सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
प्रथमः सर्गः।


अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।
वितथा वेदपान्थानां यत्र सायंगृहा गतिः ॥ ४७ ॥

निगमैरनिगम्यत्वमेव प्रपञ्चयति- अमितस्येति । अमितस्य अप- रिच्छिन्नस्य । ते महिम्नः त्वैद्वभवस्य । (पर)पार तीरम् । प्रयातुं इच्छताम् । वेदा एव पान्थाः नित्यपथिकाः। ‘पन्या ण नित्यम्' इति णप्रत्ययः, पन्था- देशश्च । तेषां, यत्रायगृहा यत्र गायसम स्तदेव गृह यस्या सा। गतिः । वितथा व्यर्थी । यथा पुरुषाः पुरुषायुषेणा'यप्राय देश प्राप्तु प्रस्थिताः प्रतिदिवसमासाय गच्छन्तोऽपि न त देश प्राप्नुवन्ति । तथा अवाङ्मनस- गोचर त्वन्महिमान प्रतिपादयितु प्रवृत्ताः वेदाः शब्दगोचरेण सर्वण प्रकारेण प्रतिपादयन्तोऽपि न कात्स्न्यन प्रतिपादयितु प्रभवन्तीत्यर्थः । रूपकालङ्कारः ॥ ४७ ॥ नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः । पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥ ४८ ॥ नम्यस्येति । नम्यस्य सर्वलोकनमस्कर्तव्यस्ख । क्षुद्रान अल्पानिन्द्रा- दीनपि । उपेन्द्राद्यवतारः नमतः । वरदस्य सर्वलोकवरप्रदायकस्य । तथापि ब्रह्मादिषु, वरार्थिनः । पुत्रै काश्यपादिभिः । पितृमतः । ते तव । क्रीडा । कथ केन प्रकारेण प्रवृत्ता । केन वा पुरुषेण वर्ण्यते । अचिन्त्यस्तव क्रीडा- प्रकारः । अत एव तव वर्णने न कोऽपि शक्त इत्यर्थः ॥ ४८ ॥

नटवद्भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।
पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ ४९ ॥

नवदिति। हे नाथ। नटवत् नटेन तुल्यम्। 'तेन तुल्य क्रियाचेद्वतिः'