लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २००
← अध्यायः १९९ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २०० [[लेखकः :|]] |
अध्यायः २०१ → |
श्रीकृष्ण उवाच-
राधे हारितदेशेषु बह्वरण्याऽतिशीतिषु ।
स्वल्पप्रजाश्रितेष्वेषः कृष्णनारायणः प्रभुः ।। १ ।।
अपरानाविकापुर्यां समुद्रसन्निधौ निजम् ।
विमानमम्बरात्तूर्णं दिनमानार्कभूभृता ।। २ ।।
प्रदर्शितेन मार्गेण गरिमापृथिवीतले ।
हारितर्षिं स्थितं दृष्ट्वा समवातारयच्छनैः ।। ३ ।।
अन्यान्यपि विमानानि चावतेरुस्तदाऽम्बरात् ।
राजा सैन्येन सहितः स्वागतं परमात्मनः ।। ४ ।।
समाचरत्तथा राज्ञी हारितश्च प्रजाजनः ।
राजा श्रुतं हरिं श्रीमद्बालकृष्णं विमानगम् ।। ५ ।।
अन्तिकं चाभिगत्वैव ददर्शाऽऽश्चर्यमाप्तवान् ।
अदृष्टपूर्वं श्रीकान्तं रमणीयसुविग्रहम् ।। ६ ।।
प्रथमं दिव्यमालोक्य क्षणं तु स्थिरतां गतः ।
विमाने श्रीहरेर्मूर्तौ लीनः समाधिमानिव ।। '७ ।।
जात एव तथा राज्ञी कुमाराश्च कुमारिकाः ।
सर्वे दृष्ट्वा बालकृष्णं समाधिं चाभिपेदिरे ।। ८ ।।
कोटिविद्युत्समं तेजो ददृशुः सर्वतोमुखम् ।
तत्रेश्वरान् विराडाद्यान् ददृशुश्च ततः परान् ।। ९ ।।
भूमाद्यानथ तत्पश्चाद् धाम गोलोकमुत्तमम् ।
लोकयामासुरुत्कृष्टं कोटिगोपगणाश्रितम् ।। 2.200.१ ०।।
तत्र कृष्णं बालकृष्णं विलोक्य पुनरेव ते ।
अक्षराख्ये परे धाम्नि स्थितं श्रीपुरुषोत्तमम् ।। ११ ।।
व्यलोकयन्मुक्तमध्ये ब्रह्मप्रियासमन्वितम् ।
सर्वेश्वरेश्वरं नारायणं मुक्तादिसेवितम् ।। १ २।।
ततः समाधिर्नष्टश्च व्युत्थितास्ते विमानके ।
बालकृष्णं निजे राष्ट्रे ददृशुस्तेऽतिभावुकाः ।। १ ३।।
आश्चर्यं परमं प्राप्ता राजा राजकुटुम्बिनः ।
हारचन्दनगन्धाद्यैरपूजयन् विमानके ।
तावद्धरिर्बहिर्यातो विमानाद् भास्वराम्बरः ।। १४।।
सर्वलावण्यसौन्दर्यौज्ज्वल्यहास्यमनोहरः ।
प्रजा गौर्यश्च हारित्यो वर्धयामासुरच्युतम् ।। १५।।
लाजाक्षतादिभिः पुष्पैर्गीतैश्च नमनादिभिः ।
प्रजाजनाः प्रणेमुश्च श्रीपतिं कृष्णवल्लभम् ।। १६।।
राजा हरिं करेणैव करमादाय कानके ।
यन्त्रबाह्ये रथे न्यषादयत् स्रगादिशोभिते ।। १७।।
कुटुम्बं च नृपस्याऽपि रथेऽत्र निषसाद ह ।
राजा छत्रं दधारापि राज्ञी दध्रे च वायुदम् ।। १८।।
कुमार्यश्चामरे दध्रुः कुमारा वेत्रमावहन् ।
रथेष्वन्येषु पितरौ हरेः कुटुम्बमेव च ।। १९।।
निषाद्याऽन्यरथे शंभुं परेषु मुनिमण्डलम् ।
गुप्तिगन्त्रीषु च कृष्णकान्ता न्यषादयन्नृपः ।।2.200.२०।।
महता स्वागतेनैवं वाद्यध्वनिपुरःसरम् ।
