लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २२१
← अध्यायः २२० | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २२१ [[लेखकः :|]] |
अध्यायः २२२ → |
श्रीकृष्ण उवाच-
राधिके श्रीहरिः स्वस्थः स्वर्णसिंहासनस्थितः ।
उपादिदेश चिल्ल्याख्यप्रजाभ्यः सुहितावहम् ।। १ । ।
प्रज्ञा प्रतिष्ठा जीवानां प्रज्ञा मोक्षकरी मता ।
मानवं देहमासाद्य प्रज्ञया हरिमाप्नुयात् ।। २ ।।
प्रज्ञा निःश्रेयसी शुद्धा प्रज्ञा स्वर्गसुखप्रदा ।
प्रज्ञया प्राप्यते चार्थः प्रज्ञावान् वै सदा सुखी ।। ३ ।।
पाणिपादयुतो लोके मानवः पुण्यवान्मतः ।
पाणिभ्यां प्रज्ञया बुध्वा प्रसेवेत प्रभुं सतः ।। ४ ।।
नान्यसक्तमनाः स्याद्वै विहाय परमेश्वरम् ।
भवन्त्येके सुखितराः सन्त्यन्ये भृशदुःखिताः ।। ५ ।।
नैकान्तं सुखमेवेह भवते कस्यचित् क्वचित् ।
जना धनाढ्यतां प्राप्य राज्यमिच्छन्ति चोत्तमम् ।। ६ ।।
ततो देवत्वमिच्छन्ति ततश्चेन्द्रादिपूज्यताम् ।
ब्रह्मतां चेश्वरभावं मोक्षं नेच्छन्ति वै कचित् ।। '७ ।।
प्रज्ञा विवेकसम्पन्ना मोक्षदात्री भवत्यतः ।
प्रज्ञया लभ्यते मोक्षो ब्रह्मलोके ध्रुवा स्थितिः ।। ८ ।।
प्रज्ञानं ब्रह्म चेत्येतत् हृदयेऽपि व्यवस्थितम् ।
उपासनीयं सततं परंब्रह्म सनातनम् ।। ९ ।।
ब्रह्मरसप्रसक्तस्य कामोऽन्यो नैव जायते ।
संस्पर्शाद् दर्शनाद्वाऽपि श्रवणाद् ब्रह्मणस्तथा ।। 2.221.१० ।।
सेवनाद्ध्यानकरणाद्ब्रह्मरसपरो भवेत् ।
तं विना न भवेत् तृप्तिः प्रियलाभेऽपरे क्वचित् ।। ११ ।।
तृष्णा शाम्यति नाद्भिर्वै भूयो ज्वलति भोगकैः ।
प्रज्ञया सा समूला वै नश्यत्येव न संशयः ।। १ २।।
काम्यकर्मोद्भवं छित्वेन्द्रियाणि विनियम्य च ।
आत्मभावेन वर्तेत तस्य तृष्णा विनश्यति ।। १ ३।।
अप्राशनमसंस्पर्शमसन्दर्शनमित्यपि ।
अरसनं चाऽश्रवणं चाऽघ्राणनं च नेहनम् ।। १४।।
इत्येवं नियमं श्रेयः परं प्रज्ञाकृतं भवेत् ।
पाणियन्तो बलवन्तो धनवन्तोऽपि देहिनः ।। १५।।
तृष्णादास्यपरा भूत्वा क्लिश्यन्ते वधबन्धनैः ।
रुदन्त्यपि रमन्ते च मोदन्ते च हसन्त्यपि ।। १६।।
एवं लोका बहुबला लब्धविद्या मनोहृताः ।
जुगुप्सितां कृपणां च हीनवृत्तिमुपासते ।। १७।।
उत्सहन्ते च वर्धन्ते पतन्त्यपि रुदन्ति च ।
न भेको वा वराहो वा श्वाऽऽत्मानं त्यक्तुमिच्छति ।। १८।।
