पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरःसराः ।
दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥ ४२ ॥
पुरस्कृत्येति । देवाः, जगद्धात्री भूमिम् । पुरस्कृत्य। मनसो मानस- स्यापि। पुरस्सराः ततोऽपि रंहस्विनः सन्तः । दूर एत्य क्षीराब्धेरुत्तरतट- पर्यन्त गत्वा। दुग्धोदधिशय क्षीराब्धौ शयानम् । देव पुरुषोत्तमम् । अभितुष्टुवुः अभितो नानाविधैः स्तुवन्ति स्म ॥ ४२ ॥
त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।
वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ ४३ ॥
त्रिवेदीति । त्रयाणां वेदानां समाहारः त्रिवेदी तस्या मध्ये दीप्ताय प्रतिपाद्यतया प्रकाशमानाय । 'मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्त- माने क्तः । पञ्चहेतये पञ्च हेतयः शङ्खचक्रगदाखङ्गशाइरूपाण्यायुधानि यस्य तस्मै । वरदाय भक्तानामीसितप्रदाय । बाह्यान्तरहविभुजे बाह्य हविः चस्पुरोडाशसान्नाय्यादि, आन्तरं प्रपदनाख्य यजने होमद्रव्य जीव- रूप हविः, तदुभय भुक्त इति तथोक्तः, एवभूताय । त्रिधाम्ने पुरुषोत्त. माय । तुभ्य नमः । त्रीणि धामानि दुग्धाम्बुधिरविमण्डलपरमपदरूपाणि स्थानान्यस्येति त्रिधामशब्दो भगवद्वा । 'विधामा केशवऽनले' इति वैजयन्ती । ततश्र त्रिधाम्न इत्यनेन अग्निरिति प्रतीयते . ततो वैलक्षण्य. पराणि विशेषणानि । स हि पशुसोमयोः उत्तरस्यामुत्तरवेद्या मध्ये दीप्यते। सप्तहेतिश्च । 'काली कराली च मनोजवा च' इत्यादिना ज्वालासप्तकश्रुतेः । ‘रवेरर्चिश्च शस्त्रञ्च वह्निज्वाला च हेतयः ।' इत्यमरः । श्रीमात्रपदव, ‘श्रियमिच्छेद्भुताशनात् ।' इति स्मृतेः । बाह्यमेव च हविर्भुक्त इति । एव प्रकरणात् पुरुषोत्तमपरेणापि विशेष्येणाप्रकृते पावके प्रत्याय्यमा विशे-