अथर्ववेदः/काण्डं २/सूक्तम् ३४

विकिस्रोतः तः
← सूक्तं २.३३ अथर्ववेदः - काण्डं २
सूक्तं २.३४
ऋ. अथर्वा।
सूक्तं २.३५ →
दे. १ पशुपतिः, २ देवाः, ३ अग्निः विश्वकर्मा, ४ वायुः प्रजापतिः, ५ आशीः। त्रिष्टुप्।

य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।
निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥
प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥
ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥
ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।
दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥


सायणभाष्यम्

'य ईशे पशुपतिः' इति सूक्तेन वशाशमनकर्मणि आज्यं जुहुयात् । तद उक्तं सूत्रे--" 'य ईशे पशुपतिः पशूनाम्' इति हुत्वा वशाम् अनक्ति" ( कौसू ४४,७) इति। तथा सर्वलोकाधिपत्यकामः अनेन सूक्तेन इन्द्राग्न्योर्यागम् उपस्थानं वा कुर्यात्।

तथैव अनेन सूक्तेन इष्टम् अन्नम् अभिमन्त्र्य ब्राह्मणेभ्यो दद्यात् । सूत्रितं हि-- " 'य ईशे' (२,३४ ), 'ये भक्षयन्तः' (२,३५) इति इन्द्राग्नी लोककामः । अन्नं ददाति" (कौसू ५९,२१; २२ ) इति !

तथैव अनेन पशुयागे संज्ञपनार्थं यूपात् प्रमुच्यमानं पशुम् अनुमन्त्रयेत । उक्तं वैताने-- “अथ पशुर्वैष्णवं पूर्णहोमम् 'उरु विष्णो' " इति प्रक्रम्य “ ‘य ईशे' इति प्रमुच्यमानम् अनुमन्त्रयते” (वैताश्रौ १०,१६) इति ।

अत्र 'प्रजानन्तः' (अ २,३४,५) इत्यनया वशाख्यपशोः संज्ञपनं कुर्यात् । अत्र सूत्रम् -– “अथ प्राणान् आस्थापयति प्रजानन्तः इति" (कौसू ४४,१५) इति ।


य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।

निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥

यः । ईशे । पशुऽपतिः । पशूनाम् । चतु:ऽपदाम् । उत । यः। द्विऽपदाम् । निःऽक्रीतः। सः । यज्ञियम् । भागम् । एतु । रायः। पोषाः । यजमानम् । सचन्ताम्॥१॥ यः पशुपतिः पशूनां पालयिता रुद्रः चतुष्पदाम् गवादीनां पशूनाम् ईशे ईष्टे नियन्ता भवति उत अपिच यः पशुपतिर्द्विपदाम् मनुष्यादीनां च ईष्टे। ईश ऐश्वर्ये । 'लोपस्त आत्मनेपदेषु' ( पा ७,१,४१ ) इति तलोपः। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । 'अधीगर्थदयेशां कर्मणि' (पा २,३,५२) इति कर्मणि षष्ठी । चतुष्पदां द्विपदाम् इत्युभयत्र 'संख्यासुपूर्वस्य' (पा ५,४,१४० ) इति पादशब्दस्य अन्त्यलोपः समासान्तः । 'द्वित्रिभ्यां पाद्दन्' (पा ६,२,१९७ ) इति द्विपदाम् इत्यस्य उत्तरपदान्तोदात्तत्वम् । तस्मात् पशुपतेः सकाशाद् निष्क्रीतः सः निष्कृष्य स्वाधीनीकृतोऽयं वशारूपः पशुः यज्ञियम् यज्ञार्हं भागम् एतु गच्छतु यज्ञभागतां प्रतिपद्यताम् । 'यज्ञर्त्विग्भ्यां घखञौ' (पा ५,१,७१) इति घः । किञ्च रायः धनस्य पशुहिरण्यादिलक्षणस्य पोषाः समृद्धयः यजमानं सचन्ताम् समवयन्तु। 'ऊडिदम्” (पा ६,१,१७१) इति रायः षष्ठ्या उदात्तत्वम् । 'षष्ठ्याः पतिपुत्र' (पा ८,३,५३ ) इति सत्वम् ।


