सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २२९

विकिस्रोतः तः
← अध्यायः २२८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २२९
[[लेखकः :|]]
अध्यायः २३० →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके लोकानुपादिदेश माधवः ।
त्याग एव तु सर्वेषां महासुखप्रदे मतः ।। १ ।।
त्यजनं त्याग एवाऽस्ति दूरीकरणमित्यपि ।
अनाग्रहणमेवापि त्याग एव हि सोऽर्थतः ।। २ ।।
तृष्णात्यागे महाशान्तिरिच्छात्यागे निवर्तनम् ।
द्रव्यत्यागे कर्मशान्तिर्भोगत्यागे व्रतोद्भवः ।। ३ ।।
सुखत्यागे तपःप्राप्तिः सर्वत्यागे विमोक्षणम् ।
त्यागमार्गो हि दुःखानां विप्रहाणाय जायते ।। ४ ।।
यत्र येन भवेद् दुःखं तत्तत् त्यक्त्वा सुखी भवेत् ।
मायां त्यक्त्वा गुणातीतो ब्रह्मानन्दभरो भवेत् ।। ५ ।।
गुणयोगे गुणभावाः सुखं दुःखं विमोहनम् ।
गुणत्यागे गुणभावविध्वंसश्चात्मनो भवेत् ।। ६ ।।
सत्त्वं रजस्तमश्चेति शीतोष्णांगारसाधनाः ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।। ७ ।।
सात्त्विकाः संभवन्त्येते वैराग्याद्वेष्टलाभतः ।
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।। ८ ।।
राजसाः संभवन्त्येते रागाद्वा द्विष्टलाभतः ।
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिते ।। ९ ।।
तामसाः संभवन्त्येते जाड्याद्वा बुद्धिविभ्रमात् ।
इष्टतायाः परित्यागे सात्त्विकानां लयो भवेत् ।। 2.229.१ ०।।
द्विष्टतायाः परित्यागे राजसानां लयो भवेत् ।
विभ्रंशस्य परित्यागे तामसानां लयो भवेत् ।। ११ ।।
एवं गुणत्रयत्यागे गुणातीतस्थितिर्भवेत् ।
सच्चिदानन्दरूपं स्वं विन्दति चेतनः स्वयम् ।। १ २।।
एवं सति रूपनामाकृतयोऽस्य न वै तदा ।
रूपनामाकृतिजन्याऽहन्ता न ममताऽपि न ।। १३ ।।
तयोस्त्यागे चेतनस्य मोक्षभावोऽभिजायते ।
लिप्यते कर्मभिर्नैव न बध्यतेऽपि मुच्यते ।। १ ४।।
दृढपाशा गताश्चास्य शरीरेन्द्रियसंभवाः ।
गताश्चान्तःकरणोत्थास्तदा मुक्तोऽग्रगो भवेत् ।। १ ५।।
अपरोक्षानुभववान् कालमृत्युभयातिगः ।
पुण्यापुण्यात्मपाथेयशून्यः फलविवर्जितः ।। १६ ।।
चिदम्बरात्मानमाप्य चिदाकाशे प्रमोदते ।
ऊर्णनाभिर्हि निर्बन्धः स्वजाले मुक्त एव सः ।। १ ७।।
गिरेः पतितो ग्रावा वै बन्धशून्यो यथैव सः ।
पुराणं रुरोः शृंगं त्यक्तं बन्धाय नैव तत् ।। १८ ।।
त्यक्ता जीर्णा न बन्धाय त्वक् सर्पस्य यथा तु वै ।
पिच्छं त्यक्तं न बन्धाय पिच्छिनस्तत्तथैव च । । १९ ।।
नद्यां पतन् द्रुमस्त्यक्तः पक्षिणो बन्धनाय न ।
एवं देहालयं त्यक्त्वा विमुक्तो वै महासुखी ।। 2.229.२० ।।
देहे स्थितोऽपि यः प्रज्ञामेतामाश्रित्य वर्तते ।
मुक्तवन्मुक्त एवाऽयं गुणाऽसंगी महासुखी ।। २१ ।।
अथ लोके स्थितश्चापि गुणयोगेन वर्तते ।
तस्यापि सुखबाहुल्यसाधनं दम एव ह ।। २२ ।।
क्रियास्तपः सुखं सत्यं दमे सर्वं प्रतिष्ठितम् ।
दमस्तेजो वर्धयति भयं पापं निकृन्तति ।। २३ ।।
