अथर्ववेदः/काण्डं ६/सूक्तम् ००८

विकिस्रोतः तः
← सूक्तं ६.००७ अथर्ववेदः - काण्डं ६
सूक्तं ६.००८
ऋ. जमदग्निः।
सूक्तं ६.००९ →
दे. कामात्मा, २ सुपर्णः, ३ द्यावापृथिवी, सूर्यः। पथ्यापङ्क्तिः।

यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।
एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥
यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥1