निर्मूलमिति नवीनग्रन्थे ।
विस्तृतपार्वणविधिना श्राद्धकरणाशक्तौ विवाहादिनिमित्तेन पिण्डदाननिषेधे च सांकल्पविधिरुक्तः स्मृत्यन्तरे--
"पिण्डो यत्र निवर्तेत मघादिषु कथंचन । |
अत्र कथंचनेत्युक्त्याऽशक्तिकृतपिण्डदाननिवृत्तिरनुगृह्यते ।
- संग्रहे--
"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् । |
सांकल्पिकस्वरूपमुक्तं संवर्तेन--
"समग्रं यस्तु शक्नोति कर्तुं नैवेह पार्वणम् । |
अत्र यद्यन्निषिद्धं तदाह व्यासः--
"सांकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् । |
दापयेदिति स्वार्थे णिच् । पात्रपूरणमर्घ्यपात्रपूरणम् । आवाहननिषेधः समन्त्रकावाहननिषेधपरः । तेन तूष्णीं भवत्येवेति हेमाद्रिः । स्मृत्यन्तरे तु "विकिरं न च दापयेत्' इति तुरीयः पादः ।
वसिष्ठः--
"आवाहनं स्वधाशब्दं पिण्डाग्नौकरणे तथा । |
पिण्ड उच्छिष्टपिण्डः । हेमाद्रौ वृद्धशातातपस्तु--
"पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । |
इति विकिरस्यालोपमाह । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।
व्याघ्रपादः--
"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् । |
प्रत्याब्दिककर्तव्यतामाह जातूकर्ण्यः--
"पितृवर्गस्य कुर्वीत श्राद्धं पार्वणवत्सुतः । |
अपुत्रसा(स)पत्नमातृमातामहीस्वपत्नीपितृव्यमातुलज्येष्ठभ्रातॄणामपि तद्दिने कार्यम् ।
"अपुत्रस्य पितृव्यस्य श्राद्धं पितृवदाचरेत्" इतिवचनात्, |
एतच्चैकोद्दिष्टविधिना मातामहमातामहीपार्वणव्यतिरिक्तानामेव ।
"मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" । |
इति चतुर्विंशतिमतात् । पितृव्यभ्रातृमातॄणामेकोद्दिष्टमेव ।
"पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्" इतिवचनात् । |
माता[६४] सपत्नमाता । पत्न्या अप्येकोद्दिष्टमेव ।
"पितृव्यभ्रातृपत्नीनां मातुर्नैव तु पार्वणम्" इतिवचनात् । |
पित्रोः सांवत्सरिकश्राद्धेऽप्येकोद्दिष्टविधिरुक्तो यमेन--
"सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । |
शातातपस्तु--
"सपिण्डीकरणादूर्ध्वं कुर्यात्पार्वणवत्सदा । |
अत्र देशाचारायद्व्यवस्थितविकल्प इति विज्ञानेश्वरः ।
"भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च । |
"अनाद्यज्येष्ठगर्भस्य भ्रातुर्नैव तु पार्वणम् । |
आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः ।
यत्तु वृद्धपाराशरः--
"अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् । |
इति, तद्देशाचाराद्व्यवस्थितं ज्ञेयमिति पृथ्वीचन्द्रोदये ।
श्राद्धदीपकलिकायां चतुर्विंशतिमति तु--
"सदा पितृव्यभ्रातॄणां ज्येष्ठानां पार्वणं भवेत् । |
अत्र दंपत्योः पार्वणं मिथ इति पत्न्याः पार्वणविधानं पूर्वेणैकोद्दिष्टविधानेन विकल्पते । सा च व्यवस्था देशाचाराद्व्यवस्थितेति श्राद्धप्रदीपे । पत्न्याः कर्तृत्वेऽपि पार्वणमेव ।
"सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममन्त्रकम् । |
इति लौगाक्षिस्मृतेरिति निर्णयामृते । अन्ये तु-- एतत्पाक्षिकपार्वणपरम् ।
"भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत् । |
इतिवचनं क्षयाहे पाक्षिकैकोद्दिष्ट[६५]प्रशंसार्थं न पार्वणनिषेधार्थम् । स्वभर्तृप्रभृति त्रिभ्य इत्यनेनापि विरोधो नेत्याहुः ।
प्रचेताः--
"सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते । |
अपत्नीनां ब्रह्मचारिस्नातकादीनामिति हेमाद्रिः ।
माकर्डेयपुराणे--
"प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः । |
"सपिण्डीकरणादूर्ध्वं यत्तु यत्र प्रदीयते । |
एतच्चाऽऽवश्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः ।
स्मृत्यन्तरेऽपि---"पितृव्यभ्रातृपुत्राणामेकोद्दिष्टं न पार्वणम्" इति ।
अत्रिः--
श्वशुरे श्वशुराय । पितृव्ये पितृव्यस्य(व्याय)। ([६८] न च सपिण्डीकरणादूर्ध्वं यत्र(त्तु ) यत्र प्रदीयत इतिवृद्धवसिष्ठवचनादमावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् ।)
'पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च |
इति जातूकर्ण्यवाक्यस्य क्षयाहप्रकरणस्थत्वेन [ क्षयाहपरतया तत्सदृशवसिष्ठवाक्यस्य ] तत्परत्वात् । तत्रत्यश्राद्धशब्दस्य क्षयाहपरताय एव हेमाद्र्यादिभिरुक्तत्वाच्च । अत एव क्षयाहश्राद्धमेवाऽऽवश्यकं नान्यत् । एवं च पित्रादिवर्गचतुष्टयस्य पार्वणं, सपत्नमातृपितृव्यादीनामेकोद्दिष्टमेव । पत्न्या एकोद्दिष्टं पार्वणं वा । केचित्तु पितृव्यभ्रातृसपत्नमात्रादिश्राद्धं पार्वणमाचरन्ति । तत्र मूलं पितृवदिति पार्वणत्वस्यातिदेश इति द्रष्टव्यम् । सांवत्स[६९]रादिकं विभक्तैः पृथक्कार्यम् ।
"विभक्तैस्तु पृथक्कार्यं प्रतिसं(सां)वत्सरादिकम् । |
सांवत्सरिकात्पूर्वाणि मासिकान्यैकत्रैव । तदाह लघुहारीतः--
"नवश्राद्धं सपिण्डं च श्राद्धान्यपि च षोडश । |
इत्युशनोवचनाच्च ।
एकोद्दिष्टस्वरूपमाह मनुः--
"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम्" इति । |
तत्र विशेषमाह याज्ञवल्क्यः--
"एकोद्दिष्टं देवहीनमेकार्व्यैकपवित्रकम् । |
अथ प्रोष्ठपदीश्राद्धम् ।
तत्र ब्रह्मपुराणम्--
"नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ । |
नान्दीमुखशब्दार्थस्तत्रैवोक्तः--
"पिता पितामहश्चैव तथैव प्रपितामहः । |
एतच्च प्रत्यब्दमित्युक्तेः पक्षश्राद्धे सकृन्महालयपक्षे चाऽऽवश्यकमिति प्रयोगपारिजाते । अत्र मातामहा अपि कार्याः । 'पितरो यत्र पूज्यन्ते' इति वचने पितृशब्दस्य साधारणत्वादिति केचित् । जनकघटितसमुदायवाचित्वादत्र तादृशसमुदायाभावात्पितरो यत्रेतिवाक्यस्यात्राप्रवृत्तिरित्यन्ये ।
महालयेऽपि श्राद्धं कार्यमित्युक्तं पृथ्वीचन्द्रोदयादौ वृद्धमनुना--
"आषाढीमवधिं कृत्वा पञ्चमं पक्षमाश्रिताः । |
वृद्धमनुः--
"मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां व्रजेद्रविः । |
मार्कण्डेयः--
"कन्यागते सवितरि दिनानि दश पञ्च च । |
अन्येऽपि पक्षा ब्राह्मे--
"अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने । |
"भौजगीं तिथिमारभ्य यावच्चन्द्रार्कसंगमम्" इति ॥ |
भौजगी तिथिः पञ्चमी । चन्द्रार्कसंगमेऽमावास्यायां तावत्पर्यन्तमित्यर्थः । अर्धमित्यष्टम्यादिपक्षः । त्रिभागमिति दशम्यादिपक्षः । त्रिभागहीनमिति चतुर्दशीसहितप्रतिपदादिचतुष्टयवर्जनाभिप्रायेणेति कल्पतरुः । अशक्तस्त्वेकदिन एव कुर्यात् । तदुक्तं हेमाद्रौ नागरखण्डे--
"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । |
तत्र वर्ज्यतिथ्यादिकमुक्तं पारिजाते वसिष्ठेन--
"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । |
त्रिजन्मनक्षत्राणि जन्मनक्षत्रं दशमैकोनविंशे च । एतच्च सकृन्महालयविषयम् ।
"सकृन्महालये काम्ये पुनः श्राद्धे खिलेषु च । |
इति पृथ्वीचन्द्रोदये नारदोक्तेः ।
एतदपवादः संग्रहे--
"अमापाते भरण्यां च द्वादश्यां पक्षमध्यके । |
पराशरमाधवीये मदनपारिजातादिषु चैवम् । निर्णयदीपिकायां तु पितृमृताहे निषिद्धदिनेऽपि सकृन्महालयः कार्य इत्युक्तम् । स्मृत्यन्तरे--
"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । |
कात्यायनोऽपि--
"या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । |
पक्षश्राद्धकरणेऽपि न नन्दादिषु पिण्डनिषेध इत्याह पराशरमाधवीये कार्ष्णाजिनिः--
"नभस्यस्यापरे पक्षे श्राद्धं कुर्याद्दिने दिने । |
यत्तु--"प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् "
इति याज्ञवल्कीयं [तत्] पञ्चम्यादिपक्षविषयम् । पृथ्वीचन्द्रोदयमदनपारिजातादिषु चैवम् । निर्णयदीपे तु नन्दादिनिषेधः प्रत्यहभिन्नश्राद्धविषयः । षोडशाहव्यापिश्राद्धप्रयोगैकत्वे तु प्रत्यहं पिण्डदानं कार्यमित्येवोक्तम् । तदयमर्थः संपन्नः--षोडशाहव्यापिश्राद्धैक्ये न पिण्डनिषेधः । मृताहे सकृन्महालयेऽपि । तथा प्रत्यहं श्राद्धभेदेऽपि । व्यतीपातादौ तथा । अन्यत्र मृताहातिक्रमे च पिण्डनिषेध इति । चतुर्दश्यां मृतस्य तु 'श्राद्धं शस्त्रहतस्यैव चतुर्दश्यां समाचरेत्' इतिवचनेन शस्त्रहतस्यैव तत्र श्राद्धनियमेनेतरेषां चतुर्दश्यां श्राद्धनिषेधे सिद्धेऽर्थादमावास्यादिष्वितरेष्वनिषिद्धेषु दिनेष्वनुष्ठानम् । एतच्चापरपक्षप्रयुक्तश्राद्धविषयम् ।
"प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः । |
इतिवचनादिति पारिजातः । नवीनास्तु--एतस्य वचनस्यानिर्दिष्टमूलकत्वेनैकोद्दिष्टं देवहीनमित्यादिवचनानां कथमेतेन वचनेन बाध इति चिन्त्यमित्याहुः । पौर्णमास्यां मृतस्य महालयश्राद्धममावास्यायां कर्तव्यमिति कौस्तुभे । तस्या महालयान्तर्गतत्वाभावादिति तदाशयः । न च प्रोष्ठपद्या सह षोडशत्वसंपादनस्य हेमाद्रिणोक्तत्वात्तस्या अपि महालयान्तर्गतत्वमस्तीति वाच्यम् । तस्य पक्षस्यैव विरुद्धत्वेन निर्मूलत्वेन च हेयत्वात् । कथं तर्हि षोडशत्वसंपादनमिति चेत् ।
"अहःषोडशकं यत्तु शुक्लप्रतिपदा सह । |
तथा च गालवः--
"मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । |
अत्र देवताः संग्रहे--
"ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं |
सस्त्रीतिपाठे मातामहादीनां सपत्नीकानामित्यूहः । तत्स्त्रीति पाठे मातामहीवर्गस्य सर्वं पृथगेव ।
"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु न । |
इति स्मृतिभ्यां पक्षद्वयस्याप्युक्तत्वात् । अत्र शक्ताशक्तत्वेन देशाचाराद्व्यवस्था ज्ञेया । नवदैवतमिति वचनं पार्वणत्रयमत्रेतिप्रदर्शनार्थं न त्वेकोद्दिष्टनिवर्तकम् । एवं द्वादशदैवत्यमितिवचनमपि । तातजननीस्वभ्रातरस्तत्स्त्रिय इतिपाठे पितृव्यमातुलभ्रातृपत्नीनां पृथग्देवतात्वम् । तत्तदनन्तरं पृथगुल्लेख इति प्रघट्टके । अपत्यधवयुगित्यत्र सापत्यायाः सधवाया इत्युल्लेखः । शिष्टं स्पष्टम् ।
यत्तु--
"आषाढ्याः पञ्चमे पक्षे श्राद्धं कुर्याद्दिने दिने । |
इति धर्मप्रवृत्तौ वचनं तन्निर्मूलमेव । महानिबन्धेष्वदर्शनात् ।
महालयेऽनेकब्राह्मणनिमन्त्रणाशक्तस्य विशेषः स्मृत्यन्तरे--
"एकस्मिन्ब्राह्मणे सर्वानाचार्यान्तान्प्रपूजयेत्" इति । |
विधवायास्तु विशेषः संग्रहे--
"चत्वारि पार्वणानीह विधवायाः सदैव हि । |
