सामग्री पर जाएँ

संस्काररत्नमाला (भागः १)/चतुर्थं प्रकरणम्

विकिस्रोतः तः
               




   

अथ चतुर्थं प्रकरणम् ।

उपनयनाधिकारिणः ।

 अथोपनयनं सूत्रक्रमानुसारेणाऽऽदावुच्यते । तस्य श्रौतत्वेन वेदाध्ययनार्थत्वेन कर्माधिकारसंपादकत्वेन च मुख्यत्वात् । अङ्गभूयस्त्वलाभात्प्रायश्चित्तेन चरितार्थत्वमेतस्य न भवतीति ज्ञापयितुं चाऽऽचार्येणाऽऽदौ तदेव सूत्रितम् । उपनयनं नाम येन कर्मणा यस्मिन्वा कर्मणि आचार्येण विद्यार्थं सुमुहूर्ते कुमारस्य स्वसमीपे नयनम् । तच्च संकल्पप्रभृतिसावित्रीव्रतविसर्गान्तकर्मसमुदायात्मकम् । अत्र प्रधानं व्याहृतिभिः सावित्र्या सावित्रेण चाऽऽत्मनः समीपे कुमारस्य नयनम् । इतराण्यङ्गानि । गायत्र्युपदेशोऽपि प्रधानमित्यपरार्कः । अयं च दृष्टार्थः संस्कारः 'उपनयनं विद्यार्थस्य श्रुतितः संस्कारः' इति वचनात् ।

 एतच्च त्रैवर्णिकानामेव न शूद्राणाम्--

 'अशूद्राणामदुष्टकर्मणामुपनयनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि'

इति धर्मसूत्रात् ।

 इदमेव द्वितीयं जन्मेत्याह याज्ञवल्क्यः--

"मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः" इति ॥

 इदमेव ब्रह्मजन्मेत्याह मनुः--

"तत्र यद्ब्रह्मचर्यं तु मौञ्जीबन्धेन चिह्नितम् ।
सा तस्य माता सावित्री पिता त्वाचार्य उच्यते" इति ।

 पुंसामेवैतद्भवति न स्त्रीणाम् 'स्त्रीभिर्नाध्येयम्' इति स्त्रीणामध्ययनप्रतिषेधात् । 'न स्त्रीशूद्रसमीपे ब्रह्म श्रावयेत्' इति स्त्रीणां श्रवणप्रतिषेधात् ।

"पाणिग्रहो विधिः स्त्रीणामौपनायनिकः परः" ।

 इति तासां विवाहस्यैवोपनयनरूपत्वाच्च ।

 यत्तु हारीतेन--

 "द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश्च । तत्र ब्रह्मवादिनीनामुपनयनमग्नीन्धनं वेदाध्ययनं स्वगृहे भैक्षचर्या चेति सद्योवधूनामुपनयनं कृत्वा विवाहः"

 इत्युक्तं तद्युगान्तरविषयम् ।

"पुरा कल्पे हि नारीणां मौञ्जीबन्धनमीरितम् ।
अध्यापनं च वेदानां सावित्रीवाचनं तथा" ॥

 इति []कूर्मोक्तेः ।

उपनयनकालः ।

 अथैतत्कालः । तत्रेयं श्रुतिः--

"वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्" इति ।

 अत्र च माणवककर्तृकं गुरुसमीपगमनं विधीयत इति प्राञ्चः । नवीनास्तु णिजार्थाविवक्षायां मानाभावादाचार्यकर्तृकं माणवकाधिकारिकमुपनयनमेव विधीयते नोपगमनम् । क्लृप्तीर्यजमानं वाचयति पञ्चभिः पावयतीत्यत्र यजमानाधिकारिकाध्वर्युकर्तृकवाचनपावनादिवत् । अत एव च्छान्दोग्योपनिषदि गुरुकर्तृकोपनयनानुकूलव्यापाररूपोपगमकर्तृकता--"जाबालो मातरमामन्त्र्याऽऽत्मानमुपनाययितुं गौतममाजगाम" इति । हेमाद्रौ बुधवचस्यपि--'गर्भाष्टमे वर्षे ब्राह्मणमुपनाययेत्' इति । एतयाऽन्नाद्यकामं याजयेदित्यत्र तु यजमानस्य प्रयोज्याध्वर्य्वादिकर्तृत्वे मानाभावाद्यजेः स्वार्थणिजर्थविशेषणतया परार्थवच्चोच्चारणं विधिश्च स्यादिति णिजर्थाविवक्षया यजनमेव विधीयत इत्याहुः ।

 कैश्चित्तूपनायनशब्देनोपनयनमेवाभिधीयत इत्युक्तं तदयुक्तम् । उपनयनविषयप्रयोजकव्यापारस्योपनयनशब्दवाच्यत्वाल्लक्षणायां मानाभावादिति हेमाद्रिः ।

 अन्ये तु आचार्यसमीपनयनाङ्गको गायत्र्युपदेशः प्रधानं 'गायत्र्या ब्राह्मणमसृजत्' इति श्रुतौ 'गायत्र्या ब्राह्मणमुपनयीत' इति कात्यायनस्मृतौ चोपनय नस्य गायत्र्युपदेशाङ्गत्वदर्शनात् । एवं चोपनयनपदं योगरूढम् । समिद्दर्शादिपदस्येवाङ्गवाचिनोऽप्युपनयनपदस्य तत्संबन्धेन प्रधानसंज्ञात्वोपपत्तेरित्याहुः ।

