षणबलात्तस्य ततो वैलक्षण्य व्यज्यत इति शब्दशक्तिमूलो व्यतिरेका-
लङ्कारध्वनिः ॥ ४३ ॥
अनम्याधीनमहिमा स्वाधीनपरवैभवः ।
दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ ४४ ॥
अनन्येति । अन्यस्मिन्नधीनोऽन्याधीनः, वैषयिकाधिकरणे सप्तमी । सप्तमीति योगविभागात् समासः । 'अधीनो निघ्न आयत्तः' इत्यमरः । यद्वा अन्यस्मिन् खामिन्यधीति विग्रहे 'सप्तमीशौण्डैः' इति समासः । अधिशब्दस्य शौण्डादिषु पाठात् । अध्युत्तरपदत्वात् 'अषडक्षाशित- ग्वलकर्मालपुरुषाध्युत्तरपदात् खः ।' इति खार्थे खप्रत्ययः । उभयथापि परतन्त्र इत्यर्थः । इयमेव स्वाधीनादिपदेष्वपि व्याख्या। अन्याधीनो न भवतीत्यनन्याधीनः, तादृशो महिमा यस्य । स्वाधीन परेषां ब्रह्मादीनां वैभव यस्य । दयाधीनो विहारो रावणवधादिरूपो व्यापारः यस्य । एव- भूतः, त्वम् । प्रणतान् । न. अस्मान् । पारेपाहि परितो रक्ष । प्रणतानपि न निर्दयो रक्षतीत्यत उक्त दयाधीनेति । कसादिनिग्रहेण लोकरक्षणे भगवत एव प्रार्थनायां हेतुगर्भविशेषण स्वाधीनेति । अन्यैः कसादिनिग्रहः क्रियते. चेदपि त्वत्प्रसादलभ्यां शक्तिमपेक्ष्य कर्तव्यः। अतो भिक्षितभिक्षण विहाय 'एकाहाद्वा तेषां समत्वात् स्यात् ।' इति न्यायेन त्वमेव प्रार्थनीयो नान्य इत्यभिप्रायः । यदि भगवद्वैभवमप्यन्याधीन स्यात् तर्हि तेनैव न्यायेन स एव प्रार्थनीयो भवेत् न च तथेत्याशयेनोक्तमनन्याधीनेति ॥ ४४ ।।
स भवान्गुणरत्नोधैर्दीप्यमानो दयाम्बुधिः।
तनोति व्यूहविभवैस्तरङ्गरिव ताण्डवम् ॥ ४५ ॥
स इति । गुणाः ज्ञानशक्तिवलैश्वर्यादय एव रत्नानि तेषामोधैः