स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च ॥ |
इह महालये । सदेत्यनेन सांवत्सरिकव्यतिरिक्ते गयाश्राद्धादावप्येवं पार्वणानि न तु स्वभार्त्राद्युद्देश्यकपार्वणमात्रमिति बोध्यते ॥
तथा--"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" इति ।
अशक्तौ तु स्मृतिरत्नावल्याम्--
"स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च । |
एतच्च विधवाकर्तृकं श्राद्धमपुत्रत्वे ।
"अपुत्रा पुत्रवत्पत्नी पुत्रकर्म समाचरेत्" इतिवचनात् । |
अत्र स्वपितुरपुत्रपौत्रवत्त्व एव तत्पार्वणमिति दिवोदासीये । भर्तुर्मातामहपार्वणेन सह षड्दैवत्यम् । अपुत्रा पुत्रवत्पत्नीतिवचनस्य वनिताप्रकरणानुरोधाच्छ्राद्धक्रियातुल्यतोक्त्या पुत्रकर्तृकश्राद्धवदेव मातामहादीनामपि प्रापणात् । अत्रोद्देश्यत्वं पित्रादीनां तन्मातामहादीनां च पितृत्वादिना । यं प्रति येन रूपेण संबन्धिता नां(तं) प्रति तेनैव रूपेणोद्देश्यत्वादिति केचित् । अन्ये तु--अपुत्रा पुत्रवदितिवचनं दर्शश्राद्धादिषु पुत्रकर्तृकश्राद्धदेवतामात्रप्रापणाना(र्थ)म् । उद्देश्यता तु स्वस्वसंबन्धानुसारेणैवेत्याहुः । वस्तुतस्तु स्वभर्तृश्वशुरादीनामितिबहुवचनाद्भर्तृमातामहादीनां प्राप्तिः स्वस्वसंबन्धानुसारेणोद्देश्यता चेति द्रष्टव्यम् । स्वस्य भर्ता च श्वशुरश्च तावादी येषां त इति विग्रहः । अस्मिन्कल्पे भर्ता श्वशुरो भर्तुः पिता । आदिपदग्राह्यो भर्तुः पितामह इत्येवं पार्वणम् । बहुवचनग्राह्या भर्तुर्मातामहादयः । स्वस्य भर्ता श्वशुरादयश्चेति विग्रहे भर्तुरेकोद्दिष्टत्वापत्तिर्द्रष्टव्या । न च सांवत्सरिकादौ भर्तुः पक्ष एकोद्दिष्टत्वमपि दृष्टमस्ति तद्वदत्राप्यस्त्विति वाच्यम् । पार्वणधर्मविरोधेन सांवत्सरिकवदेकोद्दिष्टत्वासंभवात् । न च महालये यथा विरुद्धयोरप्येकत्रानुष्ठानं तथाऽत्राप्यस्त्विति वाच्यम् । महालये च स्पष्टं वचनाभावात् । अस्तु वा पक्ष एकोद्दिष्टत्वमपि सांवत्सरिकवदिति यद्यभ्युपेयते तदा भर्तुः पितृपितामहप्रपितामहानां देवतात्वं द्रष्टव्यम् । अस्मिन्नेव कल्पे श्वश्र्वादित्रय्या उद्देश्यत्वं संभवति । पूर्वत्र श्वश्रूणामितिबहुवचनमपि संगच्छते । पूर्वकल्पे द्विवचने बहुवचनं द्रष्टव्यम् । वस्तुतस्तु
"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" । |
इतिवचनस्य समूलत्वं मृग्यम् । स्वमात्रादिपार्वणचतुष्टयमपुत्रविषयकमिति नवीनाः । पितृव्याद्येकोद्दिष्टानां तु पुत्रवत्तस्या अपीति प्रघट्टके । विधवा स्वयं संकल्पं कृत्वाऽन्यद्ब्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते । अत्र धूरिलोचनौ विश्वे देवाः ।
"अपि कन्यागते श्राद्धे काम्ये च धूरिलोचनौ" । |
इत्यादित्यपुराणात् ।
अत्र कन्यागत इत्युपलक्षणम् ।
"आदौ मध्ये तथाऽप्यन्ते यत्र कन्यां रविर्व्रजेत् । |
तथा च कन्यागते कन्याग[त]त्वोपलक्षिते भाद्रपदापरपक्षश्राद्धे धूरिलोचनावित्यर्थ इति हेमाद्रिः । अन्ये तु कन्यागत इत्यनेन कन्यासंक्रमणस्य साक्षान्निमित्तत्वबोधनेनोपलक्षणत्वे प्रमाणाभावात्कन्यासंक्रान्तिनिमित्तके श्राद्ध एव धूरिलोचनौ न महालयश्राद्धे । तत्र तु पुरूरवार्द्रवावेवेति [आहुः] । कन्यासंक्रान्तिनिमित्तकं श्राद्धं तु प्रोष्टपदीश्राद्धम् ।
"नान्दीमुखानां प्रत्यब्दं कन्याराशिगतौ रवौ" । |
इतिवचनेन कन्याराशिनिमित्तत्वस्यैव बोधनात् । इदं च महालयश्राद्धं नित्यं काम्यं च ।
"वृश्चिके समनुप्राप्ते पितरो दैवतैः सह । |
इतिकार्ष्णाजिनिवचनेनाकरणे प्रत्यवायस्योक्तत्वात् ।
"पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा । |
इति तत्रैव जाबालिवचने फलश्रवणाच्च । पञ्चमे पञ्चमे पक्षे महालय इत्यर्थः । एतस्य पञ्चमत्वं तु--
"आषाढ्याः पञ्चमः पक्षः स महालयसंज्ञकः" |
इतिवचनसिद्धम् । महालयस्य नित्यतयाऽनुष्ठाने तु पुरूरवार्द्रवावेव । काम्यतयाऽनुष्ठाने तु काम्ये तु धुरिलोचनावितिशास्त्राद्धुरिलोचनावेवेति ।
आश्वलायनः--
"अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । |
ब्रह्माण्डेऽपि--
"पितॄणां प्रथमं दद्यान्मातॄणां तदनन्तरम् । |
"केवलास्तु क्षये कार्या वृद्धावादौ प्रकीर्तिताः । |
दीपिकायां तु मातृयजनं त्वन्वष्टकास्वादित इत्युक्तम् ।
हेमाद्रौ ब्राह्मेऽपि--"अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते" इति ।
अत्र शाखाभेदेन व्यवस्थेति पृथ्वीचन्द्रोदये । जीवत्पितृकविषयमिति निर्णयदीपे । एतच्च नित्यम् ।
"अष्टकान्वष्टकास्तिस्रस्तथैव च नृपोत्तम । |
इति हेमाद्रौ विष्णुधर्मोत्तरात् । अत एवेदं स्वतन्त्रं प्रधानं नाष्टकाङ्गं, पूर्वेद्युः--श्राद्धं त्वष्टकाङ्गमेव, फलवत्संनिधावफलं तदङ्गमिति न्यायादिति केचित् । अन्ये तु--अन्वष्टकातः पृथगेवेदं मातुः श्राद्धमिति परास्तं, लाघवेन मूलैक्यादन्वष्टकापदाविशेषाच्च । तेनान्यत्रान्वष्टकाश्राद्धस्याङ्गस्याप्यत्र प्रधानत्वं वचनादित्याहुः । इयमेवान्वष्टकाऽक्षय्यनवमी सौभाग्यनवमीति व्यवह्रियते पामरैः । न तत्र कर्मभेदे प्रमाणं किंचिदस्ति । अजीवत्पितृकेण शक्तौ सत्यामेतस्यामष्टस्यामष्टकाश्राद्धमपि कर्तव्यम् । एतस्या अष्टम्या अष्टकात्वं गौतमेनोक्तम्--तथा महालयाष्टमीति । स्मृत्यन्तरेऽपि--
"प्रोष्ठपद्यष्टका भूयः पितृलोके भविष्यति" इति । |
एतदङ्गभूतत्वात्पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धेऽप्येतस्या अन्वष्टकायाः प्रधानीभूतान्वष्टकानुष्ठानेन प्रसङ्गसिद्धिरिति द्रष्टव्यम् । अत्रैव नवम्यां मृतमातृकस्य जीवत्पितृकस्य श्राद्धमावश्यकम् । तदुक्तं निर्णयामृते मैत्रायणीयपरिशिष्टे--
"आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । |
अग्निगुराणे--
"अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । |
यथा जीवत्पितृकस्य सर्वा अन्वष्टका आवश्यकास्तथेयमप्यावश्यकी--
"सर्वासामेव मातॄणां श्राद्धं कन्यागते रवौ । |
इति हेमाद्रौ सुमन्तूक्तेः । अत्र सर्वासामित्युक्तेः स्वमातरि जीवन्त्यामपि सपत्नमातृभ्यो दद्यात् । तन्मरणे सति तस्यै ताभ्यश्च दद्यात् । तच्च पार्वणमेव कुर्यात् ।
"आन्वष्टक्यं च यन्मातुर्गयाश्राद्धं महालयम् । |
इति बृहन्मनूक्तेरिति श्राद्धदीपकलिकायाम् । अन्ये तु--पितृव्यभ्रातृमातॄणामितिवाक्यादेकोद्दिष्टमेव न पार्वणमित्याहुः ।
तत्र विशेषः--
"अनेका मातरो यस्य श्राद्धे चाऽऽपरपक्षिके । |
यन्मातुर्जनन्या आन्वष्टक्यं गयाश्राद्धं महालयश्राद्धं च पार्वणवद्यथा तथा पितृपत्नीपु जननीव्यतिरिक्तासु सर्वास्वपि श्राद्धमान्वष्टक्यादि तत्सर्वं पार्वणवदेव भवेदिति वाक्यार्थः । पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्' इतिवचनेन प्राप्तस्य पार्वणधर्मस्य बाधोऽनेन क्रियते । पितृपत्नीषु पितृपत्नीनामित्यर्थः । श्राद्ध इत्यत्र तीर्थ इति कुत्रचित्पाठः । पिण्डो(ण्डं) ब्राह्मणाय देयं भोज्यं बर्हिषि प्रदेयं च, एकं तु निर्वपेत्, मात्रो(त्रु)द्देशेनैकमेव दद्यात्, द्विवचनादिनाऽनेकमात्रुद्देशेन दद्यादित्यर्थः । तत्र प्रकारः--अस्मिन्पक्षे सपत्नमातॄणां मात्रनन्तरमेव निर्देशः संकल्पे क्षणादिषु च । मातृपार्वणेऽनेकब्राह्मणपक्ष--अस्मन्मात्रोरमुकगोत्रयोरमुकामुकदयोर्वसुरूपयोरित्यूहः । तथैवाऽऽसनाक्षय्ययोः । गन्धादिप्रदानेषु अस्मन्मातरावमुकामुकदे अमुकगोत्रे वसुरूपे एष युवां गन्ध इत्यादि । अन्नदाने मातृभ्यां दाभ्यां गोत्राभ्यां वसुरूपाभ्यामिदमन्नमित्यूहो मातृद्वित्वे । बहुत्वे तु अस्मन्मातॄणां दानां गोत्राणां वसुरूपाणां, मातरो दाः, गोत्राः, वसुरूपाः । मातृभ्यः, दाभ्यः, गोत्राभ्यः, वसुरूपाभ्य इत्यूहः । एवं पिण्डदानेऽपि । आन्वष्टक्यं च यन्मातुरित्यनन्तरोदाहृतबृहन्मनूक्त्या महालये यदि सपत्नमातॄणां पार्वण[७४]श्राद्धं क्रियते तदाऽप्येवमेव । एतच्चाशक्तिविषयम् । शक्तस्तु--पृथक्ब्राह्मणभोजनं पृथक्पिण्डदानं च कुर्यादिति प्रघट्टके । अत्र सुवासिनीभोजनमुक्तं मार्कण्डेयपुराणे--
"मातुः श्राद्धे तु संप्राप्ते ब्राह्मणैः सह भोजनम् । |
पठन्ति च-- 'श्राद्धं नवम्यां कुर्वीत मृते भर्तरि लुप्यते' इति ।
अन्ये तु–-एतस्य वचनस्य निर्मूलत्वात्कार्यमेवेत्याहुः ।
श्राद्धदीपकलिकायां ब्राह्मे--
"पितृमातृकुलोत्पन्ना याः काश्चित्तु मृताः स्त्रियः । |
अत्र देशाचाराद्व्यवस्था । इदं चानुपनीतेनापि कार्यम् । तदुक्तं शूलपाणौ मात्स्ये--अमावास्याऽष्टका कृष्णपक्ष इत्यभिधाय--
"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु । |
जीवत्पितृकेणाप्येतच्छ्राद्धं मातृक्षयाहश्राद्धवदविशेषात्सपिण्डमेव कार्यम् ।
यत्तु--
"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । |
इति दक्षवाक्यत्वेन केनचिल्लिखितं तद्दक्षस्मृतौ निबन्धान्तरे चादर्शनादनाकरमिति केचित् । मात्रतिरिक्तपरमित्यन्ये । 'अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च' इत्युपक्रम्य 'पिण्डनिर्वपणं कार्यं तस्यामपि नृसत्तम' इतिवचनं श्राद्धविधिना पिण्डदाने प्राप्ते पुनर्वचनं यस्य जीवत्पितृकत्वगुर्विणीपतित्वादिना पिण्डदानं निषिद्धं तस्यापि प्राप्त्यर्थमिति नवीनाः ।
संन्यस्तपितृको महालयश्राद्धं द्वादश्यामेव कुर्यात् ।
तदुक्तं वायवीये--
"संन्यासिनोऽप्याब्दिकादि पुत्रः कुर्याद्यथाविधि । |
स्मृत्यर्थसारे--
"एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रिया[म्] । |
वपनमपि न कर्तव्यमिति कैश्चिदुक्तं तन्निर्मूलम् । परमहंसस्य वार्षिकादिकमपि न कार्यमिति शूलपाण्यादयः । बौधायनः--
"ब्रह्मनिष्ठे च संन्यस्ते पितर्युपरते श्रुते । |
शौनकः--
"ब्रह्मीभूते च संन्यस्ते ताते च निधनं गते । |
तथा--
"संनिकृष्टो यदा पुत्रो यदि स्वपितृ[७५]नाशनम् । |
सपिण्डविषय आहोशना--
"यतौ मृते च वपनं नोदकं नैव च क्रिया । |
अनुभाविनां तु परिवापनमित्यनेन सपिण्डानामपि वपनं प्राप्तमनेन निषिध्यते । अनुभाविनः कनिष्ठाः सपिण्डाः ।
अत्र मघात्रयोदश्यां श्राद्धमुक्तं संग्रहे--
तुशब्दस्य ततोऽन्यत्रेत्यनन्तरमन्वयः । पृथ[७८]ग्विना विभक्तं विना मघाश्राद्धव्यतिरिक्तश्राद्धेषु पृथगधिकारो नास्तीत्यर्थः ।
"([७९] श्राद्धं न चैकवर्गस्य त्रयोदश्यामुपक्रमेत् । |