 परे तु पङ्कजपदस्येवैकत्र यौगिकस्य रूढस्य च योगरूढपदवाच्यत्वादत्र तु नयने योगस्य गायत्र्युपदेशे च रूढेश्च सद्भावेनैकत्र विद्यमानत्वाभावान्न योगरूढत्वमुपनयनपदस्य । तेन समीपनयनस्यैव प्रधानत्वमित्याहुः ।

 गृह्यम्--"उपनयनं व्याख्यास्यामः सप्तवर्षं ब्राह्मणमुपनयीतैकादशवर्ष राजन्यं द्वादशवर्षं वैश्यं वसन्ते ब्राह्मणं ग्रीष्मे राजन्य शरदि वैश्यमापूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये" इति ।

 सप्त वर्षाणि जन्मतः परिमाणं यस्य स सप्तवर्षः । एतादृशं ब्राह्मणमुपनयेत् । एकादशद्वादशवर्षशब्दयोरप्येवं व्युत्पत्तिर्ज्ञेया । यस्मिन्पक्षे कलाभिश्चन्द्रमाः पूर्यते स आपूर्यमाणपक्षः पूर्वपक्षः शुक्लपक्ष इति यावत् । पुण्ये नक्षत्रे शुभे नक्षत्रे ज्योतिःशास्त्रविहिते । पुंनामधेये पुंशब्दाभिधेये । विशेषेणेतिवचनात्पुंशब्दाभिधेये विशिष्टमुपनयनम् । अन्यस्मिन्नपि पुण्य एव न गर्हिते ।

 पुंशब्दाभिधेयानि नक्षत्राणि तु मातृदत्तेनोक्तानि--

"अश्वयुक्पुनर्वसू तिष्यो हस्तः शतभिषक्प्रोष्ठपदाः" इति ।

 गर्गस्मृतौ तु श्रवणाभिजिदनूराधा अप्युक्ताः--

 "पुंनाम श्रवणस्तिष्यो हस्तश्चैव पुनर्वसू । अभिजित्प्रोष्ठपाच्चैव अनूराधा तथाऽश्वयुक्" इति ॥

 धर्मसूत्रेऽप्युपनयनकाल उक्तः--

"वसन्ते ब्राह्मणं ग्रीष्मे राजन्य शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं
गर्भेकादशे राजन्यं गर्भद्वादशे वैश्यम्" इति ॥

 गर्भसहचरितं वर्षमपि लक्षणया गर्भशब्देनोच्यते । तदष्टमं येषां षष्ठादीनां वर्षाणां तानि गर्भाष्टमानि तेषूपनयनमित्यर्थः । गर्भादिः संख्या वर्षाणां तदष्टमेषु ब्राह्मणमुपनयेदितिवचनात् । वर्षं चात्र चान्द्रमानेन चैत्रशुक्लप्रतिपदादीति केचित् । अन्ये त्वष्टममासारम्भं गर्भाधानं वाऽऽरभ्य वर्षप्रवृत्तिमाहुः । गर्भाष्टमेष्वित्यत्र बहुवचनं षष्ठसप्तमयोः संग्रहार्थमिति सुदर्शनः । काम्यानामपि तेष्वन्तर्भावार्थमित्युज्ज्वलाकृतो महादेवदीक्षिताः । वसन्तादीनां पुनर्विधानमुदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहा इत्याश्वलायनोक्तस्य वसन्तातिरिक्तस्योदगयनस्य बाधनार्थम् । 'सप्तवर्षं ब्राह्मणं वसन्त उपनयेदेकादशवर्ष राजन्यं ग्रीष्मे द्वादशवर्षं वैश्य शरदि' इत्येव वक्तव्ये कालवयसोः पृथग्ग्रहणमशक्तौ कामसंयोगे वाऽन्यस्मिन्नपि वयसि सर्वस्मिन्नप्युदगयने भवेदिति कालवयसोरनित्यत्वख्यापनार्थम् ।

 याज्ञवल्क्यः--

"गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम्" इति ॥

 गर्भाधानमवधिं कृत्वा जन्मतो वाऽष्टममिति विज्ञानेश्वरः । गर्भग्रहणं सर्वत्रानुवर्तते ।

"गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः" ।

 इतिस्मृत्यन्तरादित्यप्याह सः । सैके द्वादशे । उक्तेषु वचनेष्वष्टमवर्षसंबन्धेनैवाष्टवर्षत्वं न त्वतीताष्टवर्षत्वेनेति बोध्यम् ।

अथ काम्यकालः ।

 स च धर्मसूत्रे--

 "अथ काम्यानि सप्तम आयुष्काममष्टमे ब्रह्मवर्चसकामं नवमे तेजस्कामं दशमेऽन्नाद्यकाममेकादश इन्द्रियकामं द्वादशे पशुकाममाषोडशाद्ब्राह्मणस्यानात्यय आद्वाविंशात्क्षत्रियस्याऽऽचतुर्विंशाद्वैश्यस्य" इति ।

