सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् २८

विकिस्रोतः तः
← सूक्तं १.२७ अथर्ववेदः - काण्डं १
सूक्तं १.२८
चातनः।
सूक्तं १.२९ →
दे. १-२ अग्निः, ३-४ यातुधानीः। अनुष्टुप्, ३ विराड्पथ्याबृहती, ४ पथ्यापङ्क्तिः।

उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।
दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
प्रति दह यातुधानान् प्रति देव किमीदिनः ।
प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
या शशाप शपनेन याघं मूरमादधे ।
या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।
अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥


सायणभाष्यम्

'उप प्रागात्' इति सूक्तेन उद्विग्नस्य उद्वेगनिवृत्तये शुक्लवीरणेषीकाकृतमणिबन्धनम् , उल्मुकद्वयघर्षणं च कुर्यात् । सूत्रं च-" 'उप प्रागाद्' इत्युद्विजमानस्य शुक्लप्रसूनस्य वीरणस्य चतसृणाम् इषीकाणाम् उभयतः” ( कौसू २६, २६ ) इत्यादि।


उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।

दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥

उप । प्र । अगात् । देवः । अग्निः । रक्षःऽहा । अमीवऽचातनः ।

दहन् । अप । द्वयाविनः । यातुऽधानान् । किमीदिनः ॥ १ ॥

देवः द्योतमानः, दानादिगुणयुक्तो वा । आह च यास्कः-- 'देवो दानाद् वा, दीपनाद् वा, द्योतनाद् वा, द्युस्थानो भवतीति वा' ( या ७, १५ ) इति । तथाविधः अग्निः अङ्गनादिगुणयुक्तः उप प्रागात् उद्विजमानं पुरुषम् उपागमत् । उद्वेगकारिणो रक्षःप्रभृतीन् विनाशयितुं प्राप्त इत्यर्थः । इण् गतौ । 'इणो गा लुङि' (पा २, ४, ४५ ) इति गादेशः। 'गातिस्था' (पा २, ४, ७७ ) इति सिचो लुक् । तस्य तथाविधं सामर्थ्यं कुत इत्यतआह -- रक्षोहा रक्षसां हिंसकानां पिशाचादीनां हन्ता। 'रक्षो रक्षितव्यमस्मात्' इति यास्कः (४,१८)। रक्ष पालने इत्यस्माद् अपादाने असुन्प्रत्ययः। रक्षःशब्दोपपदात् हन्तेः 'बहुलं छन्दसि' (पा ३, २, ८८) इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । 'अग्निः खलु वै रक्षोहा' (तै ६, १, ४, ६) इति हि तैत्तिरीयकम् । तथा अमीवचातनः अमीवानां रोगाणां चातयिता नाशयिता। 'चातयतिर्नाशने' इति हि यास्कः (६,३०)। उपागतस्य अग्नेः उद्वेगकारिणां रक्षसां नाशने कालव्यवायाभावम् आह दहन्निति । द्वयाविनः द्वयं वाचिकं क्रौर्यं कायिकं हिंसनं च येषाम् अस्तीति द्वयाविनः । यद्वा मायामयं सौम्यरूपं स्वाभाविकं हिंस्ररूपं च द्वयम् एषाम् अस्तीति द्वयाविनः । 'बहुलं छन्दसि' (पा ५,२,१२२) इत्यत्र विनिप्रकरणे 'अष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्च' इति वचनाद् विनिप्रत्ययः तत्संनियोगेन दीर्घश्च । किमीदिनः किम् इदानीं किम इदानीं वर्तत इति रन्ध्रान्वेषणबुद्ध्या चरणशीलान् । 'किमीदिने किम् इदानीम् इति चरते' इति यास्कः ( ६,११) । यातुधानान् । यातवो यातनाः पीडाविशेषाः धीयन्ते विधीयन्ते क्रियन्त एभिरिति यातुधानाः । यत निकारोपस्कारयोः। अस्मात् ण्यन्ताद् औणादिके उप्रत्यये यातुशब्दः । डुधाञ् धारणे इत्यस्मात् 'कृत्यल्युटो बहुलम्' (पा ३, ३, ११३) इति कर्तरि ल्युट् । 'लिति' (पा ६, १, १९३ ) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । ततः समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । एवंभूतान् राक्षसान् अप दहन् अपकर्षन् दहन् भस्मसात् कुर्वन् । उपागात् इति पूर्वेण संबन्धः । यद्वा दह भस्मीकरणे इत्यस्मात् 'लक्षणहेत्वोः क्रियायाः (पा ३,२,१२६ ) इति हेतौ शतृप्रत्ययः। यातुधानानां दहनाद्धेतोरुपागाद् इत्यर्थः।