चतुर्दश्यामपमृत्युहतानामेकोद्दिष्टं तच्च देवयुक्तं कार्यम् ।
तदुक्तं स्मृत्यन्तरे--
"प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टविधानतः । |
अन्ये तु--अनिर्दिष्टमूलकेन वचनेन 'एकोद्दिष्टं देवहीनम्' इत्यादिवचनानां बाधः कथमिति चिन्त्यमित्याहुः । एतन्मते देवाः सन्त्येवात्र । अपमृत्युनिमित्तान्युक्तानि प्रचेतसा---
"वृक्षारोहणलोहाद्यैर्विद्युज्ज्वालाविषाग्निभिः । |
मरीचिरपि--
"विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणवातिनाम् । |
एतच्च युद्धव्यतिरिक्तविषयम् ।
"चौरादिभिः शस्त्रहते चतुर्दश्यां क्रिया भवेत् । |
इति स्मृत्यन्तरवचनात् । पितामहोऽपि शस्त्रहतश्चेदेकोद्दिष्टद्वयं कार्यम् ।
तदुक्तं स्मृत्यन्तरे--"एकस्मिन्द्वयोर्वैकोद्दिष्टम्" इति ।
त्रिषु शस्त्रहतेषु पार्वणमेव ।
"पित्रादयस्त्रयो यस्य मृताः शस्त्रैर्यदि क्रमात् । |
यस्त्वत्रैव शस्त्रादिना हतस्तस्य वार्षिकमेव न तु श्राद्धद्वयं प्रसङ्गसिद्धरिति पृथ्वीचन्द्रोदये । तच्च पार्वणविधिनैकोद्दिष्टविधिना वेत्यपि तत्रैव । सर्वतृप्त्यर्थं महालयश्राद्धममावास्यायां पृथक्कर्तव्यम् । महालये चतुर्दश्यां श्राद्धं लुप्तं चेद्वृश्चिकदर्शनपर्यन्तं यस्मिन्कस्मिंश्चिदनिषिद्धदिन एकोद्दिष्टविधिनैव कार्यं यथाप्राप्त एव गौणकालविधानात् । एतेन टोडरानन्दीया पार्वणोक्तिरपास्ता । सकृन्महालयश्राद्धं तु आहिताग्निना दर्श एव कार्यम् ।
तदुक्तं संग्रहे-- "न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः" इति ।
आश्विनशुक्लप्रतिपदि दौहित्रो मातामहश्राद्धं कुर्यात् । उक्तं च हेमाद्रौ स्मृत्यन्तरे--
"जातमात्रोऽपि दौहित्रो विद्यमाने च मातुले । |
इदं च संगवव्यापिन्यां कार्यम् । उक्तं च निर्णयदीपे--
"प्रतिपद्याश्विने शुक्ले दौहित्रस्त्वेकपार्वणम् । |
अत्र सपितेति विशेषणाज्जीवत्पितृ[८०]कोऽप्यधिकारी[८१] । तत्र जीवत्पितृकः पिण्डरहितं कुर्यात् ।
"मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । |
इति दक्षवचनादान्वष्टक्यवद्विशेषवचनाभावाच्चेति । कैश्चित्तु दौहित्रप्रतिपच्छ्राद्धं सपिण्डमेव मुण्डनं पिण्डदानं चेति दक्षवाक्यस्य निर्मूलत्वादित्युक्तम् । संगवव्यापित्वबोधकवचसोऽपि निर्मूलत्वमाहुः केचित् । तथा तीर्थेऽपि श्राद्धं कार्यम् । तदुक्तं पाद्मे--
"तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च । |
मात्स्ये तीर्थं पुष्करकं नामेत्यादिना तीर्थान्यनुक्रम्योक्तम्--
"एषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते । |
तत्र विशेषो देवीपुराणे--
"अर्घ्यमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् । |
- तथा--
"नाऽऽवाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः । |
वोपदेवकृतसंग्रहेऽग्नौकरणस्यापि निषेधः कृतः--
"तैर्थ्येऽर्घ्यावाहनाग्नौकरणविकिरदृग्दोषदिग्बन्धतृप्ति- |
स्मृतिरत्नावल्यामप्युक्तम्-- "तीर्थश्राद्धेऽग्नौकरणमपि न" इति ।
प्रयोगपारिजाते तु--अर्घ्यमावाहनं चैवेत्यस्मिन्वाक्ये पञ्चानामेव निषेधेनाग्नौकरणस्यानिषेधात्तीर्थश्राद्धेऽग्नौकरणं कार्यमेवेत्युक्तम् । यदा तीर्थसमीपे कुशवटुषु श्राद्धं क्रियते तदा तीर्थजल एव होमः । अन्यथा तु पाणावेवेत्यपि तत्रोक्तम् । तीर्थश्राद्धेऽग्नौकरणपक्षेऽग्नावेव होमो न जल इति शिष्टाः ।
पिण्डद्रव्यमुक्तं पाने--
"तीर्थे श्राद्धं प्रकुर्वीत पक्वान्नेन विशेषतः । |
देवीपुराणब्राह्मयोः--
"सक्तुभिः पिण्डदानं च संयावैः पायसेन वा । |
"न चात्र श्येनकाकादीन्पक्षिणः प्रतिषेधयेत् । |
भविष्ये--
"देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः । |
ब्राह्मणपरीक्षानिषेधोऽत्रोक्तो मरीचिना--
"न ब्राह्मणान्परीक्षेत तीर्थश्राद्धे सदा बुधः" इति ॥ |
तत्र पिण्डास्तु जल एव प्रक्षेप्याः ।
"तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः । |
इतिवचनादिति प्रघट्टके । एतच्चाधिमासेऽपि कार्यम् ।
"मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च" इति चन्द्रिकोक्तेः । |
तीर्थयात्रार्थं गच्छन्गमनारम्भे यात्रोत्तरं गृहप्रवेशे च श्राद्धं कुर्यात् ।
तदुक्तं स्मृत्यन्तरे--
"गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा । |
अत्र सर्पिषेति सर्पिग्रहणात्सर्पिष एव प्राधान्यम् । अन्नभक्ष्यादिकं तु व्यञ्जनार्थत्वेनेति विशेषः ।
एतच्च पारणादिन एव ।
"उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च । |
वायवीये--
"उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । |
श्राद्धशेषस्य भोजनं घृतस्य भोजनम् । तच्च क्रोशमध्य एव । श्राद्धोत्तरं क्रोशाधिकगमननिषेधात् । गयायामेवैतन्नान्यत्रेति केचित् । हेमाद्रिस्तु--गयायां श्राद्धदिन एव प्रस्थानं, तीर्थान्तरे तु श्राद्धोत्तरदिन इत्याह । यात्रामध्य आशौचे रजसि वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत् । मार्गवैषम्ये त्वदोषः । यात्रां गच्छता मध्ये तीर्थान्तरप्राप्तौ श्राद्धादि कार्यमेव । यो हि वाणिज्याद्यर्थं गच्छति तेन मुण्डनोपवासादि न कार्यमिति प्रयागसेतौ । तत्रापि मुण्डनोपवासश्राद्धादि कार्यमेवेति युक्तम् ।
"अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति" इति ब्राह्मोक्तेः । |
काशीखण्डादिषु--
"अकालेऽप्यथवा काले तीर्थे श्राद्धं च तर्पणम् । |
मात्स्ये पितॄणां तर्पणमिति तुर्यः पादः । तत्र देवता महालयनिर्णये प्रागुक्ताः ।
शङ्खदेवलौ-- "तीर्थद्रव्योपपत्तौ च न कालमवधारयेत् । सत्पात्रब्राह्मणं प्राप्य सद्यः श्राद्धं समाचरेत्" इति ॥
हारीतः--
"दिवा वा यदि वा रात्रौ भुङ्क्ते चोपोषितोऽपि वा । |
भारते--
"भुक्तो वाऽप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा । |
एतदाशौचेऽपि कार्यम् ।
"विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि । |
तदानीमकरणे त्वाशौचान्त एव कुर्यात् । प्रभासखण्डे--
"न वारो न च नक्षत्रं न कालस्तत्र कारणम् । |
एतच्च मलमासेऽपि कार्यम् ।
"नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे । |
एतच्चाशौचे कृतभोजनस्य रात्रौ वा स्नानश्राद्धादिकमाकस्मिकतीर्थप्राप्तावामहेमश्राद्धविषयं ग्रहणादिवत् । न तु बुद्धिपूर्वमाशौचादौ तीर्थप्राप्तिः कार्या । मलमासे तु मासद्वये तीर्थश्राद्धं कार्यमिति चन्द्रिकायाम् ।
जीवत्पितृकेणाप्येतत्कार्यम् ।
"महानदीषु सर्वासु तीर्थेषु च गयामृते । |
गयामृत इति मातृव्यतिरिक्तविषयम् । आन्वष्टक्यगयाप्राप्तावित्यनन्तरोदाहृतपरिशिष्टवचनात् । गयाप्राप्तौ प्रासङ्गिकम् ।
"गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्" इतिवचनात् । |
तेन मृतमातृको गयायां तत्पार्वणमात्रं कुर्यात् । तच्च फल्गुविष्णुपदाक्षय्यवटेष्विति केचित् । आद्यान्त्ये एत्येवेत्यन्ये । मध्यमान्त्ये इत्यपरे । संकोचे प्रमाणाभावात्तत्र तु श्राद्धानि सर्वाणि कार्याणीति युक्तमिति सिन्धौ । तीर्थश्राद्धादि विधवयाऽपुत्रया कार्यं न सपुत्रया ।
"सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन" इति स्मृतेः । |
अनुपनीतेनापि कार्यम् ।
"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु" । |
इतिप्राप्ततीर्थश्राद्धमुपक्रम्योक्तेः । जीवत्पित्राऽपि कर्तव्यम् ।
"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे । |
श्राद्धविधिस्तु पूर्वोक्ततीर्थश्राद्धविधिवदिति ।
तथा कालविशेषेऽपि श्राद्धं कार्यमित्याह याज्ञवल्क्यः--
"अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । |
द्रव्यं पायसादि । ब्राह्मणो वक्ष्यमाणलक्षणः । तयोः संपत्ती इति द्विवचनान्तः पाठ इति केचित् । एकवचनान्तः पाठः । द्रव्यब्राह्मणसंपत्तिर्यस्मिन्काल इति बहुव्रीहिरिति माधवस्मृतिचन्द्रिकाकारौ । द्रव्यमित्यसमस्तमिति विज्ञानेश्वरः ।
तथाऽन्यत्रापि--
"आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु । |
अयनद्वयं मकरकर्कसंक्रमौ । विषुवत्तुलामेषसंक्रमौ । सूर्यसंक्रम इत्यनेनैव सिद्धेऽत्र श्राद्धमशक्तेनापि सर्वथा कार्यमितिप्रदर्शनार्थमयनविषुवयोः पृथङ्निर्देशः । व्यतीपातो योगेषु प्रसिद्धः । तिथिनक्षत्रविशेषप्रयुक्तो वा ।
एतल्लक्षणं तु स्मृतिचन्द्रिकायां वृद्धमनुराह--
"श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः । |
"पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । |
पञ्चाननः सिंहः । पाशाभिधाना द्वादशी । करभं हस्तः ।
गजच्छाया त्वपरार्के वायुपुराणे--
"हंसे हंसस्थिते या तु मघा शुक्ला त्रयोदशी । |
- तथा--
"हंसे हंसस्थिते या तु अमावास्या करान्विता । |
हंसः सूर्यः । तद्दैवतत्वाद्धस्तनक्षत्रमपि । चन्द्रसूर्ययोर्हस्तस्थयोरिति फलितोऽर्थ इति हेमाद्रौ ।
स्कान्दे--
"यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । |
इन्दुश्चन्द्रः । पितृदैवत्यं मघाः । हंसः सूर्यः । करो हस्तः । वैवस्वती तिथिस्त्रयोदशी । याम्या तिथिर्भवेत्सा हीत्यपि क्वचित्पाठः । याम्या तिथिस्त्रयोदश्येव हस्तिच्छायेति स्मृतिचन्द्रिकायाम् । 'एतद्ध्येव पि[८२]तृणामयनं यद्धस्तिश्राद्धं तस्माच्छायायां श्राद्धं दद्यात्' इति पाठकोक्तेः । गजच्छायासु कुर्वीत कर्णव्यजनवीजित इति भारतोक्तेश्च ।
"परमान्नं तु यो दद्यात्पितॄणां मधुना सह । |
इति विश्वामित्रोक्तं वा ग्राह्यम् । मन्वन्तरादयो युगादयश्चानध्यायप्रकरण उक्ताः । शुक्लपक्षे पूर्वाह्णव्यापिनी तिथिः कृष्णपक्षे त्वपराह्णव्यापिनीति हेमाद्रिः । कालादर्शे तु--अविशेषेणापराह्णव्यापिन्येव तिथिः । अपराह्णः पितॄणामितिवचनादित्युक्तम् । एतच्चाधिमासेऽपि कार्यम् । मन्वादिकं तैर्थिकं चेत्युदाहृतवचनात् । अपरार्के मात्स्ये--
"अयनद्वितये चैव विषुवद्द्वितये तथा । |
अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने--
"त्वं भुवः प्रतिमन्त्रं च शतवारं जले जपेत् । |
मन्वादिरित्युपलक्षणं युगादेः । षण्णवतिश्राद्धान्यपि नित्यानि ।
तेषां संग्रहः--
"अमा१ २मनु१ ४युग ४क्रान्ति१ २धृति१ ३पात १ ३महालयाः१६ । |
अथ क्षयाहाज्ञाने निर्णयः ।
तत्र मरीचिः--
"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । |
विशेषत इत्युक्तेः शुक्लैकादश्यामपि ।
बृहस्पतिः--
"न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति । |
मदनरत्ने भविष्ये--
"मृताहं यो न जानाति मानवो विनतात्मज । |
निर्णयामृते तु--
"यदा मासो न विज्ञातो विज्ञातं दिनमेव च । |
इति बृहस्पतिस्मृतावाषाढोऽप्युक्त इत्युक्तम् । कालादर्शेऽपि--
"मासाज्ञाने दिनज्ञाने कार्यमाषाढमाघयोः" इत्युक्तम् ॥ |
हेमाद्रौ प्रभासखण्डे--
"मृताहं यो न जानाति मासं वाऽपि कथंचन । |
भविष्ये तु--"मृतवार्ताश्रुतेर्ग्राह्यौ तौ पूर्वोक्तक्रमेण तु" इत्युक्तम् ॥
पूर्वोक्तेति प्रस्थानदिनाज्ञाने मासज्ञाने च तद्दर्शे मासाज्ञाने दिनज्ञाने च मार्गशीर्षादावितिवच्छ्रवणदिनमपि ज्ञेयमित्यर्थः । श्रवणदिनमासाज्ञाने माघमार्गशीर्षदर्शे कार्यम् । अनन्तरोदाहृतप्रभासखण्डात् ।
इति क्षयाहाज्ञाने निर्णयः ।
अथ पिण्डप्रमाणम् ।
हेमाद्रावङ्गिराः--
"कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः । |
तत्रैव यमः--
"कपित्थस्य प्रमाणेन पिण्डान्दद्यात्समाहितः । |
- संग्रहे--
"एकोद्दिष्टे सपिण्डे च कपित्थं तु विधीयते । |
कलिकायां स्मृत्यन्तरे--
"यत्र स्युर्बहवः पिण्डास्तत्र बिल्वफलोपमाः । |
अथ पिण्डदाननिषिद्धकालः ।
तत्र बृहत्पराशरपुलस्त्यौ--
"युगादिषु मघायां च विषुवेऽप्ययनेऽथवा । |
कालादर्श स्मृतिसंग्रहेऽपि--
"विषुवायनसंक्रान्तिमघासु च युगादिषु । |
मात्स्ये--
"अयनद्वितये श्राद्धं विषुवद्द्वितये तथा । |
अत्र संक्रातिष्वित्यनेनैवायनविषुवलाभे पुनस्तदभिधानं तत्कालकृतस्य पिण्डदानस्यातिनिन्दितत्वद्योतनार्थमिति हेमाद्र्यादयः ।
ब्रह्मपुराणे--
"यदा च श्रोत्रियोऽभ्येति गृहं वेदविदग्निवित् । |
विषुवतो विषुवच्छ्राद्धादुत्तमं श्रेष्ठं श्रोत्रियागमननिमित्तकमपि श्राद्धम् । विषुवच्छ्राद्धादुत्तममित्युक्त्येदमप्यपिण्डकं भवितुमर्हतीति हेमाद्रिः । मघायुक्तां भाद्रपदापरपक्षत्रयोदशीमधिकृत्य देवीपुराणे--
"तत्रापि महती पूजा कर्तव्या पितृदैवते । |
तत्रापि भाद्रपदापरपक्षत्रयोदश्यामपि पितृदैवत ऋक्षे मघानक्षत्रे जाते सति महती श्राद्धलक्षणा पितृपूजा कर्तव्या । स तु कर्ता ज्येष्ठपुत्रवाञ्जीवत्प्रथमपुत्रश्चेद्भवेत्तर्हि तत्र श्राद्धं कुर्वन्पिण्डदानं वर्जयेत् । पिण्डरहितं श्राद्धं कुर्यादित्यर्थः । ज्येष्ठपुत्रीत्यनेन मघाकालिकस्य त्रयोदशीकालिकस्योभयसमवायकालिकस्य च पिण्डदानस्य ज्येष्ठपुत्रविनाशकत्वलक्षणो दोषः सूचितः ।
तत्र महाभारतम्--
"संक्रान्तावुपवासेन पारणेन च भारत । |
कृत्यरत्ने गार्ग्यः--
"पौर्णमासीषु सर्वासु निषिद्धं पिण्डपातनम् । |
अस्य समूलत्वं विमृश्यम् ।
"संक्रान्तावुपरागे च पर्वोत्सवमहालये । |
इति प्रजापतिवाक्यं तु माधवादिभिरलिखनान्निर्मूलम् । समूलत्वेऽपि न पिण्डदानविधायकं, किंत्वशक्तस्यैकपार्वणश्राद्धविधायकत्वेनोपपादनीयम् ।
स्मृतिरत्नावल्याम्--
"पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । |
संग्रहे--
"नन्दाश्वकामरव्यारभृग्वग्निपितृकालभे । |
नन्दाः प्रतिपत्षष्ठ्येकादश्यः । अश्वः सप्तमी । कामस्त्रयोदशी । आरो भौमः । भृगुः शुक्रः । अग्निपितृकालभानि कृत्तिकामघाभरण्यः । पातो व्यतीपातः ।
नारदः--
"कृत्तिकासु च नन्दासु भृगुवारे त्रिजन्मसु । |
त्रिजन्मानि जन्मनक्षत्रं दशमैकोनविंशे च नक्षत्रे
यत्तु--"कर्तुश्च पुत्रदाराणां त्रिजन्मर्क्षाणि वर्जयेत्" । इति तत्र मूलं चिन्त्यम् । स्मृतिरत्नावल्यां स्मृत्यन्तरे--
"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च । |
वसिष्ठः--
"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । |
नारदः--
"त्रिजन्मसु त्रिपादेषु नन्दासु भृगुवासरे । |
कृत्तिकापुनर्वसूत्तरा(र)फल्गुनीविशाखोत्तराषाढापूर्वा (र्व)भाद्रपदास्त्रिपादनक्षत्राणि । धातृनक्षत्रं रोहिणी । पौष्णं रेवती ।
वृद्धगार्ग्यः--
"प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा । |
प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रर्क्षं मघाः । अत्र सर्वेऽपि श्राद्धशब्दाः पिण्डदानपराः । अन्यथा विधिवैयर्थ्यापत्तेः । योऽयं च तिथिवारनक्षत्रनिषेधः स तत्तत्प्रयुक्तश्राद्धेष्वेव बोध्यः । न तु तत्र पतितेषु नित्येषु ।
अत एवोक्तं विश्वरूपनिबन्धे--
"तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः । |
अत्र तिथिवारग्रहणं नक्षत्रोपलक्षणम् ।
अत्रापवादः प्रयोगपारिजाते हेमाद्रौ च--
"अमापाते भरण्यां च द्वादश्यां पक्षमध्यगे । |
इदं निषेधतत्प्रतिप्रसवपर्यालोचनं महालयपक्षान्तर्गततिथौ सकृन्महालयासंभवेन यदा तिथ्यन्तरेऽनुष्ठानं तदैव । महालयान्तर्गतमृततिथौ सकृन्महालयानुष्ठानं मुख्यं तत्र न निषेधः ।
"अशक्तः पक्षमध्ये तु करोत्येकदिने यदि । |
अत एव निषेधप्रयोजकनक्षत्रादियुक्तायामपि तिथौ सकलदेशीयशिष्टानामनुष्ठानम् ।
अत्रिः--
"महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि । |
अथान्वारोहणे निर्णयः ।
तत्र लौगाक्षिः--
"मृताहनि समासेन पिण्डनिर्वपणं पृथक् । |
अस्यार्थः---अन्वारोहणेन सहगमनेन निमित्तेन दंपत्योर्मृततिथेरेकत्वे पिण्डनिर्वपणं श्राद्धं समासेन तन्त्रेण । यथा द्विपितृकश्राद्धे द्वयोरेकः पिण्डो विप्रश्च, एवमत्रापि द्वावुद्दिश्यायुग्मब्राह्मणभोजनं पिण्डनिर्वपणमपि द्वावुद्दिश्य । एवमेकदैव श्राद्धद्वयकरणात्समासः । अत्र वैश्वदेविकमपि आरादुपकारकत्वात्तन्त्रेणैव । मृततिथेर्भेदे तु न समासेन श्राद्धं किं तु पृथगेव । वार्षिके समासविधानादन्यत्र सर्वत्र पृथक्त्वे प्राप्ते नवश्राद्धमेव पृथगिति परिसंख्ययाऽन्यत्र पृथगुक्तेष्वपि वार्षिकषोडशश्राद्धतीर्थसपिण्डनान्वष्टक्यादिषु समास एव । समासविधिबलादेव ज्येष्ठपुत्रस्य कर्तृत्वे सपत्नमातुरन्वारोहणे तत्पुत्रे सत्यपि तद्वार्षिकादिकमविभक्तः सापत्नपुत्र एव ज्येष्ठः कुर्यान्नौरसः । वक्ष्यमाणपृथ्वीचन्द्रादिमते तु--औरस एव मातुः पृथक्कुर्यादिति । एवं बह्वीष्वपि मातृषु ज्ञेयम् ।
यत्तु गार्ग्यः--
"एकचित्यां समारूढौ दंपती निधनं गतौ । |
इति, अत्रत्यश्राद्धशब्दस्य ब्राह्मणभोजनपिण्डदानरूपप्रधानवाचित्वात्तन्मात्रपृथक्त्वोक्त्याऽन्येषामारादुपकारकाङ्गानां(णां) तन्त्रत्वे प्रसिद्ध ओदनस्याप्यारादुपकारकाङ्गत्वात्तन्त्रत्वं सिध्येत्तन्मा भूदित्येतदर्थमोदनस्य पार्थक्यं विधीयते । एकः पृथक्शब्दस्तिथिभेदबोधकः । एतन्नवश्राद्धविषयम् ।
यत्तु भृगुः--
"या समारोहणं कुर्याद्भर्तुश्चित्यां पतिव्रता । |
इति, तद्येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयम् । नवश्राद्धं युगपदिति दर्शे वर्गद्वयवदेकतन्त्रेण न पृथगित्यर्थमाह हेमाद्रिः । एतन्मृततिथेर्भेदविषयमिति पृथ्वीचन्द्रोदयदेवयाज्ञिकनिर्णयामृताद्याः । पराशरमाधवस्तु--गार्ग्यभृगुवचनाभ्यां लौगाक्षिवाक्ये समासवचनेन पाकादितन्त्रै[८३]क्यविधानाद्दर्शे वर्गद्वयवत्पृथक्श्राद्धं कुर्यान्नवश्राद्धं च तथेत्याह । पृथ्वीचन्द्रोदयस्तु--द्वयोरेकपिण्डदानं लौगाक्षिवचनसिद्धमापद्विषयं पृथक्पिण्डदानं तु मुख्यः कल्पः । तदाह वृद्धपराशरः--
"आरुह्य भर्तुश्चितिमङ्गना या प्राप्नोति मृत्युं खलु सत्त्वयुक्ता । |
भर्त्रा सह मृता या तु नाकलोकमभीप्सती । |
विश्वादर्शेऽपि--
"मातुर्गयाष्टकावृद्धिमृताहेषु महालये । |
इत्यत्रिस्मृतरित्याहुः(ह) ।
यत्तु षड्त्रिंशन्मते--
"एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके । |
इति, तद्दर्शादिपरम् ।
चन्द्रप्रकाशे तु--
"एकचित्यां समारूढौ दंपती प्रमृतौ यदि । |
सहगमने सर्वत्र श्राद्धार्थमेकः पाक इत्याह मदनरत्ने प्रचेताः--
"एकचित्यां समारूढौ म्रियेते दंपती यदि । |
एतत्सर्वं तिथिभेदविषयम् ।
तिथ्यैक्ये तु--
"एकचित्यधिरोहे तु तिथिरेकैव जायते । |
वार्षिकं तु तिथिभेदे पृथगेवेति निर्णीतं प्राक् । अत्र भर्तुराशौचमध्येऽन्य दिनेऽनुगमने पतिमरणदिनगणनयाऽऽशौचपिण्डदाने । एकादशाहादिकार्यं भिन्नं, नात्र पक्षिणीवृद्धिः ।
"मृतं पतिमनुव्रज्य पत्नी चेदनलं गता । |
भर्त्राशौचोत्तरमन्वारोहणे तु त्र्यहमाशौचम् ।
"ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी । |
इति ब्राह्मोक्तेरिति पृथ्वीचन्द्रापरार्कौ । एतदन्यारोहण एव न त्वेकचितावित्यन्ये । एतदसवर्णापरमित्यपरं । ऋग्वेदवाद इमा नारीरविधवा इत्यादिः । स्मार्तगौडास्तु-- देशान्तरमृते पत्यौ साध्वी तत्पादकाद्वयम्" इत्युपक्रम्य ब्राह्मे त्र्यहाशौचे तु निर्वृत्तेरित्युक्तेर्भर्त्राशौचोत्तरमन्वारोहणे त्र्यहम् । सहगमने तु पूर्णदशाहादि ।
पिण्डास्तु दशापि सहैव ।
"संस्थिते पतिमालिङ्ग्य प्रविशेद्या हुताशनम् । |
पृथक्चितौ तु भर्त्राशौचमध्ये तदूर्ध्वं वा सत्यां त्र्यहेण दश पिण्डाः ।
"अन्वितायाः प्रदातव्या दश पिण्डास्त्र्यहेण तु । |
भर्त्राशौचोत्तरं मृतौ तु चतुर्थेऽह्नि श्राद्धम् । युद्धहतस्य सद्यःशौचे त्वन्वारोहणे त्रिरात्रम् । एकचितौ तु संस्थितं पतिमिति प्रागुक्तव्यासोक्तेः सद्यः--शौचमित्याहुः । अन्यसपिण्डाशौचमध्ये विदेशमृतान्वारोहणं स्वशक्यमेव शुचिताया अङ्गत्वादिति । अत्र विशेषो हेमाद्रौ स्मृत्यन्तरे--
"माता मङ्गलसूत्रेण म्रियते यदि तद्दिने । |
अथ श्राद्धसंपाते निर्णयः ।
तत्र भृगुः--
"एककाले गतासूनां बहूनामथवा द्वयोः । |
यदा पितृमातृभ्रात्राद्यनेकसांवत्सरिकाणां युगपत्संनिपातस्तदा पितुः श्राद्धं ततो मातुस्ततश्चान्येषामिति प्रधानोपसर्जनतरतमभावेन सांवत्सरिकं कुर्यादित्यर्थः । पूर्वकस्य संबन्धासन्नस्य द्वितीयस्य ततो दूरसंबन्धस्य तृतीयस्य ततोऽपि दूरतरस्येत्येवं संबन्धानुसारेण क्रमेण सर्वेषामेषां सांवत्सरिकश्राद्धं कुर्यादित्यर्थः । ऋष्यशृङ्गेणाप्ययमेवार्थ उक्तः--
"भवेद्यदि सपिण्डानां युगपन्मरणं तदा । |
एतच्च श्राद्धं तेषामपुत्रत्वे ।
अत्रिः--
"बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि । |
कार्ष्णाजिनिः--
"पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा । |
अत्र पितृपूर्वमित्यनेन मातुः पूर्वं मरणेऽपि पितृश्राद्धं पूर्वं पश्चान्मातुः श्राद्धमित्युच्यते । विप्रकृष्टस्य पूर्वं मरणे संनिकृष्टस्य पश्चान्मरणेऽपि संनिकृष्टस्याऽऽदौ पश्चाद्विप्रकृष्टस्येति पूर्वोक्तार्थकं ज्ञेयम् ।