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं लोकैः समन्वेति सुखं हृदि प्रसीदति ।। २४।।
दमेन वर्धते चात्मबलं भाग्यमुदेति च ।
सत्कार्याणां फलं सर्वं दमे दान्ते प्रतिष्ठति ।। २५ ।।
भवन्त्येते गुणा नित्या दमयुक्तस्य देहिनः ।
अकार्पण्यमसंरंभः सन्तोषः श्रद्दधानता ।। २६ ।।
अक्रोध आर्जवं सौम्यं नातिवादो न पैशुनम् ।
नाभिमानं नाप्यसूया दया च गुरुपूजनम् ।। २७।।
जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।
साधुकामः स्पृहाशून्यश्चाऽवैरः सूपचारवान् ।। २८ ।।
सुव्रतः शीलवान् जल्पवर्जितः सुप्रसन्नहृत् ।
प्रसन्नात्माऽऽत्मवान् दोषान् जित्वाऽऽत्मनिष्ठसंस्थितिः ।। २९ ।।
सर्वभूतहिते युक्तो न स्म द्विष्टेऽपरं तु यः ।
महाह्रदं इवाऽक्षोभ्यः प्रज्ञातृप्तः प्रसादवान् ।। 2.229.३० ।।
कालाकांक्षी चरेल्लोकान् निरपाय इवात्मवान् ।
स्वर्गवन्मोक्षवच्चापि दान्तो गुणैरितीदृशैः ।।३ १ ।।
नमस्यः सर्वभूतानां ब्रह्मवन्मोदते सुखी ।
त्यागस्तपः परं प्रोक्तं दान्तिस्तपः परोत्तमम् ।।३२।।
आर्जवं तपसां श्रेष्ठं मौनं शीलं परं तपः ।
अमृताशित्वमपरं तपः साधुप्रसेवनम् ।।३३।।
कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः ।
श्रीहरौ ध्यानशीलस्य स्थैर्यं तत्परमं तपः ।।३४।।
आर्जवेनाऽप्रमादेन प्रसादेन च सेवया ।
वृद्धशुश्रूषया शान्त्या तपः श्रेष्ठं प्रजायते ।।३५।।
प्रज्ञालाभात्तु पुरुषः सर्वं तुदति किल्बिषम् ।
विमायिको लभते शं शान्तिस्थः सम्प्रसीदति ।।३६।।
लब्धव्यान्येव लभति गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव प्राप्नोनि दुःखानि च सुखानि च ।।३७।।
एतद्विदित्वा कार्त्स्येन यो न मुह्यति देहवान् ।
कुशली स सदा चास्ते स वै सर्वधनो मतः ।।३८।।
तस्माद् गुणानुपार्ज्यैव सतो सेवेत चानयान् ।
सत्संगेन भवेद् वृद्धिर्गुणानां ब्रह्मगामिनाम् ।।३९।।
ब्रह्मप्राप्तिर्भवेत्तेन सर्वार्पणेन माधवे ।
इत्युक्त्वा भगवान् कृष्णनारायणः प्रजाजनान् ।।2.229.४०।।
मनूनश्रावयत् सम्यग् वैष्णवाँस्तान् व्यधापयत् ।
अष्टम्यास्तु रजन्यां वै दत्वोपदेशनं ततः ।।४१ ।।
भगवान् भोजयामास सर्वान् वै महीमानकान् ।
प्रजाश्च भोजयामास तथा नैजकुटुम्बकम् ।।४२।।
स्वयं भुक्त्वा च विश्रान्तिं लेभे सुयोगनिद्रिकाम् ।
नवम्यां मंगलध्वानैः सूतमागधगीतिभिः ।।४३।।
बन्दीगीतयशोव्रातैः प्रबुबोध महाप्रभुः ।
कृताह्निकः कृतपूजः कृतवृद्धाभिपूजनः ।।४४।।
मांगलिके मुहूर्ते त्वाययौ क्रतोः सुमण्डपम् ।
राजादयो यजमानाः समाययुस्तु मण्डपे ।।४५।।
यथापूर्वमभवच्च यज्ञकार्यं समस्तकम् ।
मध्याह्ने चाहुतिं दत्वा भगवान् बालकृष्णकः ।।४६।।
भोजयामास सर्वांश्च स्वयं च बुभुजे प्रभुः ।
सायं विमानमारुह्य समुद्रोपरि चाम्बरे ।।४७।।
राजभिः सह भगवान् विहारार्थं ययौ ततः ।
समागत्य निजं स्थानं सन्ध्यां चकार केशवः ।।४८।।