पुष्कसो वाऽपि चाण्डालो बद्धः कीटोऽपि वर्ष्मणि ।
स्वया योन्या महातुष्टः स्थातुमिच्छति मायया ।। १९।।
दृष्ट्वा व्यंगान् पक्षहतान् कुणीन् कुष्ठिन इत्यपि ।
स्वस्थोऽपि भजते नैव हरिं मां मायया हतः ।।2.221.२०।।
तस्माद् विचार्य मनसा विनिर्णीय च प्रज्ञया ।
भजेन्मां परमात्मानं त्यक्त्वाऽऽसक्तिं च मोहनम् ।।२१।।
ध्यानं शुद्धिं जपं पूजां वृद्धपित्रादिसेवनम् ।
सतां सेवां मम भक्तिं कुर्याच्छ्रेयो विधित्सया ।। २२।।
सति राज्ये गृहस्मृद्धौ सत्कार्याणि समाचरेत् ।
सुनक्षत्रे पुण्यकाले सुतिथौ सुमुहूर्तजाः ।।२३ ।।
यज्ञदानादिभिः पुण्ये यतन्ते साधुशीलिनः ।
तेषां प्रज्ञा परब्रह्मयोगाच्छीघ्रं प्रकाशत ।। २४।।
प्रज्ञया याति परमं धाम मे शाश्वतं सुखम् ।
ये नक्षत्रेष्वासुरेषु दुःस्थितौ दुर्मुहूर्तजाः ।।२५।।
ते पतन्त्यासुरीं योनिं प्रज्ञाहीनाः क्रतुद्विषः ।
शृगालश्वखनिं यान्ति श्रेयस्तेषां न विद्यते ।। २६।।
सन्तुष्टश्चाऽप्रमादश्च यज्ञदानतपःप्रियः ।
साधुसेवापरः प्रज्ञाश्रयो याति परां गतिम् ।। २७।।
प्रियदेवाऽऽतिथेयाश्च सेवकाः प्रियसाधवः ।
हर्यर्थं कृतसर्वस्वाः प्रयान्ति परमां गतिम् ।।।२८।।।
उत्सवादुत्सवं यान्ति हषाद्धर्षं पुनः पुनः ।
स्वर्गात्स्वर्गं परं यान्ति साधोर्मे च प्रसेविनः ।।२९।।
खलाः शठाश्च धूर्ताश्च वञ्चका ये तु पापिनः ।
आत्मनाऽनर्थयुक्तेन निविशन्तेऽघकर्मसु ।।2.221.३ ० ।।
पुनश्च कलुषं कृत्वा कृच्छ्रे लोके भवन्ति ते ।
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशॆ पुनः पुनः ।।३ १ ।।
भयाद्भयं तथोद्वेगादुद्वेगं सम्प्रयान्ति ते ।
मृत्योर्मृत्युं पुनर्यान्ति दरिद्राः पापकर्मिणः ।।३२।।
तुषा यथा तु धान्येषु मशका इव पक्षिषु ।
तद्विधास्ते मानवेषु धर्मकर्मविवजिंताः ।।३३।।
पच्यन्ते कणवत् गर्भवह्नौ कालेन भर्जिताः ।
विना प्रज्ञां परं श्रेयो नाप्नुवन्ति कथंचन ।।३४।।
उद्विग्नास्ते प्रधावन्ति संसारारण्यमुन्मुखाः ।
कृतं कर्माऽनुगं भूत्वा धर्तुं धावति ताँस्ततः ।।३५।।
सुप्तौ सुषुप्तौ विजने जाग्रत्यपि न मुञ्चति ।
लग्नं छायेव सततं तं विमुच्य न गच्छति ।। ३६।।
कर्माकृष्टं पराधीनं वासनापरिसंवृतम् ।
विलोक्य च महाकालो दुःखाब्धौ परिकर्षति ।।३७।।
स्वकर्मफलनिःक्षेपं कालो ददाति कर्मिणे ।
यथावृक्षेषु कालेन पुष्पाणि च फलानि च ।। ३८।।