प्रति दह यातुधानान् प्रति देव किमीदिनः ।

प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥

प्रति । दह । यातुऽधानान् । प्रति । देव । किमीदिनः ।

प्रतीचीः । कृष्णऽवर्तने । सम् । दह । यातुऽधान्यः ॥ २ ॥

पूर्वस्याम् ऋचि दहन्नुपागाद् इति आगमनशेषत्वेन दहनम् अभिहितम् । अनया तु रक्षसां दहनमेव प्राधान्येन अभिधीयते । हे अग्ने यातुधानान् यातूनां यातनानां विधातॄन् राक्षसान् प्रति दह प्रत्येकं प्रतिमुखं वा भस्मसात् कुरु । तथा हे देव द्योतनात्मक अग्ने किमीदिनः किम् इदानीं किम् इदानीम् इति चरणशीलान् रन्ध्रान्वेषणपरान् पिशाचविशेषान् । प्रति इत्युपसर्गश्रवणाद् अत्रापि दहेत्यनुषङ्गः। कृष्णवर्त्मने हे कृष्णवर्त्मन् अग्ने प्रतीचीः प्राणिजातस्य प्रतिकूलम् अञ्चन्तीः । प्रतिपूर्वाद् अञ्चतेः 'ऋत्विग्' (पा ३, २, ५९) इत्यादिना क्विन् । 'अनिदिताम्' (पा ६,४, २४) इति नलोपः। 'अञ्चतेश्चोपसंख्यानम्' (पावा ४, १, ६) इति ङीप् । ततो भसंज्ञायाम् 'अचः' (पा ६, ४,१३८) इत्यकारलोपः। 'चौ' (पा ६, ३,१३८) इति दीर्घत्वम् । 'अनिगन्तोञ्चतावप्रत्यये' (पा ६,२,५२) इति प्रतेरिगन्तत्वेन पर्युदस्तत्वात् 'चौ' (पा ६, १, २२२ ) इति पूर्वपदस्यान्तोदात्तत्वम् । तादृशीः यातुधान्यः यातुधानीः यातुधानशब्दात् 'पुंयोगादाख्यायाम्' (पा ४ १, ४८ ) इति ङीष् । शसि ‘वा छन्दसि' (पा ६, १, १०६) इति पूर्वसवर्णदीर्घाभावे यण् । *[ए] ताश्च सं दह सम्यक् निरवशेषं दह।