भोजयित्वा जनान् भुक्त्वा रात्रौ विश्रान्तिमाप च ।
दशम्यामपि प्रातः स कृताह्निकः परेश्वरः ।।४९।।
यज्ञमण्डपमागत्य यजमानैः समेतकः ।
महर्षिभिः क्रतोः कार्यं कारयित्वा तथा हवान् ।।।2.229.५०।।
दत्वा मध्याह्नवेलायां भोजयामास वाडवान् ।
महीमानान् समस्तांश्च स्वयं च बुभुजे ततः ।।५१।।
सायं मनून् ददौ तत्र भक्तेभ्यो भगवान् प्रभुः ।
श्राद्धानि कारयामास वाडवैर्बहुतर्पणम् ।।५२।।
रात्रौ भोजनमासाद्य विश्रान्तिं चाप माधवः ।
एकादश्यां प्रगे शीघ्रं समुत्तस्थौ सुरेश्वरः ।।५३।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् हरिः ।
कृताह्निकः कृतपूजो मण्डपं द्रुतमाययौ ।।५४।।
वस्तूनां प्रोक्षणं स्वस्तिवाचः पुण्याहवाचनम् ।
कारयित्वा सुरादीनां प्रबोधनं च पूजनम् ।।५५।।
बलिदानं महानैवेद्यकं पुष्पाञ्जलिं तथा ।
होमं हव्यविशेषाणां प्रददौ भगवाँस्ततः ।।५६।।
सहस्रघृतधाराभिस्तर्पयामास देवताः ।
तदा प्रत्यक्षरूपास्ते भुक्तवन्तः सुरादयः ।।५७।।
स्थावरा जंगमा सर्वे तृप्तिं प्राप्ताः सुहव्यकैः ।
इयं चाक्षरधामाधिपतये चाहुतिर्नमः ।।५८।।
इमा मुक्तेभ्य एवापि चाहुतयश्च तान्नुमः ।
इमाः सर्वावतारेभ्यश्चाहुतयश्च तान्नुमः ।।५९।।
इमा ईशेभ्य आहुतयश्च तेभ्यो नमोनमः ।
इमाः ऋषिभ्यः सर्वेभ्य आहुतयश्च तान्नुमः ।।2.229.६० ।।
इमाः पितृभ्यआहुतयस्तेभ्यश्च नमोनमः ।
इमा देवेभ्य आहुतयश्च तेभ्यो नमोनमः ।।६१ ।।
इमा भुवर्निवासिभ्य आहुतयश्च तान्नुमः ।
इमा मानवजातिभ्य आहुतयश्च तान्नुमः ।।६२।।
इमाः सप्ततलवासिभ्यश्चाहुतयस्तान्नुमः ।
इमा द्रुमेभ्यः सर्वेभ्यो लतातृणेभ्य इत्यपि ।।६३ ।।
कन्दमूलादियावद्भ्या आहुतयश्च तान्नुमः ।
इमाः कीटपतंगादिभ्यश्चाहुतयस्तान्नुमः ।।६४।।।
सर्वयोषिद्भ्यश्च सृष्टित्रयस्थाभ्य इमा नुमः ।
जडेभ्यश्चेतनेभ्यश्च तत्त्वेभ्योऽपि नम इमाः ।।६५।।
आहुतयः प्रदत्तास्ते तृप्तिं यान्तु हि देहिनः ।
इत्येवं स्रुचि श्रेष्ठाज्यं श्रीफलं समिधस्तथा ।।६६।।
पत्रं पुष्पं फलं मिष्टं निधाय सर्वजातिकम् ।
महापूर्णाहुतिं नौमि नमस्कृत्य विचिन्तनम् ।।६७।।
अग्निर्नारायणः साक्षात्तस्मै ददामि ते नमः ।
इदमग्नये च वैश्वानराय परमात्मने ।।६८।।
इत्युक्त्वा प्रददौ वह्नौ नारिकेलादिकं हरिः ।
राजानः प्रददुश्चापि श्रीफलाद्यानि वै तदा ।।६९।।
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नमश्चाहवनीयाय महावेदिस्थिताय च ।।2.229.७०।।
ब्रह्मणे गार्हपत्याय विष्णवे दक्षिणाग्नये ।
शिवायाऽऽहवनीयाय शक्तिवेदिस्थिताय च ।।७१ ।।
नमस्ते सभ्यरूपाय नमो गृह्याग्निरूपिणे ।
पञ्चाग्निरूपिणे तुभ्यं नमस्ते परमात्मने ।।७२।।
नमोऽग्निहोत्ररूपाय नमः पर्वेष्टिरूपिणे ।
चातुर्मास्यस्वरूपाय नमः पश्विष्टिरूपिणे ।।७३।।
सौत्रामणये तुभ्यं नमोऽग्निष्टोमाय ते नमः ।
अत्यग्निष्टोमरूपाय नमस्ते चोक्थरूपिणे ।।७४।।
नमः षोडशरूपाय वाजपेयाय ते नमः ।
