रतिं करोति । सः, स्रष्टा लोकानां निर्माता चतुर्मुखः कविरिति व्यपदि- श्यते । 'तेने ब्रह्महदाय आदिकवये' इत्युक्तोऽप्रकृतोऽर्थः प्रतीयते । तेन च यथा सरस्वतीविहारास्पदीभूतश्चतुर्मुखः कविळपदिश्यते ; एवमुक्तरूप- विशिष्टकविताशाल्येव कविळपदिश्यते इत्युपमालङ्कारो ध्वन्यते। अनेन तादृशस्य कवित्वविधानेन तादृशरसभावादिचमत्काररहितमेव प्रबनन्तः परोच्छिष्टोपजीविनश्च कवयो न भवन्तीति व्यज्यते। तेषु च कवित्वनिषे- धोबाधितः सन् तेषामपहास्यत्वादौ विशेषे पर्यवस्यतीत्यभिमतविशेषद्यो- तनार्थनिषेधाभासरूप आक्षेपालङ्कारो ध्वन्यते । अनेनस्वयं कुकवीना- मुपालम्भेन नाहन्तथाभूत इति स्वकविताप्रौढिप्रकटनात् पूर्वश्लोके विन- याविष्करणेन स्वकाव्यस्य फल्गुकर्तृकत्वशङ्का माभूदिति रसभावादिभरित- तया सारतरत्व द्योत्यत इति शब्दशक्तिमूलकवस्त्वलङ्कारध्वनिपरम्परानु- सन्धेया ॥ ५॥
तदात्वे नूतनं सर्वमायत्यां च पुरातनम् ।
न दोषायैतदुभयं न गुणाय च कल्पते ॥६॥
अथ स्वकाव्ये नूतनमित्येव ये दोषमुद्भावयेयुमन्दास्तान् प्रत्याह- तदात्व इति । सर्व इदानीन्तन प्राक्तनं चेत्यखिलम् प्रबन्धजातम् । तदात्वे तत्काले । नूतनम् । आयत्यामुत्तरकाले। पुरातनम् । चकारो भिन्नक्रमः । एकत्र धर्मद्वयसमुच्चयार्थः । तत्कालस्तु तदात्व स्यादुत्तरः काल आयतिः।' इत्यमरः । एतदुभय नूतनत्व पुरातनत्व च । न दोषाय, न गुणाय च कल्पते। क्लपिसंपद्यमाने च वक्तव्या' इति चतुर्थी । यत् नूतनत्वेन दूषयितु इष्यते तदेव कालान्तरे पुरातन जायते। यच्च पुरातनत्वेन उपादातुमिष्यते तदपि स्वकाले नूतनमिति न ते प्रबन्धेषु हानोपादानप्रयोजके, किन्तु तत्तल्लक्षणवैकल्यसाकल्ये एवेति भावः ॥ ६ ॥