अथर्ववेदः/काण्डं १२/सूक्तम् १०

विकिस्रोतः तः
← सूक्तं १२.०९ अथर्ववेदः - काण्डं १२
सूक्तं १२.१०
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.११ →
दे. ब्रह्मगवी। (सप्त पर्यायाः)

क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि ॥५७॥
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
मेनिः शरव्या भवाघादघविषा भव ॥५९॥
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}