 एतानि कामनिमित्तान्युपनयनानि । सर्वत्रोपनयेदित्यनुषज्यते । अत्रापि गर्भत इत्यनुवर्तते । अत्राऽऽङभिविधौ । मर्यादायामिति केचित् । अत्ययोऽतिक्रमः । स एवाऽऽत्ययस्तदभावोऽनात्ययः । यादृच्छिको दीर्घ आङो वा प्रयोगः । प्रकरणादुपनयनस्यानात्यय इति गम्यते । आपत्तौ षोडशवर्षपर्यन्तोऽप्युपनयनस्य काल इति तात्पर्यार्थः । अत ऊर्ध्वं तु धर्मसूत्रोक्तं प्रायश्चित्तं कर्तव्यम् । तच्च--"अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपस्पर्शनमथाध्याप्यः" इति ।

 यस्य यः सावित्र्याः कालस्तदतिक्रमे त्रैविद्यकं त्र्यवयवा विद्या त्रिविद्या तामधीयते ते त्रैविद्यास्तेषामिदं त्रैविद्यकम् । 'चरणाद्धर्माम्नाययोः' इति वुञ्प्रत्ययः । एवंभूतं ब्रह्मचर्यमग्निपरिचर्यामध्ययनं गुरुशुश्रूषामिति परिहाप्य सकलं ब्रह्मचर्यधर्मं चरेत् । कियन्तं कालम् । ऋतुम् । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । ऋतुमितिवचनादृत्वारम्भे प्रायश्चित्तारम्भः । तत उपनयनम् । एवंचरितव्रत उपनेतव्यः ।

अथोदकोपस्पर्शनम् ।

 तत उपनयनमारभ्य संवत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य त्रिषवणमशक्तस्य यथाशक्ति । संवत्सरमित्यापस्तम्बः ।
अथाध्याप्यः । एवंचरितव्रतः पश्चादध्याप्य इति व्याख्यातमुज्ज्वलाकृता ।

 स्वस्य पितृपितामहयोश्चानुपनीतत्वे तेषां ब्रह्महतुल्यत्वमभ्यागमनादीनां वर्जनं चोक्तं धर्मसूत्रे--

 "अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुतास्तेषामभ्यागमनं भोजनं विवाहमिति वर्जयेत्" इति ।

 यस्य माणवकस्य पिता पितामह इत्यनुपेतावनुपनीतौ स्यातां स्वयं च ते तथाविधा माणवका ब्रह्महसंस्तुता ब्रह्महण इत्येवं कीर्तिताः । ब्रह्मवादिभिरिति शेषः । अतस्तस्मिंस्तच्छब्दप्रयोगस्तद्धर्मप्राप्त्यर्थः । श्मशानवच्छूद्रपतितावित्यध्ययनप्रतिषेधो वक्ष्यते । ततश्च यथा ब्रह्महसमीपे नाध्येयमेवमेषामपीति । तेषामेषामभ्यागमनमाभिमुख्येन गमनं मातृपितृपुत्रदारशरीररक्षणार्थमपि वर्जयेत् । यद्यपि रक्षा सर्वतो ग्राह्येति वक्ष्यते । भोजनमुद्यतमपि वर्जयेत्, अपि दुष्कृतकारिण इति सत्यपि वचने । विवाहं वर्जयेत्, यद्यपि "स्त्रीरत्नं दुष्कुलादपि" इति मानववचनं तथाऽपीति व्याख्यातमुज्ज्वलाकृता ।

 एतेषामिच्छतां प्रायश्चित्तमुक्तं धर्मसूत्रे--

 "तेषामिच्छतां प्रायश्चित्तं यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरं प्रतिपुरुषं संख्याय संवत्सरान्यावन्तोऽनुपेताः स्युः" इति ।

 इच्छतामितिवचनान्न बलात्कारेण प्रायश्चित्तम् । यथा प्रथमे ब्रह्मचर्यस्यर्तुः काल एवमस्मिन्नतिक्रमे संवत्सरः कालः । अथोपनयनं तत उदकोपस्पर्शनमिति पूर्ववच्छेषम् । आपस्तम्बे दर्शनात् । यदि पितैवानुपेतः स्यात्संवत्सरमेकम् । अथ पितामहोऽपि ततो द्वौ । अथ स्वयमपि यथाकालमनुपनीतस्ततस्त्रीन्संवत्सरानिति व्याख्यातमुज्ज्वलाकृता । एतदनन्तरमध्यापयेदित्युक्तं धर्मसूत्रे-- "अथाध्याप्यः" इति ।