पार्वणैकोद्दिष्टयोर्युगपत्प्राप्तावाह जाबालिः--
"यद्येकत्र भवेयातामेकोद्दिष्टं च पार्वणम् । |
अत्रैकोद्दिष्टमभिनिर्वर्त्य पार्वणं समाचरेदित्यन्वयो युक्तः । क्रमानुरोधेन कालबाधस्य सिद्धान्तविरुद्धत्वात् । यत्रैकेन पाकेनानेकश्राद्धानुज्ञा तत्र दर्शादौ पितृश्राद्धमातामहश्राद्धवत्तन्त्रेणैवानुष्ठानमुक्तं गारुडे--
"एकेनैव तु पाकेन श्राद्धानि कुरुतेऽत्र हि । |
एवं च यदाऽनेकोद्देश्यकानामपि श्राद्धानां कालैक्ये तन्त्रेणानुष्ठानं तदा किं वक्तव्यमेकस्मिन्कालेऽनेकनिमित्तसमवाय एकोद्देश्यकश्राद्धानां तन्त्रेणानु ष्ठाने । यत्तु 'नैकस्मिन्क्रियमाणे तु नाना कर्म समाचरेत्' इति हेमाद्रौ वचनं तत्सहैवानुष्ठाननिषेधकं न तु तन्त्रस्येति बोध्यम् । अत एव हेमाद्रिणाऽमावास्यानिमित्तकं संक्रान्तिनिमित्तकं युगादिनिमित्तकं चेत्येतानि श्राद्धानि तन्त्रेण करिष्य इत्येतादृशं संकल्पवाक्यमुक्तम् । प्रसङ्गे तु महातन्त्रवतोऽमाश्राद्धादेरेवोल्लेखो न प्रसङ्गिनः संक्रान्त्यादिश्राद्धस्य । वस्तुतस्तु अमाश्राद्धे विशेषग्रहणात्प्रसङ्ग एवोचितः । जाबालिवचनमप्यत्रास्ति--
"श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तद्दिने । |
कात्यायनवचनमपि--
"द्वे बहूनि निमित्तानि जायेरन्नेकवासरे । |
नैकः श्राद्धद्वयं कुर्यादिति निषेधस्तु श्राद्धं कृत्वा तु तस्यैवेत्येकवाक्यतयैकोद्देश्यकैककालिकैककर्तृकश्राद्धस्यैव पुनःप्रयोगनिषेधकमिति न तद्विरोधोऽपि । अत एव हेमाद्रिणोक्तम्--उदाहृतनिषेधस्तु श्रद्धाजडारभ्यमाणैकनिमित्तकश्राद्धावृत्तिविषय इत्युक्तम्(इति) । यत्तु त्रिप्रायमेके श्राद्धमुपदिशन्तीति धर्मसूत्रवचनं [ तत् ] श्राद्धं श्राद्धसंबन्धि यावदङ्गजातं त्रिवारं कर्तव्यं न तु स्वातन्त्र्येण सर्वं श्राद्धं त्रिवारं कर्तव्यमित्येतदभिप्रायेणैव नेयं विरोधपरिहाराय ।
कालादर्शे--
"नित्यस्य चोदकुम्भस्य नित्यमासिकयोरपि । |
अत्र नित्यदर्शयुगादिमन्वाद्यलभ्ययोगश्राद्धेषु सपत्नीकाः पितरो देवताः । उदकुम्भमासिकाब्दिकेषु त्वपत्नीका इति देवताभेद इत्याशयः । यत्र त्वान्वष्टक्यादौ नवदैवत्यविधानात्केवलानामेव पित्रादीनां देवतात्वं तत्राऽऽन्वष्टक्यादिना मासिकाब्दिकयोरपि प्रसङ्गसिद्धिः । एवं सपिण्डकश्राद्धेनापिण्डकस्य श्राद्धस्यापि प्रसङ्गसिद्धिः । देवतैक्ये क्वचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य प्रसङ्गतः सिद्धिर्भवति । तदप्युक्तं तत्रैव--
इतरस्याल्पतन्त्रस्यापि सिद्धेः, उत्तरं महातन्त्रमाचरेदित्यर्थः ।
स्मृतिसंग्रहे--"काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति" इति ।
दर्शे वार्षिकं चेत्तदा पूर्वं वार्षिकं कृत्वाऽनन्तरं पिण्डपितृयज्ञो दर्शश्राद्धं चेति क्रमः ।
"दर्शे क्षयाहे संप्राप्ते कथं कु[८६]र्वन्ति याज्ञिकाः । |
इति स्मृतिसारवचनादिति निर्णयप्रदीपे[८७] । केचित्तु--एतद्वचने मूलाभावात्, 'पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः' इति दर्शश्राद्धे पिण्डपितृयज्ञानन्तर्यस्याऽऽब्दिकेऽप्यतिदेशप्राप्तेः पिण्डपितृयज्ञानन्तरं वार्षिकं ततो दर्शश्राद्धमिति । निमित्तानियतिश्चात्र पूर्वानुष्ठानकारणमिति कालादर्शोक्तिरप्यत्रानुकूला । सर्वान्प्रत्यैकरूप्याभावात्क्षयाहनिमित्तस्यानियतत्वम् । ([८८] सांवत्सरिकमहालयदर्शानां संपातेऽल्पत्वान्निमित्तानियतत्वादा(च्चाऽऽ)दौ मध्याह्न एव सांवत्सरिकं श्राद्धं कृत्वा ब्राह्मणविस्तारवर्जं महालयं कृत्वा पिण्डपितृयज्ञं कृत्वा दर्शश्राद्धं कुर्यात् । सांवत्सरिकात्पूर्वं पिण्डपितृयज्ञ इति मतं(ते) तदनुसारेण पूर्वं कार्यः । अत्र सर्वश्राद्धपाकभेदः केवलौदनमात्रभेदो वा । दर्शश्राद्धमत्र सांकल्पविधिनैव कार्यमन्यथाऽपराह्णे कर्मचतुष्टयासंभवात् । मासिकश्राद्धस्य दर्शश्राद्धाभे(द्भे)दस्य साधितत्वात्तस्यापि सर्वामावास्यास्वनुष्ठाने पिण्डपितृयज्ञेन सह चतुर्णां श्राद्धानामनुष्ठानासंभवात्सांवत्सरिकस्य दर्शस्य च सांकल्पविधिनैवानुष्ठानम् । ) एवं मासिकादिष्वपि ज्ञेयम् ।
"प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि" । |
अथ सामान्यतः श्राद्धतिथिनिर्णयः ।
"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् । |
इतिवचनात्त्रिपुरुषोद्देश्यकं श्राद्धं यस्यां तिथौ विहितं सा चेद्दिनद्वयसंबन्धिनी तदा याऽपराह्णसंबन्धिनी सा ग्राह्या ।
तथा च हेमाद्रौ निगमः--
"पूर्वाह्णिकास्तु तिथयो देवकार्ये फलप्रदाः । |
यदा तु दिनद्वयेऽप्यपराह्णसंबन्धिनी तदा पूर्वा ।
तदाह तत्रैव मनुः--
"यस्यामस्तं विनिर्याति पितरस्तामुपासते । |
यस्यामपराह्णसंबन्धे सत्यस्तमयानुवृत्तिः सा पितृकार्ये प्रशस्ता न त्वनस्तमयसंबन्धिनीत्यर्थः ।
अत एवाऽऽह हारीतः--
"अपराह्णः पितॄणां तु याऽपराह्णानुयायिनी । |
यदा दिनद्वयेऽप्यपराह्णसंबन्धो नास्ति तदा पूर्वैव ।
तदुक्तं तत्रैव नारदीये--
"तिथेः प्रान्तं सुराख्यं हि उपोष्यं कवयो विदुः । |
गोभिलोऽपि--"सायाह्नव्यापिनी या तु पार्वणे सा उदात्दृता" इति ।
ननु 'सायाह्नस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः' इति सायाह्नस्य निषेधादपराह्णे तु निमित्तभूततिथ्यभावेऽपि तत्रानुष्ठाने 'कर्मणो यस्य यः कालः' इति वचनविरोध इति चेन्न । 'विधिः पूज्यतिथौ तत्र निषेधः कालमात्रकः' इति वचनाद्वचनान्तरबोधितपूज्याया एव तिथेः कर्मकाले ज्योतिःशास्त्रप्रसिद्धत्वाभावेऽपि साकल्यवचनबोधिततिथिसत्त्वमादायैव कर्मकालव्याप्तिशास्त्रप्रवृत्तेः । अत एव 'पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते' इत्यादिवचनानां सार्थक्यम् ।
"तिथ्यादिषु भवेद्यावान्ह्रासो वृद्धिः परेऽहनि । |
इति वचनादधिककालकल्पनयाऽपराह्णेऽपि निमित्तभूततिथिसंभवादि[९०] सिद्धान्तयतां हेमाद्र्यादीनामुक्तार्थ एव स्वारस्याच्च । इदं च तिथिक्षये । तिथिवृद्धौ तिथिसाम्ये चोत्तरा ग्राह्या ।
तथा च व्या[९१]घ्रः--
"खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । |
खर्वः साम्यम् । दर्पो वृद्धिः । हिंसा क्षयः । उभयत्र साम्येनैकदेशव्याप्तावप्येवमेव । यदा तु वैषम्येणोभयत्रैकदेशव्याप्तिस्तदा यत्राधिककालव्यापिनी सैव ग्राह्येति । एकोद्दिष्टश्राद्धे तु मध्याह्नव्यापिनी तिथिर्ग्राह्या ।
तथा च वृद्धगौतमः--
"मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् । |
हारीतः--
"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः । |
मनुः--
"पूर्वाह्णे दैविकं श्राद्धमपराह्णे तु पार्वणम् । |
दैविकं श्राद्धं हेमाद्रौ पा[९२]राशरः--
"देवानुद्दिश्य क्रियते यत्तद्दैविकमुच्यते । |
अत्र कर्मणो यस्य यः काल इति वचनात्कर्मकालव्यापिनी तिथिर्ग्राह्या ।
इति सामान्यतः श्राद्धतिथिनिर्णयः ।
अथ दर्शश्राद्धतिथिनिर्णयः ।
तत्र शातातपः[९३]--
"दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् । |
अत्र विशेषमाह कात्यायनः--
"पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । |
राजनि चन्द्रे क्षीणे । त्रेधाविभक्तदिनतृतीयभागेऽपराह्ण इति हेमाद्रिः । सायाह्नात्प्राचीनोऽपराह्ण एवाभिप्रेतः । ईषन्न्यूनोऽपराह्णः सायाह्नसहितस्तृती यांश इत्यनेनोच्यते । तत्र नातिसंध्यासमीपत इत्यनेन 'सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत्' इति यमवचनेन त्रिमुहूर्तात्मकस्य सायाह्नकालस्य श्राद्धकालत्वेन प्रतिषिद्धस्यैव निषेधः । तेनार्थात्तृतीर्येऽश इत्यस्यैकादशद्वादशमुहूर्तयोस्तत्कालत्वं सिद्धं भवति ।
तत्रोपक्रमकालेऽमावास्याया अप्रवृत्तावपि--
"यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः । |
इति साकल्यप्रयुक्ततत्सत्त्वमादायाप्यनुष्ठानम् ।
एतदभिप्रायेणैव कात्यायन आह--
"यदा चतुर्दशी यामं तुरीयमनुपूरयेत् । |
दिनद्वयेऽपराह्णाव्यापित्वे निरग्निकानामुत्तरा साग्निकानां पूर्वा ।
तथा च जाबालिः-- "अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता" इति ॥
दिनद्वयेऽपराह्णव्यापित्वे शिवराघवसंवादे--
"अमावास्या तु या हि स्यादपराह्णद्वये समा । |
अनेन वचनेन द्वितीयापराह्णस्पर्शेऽपि तिथिक्षयेऽपि च निरग्न्यादीनामुत्तरस्या एव नियमनात्तिथेः साम्ये वृद्धौ चोत्तराग्रहणमर्थसिद्धम् ।
उक्तं च लौगाक्षिणाऽपि--
"सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि । |
व्यासेनाप्युक्तम्--
"दृष्टचन्द्रा सिनीवाली कार्या विप्रैस्तु साग्निकैः । |
बौधायनेनाप्युक्तम्--
"सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि । |
यानि तु--
"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । |
मध्याह्नाद्या त्वमावास्या परस्तात्संप्रवर्तते । |
इति हेमाद्रौ कार्ष्णाजिनिबौधायनवचनानि "भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम्" इत्येकवाक्यतयाऽपराह्णे चतुर्दशीनिषेधकानि, तान्याहिताग्निभिन्नविषयाण्युदाहृतवचनविरोधात् ।
"अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । |
इति माधवाद्युदाहृतजाबालिवचनेनापराह्ण(ह्णा)स्पर्शेऽपि साग्निकानां चतुर्दशीविद्धाया अपि सिनीवाल्या एव नियमनाच्च । क्वचित्तु अपराह्णद्वयव्यापीतिपाठः स लेखकप्रमादात् । संपूर्णापराह्णव्यापित्वस्य वृद्ध्येकसाध्यत्वेन तिथिक्षय इत्यस्य हेतुत्वात्संगतेः । अत एव दिनद्वयेऽप्यपराह्णं न स्पृशति तदा साग्न्यनग्निव्यवस्थेति माधवः । एवं च साग्नीनां सिनीवाली निरग्नीनां कुहूरिति व्यवस्थया साग्निकानां तैत्तिरीयाणामपि सिनीवालीग्रहणे प्राप्ते तैत्तिरीयविषयेऽपवादमाह हारीतः--
"त्रिमुहूर्ताऽपि कर्तव्या पूर्वा खर्वाऽपि बह्वृचैः । |
अध्वर्युशब्दस्तैत्तिरीयपरः ।
"सिनीवालीमुपोष्याथ कृत्वेष्टिं चापरेऽहनि । |
इति स्मृत्यन्तरवचनेन तैत्तिरीय उपसंहारात् ।
"बह्वृचैः प्रथमा कार्या तैत्तिरीयैस्तु या कुहूः । |
इति स्मृत्यन्तरवचनसंवादाच्च ।
"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् । |
इति वचनमपि तैत्तिरीयातिरिक्तपरमेव । निरग्नीनां सर्वत्र भूतविद्धानिषेधे प्राप्तेऽभ्यनुज्ञामाह हेमाद्रिमाधवयोर्जाबालिः--
