मनसो जातः' इति पुरुषसूक्त प्रक्रियैवानानुसृता। न चात्र विरोधः शङ्क- नीयः। समयभेदेनोभयत्र तज्जननेनाविरोधात् । उक्त हि वायवीये। 'तत्त- कल्पान्तकृत्तान्तमधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥' इति ॥ १० ॥
यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः।
सतामाहितवहीनां विहारस्थेयतां ययौ ॥ ११ ॥
यदपत्येति । यस्य चन्द्रमसोऽपत्य बुधः तत्समुद्भूतः । पुण्या पुण्य- करी कीर्तिर्यस्य स तथोक्तः । पुण्यशब्दात्तत्करोतिण्यन्तात् पचाद्यचि ‘णेरनिटि' इति णिलोपे च सति पुण्यशब्दः पुण्यकरवाची । एव भूतः पुरूरवाः । आहितवहीनामाहिताग्नीनाम् । सतां शिष्टानाम् । विहारे काला- न्तरभाविनि परलोकविहारे स्थेयतां विवादपदनिर्णेतृताम्। ययौ । तिष्ठत्यत्र विवाद इति स्थेयः। 'स्थेयो विवादविषयनिर्णेतरि पुरोहिते' इति विश्वः । एव विष्णुपुराणे पुरूरवस प्रकृत्य श्रूयते–'निर्मन्थ्याग्नित्रयमाम्नायानुसारी जुहाव । ऊर्वशीसालोक्यञ्च फलमभिगहितवान् । तेनैवाग्निना बहुविधान् यज्ञानिष्ट्वा गन्धर्वलोकानवाप्य ऊर्वश्या सहावियोगचावाप । एकोऽमिरादाव- भवत् । ऐलेन मन्वन्तरे त्रिधा प्रवर्तितः।' इति । अतः पुरूरवाः कर्मणामभि- साहितफलाफलसवादे सतां प्रमाणभूतोऽभूदित्यर्थः । विहारे अग्नीनामाह- वनीयादिरूपेण विभज्य हरणरूपे प्रणयन इति वा योज्यम् । अग्नि विहृत्ये- त्यादौ विहारशब्दस्य प्रणयने प्रयोगात् । तथा चाग्नितित्वकल्पने प्रमाण- भूतोऽभूदित्यर्थः । यदपत्येत्यत्र यत्पदस्य स चन्द्रमा जज्ञ इति पूर्व श्लोकेन संबन्धः । अस्थेये स्थेयत्वारोपाद्रपकालङ्कारः ॥ ११ ॥
समवर्धत तद्वंश उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १२ ॥