 उदकोपस्पर्शनमन्त्रा धर्मसूत्रे--

 "सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुष्पवित्रेण सामपवित्रेणाऽऽङ्गिरसेनापि व्याहृतीभिरेव" इति ।  पवमानः सोमो देवता यासां ताः पावमान्यः । ताश्च यदन्ति यच्च दूरक इत्येताः सप्त । यजुष्पवित्रेणाऽऽपो अस्मान्मातरः शुन्धत्वित्येतेन पूत एमीत्यन्तेनसामपवित्रेण कया नश्चित्र आभुवदितितृचे गीतेन वामदेव्येन साम्ना । आङ्गिरसेन ह सः शुचिषदित्येतेन मन्त्रेण । एतैरञ्जलिना शिरस्यपोऽवसिञ्चेत् । अपि वा समस्तव्याहृतीभिरेव सिञ्चनमिति व्याख्यातमुज्ज्वलाकृता । अथ यस्य पिता पितामह इत्युपक्रमे यस्येत्येकवचनमन्तेऽप्यथाध्याप्य इति । मध्ये तु ते ब्रह्महसंस्तुतास्तेषामभ्यागमनं तेषामिच्छतां प्रायश्चित्तमित्येतेषु बहुवचनम् । तत्रोपक्रमोपसंहारानुसारेण माणवकस्यैव प्रायश्चित्तमुपनयनमध्यापनं च । बहुवचनं तु तथाविधमाणवकबहुत्वापेक्षमित्यप्याह सः ।

 स्वस्य पितामहादीनां त्रयाणां चानुपनीतत्वे सर्वेषां श्मशानतुल्यत्वं पूर्ववदभ्यागमनादीनां वर्जनं प्रायश्चित्तं चोक्तं धर्मसूत्रे--

 "अथ यस्य पितामहादि नानुस्मर्यत उपनयनं ते श्मशानसंस्तुतास्तेषामभ्यागमनं विवाहमिति वर्जयेत्तेषामिच्छतां प्रायश्चित्तं द्वादश वर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपस्पर्शनं पावमान्यादिभिः" इति ।

 यस्य माणवकस्य पितामहादि पितामहादारभ्य प्रपितामहस्तस्य पिता पितामहप्रपितामहाद्या अनुपनीताः स्वयं च यथाकालमनुपनीतस्ते तथाविधा माणवकाः श्मशानसंस्तुताः । तेन श्मशाने सर्वतः शम्याप्रासादित्यध्ययननिषेध एषामपि संनिधौ भवति । तेषामित्यादि स्पष्टार्थम् । पावमान्यादिभिरित्यनेन प्रतिपुरुषं संख्याय संवत्सरानित्येतदपि द्रष्टव्यमिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यच्च धर्मसूत्रे--

 "अथ गृहमेधोपदेशनं नाध्यापनं ततो यो निर्वर्तते तस्य संस्कारो यथा प्रथमेऽतिक्रमे तत ऊर्ध्वं प्रकृतिवत्" इति ।

 गृहमेधोपदेशनं गृह्यशास्त्रोपदेशनं गृहस्थधर्मोपदेशनं वा नाध्यापनं कृत्स्नस्य वेदस्य किंतु गृह्यमन्त्राणामेव । तत एवं कृतप्रायश्चित्ताद्गृहस्थीभूताद्यो निर्वर्तत उत्पद्यते तस्य संस्कार उपनयनाख्यः कर्तव्यः । कथं, यथा प्रथमेऽतिक्रम ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरित्वेत्यन्तम् । ततस्तु यो निर्वर्तते तस्य प्रकृतिवद्यथाप्राप्तमुपनयनं कर्तव्यमिति । यस्य पितुरारभ्य नानुस्मर्यत उपनयनं तत्र प्रायश्चित्तं नोक्तं धर्मशास्त्रैस्तूहितव्यमिति व्याख्यातमुज्ज्वलाकृता ।  अथ संक्षेपेणायनादिनिर्णयः । तत्राऽऽश्वलायनः--

  "उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः" इति ।

 कल्याणं ज्यातिःशास्त्रविरोधीति तद्वृत्तिकृत् ।

 गर्गः--

"विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं विदध्यात्" इति ।

 निदाघो ग्रीष्मर्तुः । घनान्तः शरदृतुः ।

 नन्वेवं विप्रं प्रति वसन्तनियमात्,

"विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
अनध्याये चोपनीतः पुनःसंस्कारमर्हति" ।

 इति बृहस्पतिना वसन्ताभावे दोषकथनाच्चोत्तरायणस्य विप्रं प्रति नित्यप्राप्ततया विधिवैयर्थ्यमिति चेन्न । केनापि निमित्तेन वसन्तालाभे तदन्योत्तरायणप्रापणार्थत्वात्,

 तथा च गर्गः--

"माघादिशुक्रान्तकपञ्चमासाः साधारणा वा सकलद्विजानाम्" इति ।

 शुक्रो ज्येष्ठमासः सोऽन्तके प्रान्ते येषां ते शुक्रान्तकाः । स्वार्थे कप्रत्ययः । ते च ते पञ्च मासाश्चेति कर्मधारयः ।

