अथर्ववेदः/काण्डं २/सूक्तम् ३३

विकिस्रोतः तः
← सूक्तं २.३२ अथर्ववेदः - काण्डं २
सूक्तं २.३३
ऋ. ब्रह्मा।
सूक्तं २.३४ →
दे. यक्ष्मविबर्हणम्, चन्द्रमाः, आयुष्यम्। अनुष्टुप्, ३ ककुम्मती, ४ चतुष्पदा भुरिगुष्णिक्, ज्ञ उपरिष्टाद्विराड्बृहती, ६ उष्णिग्गर्भा नृचिदनुष्टुप्, ७ पथ्यापङ्क्तिः।

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥


सायणभाष्यम्

'अक्षीभ्याम्' इति सूक्तेन अक्षिनासाकर्णशिरोजिह्वाग्रीवादिसर्वावयवजरोगभैषज्यकर्मणि बाह्वादिपर्वसु बद्धं व्याधितं संपातितोदकेन पर्वग्रन्थीन् विमुच्य अवसिञ्चेत् । सूत्रितं हि--" 'अक्षीभ्यां ते' इति वीबर्हम् । उदपात्रेण संपातवतावसिञ्चति' ( कौसू २७,२७; २८ ) इति ।

तथा अस्य सूक्तस्य अंहोलिङ्गगणे पाठात् तस्य गणस्य यत्रयत्र सर्वरोगभैषज्यादिषु विनियोग उक्तस्तत्र सर्वत्र अस्य विनियोगोऽनुसंधेयः । सूत्रितं हि-- 'ओषधिवनस्पतीनाम् अनुक्तान्यप्रतिषिद्धानि भैषज्यानाम् । अंहोलिङ्गाभिः' ( कौसू ३२,२६; २७) इति । अत्र 'अक्षीभ्यां ते' (अ २,३३), 'मुञ्चामि त्वा' (अ ३,११), 'उत देवाः' (अ ४,१३), 'आवतस्ते' ( अ ५,३०), 'शीर्षक्तिम्' (अ ९,८ ) इति पञ्चप्रतीको गणो विवक्षितः।

तथैव अश्वमेधादिषु दीक्षावतो यजमानस्य भैषज्यकर्मणि एतत् सूक्तं विनियुक्तं वैताने –- “अथ भैषज्याय यजमानम् 'अक्षीभ्यां ते' 'मुञ्चामि त्वा' " (वैताश्रौ ३८,,१) इति ।


अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।

यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥

अक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि ।

यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वायाः । वि । वृहामि । ते ॥ १ ॥

हे यक्ष्मगृहीत ते तव अक्षीभ्याम् चक्षुर्भ्यां यक्ष्मम् रोगं वि वृहामि उद्धरामि । विश्लेषयामीत्यर्थः । 'ई च द्विवचने' (पा ७,१,७७ ) इति अक्षिशब्दस्य ईकारान्तादेशः स चोदात्तः। तथा नासिकाभ्याम् घ्राणेन्द्रियाधिष्ठानाभ्यां कर्णाभ्याम् श्रोत्राभ्यां च चुबुकाद् ओष्ठस्याधःप्रदेशाच्च । अधिः अनर्थकः। अपि च शीर्षण्यम् शिरसि भवो रोगः शीर्षण्यः ‘शरीरावयवाच्च' (पा ४,३,५५) इति यत् । 'ये च तद्धिते' (पा ६,१,६१) इति शिरसः शीर्षन्नादेशः। 'ये चाभावकर्मणोः' (पा ६,४,१६८ ) इति प्रकृतिभावः। ईदृशं यक्ष्मं रोगं ते तव मस्तिष्कात् । शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः । तस्मात् जिह्वायाः रसनायाश्च सकाशाद् वि वृहामि उद्धरामि । पृथक्करोमीत्यर्थः । वृहू उद्यमने इति धातुः।


ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।

यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥

ग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् ।

यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥ २ ॥

हे व्याधिगृहीत ते तव ग्रीवाभ्यः। अत्र ग्रीवाशब्देन तदद्वयवभूतानि चतुर्दश सूक्ष्माण्यस्थीनि उच्यन्ते बहुवचननिर्देशात् । तद् उक्तं शतपथे ब्राह्मणे-- 'ग्रीवाः पञ्चदशः । चतुर्दश वा एतासां करूकराणि वीर्यं पञ्चदशम् । तस्माद् एताभिरण्वीभिः सतीभिर्गुरुं भारं हरति' (माश १२,२,४,१० ) इति । ताभ्यो यक्ष्मं वि वृहामीति उत्तरत्र संबन्धः । तथा उष्णिहाभ्यः ऊर्ध्वं स्निग्धाभ्यः रक्तादिना उत्स्नाताभ्यो वा नाडीभ्यः। तद् उक्तं यास्केन--'उष्णिग् उत्स्नाता भवति स्निह्यतेर्वा स्यात् कान्तिकर्मणः' (नि ७,१२) इति । उष्णिगेव उष्णिहा। ‘टापं चापि हलन्तानाम्' इति टापः स्मरणात् । तथा चापि अन्यत्र श्रूयते--'उष्णिहा छन्दः' (तै ४,३,५,१) इति । 'सयुग्वोष्णिहया सविता सं बभूव' ( ऋ १०,१३०,४) इति च । अत्र प्रकरणाद् व्युत्पत्तिसामान्येन उष्णिहाशब्दो धमनीवाचकः। तथा कीकसाभ्यः जत्रुवक्षोगतास्थिभ्यः। अनूक्यात् अनुक्रमेण उच्यन्ति समवयन्ति अस्थीनि अस्मिन्निति अनूक्यम् तत्संधिः। तस्मात् । तथा च वाजसनेकयम् – 'अनूकं त्रयस्त्रिंशः। द्वात्रिंशद् वा एतस्य करूकराण्यनूकं त्रयस्त्रिंशम्' (शब्रा १२,२,४,१४) इति। अनुपूर्वाद् उच समवाये इत्यस्मात् 'कृत्यल्युटो बहुलम्' (पा ३,३,११३) इति अधिकरणे ण्यत् । 'तित् स्वरितम्' (पा ६,१,१८५ ) इति स्वरितत्वम् । विवृहामीति सर्वत्र संबन्धः। तथा दोषण्यम् दोष्णोर्भवम् । पूर्ववद् यति 'पद्दन्नः' (पा ६,१,६३) इत्यादिना दोषन्नादेशः । तथाविधं ते त्वदीयं यक्ष्मम् रोगम् अंसाभ्यां बाहुशिरोभ्यां बाहुभ्यां हस्ताभ्यां वि वृहामि उन्मूलयामि।


हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।

यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥

हृदयात् । ते । परि । क्लोम्नः । हलीक्ष्णात् । पार्श्वाभ्याम् ।

यक्ष्मम् । मतस्नाभ्याम् । प्लीह्नः । यक्नः । ते । वि । वृहामसि ॥ ३ ॥

हे रुग्ण ते तव हृदयात् हृदयपुण्डरीकाद् यक्ष्मं वि वृहामसीति उत्तरत्र संबन्धः। तथा परि क्लोम्नः । हृदयसमीपस्थो मांसपिण्डविशेषः क्लोमा तस्मात् । हलीक्ष्णात् एतत्संज्ञकात् तत्संबन्धाद् मांसपिण्डविशेषात् पार्श्वाभ्याम् दक्षिणोत्तराभ्यां मतस्नाभ्याम् उभयपार्श्वसंबन्धाभ्यां वृक्याभ्यां तत्समीपस्थपित्ताधारपात्राभ्यां वा प्लीह्नः उदरपार्श्वस्थितात् श्येनपत्राकाराद मांसपिण्डात् यक्नः हृदयसमीपस्थाद् एतत्संज्ञकात् कालखण्डात् 'पद्दन्नः' (पा ६,१,६३ ) इत्यादिना यकृच्छब्दस्य यकन्नादेशः। उदात्तनिवृत्तिस्वरेण प्लीह्नः यक्नः इत्युभयत्र विभक्त्युदात्तत्वम् । हे रुग्ण ते त्वदीयं यक्ष्मं तेभ्योऽवयवेभ्यो वि वृहामसि विवृहामः । 'इदन्तो मसि' ( पा ७,१,४६ )।


आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।

यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥

आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । उदरात् । अधि ।

यक्ष्मम् । कुक्षिऽभ्याम् । प्लाशेः । नाभ्याः । वि । वृहामि । ते ॥ ४ ॥

हे यक्ष्मगृहीत ते तव आन्त्रेभ्यः पुरीतद्भ्यः गुदाभ्यः एतत्संज्ञकाभ्यः आन्त्रसमीपस्थेभ्यो मलमूत्रप्रवहणमार्गेभ्यः वनिष्ठोः स्थविरान्त्रात् उदरात् एतत्सर्वाधारभूताज्जठरात् । अधिः अनर्थकः । यक्ष्मं वि वृहामीति संबन्धः । तथा कुक्षिभ्याम् दक्षिणोत्तराभ्याम् उदरभागाभ्यां प्लाशेः बहुच्छिद्रात् मलपात्रात् नाभ्याः नाभिमण्डलाच्च ते त्वदीयं यक्ष्मं वि वृहामि नाशयामि । एतन्मन्त्रद्वय प्रतिपादितानाम् अवयवानां विभागो माध्यंदिनब्राह्मणे सौत्रामण्यां यज्ञाङ्गैः पुरोडाशादिभिः संस्कार्यत्वेन स्पष्टम् आम्नातः--'हृदयमेवास्यैन्द्रः पुरोडाशः। यकृत् सावित्रः। क्लोमा वारुणः मतस्ने एवास्याश्वत्थं च पात्रम् औदुम्बरं च । पित्तं नैयग्रोधम् । आन्त्राणि स्थाल्यः। गुदा उपशयानि । श्येनपत्रे प्लीहासन्दी। नाभिः कुम्भः । वनिष्ठुः प्लाशिः शतातृण्णा । तद् यत् सा बहुधा वितृण्णा भवति तस्मात् प्लाशिर्बहुधा विकृत्तः' (माश १२,९,१,३ ) इति ।


ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।

यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥

ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् ।

यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंससः । वि । वृहामि । ते ॥ ५ ॥

हे रोगार्त ते तव ऊरुभ्याम् अष्ठीवद्भ्याम् जानुभ्याम् । 'आसन्दीवदष्ठीवत्” (पा ८, २,१२ ) इत्यादिना अस्थिशब्दस्य मतुपि अष्ठीभावो निपातितः । पार्ष्णिभ्याम् पादयोरपरभागाभ्यां प्रपदाभ्याम् पादाग्राभ्यां यक्ष्मम् । वि वृहामीति सर्वत्र संबन्धः । तथा भसद्यम् भसत् कटिप्रदेशः तत्र भवं यक्ष्मम् रोगं श्रोणिभ्याम् कट्योरधरभागाभ्यां वि वृहामि । एवं ते त्वदीयं भासदम् गुह्यप्रदेशभवं रोगं भंसंसः भासमानाद् गुह्यस्थानाद् वि वृहामि ।


अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।

यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥

अस्थिऽभ्यः । ते । मज्जऽभ्यः । स्नावऽभ्यः । धमनिऽभ्यः ।

यक्ष्मम् । पाणिऽभ्याम् अङ्गुलिऽभ्यः । नखेभ्यः । वि । वृहामि । ते ॥ ६ ॥

अस्थिमज्जशब्दौ सर्वधातूपलक्षकौ । सूक्ष्माः सिराः स्नावशब्देन उच्यन्ते । धमनिशब्देन स्थूलाः। शिष्टं निगदसिद्धम् ।


अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।

यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥

अङ्गेऽअङ्गे । लोम्निऽलोम्नि । यः । ते । पर्वणिऽपर्वणि ।

यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥७॥

इत्थं प्रसिद्धावयवेभ्यो रोगस्यापनोदनं प्रतिपाद्य अप्रसिद्धावयवेभ्योपि अपनोदनं प्रतिपाद्यते । हे रुग्ण ते तव अङ्गेअङ्गे अनुक्तेषु सर्वेष्ववयवेषु लोम्निलोम्नि सर्वेषु रोमकूपेषु पर्वणिपर्वणि सर्वेषु संधिषु यो यक्ष्मो जातः। 'नित्यवीप्सयोः' (पा ८,१,४) इति सर्वत्र द्विर्वचनम् । तं यक्ष्म वि वृहामसीत्युत्तरत्र संबन्धः । तथा ते तव त्वचस्यम् त्वचि भवं यक्ष्मम् । त्वच संवरणे इत्यस्माद् असुन् । पूर्ववद् यत् । 'यचि भम्' (पा १,४,१८) इति भत्वेन पदत्वाभावाद् रुत्वाभावः । वयं विवृहामः । सूक्तार्थम् उपसंहरति--विष्वञ्चम् चक्षुरादिसर्वावयवव्याप्तं रोगजातं कश्यपस्य महर्षेर्विवर्हेण विवहत्यनेनेति विवर्हं सूक्तम् । तेन वयं वि वृहामसि विवृहामः । मन्त्रद्रष्टुर्महर्षेः संकीर्तनेन इदानीं प्रयुज्यमानस्यापि मन्त्रस्य अमोघवीर्यत्वं सूचितं भवति ।


इति षष्ठेऽनुवाके द्वितीयं सूक्तम् ।