अथर्ववेदः/काण्डं ६/सूक्तम् ०६०
दिखावट
← सूक्तं ६.०५९ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०६० ऋषिः - अथर्वा |
सूक्तं ६.०६१ → |
दे. अर्यमा। अनुष्टुप् |
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
अस्या इच्छन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
अश्रमदियमर्यमन्न् अन्यासां समनं यती ।
अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