 वृद्धगार्ग्यः--

"माघादिमासषट्कं तु मेखलाबन्धने मतम्" इति ।

 मैत्रेयसूत्रेऽपि--

 "वसन्तो ग्रीष्मः शरदृतवो वर्णानुपूर्व्येण माघादिषण्मासा वा सर्ववर्णानाम्" इति ।

 आनुपूर्व्यं क्रमः । उत्तरायणशून्यमाघादिभागाषाढान्त्यभागयोर्निवृत्त्यै, उत्तरायणविधेरावश्यकत्वान्नैताभ्यां शास्त्राभ्यां पौनरुक्त्यम् । एतच्छास्त्रस्य मकरार्कविशिष्टपौषनिषेधार्थत्वेन पञ्चसंख्याविधेर्मिथुनार्कविशिष्टाषाढनिवृत्त्यर्थत्वेन च सार्थक्यान्न माघादिमासविधायकशास्त्रस्योत्तरायणविधायकशास्त्रेणैव प्राप्तावपि व्यर्थता । षट्संख्याविधेस्तु वैश्यं प्रति श्रावणादिनिषेधार्थत्वात्केनापि निमित्तेन शरदलाभे दक्षिणायनान्तर्गताषाढभागप्रापणार्थत्वाच्च न व्यर्थता ।

 अस्ति हि तं प्रति दक्षिणायनविधिर्बृहस्पतिवृद्धवसिष्ठोक्तः--

"विप्रस्य क्षत्रियस्यापि मौञ्जी स्यादुत्तरायणे ।
दक्षिणे तु विशां कुर्यान्नानध्याये न संक्रमे" इति ।

 एवं च ब्राह्मणेन दक्षिणायन उपनयनं नैव कार्यं, नापि पौषाषाढयोः सत्यप्युत्तरायणे । उत्तरायणविशिष्टमाघादिपञ्चमासेषु कार्यम् । तत्रापि मीनार्कप्रभृति यावन्मिथुनप्रवेशं प्रशस्तः कालः । चान्द्रसौरान्यतरवसन्तलाभात् । मीनमेषयोस्तु प्रशस्ततरः । मीनमेषयोर्वा वसन्त इति बौधायनोक्तेः ।

"मृगकुम्भगते भानौ मध्यमं मीनमेषयोः ।
उत्तमं गोयुगस्थेऽर्के ह्यधमं चोपनायनम्" ॥

 इति बृहस्पतिवचनाच्च ।

 मृगो मकरः । गौर्वृषः । युगं मिथुनम् । मीनार्कविशिष्टश्चैत्रोऽनेकनिषेधापवादकतया प्रशस्ततमः ॥

"मीनस्थितेऽर्के खलु चैत्रमासे शुभप्रदो ब्राह्मणमौञ्जिबन्धः" ।

 इति बृहस्पतिवाक्यस्य तदर्थत्वात् ।

 अत एवोक्तं तेनैव--

"गोचराष्टकवर्गाभ्यां गुरुशुद्धिर्न लभ्यते ।
तदोपनयनं कार्यं चैत्रे मीनगते रवौ ॥
शुक्रे नष्टे तथा जीवे दुर्बले चन्द्रभास्करे ।
व्रतोपनयनं कार्यं चैत्रे मीनगते रवौ" इति ।

 मौञ्जीपटले--

"जन्मभाद्दुष्टगे सिंहे नीचे वा शत्रुगे गुरौ ।
मौञ्जीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ" इति ।

 शौनकः--

"सिंहस्थे देवगुरौ मेषस्थे यदि भवेत्सहस्रांशुः ।
मङ्गलकार्यं कुर्यादिति नारदपराशरौ वदतः" इति ॥

 एतच्चातिसंकटे ज्ञेयम् ।

 ज्योतिःशास्त्रे गर्गः--

"ज्येष्ठमासे विशेषेण ज्येष्ठपुत्रस्य नैव हि ।
मौञ्जीबन्धं प्रकुर्वीत कृतश्चेन्मृत्युदो भवेत्" इति ॥

 स्मृत्यन्तरे--

"विवाहे चोपनयने जन्ममासं विवर्जयेत्" इति ।

 वृत्तशते--

"न जन्मधिष्ण्ये न च जन्ममासे न जन्मकालीयदिने विदध्यात् ।
न ज्येष्ठमासि प्रथमस्य सूनोस्तथा सुताया अपि मङ्गलानि" इति ॥

 जन्मधिष्ण्यं जन्मनक्षत्रम् ।

 []मुहूर्तचिन्तामणौ--

"जन्मर्क्षमासलग्नादौ व्रते विद्याधिको व्रती ।
आद्यगर्भेऽपि विप्राणां क्षत्रादीनामनादिमे" ॥

 इति विप्रक्षत्रियादिपरत्वेनोपनयने विशेष उक्तः ।

 जन्ममास उक्तो गर्गेण--

"आरभ्य जन्मदिवसं यावत्रिंशद्दिनानि हि ।
जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसु" इति ॥

 एतस्माद्वचनाद्वर्षमप्यत्र सावनमानेनैव ग्राह्यमिति केचित् । जन्ममासमात्रमत्र ग्राह्यमेतद्वचनान्न वर्षं जन्ममासानुरोधेनात्र ग्राह्यमित्यन्ये । तत्र यद्युक्तं तद्ग्राह्यम् ।

 एतच्च वसन्तातिरिक्तकाले--

"वसन्तसमये दद्यादब्दे गर्भाष्टमेऽष्टमे ।
मेखलां जन्ममासेऽपि जन्मभे च तिथावपि" इति राजमार्तण्डोक्तेः ॥