"प्रतिपत्स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि । |
प्रतिपदि यामद्वयपरिमितेत्यर्थः ।
"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । |
इति हेमाद्र्युदाहृतमात्स्योक्तकुतपापर्धपर्यन्तेति यावत् । अत एव हेमाद्रिमाधवयोर्बौधायनेन
"घटिकैकाऽप्यमावास्या प्रतिपत्सु न चेत्तदा । |
इति कुतपोत्तरार्धव्यापित्वाभाव एव भूतविद्धा विहिता । अत एव निरग्निकानां कुतपव्याप्त्यैव निर्णयमाह हेमाद्रिमाधवयोर्हारीतः--
"भूतविद्धाऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा । |
दिनद्वयेऽपि कुतपकालव्याप्तौ क्षये पूर्वा वृद्धिसाम्ययोः परा ।
तदाह हेमाद्रौ प्रचेताः--
"सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि । |
कात्यायनोऽपि--
"क्षीयमाणाममावास्यां प्रथमेऽहनि लक्षयेत् । |
यदैकादशघटिकानन्तरं प्रवृत्ता चतुर्दशी द्वितीयदिने चतुर्दशघटिकापरिमिता तदनन्तरं प्रवृत्ताऽमावास्या प्रतिपदि षोडशघटिका भवति तदा त्रिषष्टिघटिकापरिमितचतुर्दश्यपेक्षया द्विषष्टिघटिकापरिमितामावास्यायाः क्षीयमाणत्वात्पूर्वा ग्राह्या । एवं तिथिप्रवृत्तिवैचित्र्यात्प्रकारान्तरेणापि चतुर्दश्यपेक्षयाऽमावास्याक्षयेऽपि बोध्यम् । यदा तु द्वादशघटिकानन्तरं प्रवृत्ता, उत्तरदिने चतुर्दशघटिका चतुर्दशी द्वितीयदिने षोडशघटिकाऽमावास्या तदा तिथिसाम्यम् । यदा तु पूर्वदिने चतुर्दशघटिकापेक्षया किंचिन्न्यूना चतुर्दशी द्वितीयदिने किंचिदधिकषोडशघटिकाऽमावास्या तदा तिथिवृद्धिः । एवं प्रकारान्तरेणापि वृद्धिसाम्ययोः कुहूरेवेत्यर्थः । कालादर्शे तु--स्यातां ते चेत्तु मध्याह्नादिति पाठः । तत्र ल्यब्लोपे पञ्चमीति मध्याह्नं व्याप्य स्यातामित्यर्थात्तत्राप्युक्त एवार्थः । द्वितीयदिने कुतपानन्तरममाया अभावात्कथं तत्र पार्वणश्राद्धानुष्ठानमिति शङ्कामपाकरोति हेमाद्रिमाधवयोर्हारीतः--
"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि । |
वचनापादिताया अमावास्यायाः सत्त्वात्तत्रैवानुष्ठानमिति तात्पर्यम् । अत एव मृताहतिथेर्विहिताया अपराह्णेऽसत्त्वेऽपि साकल्यवचनापादिततिथिसत्त्वादपराह्ण एव श्राद्धानुष्ठानमिति सांवत्सरिकश्राद्धप्रकरणे हेमाद्रिमाधवादिसिद्धान्तः संगच्छते ।
तस्मात्--
"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । |
इत्याद्युदाहृतकार्ष्ण्याजिन्यादिवचनैर्निरग्निकानां निषिद्धाया भूतविद्धायाः ।
"प्रतिपत्म्वप्यमावास्या पूर्वाह्णव्यापिनी यदि । |
इत्यादिजाबाल्यादिवचनैरुत्तरदिने कुतपोत्तराव्यापित्व एव पूर्वविद्धाभ्यनुज्ञानात्--"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि" इतिवचनाद्द्वैधाविभक्तदिनस्य कुतपोत्तरार्धादिरूपापराह्णव्यापिन्यमावास्या निरग्निकैः श्राद्धे ग्राह्येति सिद्धम् ।
"आहिताग्नेस्तु यो धर्मो गृह्याग्नेरपि स स्मृतः" |
इति वृद्धप्रवादाद्गृह्याग्निमतामप्ययमेवामावास्यानिर्णयः ।
इति दर्शश्राद्धतिथिनिर्णयः ।
अथ सांवत्सरिकश्राद्धतिथिनिर्णयः ।
तत्र या मुख्यापराह्णव्यापिनी पूर्वा परा वा सैव ग्राह्या ।
"अपराह्णव्यापिनी या पार्वणे सा तिथिर्भवेत्" । |
इति वृद्धगौतमवचनात् ।
मात्स्ये--
"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । |
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः । |
इति निषिद्धत्वात्कुतपमारभ्य मुहूर्तचतुष्टयं पार्वणस्य मुख्यः कालः । यदा दिनद्वये संपूर्णमुख्यापराह्णव्याप्तिस्तदा पूर्वैव ।
तदाह मनुः--
"यस्यामस्तं रविर्याति पितरस्तमुपासते । |
अत्रापराह्णशब्दोऽपराह्णैकदेशपर इति हेमाद्रिः ।
सुमन्तुरपि--
"द्व्यहे तु व्यापिनी चेत्स्यान्मृताहस्य तु या तिथिः । |
नारदीयेऽपि--
"दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् । |
यदा दिनद्वयेऽपि साम्येनैकदेशव्याप्तिस्तदा तिथिवृद्धावुत्तरा तिथिक्षये पूर्वा ।
तदाह बौधायनः--
"अपराह्णद्वयव्यापिन्यतीतस्य च या तिथिः । |
अत्र क्षयवृद्धी उत्तरतिथिगते ज्ञेये न ग्राह्यतिथिगते । दिनद्वये संपूर्णापराह्णादिव्याप्तेर्वृद्ध्यैकनियतत्वेन । तत्र क्षयोदाहरणम्-–यदा प्रतिपदष्टादशघटिका द्वितीया चतुर्विंशतिर्घटिका तृतीया द्वाविंशतिर्घटिका तदा द्वितीयाश्राद्धं प्रतिपदि कार्यम् । वृद्ध्युदाहरणं यदा प्रतिपद्द्वितीये यथास्थिते तृतीयाऽष्टाविंशतिघटिका तदा द्वितीयायां तदिति माधवादयः । अत्रेदं क्षयोदाहरणं ज्योतिःशास्त्रप्रसिद्ध्या न कदाचिदपि संभाव्यत इति वृद्धिक्षयौ पूर्वतिथ्यपेक्षया ग्राह्यातिथिगतौ ग्राह्याविति केचिन्नवीनाः । तिथिसाम्येऽपि पूर्वैव । यस्यामस्तमिति दर्शं च पौर्णमासं चेत्यनन्तरोदाहृतवचनद्वयात् । अत एव खर्वशास्त्रं तु क्षयाहविषयबहुवाक्यानुरोधात्तद्व्यतिरिक्तविषयमिति हेमाद्रिः संगच्छते । खर्वो दर्प इति क्षयाहव्यतिरिक्तश्राद्धतिथिविषयम् । द्व्यहे तु व्यापिनीत्याद्युदाहृतवचनविरोधादिति मदनरत्नश्च । वैषम्येणोभयापराह्णैकदेशव्याप्तौ तु यत्राधिकापराह्णव्याप्तिः सा ग्राह्या । तदाह माधवीये मरीचिः--
"द्व्यपराह्णव्यापिनी चेदाब्दिकस्य यदा तिथिः । |
"न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य यदा तिथिः । |
एकोद्दिष्टस्य तु मध्याह्नो मुख्यः कालः ।
"एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्" इतिवचनात् । |
अत्र मध्याह्नशब्देन मध्याह्नैकदेशः कुतपरौहिणाख्यमुहूर्तद्वयात्मको गृह्यते ।
अत एव श्लोकगौतमः--
"आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः । |
कुतपपूर्वभाग एवाऽऽरम्भः । तदाह व्यासः--
"कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् । |
तत्रैव कुतप एव । अत्रापि तिथिद्वैधे पार्वणतिथिवन्निर्णयो ज्ञेयः ।
इति क्षयाहैकोद्दिष्टतिथिनिर्णयः ।
अथाऽऽमश्राद्धकालः ।
तत्र मरीचिः--
"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः ॥ |
तत्रापि संगवकाले कर्तव्यम् ।
"कालात्प्रातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः । |
अयमेव कालो हिरण्यश्राद्धस्यापि । वृद्धिश्राद्धस्य निमित्तानि पारिजाते--
"स्यादाभ्युदयिकं श्राद्धं वृद्धिपूर्वेषु कर्मसु" इति । |
वृद्धिपूर्वशब्दार्थं स्वयमेव विवृणोति--
"पुंसः सवनसीमन्तचौलोपनयनेष्विह । |
आश्वलायनः--"युग्मान्वृद्धिपूर्तेष्वयुग्मानितरेषु" इति । पुंसवनसीमन्तोन्नयनचौलकर्मोपनयनविवाहा इति पञ्चाग्न्याधेयादीनि च श्रौतानि वृद्धिश्राद्धविषय इत्येके । अन्ये षोडश कर्मसंस्काराः श्रवणाकर्मादयश्च श्रौतानि चेत्याहुः ।
"अनिष्ट्वा तु पितॄञ्श्राद्धे वैदिकं कर्म नाऽऽचरेत्" इति स्मृतेः । |
वापीकूपतटाकारामाद्युद्यापनादीनि पूर्वश्राद्धस्य विषयः । उभय[त्र]युग्मान्भोजयेदिति । अत्राऽऽश्वलायनः स्मृतिरूपेणाऽऽह--
"कार्यमभ्युदयश्राद्धं श्रौते स्मार्ते च कर्मणि" इति । |
अन्यैरित्युक्तसंस्कारेभ्योऽन्येषु जातकर्मादिषु तदनावश्यकमितिज्ञापनार्थमिति कौस्तुभे । वृद्धिश्राद्धस्य कालस्तु "प्रातर्वृद्धिनिमित्तकम्" इत्यनेनोक्तो ज्ञेयः । अत्र प्रातःशब्दार्धो गार्ग्येणोक्तो वृद्धिश्राद्धं प्रकृत्य-- 'प्रहरोऽध्यर्धसंयुक्तः प्रातरित्यभिधीयते" इति ।
आधानाद्यङ्गभूतनान्दीश्राद्धं त्वपराह्णे ।
"नान्दीमुखाह्वयं प्रातराग्निकं त्वपराह्णतः" इति विष्णूक्तेः । |
एतस्माद्वचनात्पूर्वद्युरेव नान्दीश्राद्धानुष्ठानं युक्तम् । नान्दीश्राद्धपूर्वभावित्वात्पुण्याहवाचनमातृकापूजनयोरपि । द्वितीयदिनेऽनुष्ठीयमाने कर्मान्तःपातित्वं स्यात् । नहि श्रौतकर्ममध्ये स्मार्तानुष्ठानं युक्तम् । गणपतिपूजनं तूभयदिनेऽपि जातकर्मार्थनान्दीश्राद्धं तात्कालिकमेव ।
"पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् । |
आपस्तम्बसूत्रानुसारिणस्तु संभारस्पर्शोत्तरं नान्दीश्राद्धमाचरन्ति तदुपेक्ष्यमेव । इदं च केषांचित्कर्मणामावृत्तावपि प्रथमप्रयोग एव कर्तव्यं न प्रतिप्रयोगमित्याह च्छन्दोगपरिशिष्टे कात्यायनः--
"अमकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः । |
असकृत्पुनः पुनः प्रतिदिनं प्रतिमासं प्रत्यब्दं चेति यावत् । एता मातरः । अत्र प्रथमश्लोकोऽपराभ्यामाधानादीनां केषांचिदेव वाऽऽवृत्तावपि नान्दी श्राद्धं नाऽऽवर्तत इत्येतत्परतया व्यवस्थाप्यते । अत एवाऽऽपस्तम्बसूत्रानुसारियाज्ञिकानां विच्छिन्नाग्न्याधाने नान्दीश्राद्धाचारश्चिन्त्य इति नवीना आहुः । आधान इत्यादि श्लोकद्वयं पूर्वोक्तकर्मणामेव विवरणार्थं न पृथग्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोगं भवत्येव वृद्धिश्राद्धमित्यन्ये नवीनाः । केषांचित्प्रथमप्रयोगेऽपि नैतत्कार्यमित्यप्याह कात्यायनः--
"नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । |
अत्र द्वितीयः पादो हेतुवन्निगमतया प्रथमशेषः । सोप्यन्त्या आसन्नप्रसवायाः सोष्यन्तीमभ्युक्ष्येति कात्यायनोक्तं कर्म । प्रोषितागतकर्म तु प्रवासादेत्याऽऽगतं पुत्रमभिमृशतीति विहितं कर्म । जातकर्माङ्गत्वेन निषेधस्तु च्छन्दोगमात्रविषयः । तत्परिशिष्टगतत्वात्, इति समयोद्योते । तदाऽपि वृद्धिनिमित्तकं पुरुषार्थं ततः पूर्वं भवत्येवेति नवीनाः । इति वृद्धिश्राद्धनिर्णयः ।
अथ प्रायश्चित्तार्थभूतं वैष्णवं श्राद्धम् ।
तदाह शातातपः--
"विधाय वैष्णवं श्राद्धं सांकल्पं निजकाम्यया । |
अत्र विष्णुदेवतया पित्रादिदेवताबाधः । सांकल्पिकत्वाच्चार्घ्यावाहनाग्नौकरणादिविकिरपिण्डदानस्वधावाचनानां बाधः ।
अथ श्राद्धे निषिद्धकालः ।
"रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । |
बौधायनः--
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः । |
एतच्च सूत्रोक्तमासिकश्राद्धे न प्रवर्तते ।
"पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" ॥ |
इति दर्शानन्तरं मनुना तस्य विहितत्वात् । पिण्डान्वाहार्यकशब्दस्य दर्शश्राद्धपरत्वं तु दर्शोपोद्घातनिरूपणे प्रदर्शितम् । ग्रहणश्राद्धेऽपि नायं निषेधस्तस्यापि विहितत्वात् । एवं पुत्रजन्मनिमित्तकनान्दीश्राद्धेऽपि । माधवीये शिवराघवसंवादे--
"प्रातःकाले तु न श्राद्धं प्रकर्वीत कदाचन । |
