इति वतिप्रत्ययः । पृथग्विधैः भूमिकाभेदैः मत्स्यकूर्माद्यवतारभेदैः। 'भूमिका ,
रचनायां स्यान्मूर्त्यन्तरपरिग्रहे।' इति विश्वः । 'तत्तद्वेषो भूमिका स्यात्' इति
वैजयन्ती । दीव्यन् क्रीडन् । त्व, अनन्यभावानां अन्यो विषयत्वेन नास्ति
यस्य सोऽनन्यः अनन्यो भावो येषां तेषामेकान्तिनाम् । अद्भुत संसारे
अननुभूतत्वेनाश्चर्यभूतम् । रस अपवर्गानन्दम् । पुष्णासि अभिव्यअयसि ।
त्वदवताररहस्यानुचिन्तनपरानपवर्गदानेन योजयसीत्यर्थः । नटो यथा
रामाद्यनुकार्यवेषभेदरनन्यहृदयानां सामाजिकानामद्भुताख्य रस पुष्णाति
तद्वदिति भावः । उपमालङ्कारः ॥ ४९ ॥
ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ ५० ॥
ब्रह्मादीति । ब्रह्मा आदिः पूर्वः स्तम्ब: तृणादि. पर्यन्त उतरावधि: येषां ते ब्रह्मादिस्तम्बपर्यन्ताः सर्वेऽपि प्राणिन. त एव विचित्राकुराः नच्छालिनां तद्भाजाम्। कर्मकन्दानां कर्मण्येव कन्दाः सस्यमूलानि तेषाम्। केवलं तव क्रीडैव सलिलम् । त्वत्क्रीडामात्ररूपसलिलावसंकसहकृता एव कर्मकन्दा विचित्रप्रपन्च रूपानगन् जनयन्तीत्यथः । अत्र भगवत्क्रीडायां सलिलत्वारोषस्य प्रपञ्चाङ्कुरजननलक्षणप्रकृतकार्योपयोगित्वात् परि- णामालंकारः ॥ ५० ॥
निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।
निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ ५१ ॥
निराधारेति । निराधार आधारनिरपेक्षः निज आत्मीयः स्थमा.स्थैर्य यस्य तस्य । निरुपाधिकशेषिणः स्वभावादेव सकलजगत्प्रधानभूतस्य । निरपेक्षं सहकार्यन्तरनिरपेक्षं यथा तथा नियन्तुः जगनियामकस्य । ते ।