जायन्ते नातिवर्तन्ते तथा कर्म पुराकृतम् ।
आत्मना कृतशेषेण गर्भशय्यां प्रयाति च ।।३९।।
बालो युवा च वृद्धश्च तत्फलं प्रतिपद्यते ।
प्रज्ञाऽग्निना विशुद्धस्य दीर्घं सुखमनन्तकम् ।।2.221.४०।।
प्रज्ञया धूतपापानां नष्टरागद्विषां सताम् ।
परमेशे प्रसक्तानां प्रपद्यतेऽक्षयं सुखम् ।।४१ ।।
प्रज्ञावान् कुरुते यद्यत् तत्सर्वं बन्धनाय न ।
प्रज्ञया मयि युक्तो यस्तस्य कर्म न विद्यते ।।।४२।।।
जले झषाणां गगने पक्षिणां न यथा पदम् ।
दृश्यते न तथा कर्म मयि भक्तस्य वेदिनः ।।४३ ।।
ज्ञानविदां गतिश्चैषा ब्रह्मधामपरायणा ।
साध्या तु प्रज्ञया साध्व्या मानवैर्वै मुमुक्षुभिः ।।४४।।
सर्वभूतेषु गूढोऽहं चान्तरात्मा वसामि वै ।
प्रज्ञया त्वग्र्यया तत्त्वदर्शिन्या लभ्य एव ह ।।४५।।
मत्प्रसादकृताहारो मत्साधुकृत्समागमः ।
युञ्जानो मयि चात्मेशे ब्रह्मतुल्यः प्रजायते ।।४६।।
चित्तस्य च प्रसादेन समर्प्य मयि मानसम् ।
निर्मलात्मा प्रसन्नात्मा निवेदितात्मा तिष्ठति ।।४७।।
मयि कृष्णे परे स्थित्वा सुखाऽऽनन्त्यं समश्नुते ।
अनन्ताऽपारमानन्दं समश्नुते स्थिरायतिः ।।४८।।
सर्वोपायैर्महातृष्णां लोभं क्रोधं जयेत् सदा ।
तदा प्रज्ञाकृतं ज्ञानं पावित्र्यं समुपैति ह ।।४९।।
आत्मसंयम एवास्ति मोक्षात्मा वृषसत्तमः ।
तेनाऽऽत्मनाऽऽत्मनि तिष्ठेन्मयि नारायणे सदा ।।2.221.५० ।।
एवं वै वर्तमानस्य मोक्षः करतले स्थितः ।
हृदयस्थोऽहमेवाऽस्य मुक्तिदोग्धा भवामि वै ।।५१ ।।
इत्युपादिश्य भगवान् कांभरेयो महाप्रभुः ।
मन्त्रान् ददुः प्रजाभ्यश्च चक्रुः पूजां हरेः प्रजाः ।।५२।।
द्रव्याणि चार्पयामासुर्वस्त्राणि भूषणानि च ।
सुवर्णानि च रूप्याणि ददुः श्रीहरये प्रजाः ।।५३ ।।
ततो रात्रौ नृपतिर्वै भोजयामास माधवम् ।
कुटुम्बं च महर्षींश्च भोजयामास कन्यकाः ।।५४।।
ततो विश्रान्तिमापाऽथ निद्रां जग्राह केशवः ।
कन्यकास्ता निजं कान्तं परेश्वरं सिषेविरे ।।५५।।
प्रातर्वाद्यनिघोषैश्च गीतिभिर्मंगलस्वनैः ।
वेदघोषैश्च विप्राणां प्रबुबोध हरिस्ततः ।।५६ ।।
कृताह्निकः कृतपूजः कृतदुग्धफलादनः ।
राज्ञा रात्र्या पूजितश्च स्वर्णसिंहासने स्थितः ।।५७।।
अन्यान्नृपः पयःपान कारयामास सार्थकान् ।
तावत्प्रजाः पूजनार्थं दर्शनार्थं समाययुः ।।५८।।
मन्त्राग्निकर्षये कृष्णो धनादीनि ददौ तदा ।