इति माधवोदाहृतशिवराघवसंवादवचनेन गान्धर्वमुहूर्तेऽप्यारम्भस्योक्तत्वेनार्थात्संगवनिषेधः । तथा च संगवकालादूर्ध्वं सायंकालाप्राक्तनोऽनैमित्तिकस्य श्राद्धस्य काल इत्युक्तं भवति । तत्रापराह्णस्य प्राशस्त्यमाह मनुः--
"अथ चैवापरपक्षः पूर्वपक्षाद्विशिष्यते । |
इत्यादिपूर्वोदाहृतवचनैश्चापराह्णस्य मुख्यकालत्वं प्रतिपाद्यते । मुख्यत्वेन निषिद्धस्यापि सायाह्नस्य गौणकालत्वमाह व्यासः--
"स्वकालातिक्रमे कुर्याद्रात्रेः पूर्वं यथाविधि" इति । |
चातुर्मास्यान्तर्गतादित्येष्टौ बद्धक्रमेण प्राप्तपूर्वाह्णकालबाध इव मासिकश्राद्धदिन एवानुष्ठेयतया मुख्यकालस्य मासिश्राद्धावरुद्धत्वेनोत्तरभावित्वादत्रापि मुख्यापराह्णकालबाधः । तत्रापि सति संभवे दिनान्त्यघटिकाद्वयतः पूर्वमेव समापनीयम् ।
यतु--
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते द्विजः । |
इतिवचनं श्रा(तच्छ्रा)द्धान्तरेण मुख्यकालस्यानवरोधे । प्रकृते तु मासिकश्राद्धकालस्य मासिश्राद्धेनावरोधानैतद्वचनप्रवृत्तिः । न चैवं तयोरभेद एवास्तु किमेतावताऽऽयासेनेति वाच्यम् । उभयत्रोपात्तब्राह्मणदक्षिणादिवैयर्थ्यापत्त्यादिदोषग्रस्तत्वेन तस्य वक्तुमशक्यत्वात् । न चान्तेवास्यसंबन्धान्ब्रह्मविद इति विधानायानुवाद इति वाच्यम् । तयोर्विशेषयोर्लाघवादत्रैव वक्तुमुचितत्वेन गुणद्वयविधानार्थं पुनः कृत्स्नानुवादेन गौरवस्य दुष्परिहरत्वात् । न च [९४]तयोर्गुणयोर्मासिकश्राद्धे मासिकश्राद्ध[त्व] मिति वाच्यम् । ब्रह्मविदोऽन्तेवास्यसंबन्धानित्येतावतैव तत्सिद्धौ पुनस्तद्दोषतादवस्थ्यात् । अतस्तयो र्भेद एव । सायाह्नस्याप्यतिक्रमे दर्शश्राद्धमासिकश्राद्धयोर्लोप एव । तदर्थं द्वितीयदिन औपासने समस्तव्याहृतिभिराज्याहुतिं हुत्वोपोष्य प्राणायामं च कृत्वा प्राजापत्यद्वयमाचरेत् । केचित्तु शुक्लपक्षे सर्वप्रायश्चित्तमौपासने हुत्वाऽन्तरितश्राद्धं कुर्यात् । तत्राप्यतिक्रमे द्वितीयदर्शपूर्वदिनप्राप्तौ सर्वप्रायश्चित्तं हुत्वोपोष्य प्राणायामं कृत्वा प्राजापत्याचरणं कर्तव्यमिति वदन्ति । एवं महालयादिष्वपि ज्ञेयम् । सांवत्सरिकश्राद्धे सायाह्नस्यातिक्रमे रात्रावपि कार्यम् ।
'मृताहं समतिक्रम्य चण्डालेष्वभिजायते' इति मरीचिना मृताहातिक्रमे दोषोक्तेः । न च नक्तं श्राद्धं कुर्वीतेतिधर्मसूत्रोक्तो निषेधः सांवत्सरिकश्राद्धव्यतिरिक्तश्राद्धपर इति बहवः । मृताहं समतिक्रम्येति निषेधस्तु बुद्ध्या समतिक्रमे न तु दैवादतिक्रमे । तेन धर्मसूत्रोक्तनिषेधोऽत्राप्यस्त्येवेति केचिद्वदन्ति । अयं च रात्रौ श्राद्धनिषेधो ग्रहणश्राद्धे न । अन्यत्र राहुदर्शनादितिवचनात् ।
अथ श्राद्धविघ्ने निर्णयः ।
तत्र विप्रस्य निमन्त्रणोत्तरं सूतके मृतकेऽपि वाऽऽशौचाभावः ।
"निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । |
कर्तुस्तु विष्णुराह--
"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । |
प्रारम्भशब्दार्थस्तेनैवोक्तः--
"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । |
पाकपरिक्रिया पाकनिष्पत्तिः पाकारम्भो वा । पाकप्रोक्षणमित्यन्ये । माधवीये ब्राह्मेऽपि सद्यःशौचं प्रकृत्य--
"श्राद्धादौ पितृयज्ञे च कन्यादाने च नो भवेत्" इति । |
मिताक्षरायां स्मृत्यन्तरेऽपि सद्यःशौचं प्रकृत्य--
"यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि" इति । |
दातृगृहे मरणादौ ब्राह्मे--
"भोजनार्धे तु संभुक्ते विप्रैर्दातुर्विपद्यते । |
यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः ॥ |
विपद्यत इत्यत्र गृह इति शेषः । एतच्च श्राद्धविषयमिति हेमाद्रिः । अन्ये तु--अत्र श्राद्धपदाभावाद्विवाहोत्सवयज्ञेष्वित्युपक्रम्य
"भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके । |
इतिषट्त्रिंशन्मतैकवाक्यत्वान्निमन्त्रितेषु विप्रेष्वित्युदाहृतवचनविरोधाच्च विवाहादिविषयमेवेत्याहुः । श्राद्धे तु यद्यपि विष्णुना पाकोत्तरमाशौचाभाव उक्तस्तथाऽपि कर्तुरेव सः । भोक्तुस्तु दोषोऽस्त्येव ।
"अपि दातृग्रहीत्रोश्च सूतके मृतके तथा । |
इति माधवीये ब्राह्मोक्तेः ।
आदिशब्देनाऽऽशौचं गृह्यते । तच्चाऽऽह विष्णुः--
"ब्राह्मणादीनामाशौचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं |
इति ब्राह्मं तच्छ्राद्धकालिकस्य निषेधकं न तूत्तरकालिकस्य ।
- यत्तु--
"देये पितॄणां श्राद्धे तु आशोचं जायते यदा । |
इत्यनेनाऽऽशौचानन्तरं कर्तव्यमित्युक्तं तन्मुख्यकालिकश्राद्धोपक्रमात्प्रागाशौचज्ञाने ज्ञेयम् । श्राद्धचिन्तामणौ ज्योतिषे--
"प्रतिसंवत्सरं श्राद्धमाशौचात्पतितं च यत् । |
आशौचादाशौचहेतुना । आशौचान्त्यदिनत्वेन निमित्तत्वादित्यर्थः । एतन्मासिकाब्दिकपरम् । अत एव सुदर्शनभाष्ये-- अपरपक्षे पित्र्याणीतिनियमात्कृष्णपक्षश्राद्धलोपे प्रायश्चित्तमेव न तु गौणकाले करणम् । तच्चोपवासः ।
"वेदोदितानां नित्यानां कर्मणां समतिक्रमे । |
आशौचे तु प्रायश्चित्तमपि न मुख्यकालेऽनधिकारात् । आशोचान्तऽसंभव तु व्यासः--
"श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके । |
हेमाद्रौ षट्त्रिंशन्मतेऽपि--
"मासिके चाऽऽब्दिके त्वह्नि संप्राप्ते मृतसूतके । |
गोभिलः--
"देये प्रत्याब्दिके श्राद्धे अन्तरा मृतसूतके । |
मरीचिः--
"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । |
विशेषत इत्युक्तेः शुक्लायामपि । आशौचेतरविघ्न एतदिति माधवपृथ्वीचन्द्रौ ।
यत्तु--
"तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना । |
इत्यत्रिवचनं तत्पूर्वकालासंभवे ज्ञेयम् । एतदाब्दिकेतरविषयम् ।
यच्च--
"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते । |
इति तदपि मासिकपरमिति मदनरत्ने हेमाद्रौ[९५] च । व्याध्यादौ विस्मरणे चैवं ज्ञेयम् । इति श्राद्धविघ्ने निर्णयः ।
अथ श्राद्धभोजने प्रायश्चित्तानि ।
तत्र श्राद्धानि त्रिविधानि । नवनवमिश्रपुराणाख्यानि । तत्रान्तर्दशाहश्राद्धानि नवश्राद्धानि, एकादशाहश्च । षोडशैकोदिष्टानि नवमिश्राणि सपिण्डीकरणं च । ततः पुराणानि । तत्राऽऽपदि नवश्राद्धभोजने कायम् । एकादशाहैकोदिष्टे कायं पादोनकायं वा । द्वादशाह ऊनमासे च पादोनं कायमेव कुर्यात् । द्विमासे त्रिपक्ष ऊनषाण्मासिक ऊनाब्दिके चार्धकृच्छ्रः । त्रिमासाद्याब्दिकान्तेषु सपिण्डने चाऽऽद्याब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दे पुराणे च नक्तम् । द्रव्यार्थं नवश्राद्धे भोजने त्रिरात्रं, द्वादशाहादौ द्विरात्रं, मासादावुपवासः । त्रिमासादौ नक्तं पञ्चगव्याशनं च । प्रत्यब्ददर्शादिषु पुराणेषु षट्प्राणायामाः । वृद्धौ त्रयः प्राणायामाः । तत्रैव निस्पृहभोक्तुर्जपशी लिनो वा तदर्धम् । क्षत्रियादिषु श्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात्कार्याणि । अनापदि तु नवश्राद्धे चान्द्रं कायं च । द्वादशाहादौ कायमेव । द्विमासादौ पादोनं, त्रिमासाद्यब्दान्तेषु त्रिरात्रमर्धकायं वा । आद्याब्दिके पादकायं, प्रत्याब्दिके तूपवासः । क्षत्रियस्य तु नवश्राद्धे चान्द्रम् (न्द्रे) । आद्यमासिके चान्द्रं पराकश्च । द्वादशाहादौ पराकः । आब्दिकद्विमासत्रिपक्षादौ महासांतपनं, त्रिमासादौ कायम् । आब्दिके पादोनं, प्रत्याब्दिके त्वर्धं, पुराणे पादोन(दपरिमित)म् । वैश्यस्य त्वेतान्येव व्रतानि सार्धानि । शूद्रस्य द्विगुणानि । यद्वा नवश्राद्धे चा[९६]न्द्रद्वयं सार्धं चान्द्रं च । द्वादशाहादौ सार्धं चान्द्रमेव । द्विमासत्रिपक्षादौ चान्द्रं त्रिमासादौ पराकः । अ[९७]ब्दे सह(महा)सांतपनम् । चण्डालानामुदकसर्पब्राह्मणपशुदंष्ट्रिवैद्युतप्रपतनविषोद्बन्धनादिमृतानां पापिनां पतिताद्यभोजनानां च नवश्राद्धे चा[९८]न्द्रे । आद्यमासिकं चान्द्रं पराकश्च । द्वादशाहादौ पराक एव । पक्षद्विमासत्रिमासेष्वतिकृच्छ्रः । मासादौ कायोऽ(यम)ब्दे पादः प्रत्यब्दे तूपवासः । धनिकानां द्रव्यार्थभोजिनां चैवम् । अपाङ्गेयानामेकादशाहे चान्द्रम् । यतिव्रतिब्रह्मचारिणां तु सूतकान्ननवश्राद्धमासिकादौ भुक्तावुक्तं प्रायश्चित्तं कृत्वाऽधिकं त्रिरात्रं प्राणायामत्रयं घृतप्राशनं च कृत्वा व्रतशेषं समापयेत् । अनापदि तु कायं त्रिरात्रमेकरात्रं वोपवासः प्राणायामत्रयं पञ्चगव्यप्राशनमित्यधिकम् । अभ्यासे तप्तकृच्छ्रादि द्विगुणम् । आमहेमसांकल्पिकश्राद्धेषूक्तार्धम् । यद्वाऽनापद्यामश्राद्धे कायं तप्तकृच्छ्रं वा शक्तश्चरेत् । हेमश्राद्धे त्रिरात्रं कायं च । सांकल्पिकश्राद्धे तूपवासस्त्रिरात्रं च । दैवात्सूतकव्यवहितेषु तु ब्राह्मणक्षत्रियवैश्यशूद्रश्राद्धेषु एकोद्दिष्टे तु कृच्छ्रातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । द्वादशाहादिषु पादं पादं ह्रासयेत् । अतिव्यवहितेषु तु त्रिरात्रादिकम् । गुरुविषये तूपवासनक्तषट्प्राणायामाः । अनापदि सर्वत्र द्विगुणम् । अतिश्रोत्रियदर्शादिश्राद्धेष्वनुक्तप्रायश्चित्तेषु च गायत्र्या दशकृत्वोऽपः पीत्वा संध्यामुपासनहोमं च यथोचितं कुर्यात् । नामकरणे जातकर्मणि चाङ्गश्राद्धे सूतक आमश्राद्धे चूड(डा)होमान्ते चौलश्राद्धे सीमन्ते सोमे ब्रह्मौदने चामत्या चाऽऽपदि च भुक्त्वा सांतपनम् । मत्याऽनापदि च चान्द्रम् । अन्येषु संस्कारेषु तूपवासो नित्यस्त्रिरात्रं चानापदि । अन्यदत्ता कन्याऽन्यस्मै पुनर्दत्ता सा पुनर्भूस्तद्विवाहेऽसंस्कृते पूर्वगर्भे पूर्ववत्सांतपनं चान्द्रं वा । सर्वस्त्रीप्रथमगर्भे च । ([९९] असंस्कृते पूर्वे गर्भे प्रसूते द्वितीये गर्भ संस्कारे या सा पु[१००]नारताः(ता(?)) ऋ[१०१]तुषोडशाहात्पश्चादेव गर्भिणी सा रेतोधाः । भर्तृशासनोल्लङ्घिनी कामचारिणी । आसो(सां)[प्रथ]भ(म)गर्भे पूर्ववत्सांतपनं चान्द्रं वा ।)
अथ श्राद्धाङ्गतिलतर्पणम् ।
तच्च दर्शश्राद्धे तदहरेव पूर्वं विधाय श्राद्धारम्भः कार्यः ।
"पूर्वं तिलोदकं दत्त्वा अमाश्राद्धं तु कारयेत्" इति गर्गवचनात् ।
"दर्शे तिलोदकं पूर्वम्" इति संग्रहोक्तेश्च ।