अथ तिथयः ।

 ज्योतिर्निबन्धे नृसिंहः--

"तृतीया पञ्चमी षष्ठी द्वितीया वाऽपि सप्तमी ।
पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः ॥
धर्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा ।
कृष्णे त्रयोदशीं केचिदिच्छन्ति मुनयस्तथा ॥
द्वादश्येकादशी चैव मध्यमे च प्रचक्षते" इति ।

 धर्मो दशमी । कामस्त्रयोदशी । सिते शुक्ले पक्षे धर्मकामौ ग्राह्यौ । कृष्णे चेत्यत्र चकारः सिते पक्ष इत्यस्यानुकर्षणार्थः । तेन शुक्लप्रतिपदोऽपि ग्रहणम् । केचिदाचार्याः कृष्णपक्षान्तवर्तिनीं त्रयोदशीमप्युपनयने स्वीकुर्वन्ति । मध्यमे चेत्यत्र पक्षद्वय इति ज्ञेयम् ।  टोडरानन्दे वसिष्ठः--

"नैमित्तिकमनध्यायं कृष्णे च प्रतिपद्दिनम् ।
मेखलाबन्धने शस्तं चौले वेदव्रतेषु च" इति ॥

 अयं च प्रतिपद्दिनविधिर्नैमित्तिकानध्यायविधिश्चातीतकालस्याऽऽर्तस्य वटोरुपनयनविषयः ।

"प्रशस्ता प्रतिपत्कृष्णे कदाचिच्छुभगे विधौ ।
चन्द्रे बलयुते लग्ने वर्षाणामतिलङ्घने" ॥

 इतिव्यासोक्तेः ।

एवं--"चन्द्रे बलयुते लग्नाच्छुभभावे शुभेक्षितौ ।
 चतुर्दशीं प्रशंसन्ति कुमारे वयसाऽधिके" ॥

 इति चतुर्दशीविधिरपि ।

"स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः ।
प्रायश्चित्तनिमित्ते तु मेखलाबन्धने मताः" ॥

 इति कालादर्शादिधृतवृद्धगार्ग्यवचनात्सर्वेषां नैमित्तिकानध्यायानां कृष्णप्रतिपदादिनित्यानध्यायानां च प्रायश्चित्तोपनयनपरतैव नापूर्वोपनयनपरता । वियुजो विषमाः । घस्रा दिनानि । स्वाध्यायवियुजो दिवसास्तृतीयापञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यन्ताः प्रायश्चित्तोपनयन उपयुज्यन्त इत्यर्थः ।

 अमावास्या त्वत्रापि निषिद्धैव--

"अमावास्या तु सर्वत्र निन्दिता शुभकर्मणि" इति वचनात् ॥

 अपरार्के--

"नष्टे चन्द्रेऽष्टमे शुक्रे निरंशे भास्करे तथा ।
कर्तव्यं नोपनयनं नानध्याये गलग्रहे" इति ॥

 निरंशस्वरूपं ज्योतिर्निबन्धे--

"राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते" इति ।

 अत्रिः--

"पराजितेऽतिनीचस्थे नीचे शुक्रे गुरौ तथा ।
व्रतिनं यदि कुर्वीत स भवेद्वेदवर्जितः" इति ॥

 राजमार्तण्डः--

"नष्टे शुक्रेऽथवा जीवे निरंशे चैव भास्करे ।
उपनीतस्य शिष्यस्य जडत्वं मृत्युरेव च" इति ॥

 युगादित्वादिनाऽनध्यायानामपि प्रतिप्रसवमाह भरद्वाजः--

"या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य ।
कृष्णे द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजमुनीन्द्रमुख्यैः" इति ।

 अत्र चैत्रसिततृतीयामाघशुक्लसप्तम्योर्मन्वाद्योः प्रतिप्रसवः । मन्वादिषु तयोः स्मृत्यर्थसारे पाठात् । वैशाखशुक्लतृतीयायुगादेरपि ।

 मुहूर्ततत्त्वे--

"त्रयोदश्यादिचतुष्कं सप्तम्यादित्रयं चतुर्थी च ।
अष्टौ गलग्रहास्त्याज्या गर्गस्य मते तथा षष्ठी" इति ।

 अत्राप्यपवादः षष्ठीसप्तमीत्रयोदशीनां विनियोगोपन्यासेन दर्शितः अयं गलग्रहापवादो मूकाद्युपनयनविषय इति केचित् ।

 स्मृत्यन्तरे--

"अनध्यायस्य पूर्वेद्युरनध्यायात्परेऽहनि ।
व्रतारम्भं विसर्गं च विद्यारम्भं च वर्जयेत्" इति ।

 एतदपवादो द्वितीयासप्तमीत्रयोदशीनां विनियोगोपन्यासेन दर्शितः । स्मृतिसारे--

"सोपपदासूपनीतः पुनः संस्कारमर्हति" इति ।

 अयं च निषेधो यजुर्वेदिनां न भवति--

"वेदव्रतोपनयने स्वाध्यायाध्ययने तथा ।
न दोषो यजुषां सोपपदास्वध्यापनेऽपि च" ॥

 इति स्मृतिदर्पणे स्मृत्यन्तरोक्तेरिति केचित् । महानिबन्धेष्वदर्शनादिदं निर्मूलं, तेन तेषामपि निषेधोऽस्त्येवेत्यन्ये ।