समागतश्चाण्डजरानृपभ्राता हरिं नमन् ।।५९।।
कुर्वंश्च दण्डवत् प्राह निजां पुरीं सुशोभनाम् ।
मन्त्रिणांगां पावयितुं नाम्ना बाल्यरजो नृपः ।।2.221.६ ०।।
हरिस्तथाऽस्त्विति प्राह चाण्डजराप्रपूजितः ।
विदायेन यौतकेन सह सम्वन्दितः प्रभुः ।।६१ ।।
महीमानैर्युतः शीघ्रं विमानमारुरोह च ।
राजाऽनुजो ययौ सार्धं विमानेन तदाऽम्बरे ।।६ २।।
विदायमानवाद्यानि चावाद्यन्त मुहुर्मुहुः ।
प्रससार विमानं च हरेरग्रेऽम्बरे तदा ।।६३।।
राज्ञो विमानं पुरतो याति वै वेगतस्तदा ।
मन्त्रिणांगां तु नगरीं प्रति चाब्ध्यनुमार्गगम् ।।६४।।
सैन्यमासीत्तत्र युक्तं स्वागतार्थं पुरैव ह ।
तद् दृष्ट्वा च विमानं वै सूर्यतुल्यं महोज्ज्वलम् ।।६१।।
स्वागतं मानवाश्चक्रुर्ध्वजैः पताकिकादिभिः ।
राजा ह्यवातरत् पूर्वं ततो हरेर्विमानकम् ।।६६।।
अवातरत् समुद्याने मन्त्रिणांगासमीपतः ।
सम्मानं तत्र वै राज्ञी पुरः स्थित्वा चकार ह ।।६७।।
विमानस्थं हरिं नत्वा पुपूज हारपुष्पकैः ।
अक्षतैश्चन्दनैश्चापि प्रक्षाल्य चरणौ पपौ ।। ६८ । ।
राजसौधे हरिं नीत्वा वासयामास चेश्वरी ।
आरार्त्रिकं चकाराऽथ कन्यैका युवती सती । । ६९ । ।
अनादिश्रीकृष्णनारायणाय वरमालिकाम् ।
कण्ठे ददौ तदा राजा महोत्सवमकारयत् । ।2.221.७ ० । ।
भोजनं प्रददौ बालकृष्णादिभ्यस्ततः परम् ।
आश्वरथे निषाद्यैव भ्रामयामास पत्तने । । ७१ । ।
प्रजाः पुपूजुः श्रीकृष्णवल्लभस्वामिनं मुदा ।
मध्याह्ने तु विशश्राम हरिस्तावन्नृपः स्वयम् । । ७२ । ।
पादसंवाहनं चक्रे बालकृष्णस्य वै तदा ।
सायं विमानमारुह्य बभ्राम सागराम्बरे । । ७३ । ।
तृतीयायां तदा सायं नेतुं श्रीबालकृष्णकम् ।
पात्रगोनयराष्ट्रेशो रायसोमनभूपतिः । । ७४। ।
निजं देशं पावयितुं नेतुं कृष्णं समाययौ ।
हरिर्विहृत्य चावासं त्वाययौ तत्र भूपतिः । । ७५ । ।
नेमे रायसोमनश्च प्रार्थयत्परमेश्वरम् ।
हरिस्तथाऽस्त्विति प्राह जलं पीत्वा विमानकम् । । ७६ । ।
अध्यारुरोह शीघ्रं च सर्वसार्थसमन्वितः ।
वायुमाननगरीं वै गन्तुं सज्जोऽभवत्तदा । । ७७ । ।
राजा विदायं पूजां च यौतकं प्रददौ मुदा ।
विमानं प्रैरयत् कृष्णो रायसोमनबोधितः । । ७८ । ।
शृण्वन् विदायमानार्थवाद्यानि भगवान् स्वयम् ।
आययौ नगरीं दिव्यां वायुमानां सुशोभनाम् । । ७९ । ।
नदीतीरस्थितां रम्यां दृष्ट्वा कृष्णो विमानकम् ।