अतिरात्रस्वरूपाय सर्वमेधात्मने नमः ।।७५।।।
त्वं मुखं सर्वजीवानां त्वयाऽत्तं तर्पयेत् सुरान् ।
जीवसृष्टिरीशसृष्टिर्ब्रह्मसृष्टिश्च या मता ।।७६।।
तासां तृप्तिप्रदस्त्वं वै हव्यभुक् हव्यमावह ।
यान्तु हव्यानि सर्वेभ्यः स्वधास्वाहाद्युदीरणात् ।।७७।।
काली कराली धूम्रा च मनोभवा स्फुल्लिंगिनी ।
पिंगा रक्ता च ते जिह्वा ताभिर्ग्रस हविर्मुहुः ।।७८।।
पूगीफलानि च वह्नौ फलान्यन्यानि यानि च ।
प्रदुदुश्च तदा वह्नौ तृप्यतां परमेश्वरः ।।७९।।
इत्युक्त्वा श्रीहरिकृष्णो बालकृष्णो महाप्रभुः ।
महापूर्णाहुतिं चान्तां ददौ श्रीपतये तदा ।।2.229.८०।।
एवं होमं प्रदायैव ब्रह्मणे पात्रकार्पणम् ।
कृतवान् श्रीहरिर्ब्रह्मायजमानाभिषेचनम् ।।८१ ।।
कृत्वाऽमृताभिषेकं च श्रेयोदानं ततोऽकरोत् ।
दक्षिणार्पणमेवापि मण्डपे चाऽकरोद्धरिः ।।८२।।
स्वर्णगोभूतिलादीनां दानान्यदापयत् प्रभुः ।
राजानो राज्ययोग्यानि दानानि प्रददुस्तदा ।।८३।।
अथाऽभिषेकम् ऋषयो लोमशाद्या व्यधुस्तदा ।
पवमानानि ऋषयो ह्याशीर्वादाँस्तदा जगुः ।।८४।।
भूयसीं सम्प्रदायैवाऽऽशीर्वादाँश्च ददुस्तथा ।
स्मृद्धयः सन्तु दिव्या वोऽक्षयाः शाश्वतसौख्यदाः ।।८५।।
कुटुम्बवंशविस्ताराः प्रभवन्तु निरोगिणः ।
राज्यवैभवपशवो दासा दास्यो भवन्तु वः ।।८६।।
आयुर्दीर्घं यशो दिव्यं चान्ते स्वर्गं च मोक्षणम् ।
भवन्तु भोग्यजातानि भवतां सर्वदा त्विह ।।८७।।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरोगिणः ।
स्वर्गं दीर्घं परं भुक्त्वा प्रयान्त्वन्तेऽक्षरं पदम् ।।८८।।
इत्युक्त्वा यज्ञदेवानां पुष्पाञ्जलिं विदायकम् ।
प्रददुर्लोमशाद्याश्च परिहारस्ततोऽभवत् ।।८९।।
यज्ञप्रसादं हव्यं वै सर्वे बुभुजिरे मखे ।
येषां येषां च यान्येव हव्यानि तानि तानि वै ।।2.229.९०।।
तेभ्यस्तेभ्यो हरिकृष्णो दत्तवान् निजशक्तिभिः ।
सर्वविधानि भोज्यानि हव्यान्यमृतकानि च ।।९ १।।
सुधारसाँश्च विविधान् पीयूषपानकोटिकाः ।
यथायोग्येभ्यः प्रददौ तृप्तयामास यावतः ।। ९२।।
ततोऽधिकं भोजनं च ददौ भिक्षुकयायिने ।
भिक्षुकाऽनाथनारीभ्यो प्रददौ भोजनान्यपि ।।९३।।
सर्वेभ्यः प्रददावेकादश्यां मध्याह्नकोत्तरम् ।
भोजनानि समस्तानि पितृश्राद्धं ततोऽकरोत् ।।९४।।
अनेकानि फलादीनि जलादीन्यपि सन्ददौ ।
सायं सभायां भगवान् निषसाद शुभासने ।।९५।।
ददौ मन्त्रान् जनेभ्यश्च व्यधाद् वैष्णवसत्तमान् ।
निजं दिव्यं दर्शनं च ददौ त्वक्षरधामगम् ।। ९६।।
ब्रह्मप्रियाभिर्मुक्तैश्च सेवितं पारमेश्वरम् ।
पुनस्तत्र बालकृष्णस्वरूपः सम्बभूव ह ।।९७।।
यज्ञतीर्थस्य माहात्म्यं जनेभ्यः प्रजगाद च ।
राधिके तत्तदा सृष्टित्रयं शुश्राव वै मुदा ।।९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनकृष्णनवमीदशम्येकादशीषु यज्ञादिकार्यनिर्वर्तनं महापूर्णाहुतिप्रदानंपरिहारो भोजनं चेत्यादिनिरूपण-
नामा नवविंशत्यधिकद्विशततमोऽध्यायः ।। २२९ ।।