 ताश्चोक्तास्तत्रैव--

"ज्येष्ठशुक्लद्वितीया तु आश्विने दशमी सिता ।
चतुर्थी द्वादशी माघ एताः सोपपदाः स्मृताः" इति ।

 चतुर्थी द्वादशी माघ इत्यत्र सितेत्यनुषज्यते ।  वासरानाह नारदः--

"गुरुशुक्रबुधानां तु वाराः श्रेष्ठतमाः स्मृताः ।
अधमः सोमवारस्तु सूर्यवारस्तु मध्यमः ॥
वारौ मन्दारयोर्वर्ज्यौ कृष्णे वर्ज्यो निशापतेः ।
अस्तं गतस्य सौम्यस्य वारो वर्ज्यो द्विजन्मनाम्" इति ॥

 मन्दः शनिः । आरो भौमः । निशापतिश्चन्द्रः । सौम्यो बुधः ।

 तथा--

"सर्वेषां जीवशुक्रज्ञवाराः प्रोक्ता व्रते शुभाः ।
चन्द्रार्कौ मध्यमौ ज्ञेयौ[] सामबाहुजयोः कुजः ॥
शाखाधिपतिवारश्च शाखाधिपबलं तथा ।
शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते" इति ।

 सर्वेषां ब्राह्मणादीनाम् । जीवो बृहस्पतिः । ज्ञो बुधः । बाहुजः क्षत्रियः । बलं गोचराष्टवर्गादि ।

 शाखाधिपबलासंभवे दोषमप्याह मदनरत्ने वृद्धगार्ग्यः--

"शाखाविषे बलिनि केन्द्रगते च मौञ्जीबन्धस्तदीयदिवसेषु शुभाय क्लृप्तः ।
अस्मिन्बलेन रहिते तु पुनर्द्विजानां स्याद्वर्णसंकर इति प्रवदन्ति तज्ज्ञाः" इति ।

 तदीयदिवसेषु शाखाधिपदिवसेषु । एतेन शाखाधिपबलस्याऽऽवश्यकतोक्ता भवति । तथा वर्णाधिपबलमप्यपेक्षते ।

 "सदाऽनुकूले चैकस्मिन्वर्णेशे बलशालिनि । ब्राह्मणादेः प्रकुर्वीत कुमारं व्रतचारिणम्" इति पराशरोक्तेः । "पती सितेज्यौ विप्राणां नृपाणां कुजभास्करौ । वैश्यानां शशभृत्सौम्याविति वर्णाधिपाः स्मृताः" ॥

 इति तेनैव व्यवस्थाप्रदर्शनाच्च ।

 मदनरत्ने राजमार्तण्डः--

"पितुः सूर्यबलं श्रेष्ठं शाखावर्णेशयोर्बटोः ।
सर्वेषां गुरुचन्द्रर्क्षबलं श्रेष्ठं प्र[]कीर्तितम् ॥
मौञ्जीबन्धे विवाहे च प्रतिष्ठायां विशेषतः" इति ।

 सर्वेषामित्यनेन येषां न शाखाधिपो गुरुस्तेषामपि वटूनां तत्पितॄणां च गुरुबलमावश्यकम् । उभयोरलाभे वटोरावश्यकमिति ध्वन्यते ।  संकटे चन्द्रताराबलाद्यभावेऽप्यधिकाराय दानमुक्तं ज्योतिर्निबन्धे--

"चन्द्रे च शङ्खं लवणं च वारे दिने विरुद्धे त्वथ तण्डुलांश्च ।
धान्यं च दद्यात्करणे तथा भे योगे विरुद्धे कनकं च देयम्" इति ।

 दिनं तिथिः । अत्र चकारा गोदानसमुच्चयार्थाः ।

"सस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं तु वितुषं प्रोक्तं स्विन्नमन्नमुदाहृतम्"

 इति वचनाद्धान्यशब्देन सतुषं व्रीह्याद्युच्यते ।

 नित्यकाले वटोर्गुरुबलालाभे शान्त्या तल्लाभः । अनित्यकाले नैवमित्याह नारदः--

"बालस्य बलहीनोऽपि शान्त्या जीवो बलप्रदः ।
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्" इति ।

 केषुचिद्दुष्टस्थानेषु स्थिते गुरौ शान्याऽपि नोपनयनाधिकार इत्याह वसिष्ठः--

"बन्धौ तृतीये रिपुराशिसंस्थे इच्छन्ति पूजां जनिगे व्ययस्थे ।
पुरातना अष्टमगेऽपि सूरौ शान्त्याऽपि नैवोपनयाधिकारः" इति ।

 बन्धुश्चतुर्थः । रिपुराशिः षष्ठः । जनिर्जन्मराशिः । व्ययो द्वादशराशिः ।

 अतिसंकट एतेष्वपि राशिषु पूजाहोमादेर्द्विगुणत्वादिवृद्धिकल्पनयोपनयनं कार्यमेव न तूक्तसंवत्सरातिक्रमः कार्यः ।

"तस्माद्ग्रहेभ्यः कालत्वाद्बली संवत्सरो मतः" इति वचनात् ।

 राशिविशेषस्थस्य गुरोरष्टमादिस्थानस्थितस्यापि नाधिकारप्रतिबन्धकत्वमित्याह भरद्वाजः--