तूपशब्दैर्नादिता च पुरीं प्रावेशयत् प्रभुम् ।।२१ ।।
महोत्साहः प्रजायां वै तदाऽभून्नूतनेक्षणात् ।
हृन्दि हरिः प्रजानां संप्रचकर्ष मुहुर्मुहुः ।।२२।।
यत्राऽङ्गे यस्य चक्षुर्वै तदा लग्नं त्वभूद्धरेः ।
तत्राऽऽसक्तं ध्रुवं चाऽभून्निर्निमेषं स्थिरं सुखात् ।।२३।।
केचिदस्यमुखपंकजमीक्ष्याऽऽपुर्हिसाधनमपास्य समाधिम् ।
तत्र चातिहृदयंगममीशं वीक्ष्य शान्तिमतिगां समवापुः ।।२४।।
काश्चिदस्य मदनाश्रितनेत्रं त्वायतान्तमतिकृष्टिभरं च ।
वीक्ष्य मोहितधियः स्थिरतां वै प्राप्य चक्रुरमृतोत्तमपानम् ।।२५।।
यास्तदोष्ठमुरुरक्तकबिम्वाभं विलोक्य समकर्षितचित्ताः ।
योषितः समभवन्समलब्धौ ताः सतृष्णहृदया अभवँश्च ।।२६।।
काश्चिदस्य पुरुसुन्दरगात्रेलुब्धवृत्तय इतीश्वरबोधाः ।
अर्पणं च परिचक्रुरमुष्मै मानसं तनुगतं च समस्तम् ।। २७।।
संविलोक्य पुरुभक्तिसेविकाः काश्चिदेष परमेश्वरोत्तमः ।
नो नयत्विति पराक्षरं निजं हारिताः समवकल्पयँस्तदा ।।२८।।
राधिकाकमलगारमासतीमाणिकीप्रभृतयो दिवानिशम् ।
यं भजन्ति बहुधा तु पद्मजाब्राह्मशक्तय इमा हि गौरिकाः ।।२९।।।
तं भजाम इदमाधिसंयुतं संविहाय तु चलं कलेवरम् ।
शाश्वतं भवति चात्र वै सुखं न्वालयोऽस्य कुरुत प्रपूजनम् ।।2.200.३ ० ।।
अत्र शीतभवने समुद्रगेऽनुग्रहेण भगवान् समागतः ।
कर्मणा च मनसा च कीर्तनैः सेवया कुरुत नैजमीश्वरम् ।।३ १ ।।
कीदृशो नु परिधिः समन्ततश्चाननस्य भवतीह तैजसः ।
कोटिचन्द्रपरिकान्तिसंस्रवद्विग्रहोऽस्यहृदयंगमोऽस्ति यत्।।३२।।
नैकमुक्तजनसेवितपादः कोटिदासपरिमर्दितगात्रः ।
प्राप्यते नु बहुपुण्यधनाढ्यैर्नाऽयमाप्त इति विस्मरणीयः ।।३३।।
मानवाश्च जनता इत आद्ये नेदृशं हृदि च कामितवन्तः ।
तादृशोऽयमिह चाप्त उमेशस्तं श्रयन्वतिसुखं परमेशम् ।।३४।।
मा त्यजन्तु मिलितं सुलभं च कान्तकान्तमुरुसद्गुणभाजम् ।
वर्धयन्तु हदयैः कुसुमैश्च पूजयन्तु निजसर्वसुदानैः ।।३५।।
इत्येवं राधिके! स्वामिबालकृष्णं विलोक्य ताः ।
हारिताः प्रमदाः सर्वा ऊचुः पपुः प्रभुं सुखैः ।।३६।।
राजा गोपुरके घण्टापथे प्राधानिकास्तथा ।
हट्टेषु हट्टपाश्चापि रथ्यामुखेषु योषितः ।।३७।।
वल्लभीषु कन्यकाश्च जनताः पार्श्वभूस्तटे ।
चत्वरेषु प्रजाः सर्वाः पुपूजुः परमेश्वरम् ।।३८।।
लाजाभिः सत्फलैः पुष्पैः कुंकुमैरक्षतैरपि ।
वस्त्रैश्चन्दनपंकाद्यैर्गन्धैरानर्चुरच्युतम् ।।३९।।
सामुद्ररत्नहाराँश्च ददौ ते परमेष्ठिने ।
अपरानाविकापुर्यां भ्रामयित्वा प्रजाजनाः ।।2.200.४०।।
पूजयित्वा गृहे नीत्वा स्वे स्वे कृतार्थतामगुः ।
हरिस्ततो निजावासे दिनमानार्कमन्दिरे ।।४१।।
आययौ हारितर्षिश्च नत्वाऽऽह परमेश्वरम् ।
भोजनानि सुमृष्टानि विद्यन्ते भुंक्ष्व तानि वै ।।४२।।
भोजयाऽन्यान् हरेकृष्ण पायसादीन् प्रतर्पय ।
ततो विमानमारुह्य गरिमाक्ष्मां विलोकितुम् ।।४३ ।।
गन्तव्यं दृष्टिमात्रेण पावयितुं समन्ततः ।
इत्युक्तो भगवान् शीघ्रं जग्रास पायसादिकम् ।।४४।।
महीमानान् समस्ताँश्च भोजयामास वै द्रुतम् ।
सर्वान् राजालये त्यक्त्वा शंकरेण नृपेण च ।।४५।।
ऋषिणा च समं कृष्णः परिमेयपुरःसरः ।
विमानं स्वं समारुह्याम्बरे जगाम चोत्तरे ।।४६।।
वाशृंगतनुभूभागं विलोक्यापि परीस्थलम् ।
फुद्रिक्तं विलयं देशं काञ्चनं चार्षुकं स्थलम् ।।४७।।
हायनं च स्थलं वीक्ष्य ह्यपरानाविकां ययौ ।
एवं विलोक्य भगवानवाततार चाम्बरात् ।।४८।।
राजसौधे विशश्राम राज्ञी पूजार्थमाययौ ।
पूजयित्वा हरिं तस्याः कन्याद्वयं हरिं तदा ।।४९।।
अपूजयत् सुखासक्ते कन्यके स्थिरनेत्रिके ।
हरिं दृष्ट्वा चकमाते वव्रातेऽर्पितमालया ।।2.200.५० ।।
पाणी जग्राह भगवान् प्रत्यर्पितसुमालया ।
तदुत्सवं नृपश्चक्रे रात्रौ भोजनतः परम् ।।५१ ।।
गणेशं पूजयामास दूर्वालड्डूककुंकुमैः ।
नृत्यं त्वकारयद् राजा वाद्यान्यवादयत्तथा ।।५२।।
सिन्दूरैश्चार्चयामास गणेशविग्रहे शुभे ।
अगापयच्च पद्यानि कीर्तनानि तदुत्सवे ।।५३।।।
हारिते कन्यके कृष्णं सिषेवाते सवोत्तरम् ।
निशा गता प्रभातेऽथ कृतस्नानसुपूजनः ।।५४।।।
बालकृष्णोऽभवत् सज्जो दुग्धपानोत्तरं तदा ।
गन्तुं केनाटकदेशानमरीणां प्रदेशकान् ।।५५।।
पञ्चम्यां संगवे काले भाद्रे शुक्लेऽतिशोभने ।
राजा विदायं प्रददौ बहुरत्नादिकं तदा ।।५६।।
हरिर्हारितमुनयेऽर्पयामास धनादि तत् ।
राजा सैन्येन सहितो मानं तत्र ददौ बहु ।।५७।।
जयशब्दा यशःशब्दा गीतयश्चाभवँस्तदा ।
गौरीभिर्हारिताभिश्च कृता माधुर्यसंभृताः ।।५८।।
हरिर्हारं ददौ राज्ञे राज्ञ्यै पुत्रेभ्य इत्यपि ।
प्रजानतिं समागृह्य समारुरोह शोभनम् ।।५९।।
आसनं चान्यवर्गाश्चारुरुहुश्चासनानि हि ।
उपादिदेश राजानं प्रजाजनाश्च सद्धितम् ।।2.200.६०।।
उष्ट्रः पुरा तपश्चक्रे प्रजापतिः समाययौ ।
वरदानं तदा वव्रे ग्रीवाऽस्तु योजनाऽऽयता ।।६ १ ।।
ब्रह्मा तथाऽस्त्वितिप्राहाऽरण्ये तूष्ट्रः सदा स्थितः ।
महालसो निषद्यैकस्थले चखाद पादपान् ।।६२।।
परितो योजनावर्ते रात्रौ स्वपिति सौख्यभाक् ।
मध्ये शृगालः सम्प्राप्तो ववल्गे तद्गले दृढम् ।।६३।।
ममारोष्ट्रो मध्यकण्ठे भेदनाल्लम्बकण्ठवान् ।
तथा लोके लम्बतृष्णो म्रियेत मायया हतः ।।६४।।
तस्मात् तृष्णां न कुर्वीत कुर्वीत भजनं हरेः ।