प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।

उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥

प्रऽमुञ्चन्तः । भुवनस्य । रेतः । गातुम् । धत्त । यजमानाय । देवाः ।

उपऽआकृतम् । शशमानम् । यत् । अस्थात् । प्रियम् । दे॒वानाम् । अपि । एतु । पाथः ॥२॥

प्रमुञ्चन्तः इमं हन्यमानं पशुं त्यक्त्वा गच्छन्तो हे देवाः चक्षुराद्याः प्राणा यूयम् । कीदृशं पशुम् । भुवनस्य भूतजातस्य रेतः कारणं यागद्वारेण उत्पत्तिहेतुम् यजमानाय अस्मै गातुम् गतिं धत्त पुण्यलोकान् गन्तुं मार्गं कुरुत । किञ्च उपाकृतम् उपाकरणेन संस्कृतं शशमानम् शाम्यन्तम्। संज्ञप्यमानम् इत्यर्थः । शाम्यतेस्ताच्छीलिकश्चानश् । छान्दसः शपः श्लुः। यद्वा शशमानम् अस्मात् लोकाद् उत्प्लुत्य गच्छन्तम् । शश प्लुतगतौ । उदात्तेत् । पूर्ववत् चानश् । अत एव लसार्वधातुकानुदात्तत्वाभावः । एतादृशं पशुम् । व्याप्येति क्रियाध्याहारः । यद् मांसलक्षणं पाथः अन्नम् अस्थात् तिष्ठति तद् देवानां प्रियं पाथः मांसलक्षणम् अन्नम् अयम् उपाकृतः पशुः अप्येतु अपिगच्छतु । देवोपभोग्यान्नभावं प्रतिपद्यताम् इत्यर्थः । 'विश्वेषां देवानां प्रियं पाथो अपीहि' (तै ३,३,३,३ ) इत्यादौ यथा अनभिषुतस्य सोमस्य कर्तृत्वम् पाथसः कर्मत्वम् एवम् अत्रापि पशोरन्नकर्तृत्वम् । अत एव याज्ञिका द्विबहुपशुकेषु कर्मसु अपीताम् अपियन्तु इति ऊहं कुर्वन्ति । यद्वा देवा इति अग्न्यादय एव सबोध्याः। तथा हि--हे देवा अग्न्यादयः यूयम् भुवनस्य कृत्स्नस्य भूतजातस्य रेतः उत्पत्तिकारणं पुष्टिरूपम् उदकं प्रमुञ्चन्तः विसृजन्तः । अन्यत् समानम्।


ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।

अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥

ये । बध्यमानम् । अनु । दीध्यानाः । अनुऽऐक्षन्त । मनसा । चक्षुषा । च ।

अग्निः । तान् । अग्रे । प्र । मुमोक्तु । देवः । विश्वऽकर्मा । प्रऽजया । सम्ऽरराणः ॥ ३ ॥

ये सयूथ्याः पशवः वध्यमानम् इमं पशुम् अनुदीध्यानाः अनुदीप्यमाना अनुतप्ताः सन्तो मनसा चक्षुषा च स्नेहवशाद् अन्वैक्षन्त अनुपश्यन्ति न जहति स्नेहात् कारुण्याद् वा । ईक्ष दर्शने । छान्दसो लङ् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६ ) इति निघातप्रतिषेधः । तान् सर्वान् सयूथ्यान् पशून् अग्निर्देवः अग्रे प्रथमं प्र मुमोक्तु स्नेहपाशं प्रमोचयतु । विश्वकर्मा विश्वं कर्म कर्तव्यं यस्य सः प्रजया स्वसृष्टया संरराणः सह शब्दायमानः । दानार्थम् ऐकमत्यं प्राप्त इत्यर्थः । सोपि प्र मुमोक्तु । मुञ्चतेश्छान्दसः शपः श्लुः । रै शब्दे इत्यस्मात् लिटः कानच् । 'युष् मत्तत्ततक्षुःष्वन्तःपादम्' (पा ८,३,१०३ ) इति अग्निष्टान् इत्यत्र षत्वम् ।


ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।

वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥

ये । ग्राम्याः । पशवः । विश्वऽरूपाः । विऽरूपाः । सन्तः । बहुऽधा । एकऽरूपाः ।

वायुः । तान् । अग्रे । प्र । मुमोक्तु । देवः । प्रजाऽपतिः । प्रऽजया । सम्ऽरराणः ॥ ४ ॥

ग्राम्याः ग्रामे भवा गवाद्या ये पशवो विश्वरूपाः सर्वरूपान्विता विरूपाः विविधरूपा एवं बहुधा सन्तोऽपि एकरूपाः संज्ञप्यमानं पशुं प्रति एकस्वभावाः सन्ति तान् सर्वान् वायुः *[देवः] अग्रे प्र मुमोक्तु प्रथमं प्रमोचयतु । प्रजापतिश्च स्वकीयया प्रजया *[संरराणः]ऐकमत्यं गच्छन् पश्चात् प्रमोचयतु ।


प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।

दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥

प्रऽजानन्तः । प्रति । गृह्णन्तु । पूर्वे । प्राणम् । अङ्गेभ्यः । परि । आऽचरन्तम् ।

दिवम् । गच्छ । प्रति । तिष्ठ । शरीरैः । स्वःऽगम् । याहि । पथिऽभिः । देवऽयानैः ॥५॥

प्रजानन्तः इह यागे उपयुक्तस्य तव माहात्म्यं प्रकर्षेण जानन्तः पूर्वे पूर्वमेवान्तरिक्षे स्थिता देवाः तव अङ्गेभ्यः शरीरावयवेभ्यः पर्याचरन्तम् परितः सर्वतो निष्क्रम्य आभिमुख्येन आगच्छन्तं तव प्राणम् तत्सहितम् आत्मानं प्रति गृह्णन्तु। ततस्त्वं देवैः परिगृहीतो दिवम् अन्तरिक्षं गच्छ । तत्र च शरीरैः दिव्यभोगार्हैः प्रति तिष्ठ प्रतिष्ठितो भव । 'द्व्यचोऽतस्तिङः' (पा ६,३,१३५) इति दीर्घत्वम् । ततो देवयानैः देवा यैर्यान्ति तैः पथिभिः मार्गैः स्वर्गम् अभिलष्यमाणसुखोपभोगस्थानं याहि गच्छ।

इति द्वितीयकाण्डे षष्ठेऽनुवाके द्वितीयं सूक्तम् ।