राजदर्शितमार्गेणाऽवातारयन्नदीतटे । । 2.221.८० । ।
तदा वाद्यान्यवाद्यन्त स्वागतं बहुधाऽभवत् ।
वर्धयामासुरत्यर्थं पुष्पाक्षतादिभिः प्रजाः । । ८१ । ।
हरिर्विमानतश्चायाद् बहिः स्वर्णासने तदा ।
निषसाद स्वयं राजाऽपूजयत् पुष्पमालया । ।८ २ । ।
चन्दनाक्षतपुष्पाद्यैः सुगन्धिद्रवसेचनैः ।
राज्ञी पुपूज च प्रीत्या नीराजनं चकार ह । । ८३ । ।
राजा गजे निषाद्यैव भ्रामयामास पत्तने ।
प्रधानाः श्रीहरिं तत्राऽऽनर्चुर्गोपुरचत्वरे । । ८४ । ।
महापथे समानर्चुः श्रेष्ठिनो धनिनस्तथा ।
रथ्यामुखेषु नार्यश्च स्थानिनो गृहसन्निधौ । । ८५ । ।
पुपूजुः श्रीपतिं नार्यो गीतिभिः कीर्तनं जगुः ।
एवं हरिं भ्रामयित्वा नगर्यां च नृपो निजे । । ८६ । ।
मन्दिरे त्वानयामास रात्रौ कृष्णनरायणम् ।
आरार्त्रिकं चकारापि राज्ञी पुपूज वस्तुभिः ।।८७।।
तिस्रः कन्या हरेः कण्ठे वरमालां न्यधुस्तदा ।
पतिं प्राणेश्वरं प्राप्य कृतकृत्याश्च ताः शुभाः ।।८८।।
अभवन् राधिके श्रीमत्कृष्णनारायणः प्रभुः ।
भोजनानि तदा रात्रौ जग्राह सार्थकान्वितः ।।८९।।
आश्विनाऽसिततृतीयरात्रौ विश्रान्तिमाप च ।
सिषेविरे च नाथं स्वं कन्यास्तिस्रोऽतिभावतः ।।2.221.९०।।
हरिर्जग्राह वै निद्रां प्रातर्बुबोध मंगलैः ।
वाद्यघोषैर्गीतिभिश्च वेदमन्त्रैश्च कीर्तनैः ।।९ १ ।।
सूतमागधबन्दीनां प्रशंसावाक्यकाव्यकैः ।
कृतस्नानाह्निकः कृष्णो ववन्दे पितरौ निजौ ।।९२।।
दुग्धपानादिकं चक्रे चतुर्थ्यां प्रातरेव सः ।
प्रजास्त्वाययुरीशेशपूजार्थं प्रातरेव ह ।।९३ ।।
राजा पुपूज पूर्वं तं प्रजाश्चानर्चुरच्युतम् ।
ततो ददौ हरिर्द्रव्यं बालद्विजर्षये धनम् ।।९४।।
रायसोमननृपतिर्बालद्विजऋषिस्तथा ।
सन्तुष्टौ परमौ जातौ प्रजास्तुष्टास्तथाऽभवन् ।।९५।।
हरिश्चोपादिदेशाऽथ राधिके हितकृत्तदा ।
अनादिश्रीकृष्णनारायणोऽवतारकारणम् ।।९६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आन्तःप्रागस्थनगर्यामुपदेशनं भोजनं रात्रौ विश्रमणम् आश्विनकृष्णतृतीयायां प्रातर्बाल्यरजोनृपराष्ट्रगमनं
मन्त्रिणांगानगर्यां भ्रमणं पूजनं भोजनं विदायं यौतकं सायं च रायसोमननृपराष्ट्रगमनं वायुमानानगर्यां स्वागतं भ्रमणं पूजनं भोजनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामैकविंशत्यधिकद्विशततमोऽध्यायः ।।२२ १ ।।