([१०२] कारयेदिति स्वार्थे णिच् । श्राद्धस्य द्व्यहकालत्वे नित्यतर्पणस्य तन्त्रमध्यपातित्वात्तेनैव प्रसङ्गसिद्धिः । सद्यस्कालपक्षेऽप्येवम् । अन्याङ्गैरन्याङ्गानां प्रसङ्गसिद्धेः पशुपुरोडाशादावभ्युपगमात् । यत्तु यदा त्वनायत्या नित्यतर्पणोत्तरं श्राद्धसंकल्पस्तदा पृथक्कार्यम् । नित्यस्य प्रयोगानन्तःपातित्वादिति । तन्न । क्त्वाप्रत्ययेन प्रयोगबहिर्भूताङ्गानुष्ठानस्याऽऽरम्भणीयाबृहस्पतिसंवादा[१०३]व(द)भ्युपगमात् । अत इदमपि प्रयोगबहिर्भूतमेवाङ्गं पूर्वं कार्यम् । अतश्च प्रसङ्गानुष्ठानमविरुद्धम् । अतो न पृथक्तर्पणं दर्शे । यदा तु सप्तम्यादौ नित्यतर्पणं तिलरहितं क्रियते तदा तत्रप्रसङ्गयोरभावादिदं तिलसहितं पृथक्कार्यमेवेति ।) वार्षिकश्राद्धे तु परेद्युरेव ।
तत्रैव--"प्रत्यब्दे न भवेत्पूर्वं परेऽहनि तिलोदकम्" इतिस्मरणात् ।
बृहन्नारदीयेऽप्याब्दिकं प्रक्रम्य--
"परेद्युः श्राद्धकृन्मर्त्यो यो न तर्पयते पितॄन् । |
इति गर्गेण प्रत्यवायस्योक्तेश्च । ( [१०४] मातापित्रोर्वार्षिके विशेषाः(षं) स्मृतिरत्नावल्यां वृद्धमनुराह--
"सप्तम्यां भानुवारे च मातापित्रोः क्षयेऽहनि । |
क्षयेऽहनीति निमित्तसप्तमीति केचित् । तन्न । वैरूप्यापत्तेः । प्रत्यब्दाङ्ग(ङ्गं) तिलैर्दद्यादितिवक्ष्यमाणवचनविरोधाच्च । किं त्वधिकरणसप्तम्येव । तेन क्षयाहे यत्तर्पणं नित्यं नैमित्तिकं वा तत्तिलरहितमेव कार्यम् । इदं च तर्पणं प्रस्तरप्रहरणे देवतासंकीर्तनवत्संनिपत्योपकारकम् । अत एव यद्दैवत्यं श्राद्धं तद्दैवत्यमेव भवति । ) अत्र पितृशब्दश्च श्राद्धेज्यदेवतापरः । तेनाऽऽब्दिकदिने तिलैर्विना सर्वासां नित्यतर्पणं पृथक्कर्तव्यमेव । ( [१०५]न चेयं नित्यतर्पणाकरणनिन्दा । अल्पप्रकरणेऽन्यस्याकरणनिन्दाया अयोग्यत्वात् । श्राद्धाङ्गभूतं तु परेद्युस्तिल[१०६]सहितमेव ।)
तदुक्तं संग्रहे--
"प्रत्यब्दाङ्गं तिलैर्दद्यान्निषिद्धेऽपि परेऽहनि । |
तत्र श्राद्धाङ्गतर्पणे विधिरुक्तः संग्रहे--
"स्नात्वा तीरं समागत्य उपविश्य कुशासने । |
तर्पणोत्तरं नित्यस्नानं संध्यां च कृत्वेत्यर्थः । ([१०७] अत्र स्नानोत्तरसंध्यामकृत्वैव तर्पणं कार्यमित्याहुस्तन्मन्दम् ।
"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इति वाक्यात् । |
न च तर्पणपर्यन्तं श्राद्धप्रयोगानुवृत्तेर्मध्ये संध्या नानुष्ठेयेति वाच्यम् । श्राद्धदिनसायंसंध्याननुष्ठानप्रसक्तेः । ततश्च स्नानसंध्यादीनां सर्वकर्मार्थत्वेन प्राप्तेरुपवेशनस्यापि सामान्यतः प्रातः(प्तेः) कुशासनं तर्पणोत्तरं स्नानं च विधीयत इति युक्तम् ) । संतर्पयेत्पितॄन्सर्वानिति पाठो महालयाभिप्रायेण । तत्र सर्वेषां पित्रादिगुर्वन्तानां श्राद्धविधानात् ।
"वर्गैकस्य वचो येषामन्येषां तु विवर्जयेत्" । |
इत्याब्दिक इतरदेवतातर्पणनिषेधाच्च ।
- गर्गः--
"पक्षश्राद्धे हिरण्ये च अनुव्रज्य तिलोदकम् । |
हिरण्ये हिरण्यश्राद्धे । पक्षश्राद्धे हिरण्यश्राद्धे च ब्राह्मणविसर्जनोत्तरं तर्पणं कर्तव्यमित्यर्थः । अन्ते श्राद्धसमाप्तौ ।
गर्गः--
"कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् । |
अन्ये तु--
"जीवमानः पिता यस्य माता यदि विषद्यते । |
इति स्मृतिसारोदाहृतवचनं[११०] जीवत्पितृकस्य श्राद्धाङ्गतिलयुक्ततर्पणनिषेधकं न तु तिलरहिततर्पणनिषेधकम् । अन्यथा तिलपदवैयर्थ्यापत्तेः । तेन तिलरहितं तु भवत्येवेत्यर्थादवगम्यत इति प्रा[१११]हुः ।) एवमाश्विनशुक्लप्रतिपदादिश्राद्धादिष्वपि ज्ञेयम् । तीर्थश्राद्धे दर्शश्राद्धवत् । ([११२] माघ्या(ध्या)वर्षश्राद्धस्य मासिकश्राद्धवत्पूर्वमष्टकाङ्गत्वात् ।पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धयोरप्यन्त एव । अन्वष्टकाश्राद्धस्या[११३]नङ्गत्वे तु मासिकश्राद्धवत्पूर्वमेव ।
- यत्तु--
"विवाहव्रतचूडासु वर्षमर्धं तदर्धकम् । |
इति तन्महालयाष्टकालभ्ययोगश्राद्धव्यतिरेकेण द्रष्टव्यम् ।
"तिथिर्तीर्थविशेषे च गयायां प्रेतपक्षके । |
तिथिविशेषोऽष्टकादिः ।
- यतु--
"पित्रोः क्षयाहे संप्राप्ते यः कुर्यान्नित्यतर्पणम् । |
इति पठन्ति तन्निर्मूलमेव । समूलत्वेऽपि सतिलतर्पणनिषेधपरम् । पूर्वलिखितवाक्यानुरोधात् । अन्योऽपि विशेषः--
"ज्येष्ठभ्रातृपितृज्येष्ठसपत्नमातरस्तथा । |
"मातापित्रोः क्षयाहे तु परेऽहनि तिलोदकम् । |
मन्वादिश्राद्धे कपिलः--
"मन्वादिषु युगाद्यासु दर्शे संक्रमणेऽपि च । |
नान्दीश्राद्धादौ तर्पणनिषेधो बृहन्नारदीये--
"वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । |
इति तर्पणम् ।
अथ जीवपितृककर्तृकपितामहाद्युद्देशश्राद्धनिर्णयः ।
तत्र कात्यायनः--
"वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । |
मैत्रायणीयपरिशिष्टमपि--
"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे । |
यत्तु प्रयोगपारिजाते--
"न जीवतः पितुः कुर्याच्छ्राद्धमग्निमृते द्विजः । |
इति सुमन्तुवचनान्मैत्रायणीयपरिशिष्टोक्तविषयेष्वपि जीवत्पितृकस्य साग्नेरेवाधिकारो न निरग्नेरिति प्रतिपादितं तदुद्वाहपुत्रजनननिमित्तकनान्दीश्राद्धव्यतिरिक्ततीर्थश्राद्धादिविषयम् ।
"अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । |
इत्याचारमदनरत्नोदाहृतहारीतवचनेन सुमन्तुवाक्यापवादात् । साग्निरत्र श्रौताग्निमान्स्मार्ताग्निमांश्च । तदितरो निरग्निरित्यपि तत्रैवोक्तम् । अतश्च जीवत्पितृकस्य निरग्नेस्तीर्थश्राद्धादौ नाधिकार इति सिद्धम् ।
इति संस्काररत्नमालायां श्राद्धोपोद्धातः ॥
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे सप्तमं प्रकरणम् ॥ ७ ॥
- ↑ क. ख. ङ. गृ ।
- ↑ क. ख. ङ. सिकं धर्मसूत्रोक्ते मासिश्राद्वम् ।
- ↑ ख. ह्मणोत्ताली
- ↑ ख. ङ. द्धैऽद ।
- ↑ क. ख. दूराम्नानस्य ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. पुस्तकयोः ।
- ↑ धनुश्चिह्नान्तर्गत नास्ति ख. पुस्तके ।
- ↑ ङ. पत्तेः । ए ।
- ↑ क. ख. ङ. थ. मा ।
- ↑ ख. ङ. त्वाच्च न ।
- ↑ धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।
- ↑ च. शाभावा ।
- ↑ च. मुष्यै स्वा ।
- ↑ ख. ङ. ति वा ।
- ↑ च. नविधेरपि ।
- ↑ धनुश्चिह्नान्तर्गतं च. पुस्तके नास्ति ।
- ↑ ङ. च. तिसूत्रसू ।
- ↑ क ख. ङ. योरुभ ।
- ↑ च. भेदः ।
- ↑ क. न. तो भेदमि ।
- ↑ च. ब्दो योगरूढः प ।
- ↑ क. तिव ।
- ↑ धनुश्चिह्नान्तर्गतं ख. ङ. पुस्तकयोर्नास्ति ।
- ↑ ख. ङ. श्चिद्युग्मदिवसे वा ।
- ↑ च. त्राप ।
- ↑ ख. द्धविधानं सर्वतिथिषु श्राद्धविधानाय । प्रथ । ङ. द्धविधानं महालयश्राद्धविधानाय । प्रथ ।
- ↑ क. ख. ङ. यमि ।
- ↑ ख. ङ. षविधायकम् ।
- ↑ च. इतीत्य ।
- ↑ क. च. रवि ।
- ↑ च. ताः सं ।
- ↑ च. देवतानामत्र ।
- ↑ च. ति । मातामहादीनां प्राप्तिस्तु वैश्वदेवप्रकरणे य ।
- ↑ च. रस्यापि पक्षे कर्तव्यत्वस्य ज्ञा ।
- ↑ क. ख. ङ. मन्त्र ।
- ↑ धनुश्चिह्नान्तर्गतस्थाने च. पुस्तके--"योनिगोत्रमन्त्रासंबद्धानेति पाठः सुपाठः । संबद्धाः संबन्धविशिष्टाः । योनिसंबन्धो मातुलमातामहादीनाम् । गोत्रसंबन्धो गोत्राणाम् । मन्त्रसंबन्ध ऋत्विक्शिष्याचार्यादीनाम् । एतद्व्यतिरिक्ता ये भवन्ति तानामन्त्रयत इत्यर्थः" इति वर्तते ।
- ↑ ख. ङ. नो दक्षिणाग्निः । विधुरादिः पूर्वोक्तविधि ।
- ↑ ख. ङ. त् । यद्यौपासनाग्नौ पाक इष्टः स्यात्तदाऽग्निमुपसमाधायान्नं संस्कृत्येन्येव ब्रूयात् । अ ।
- ↑ च. कल्या ।
- ↑ ङ. वृत्तपाणिर्दक्षिणा ।
- ↑ च. ण्डान्कृत्वा ददा ।
- ↑ क. ङ. च. च. धिविष ।
- ↑ क. ख. च. चतुर्थम् । त्रि ।
- ↑ क. तुर्थम् । त ।
- ↑ ङ. न सर्ववर्गद्वयानां पिण्डानुप ।
- ↑ ख. च. यपि ।
- ↑ क. ख. च. तितिष्ठंस्था ।
- ↑ ङ. पे वर्गद्वयपितॄनुद्दिश्य द ।
- ↑ ङ. नोष्यापिदधाति ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
- ↑ च. णे--अ ।
- ↑ ख. श्राद्धाद । च. श्राद्धाद्वा ।
- ↑ क. द्धद ।
- ↑ क. पुस्तके वसौ वसुसत्वौ च पा इति शोधितः पाठः ।
- ↑ क. दि रेफ इति शोधितः पाठः । च. दि पुर ।
- ↑ धनुश्चिह्नान्तर्गतमसंगतम् ।
- ↑ ङ. रणमनाहिताग्निना ।
- ↑ ख. च. अग्न्यर्थौ । ङ. अग्न्यर्थे ।
- ↑ ङ. मभिधा ।
- ↑ ङ. द्धेम द ।
- ↑ ख. ङ. च तु मरण ।
- ↑ ङ. ल्पिकं त ।
- ↑ ख. च. रान्नस्य ।
- ↑ क. ङ साप ।
- ↑ च. प्रसङ्गार्थ ।
- ↑ ङ. तृव्यगु ।
- ↑ ङ. ति । एकवचनं छान्दसम् । न चैवममावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् । पितृव्यभ्रा ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः सर्वपुस्तकेषु तत्परत्वादित्यन्तग्रन्थात्परं वर्तते । तथाऽपि, अर्थानुरोधेनात्रैवापेक्षित इति अत्रैव संगृहीतः ।
- ↑ ख. त्सरिकादि ।
- ↑ क. ख. च. ति स्मृतेः अ ।
- ↑ क. ख. च. ति । संविभक्तधनेष्वपीत्युशनोर्वचनाच्च । व्या ।
- ↑ क. ख. च. णि । ए ।
- ↑ ख. च. विच्छिन्नं ।
- ↑ क. णवच्छ्राद्धं ।
- ↑ च तृशासन ।
- ↑ क. ख. च. थक्पृथक् ।
- ↑ ङ. ति । ष्ट ।
- ↑ क. ख. च. थग्भवेत् । अविभक्तानामपि म ।
- ↑ धनुश्चिह्नातर्गते ङ. पुस्तके नास्ति ।
- ↑ ङ. तृक एवाधि ।
- ↑ ङ. री । अत एव पि ।
- ↑ च. पितॄणा ।
- ↑ ख. च. न्त्रैक्यावि ।
- ↑ ख. र्मणि । प्र ।
- ↑ ङ. ति । अत्रोपात्तयोर्द्वयोर्मध्य उत्तरस्यानुष्ठानेन पूर्वस्यापि सिद्धिरित्य ।
- ↑ ख. कुर्वीत याज्ञिक ।
- ↑ ङ .पे । युक्तं त्वेवम् --ए ।
- ↑ धनुश्चिह्नान्तर्गते ङ. पुस्तके नास्ति ।
- ↑ ङ. भेदे । इति ।
- ↑ च. ङ. दिति सि ।
- ↑ च. व्याघ्रपादः ।
- ↑ ख. पराशरः ।
- ↑ ङ. पारस्करः ।
- ↑ अत्र सतोरिति शेषो ज्ञेयः ।
- ↑ क. द्रौ । व्या ।
- ↑ क. ख. च. चान्दं ।
- ↑ क. ख. च. अब्देन ।
- ↑ क. ख. ङ. चान्द्रम् ।
- ↑ धनुश्चिह्नान्तर्गतं ख. च. पुस्तकयोर्नास्ति ।
- ↑ ङ. पुनरताः ।
- ↑ क. ऋतुः षो ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नित्यतर्पणेन (नै व श्राद्धाङ्गतर्पणस्य प्रसङ्गतः सिद्धिरिति केचित् । यहवस्तु श्राद्धेज्यदेवतानामेव तर्पणमादौ कृत्वा श्राद्धारम्भः कर्तव्य इति वदन्ति' इति ग्रन्थो वर्तते ।
- ↑ च. दाभ्यु ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ धनुश्चिह्नान्तर्गतस्थाने ङ. पुस्तके 'श्राद्धाङ्गभूतस्यैव परेद्युरुक्तेः' इति वर्तते ।
- ↑ ख. च. लरहि ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
- ↑ च. णात् । यत्तु--जी ।
- ↑ च. नं तजीव ।
- ↑ च. ज्ञेयम् ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'माघ्यावर्षादिष्वष्टकावदन्ते' । इति वर्तते ।
- ↑ च. स्यानेकत्वे ।