ममाश्रयं प्रकुर्वीत तारयेऽहं न संशयः ।।६५।।
सिंहस्याऽऽसीत्प्रधानो वै हंसः कश्चिद् वनान्तरे ।
दरिद्रो ब्राह्मणो नाम्ना सत्त्ववृत्तिर्ययौ वनम् ।।६६।।
हंसस्तं मिलितो मार्गे पप्रच्छ कुत्र गम्यते ।
स प्राह धनलाभार्थं यामि देशान्तरं न्वितः ।।६७।।
हंसः प्राह भवान् विप्रो मम पूज्योऽस्ति चानघ ।
दास्ये रत्नानि ते त्वत्र सिंहार्जितानि हस्तितः ।।६८।।
मारयित्वा गजान् कुंभस्थलमौक्तिकजातिकान् ।
इत्युक्त्वा सह नीत्वैनं विप्रं हंसो ह्यरण्यके ।।६९।।
ययौ यत्रास्ति सिंहः सः सिंहं प्राह स हंसकः ।
अतिथिर्ब्राह्मणश्चायं पूजनीयः समागतः ।।2.200.७०।।
हिंसाजन्यं महत्पापं नश्येदस्मै प्रदानतः ।
इत्युक्तः शार्दूलवर्यः प्रक्षाल्य चरणौ ततः ।।७१ ।।
विप्रपादामृतं पीत्वा पुपूज रत्नदानकैः ।
विप्रो गृहं प्रयात्येव हंसस्तदाह तं द्विजम् ।।७२।।
आयाहि मा पुनस्त्वत्र माम् ऋते दुःखमुद्भवेत् ।
इत्युक्त्वा प्रययौ हंसस्ततः कालान्तरे द्विजः ।।७३।।
पुनर्लोभेन संप्राप्तस्तद्वनं संस्मरन् हरिम् ।
हंसो मन्त्री तदा नाऽभूत् काको मन्त्री तदा ह्यभूत् ।।७४।।
द्विजं प्रवीक्ष्य काकस्तु सिंहं प्राह प्रखादय ।
सिंहः प्राह न चैवं स्याद् विप्रोऽयं पावनः सदा ।।७५।।
पादवारि पपौ धूलीं मस्तके स न्यधात्तदा ।
काकः प्राह पवित्रं वै पादवारि तु यस्य हि ।।७६।।
स तु पूर्णः पवित्रोऽस्ति भक्षितव्यः स सर्वशः ।
तेन पूता वयं स्यामः पापं नश्येत्तथाऽऽन्तरम् ।।७७।।
इत्युक्तः सिंहराजस्तु भक्षयामास तं द्विजम् ।
तस्माल्लोभं न कुर्वीत मृत्युर्लोभगृहे स्थितः ।।७८।।
लोभं (यक्त्वा हरिं स्मृत्वा सन्तोषेण हि वर्तयेत् ।
सुखी स स्यादत्र लोके धाम्नि परत्र मे सुखी ।।७९।।
सन्तुष्टस्य परं धाम निश्चितं भक्तिसञ्जुषः ।
एकदा सागरः प्राह सरितः किमु शाखिनः ।।2.200.८०।।
आयान्त्येव जलोह्या वै नायान्ति वैतसानि तु ।
नद्यः प्राहुर्द्रुमाश्चैते कूलस्था अपि सर्वदा ।।८१।।
अस्मदभ्युदये चापि न नमन्ति कदाचन ।
तान् वयं मूलतो हृत्वा नयामः सागरोदरे ।।८२।।
वैतसीनालिकाः पूरे पतितास्तु नमन्त्यपि ।
विगते पूरवेगे तु शनैर्यान्ति समुत्थितिम् ।।८३।।
न तान् वयं नयामो वै नमतो नालपत्रकान् ।
ये नमन्ति जनाः काले महान्तं वेगिनं तु ते ।।८४।।
नाप्नुवन्ति मूलनाशं स्थितिमन्तो भवन्ति ते ।
एवं कालं तथा मायां वेगकाले नमन्ति ये ।।८५।।
शनैरुत्थानमासाद्य जीवन्ति देहिनस्त्विह ।
ते न दुःखं प्रपश्यन्ति तद्वद् वृत्यं जनैरिह ।।८६।।
मामाश्रित्य शनैर्मायां त्यक्त्वा गन्तव्यमेव मे ।
धाम दिव्यं सुखावासं सुस्थिराश्रयमेव ह ।।८७।।