या शशाप शपनेन याघं मूरमादधे ।

या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥

या । शशाप । शपनेन । या । अघम् । मूरम् । आऽदधे ।

या । रसस्य । हरणाय । जातम् । आऽरेभे । तोकम् । अत्तु । सा ॥ ३ ॥

सं दह यातुधान्य इति पूर्वत्र सामान्येन उक्ता एव राक्षस्यः अत्र विशेषतो निर्दिश्यन्ते । या यातुधानी शपनेन आक्रोशेन । शप आक्रोशे। करणे ल्युट् । नाशहेतुभूतेन परुषवाक्येन शशाप शापं कृतवती । शप आक्रोशे इत्यस्मादेव लिटि तिपो णल् आदेशः ‘लिति' (पा ६, १, १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८, १, ६६ ) इति निघातप्रतिषेधः । तथा या अन्या यातुधानी मूरम् मूलम् । 'वारमूररध्वरमुसराङ्गुरीणां वा रो लम् आपद्यते' (पावा ८, २, १८) इति लत्वस्य विकल्पितत्वाद् अत्राभावः। सर्वेषां दुरितानाम् आदिभूतम् अघम् हिंसारूपं पापम् आददे परिजग्राह । *[स्वी] कृतवतीत्यर्थः । डुदाञ् दाने । 'आङो दोऽनास्यविहरणे' (पा १,३,२०) इत्यात्मनेपदम् । लिटि 'लिटस्तझयोरेशिरेच्' (पा ३, ४, ८१) इति तशब्दस्य एश् आदेशः । प्रत्ययस्वरेण अन्तोदात्तत्वम् । पूर्ववद् निघातप्रतिषेधः । यद्वा मूरम् मूर्छाकरम् अघम् । मुर्छा मोहसमुच्छ्राययोः। 'क्विप् च' (पा ३,२,७६ ) इति क्विप् । 'राल्लोपः' (पा ६,४,२१) इति छकारस्य लोपः । तथा या अपरा यातुधानी जातम् अपत्यम् उद्दिश्य रसस्य असृगादिरूपस्य शरीरगतस्य हरणाय अपहरणाय पानाय आरेभे उपचक्रमे। रभ राभस्ये। लिटि 'अत एकहल्मध्ये' (पा ६,४,१२० ) इति एत्वाभ्यासलोपौ । पूर्वस्वरः । निघातप्रतिषेधः । तासां सर्वासां हिंस्यं दर्शयति । सा प्रत्येकापेक्षया समुदायापेक्षया वा एकवचनम् । सा सर्वा यातुधानी तोकम् । अपत्यनामैतत् । स्वकीयम् अपत्यम् अस्मच्छत्रुसंबन्धि वा अत्तु भक्षयतु । अद भक्षणे।


पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।

अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥

पुत्रम् । अत्तु । यातुऽधानीः । स्वसारम् । उत । नप्त्यम् ।

अध । मिथः । विऽकेश्यः । वि । घ्नताम् । यातुऽधान्यः । वि । तृह्यन्ताम् । अराय्यः ॥ ४ ॥

सपुत्रबान्धवानां यातुधानीनां नाशम् आह--यातुधानी काचन उदीरितलक्षणा राक्षसी पुत्रम् स्वकीयमेव तनयम् अत्तु भक्षयतु। तथा स्वसारम् भगिनीम् । अत्तु इत्यनुषङ्गः। सुपूर्वाद् असु क्षेपणे इत्यस्मात् ‘सावसेर्ऋन् (पाउ २,९६) इति औणादिकः ऋन्प्रत्ययः । 'ऋन्नेभ्यः (पा ४,१,५) इति प्राप्तस्य ङीपो 'न षट्स्वस्रादिभ्यः (पा ४,१,१०) इति प्रतिषेधः । 'ञ्नित्यादिनित्यम्' (पा ४,१,५) इत्याद्युदात्तत्वम् । उत अपि च नप्त्यम् नप्त्रीं पौत्रस्य अपत्यरूपां संततिम् अत्तु । नप्तृशब्दात् 'ऋन्नेभ्यः” ( पा ४,१,५,) इति डीप् । द्वितीयैकवचने 'वा छन्दसि' (पा ६,१,१०६) इति पूर्वरूपस्य विकल्पितत्वाद् यणादेशः । रेफलोपश्छान्दसः। अथ स्वस्वपुत्रादिहननानन्तरं यातुधान्यः राक्षस्यः विकेश्यः परस्परताडनेन विकीर्णाः केशा यासां तास्तथोक्ताः। 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा ४,१,५४ ) इति ङीष् । तथाभूताः सत्यः मिथः परस्परं वि घ्नताम् विशेषेण घ्नन्तु । परस्परताडनेन म्रियन्ताम् इत्यर्थः । हन हिंसागत्योः । लोटि बहुवचने अदादित्वात् शपो लुक् । 'गमहन' (पा ६,४,९८ ) इत्युपधालोपः । 'हो हन्तेर्ञ्णिन्नेषु' (पा ७,३,५४) इति कुत्वम् । तथा अराय्यः अदायिन्यः । रा दाने । अस्माद् भावे घञ् । आतो युक् चिण्कृतोः' (पा ७, ३,३३ ) इति युक् । ततो नञा बहुव्रीहिः। 'पुंयोगादाख्यायाम्' (पा ४,१,४४ ) इति ङीष् । दानप्रतिबन्धिकाः पिशाच्यश्च मिथो वि तृह्यन्ताम् विविधं हिंस्यन्ताम् । तृह हिसि हिंसायाम् । कर्मणि लोट् ।

इति सप्तमं सूक्तम् ।

इति सायणाचार्यविरचिते अथर्वसंहिताभाष्ये प्रथमकाडे पञ्चमोऽनुवाकः ।