अथर्ववेदः/काण्डं १५/सूक्तम् ०७

विकिस्रोतः तः
← सूक्तं १५.०६ अथर्ववेदः - काण्डं १५
सूक्तं १५.७
अथर्वा
सूक्तं १५.८ →
दे. अध्यात्मम्, व्रात्यः। १ त्रिपदा नृचद् गायत्री, - - - - -- -

स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्॥१॥
तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥
ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥३॥
तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥
ऐनं श्रद्धा गच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद।।