देशकालौ विचार्यैव वर्तितव्यं सुखार्थिना ।
अहं नारायणः स्वामी भजनीयः सदा प्रभुः ।।८८।।
तारयामि न सन्देहो भजन्तं मां पदागतम् ।
मूर्खः क्रोडोऽभवत्पृष्ठे शृगालं धर्तुमेव ह ।।८९।।
अधावद् बहुवेगेन शृगालोऽवसरे तदा ।
कूपमुत्प्लुत्य चाक्रामत् परतीरं गतोऽभवत् ।।2.200.९०।।
क्रोडः स्थूलवपुर्धावन् वेगतः कूपगोऽभवत् ।
अपतज्जलमध्ये च ममाराऽज्ञानसंहतः ।।९ १ ।।
तस्मान्नैव क्वचिद्भाव्यं वेगेन कर्मणा जनैः ।
शनैस्तरेद्धि संसारं मदाश्रयेण मानवः ।। ९२।।
शृगालाभं लोभवेगं नाश्रयेन्मानवस्त्विह ।
दोषात्मकं महाधूर्तं पातयन्तं तु गर्तके ।।९३।।
कामं क्रोधं मदं लोभं मानं त्यक्त्वा सुखी भवेत् ।
मामीशं साधुपुरुषं साध्वीं श्रित्वा सुखी भवेत् ।।९४।।
एवमुक्त्वा ददौ मन्त्रं हरिः राज्ञे कुटुम्बिने ।
प्रजाभ्यश्च ददौ मन्त्रं लोमशस्तु निदेशितः ।।९५।।
हारिताभ्यः प्रजाभ्यश्च मन्त्रं ददौ महेश्वरः ।
ततो जलं प्रपीत्वैव भगवान् चाम्बरेऽभवत् ।।९६।।
गजादिभिः पुष्पहारैः पूजितः परमेश्वरः ।
आशीर्वादान् मुहुर्दत्वा निजं विमानमास्थितः ।।९७।।
अन्ये सर्वेऽभवन् व्योम्नि विमानेषु स्थितास्तदा ।
वाद्यान्यतीव वेगेनाऽवाद्यन्त माननाय वै ।।९८।।
जयशब्दा यशःशब्दा यन्त्राणां ध्वनयस्तथा ।
अभवँस्तत्र देशे वै हरिः शीघ्रं विमानकम् ।।९९।।
प्रैरयद् व्योममार्गेण केनाटकभुवं प्रति ।
समुल्लंघ्य समुद्रं वै केनाटकप्रदेशकान् ।। 2.200.१० ०।।
आययुश्च विमानानि मध्याह्ने वेगवन्ति वै ।
देशान् जले विकीर्णांश्च दृष्ट्वाऽविचारयद्धरिम् ।। १०१ ।।
यज्ञस्थानं प्रथमं वै गन्तव्यं यत्र वर्तते ।
लालायनो महर्षिश्च ततोऽन्यत्कार्यमेव ह ।। १ ०२।।
अथ लालायनश्चापि स्मृत्वा विमानमण्डलम् ।
तूर्णं स्वागतनादाँश्च राजसैन्यैरकारयत् ।। १०३ ।।
हरिश्चापि द्विफेनाब्धिं द्विफेनद्वीपमेव च ।
हड्डिकासनमुल्लंघ्य विनिपारसरो ययौ ।। १ ०४।।
यत्र वाद्यानि वाद्यन्ते स्वागतार्थं हरेस्तदा ।
असंख्यमानवा यत्र प्रतीक्षन्ते परेश्वरम् ।। १ ०५।।
राधिके हर्षनादाश्चाभवन् दिगन्तगामिनः ।
दूरदर्शादिभिर्लोका व्यपश्यन्नम्बरे तदा ।। १०६ ।।
तूपशब्दाः कर्कशाश्च वायुकम्पनकारिणः ।
तूर्यसंगीतघोषाश्चाऽभवन् सम्मानने हरेः ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दिनमानार्कनृपस्य गरिमाखण्डे हरेरपरानाविकापुर्यामवतरणं भ्रामणं पूजनं भोजनं विश्रमणं समन्ततो देशे विमानेन गमनं रात्रौ विश्रान्त्युत्तरं प्रातर्भोजनं प्रस्थानं केनाटकप्रदेशेषु विनिपारसरोवरं प्रत्यागमनं चेति निरूपणनामा द्विशततमोऽध्यायः ।। २०० ।।