"धनुर्मीनकुलीरस्थो जीवो जन्मान्त्यमृत्युगः ।
अतिसौख्यं वटोः कुर्याद्वसिष्ठवचनं यथा" इति ।

 कुलीरः कर्कः । स च गुरोरुच्चस्थानम् । यथाऽऽहुर्दैवज्ञाः--

"अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः" इति ।

 अजो मेषः । वृषभः प्रसिद्धो राशिः । मृगो मकरः । अङ्गना कन्या । कुलीरः कर्कः । झषो मीनः । वणिक्तुला । दिवाकरादीनां सप्तानां ग्रहाणां क्रमेण मेषादीनि सप्तोच्चस्थानानीत्यर्थः ।  राजमार्तण्डः--

"व्रते जन्मत्रिकारिस्थो जीवोऽपीष्टोऽर्चनात्सकृत् ।
शुभोऽतिकाले तुर्याष्टव्ययस्थो द्विगुणार्चनात्" इति ॥

 नक्षत्राण्याह नारदः--

"श्रेष्ठान्यर्कत्रयान्त्येज्यचद्रादित्युत्तराणि च ।
विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने" इति ॥

 अर्कत्रयं हस्तचित्रास्वातयः । अन्त्यं रेवती । इज्यस्तिष्यः । चन्द्रो मृगशिरः । अदितिः पुनर्वसू । उत्तराशब्देनोत्तरात्रयम् । विष्णुत्रयं श्रवणधनिष्ठाशतभिषजः । अश्विनावश्विनी । मित्रोऽनूराधाः । अब्जयोनिभं रोहिणीनक्षत्रम् ।

 बृहस्पतिः--

"त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे ।
त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्युपनायनम्" इति ॥

 मैत्रमनूराधाः । वासवं धनिष्ठाः । त्वाष्ट्रं चित्रा । सौम्यं मृगशिरः ।

 शार्ङ्गधरीये--

"श्रवणादित्यपौष्णादिद्वये हस्तत्रये मृगे ।
सर्वेषां मेखलाबन्धः शुभः प्रोक्तो द्विजन्मनाम्" इति ॥

वेदविशेषेण नक्षत्रविशेषविधिज्योतिर्निबन्धे--

"मूले हस्तत्रये सार्पे शैवे पूर्वात्रये तथा ।
ऋग्वेदाध्यायिनां शस्त मेखलाबन्धनं बुधैः ॥
पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रे शशाङ्कभे ।
ध्रुवेषु च प्रशस्तं स्याद्यजुषां मौञ्जिबन्धनम् ॥
पुष्पवासवहस्ताश्विशिवविष्णूत्तरात्रयम् ।
प्रशस्तं मेखलाबन्धे वटूनां सामवेदिनाम् ॥
मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् ।
अथर्ववेदिनां शस्तो भगणोऽयं व्रतार्पणे" इति ॥

 सार्पमा[]श्रेषाः । शैवमार्द्राः । पौष्णं रेवती । मैत्रमनूराधाः । शशाङ्कभं मृगशिरः । ध्रुवाण्युत्तरात्रयं रोहिणी च । वासवं []ज्येष्ठा । अश्विनावश्विनी । शिव आर्द्रा । विष्णुः श्रवणम् । अदितिः पुनर्वसू ।  एषामसंभवे सारसमुच्चये--

"मघाग्नेयविशाखैन्द्रयाम्यं हित्वा च वारुणम् ।
व्रते शस्तानि सर्वेषां चेद्वेदोक्तं न लभ्यते" इति ।

 आग्नेयं कृत्तिकाः । ऐन्द्रं ज्येष्ठा । याम्यं भरणी । वारुणं शततारका ।

 तत्रापि पुंनक्षत्राण्यतिप्रशस्तानि ।

"विशेषेण पुंनामधेये" इति गृह्योक्तेः ।

 तानि तु प्रागेवोक्तानि ।

 यस्तु--

"ताराचन्द्रानुकूलेषु ग्रहाब्देषु शुभेष्वपि ।
पुनर्वसौ चोपनीतः पुनः संस्कारमर्हति" ॥

 इति राजमार्तण्डवचने पुनर्वसुनिषेधः, स ज्योतिर्वित्प्रसिद्धवसिष्ठादिसंहितास्वदर्शनाद्धेमाद्र्यादिमहानिबन्धेषु पुनर्वसुविधेरेव प्रतीतेर्दाक्षिणात्यसकलशिष्टानां पुनर्वस्वोरुपनयनानुष्ठानाचरणस्योपलम्भाच्च निर्मूलः । समूलत्वेऽपि न यजुर्वेद्यथर्ववेदिविषयः । अनन्तरोदाहृतज्योतिर्निबन्धवचने यजुर्वेद्यथर्ववेदिनां तस्य विहितत्वात् ।

 योगेषु व्यवस्थामाह श्रीपतिः--

"सवैधृतिस्तु व्यतिपातनामा सर्वोऽप्यनिष्टः परिघस्य चार्धम् ।
तिस्रस्तु योगे प्रथमे सवज्रे व्याघातसंज्ञे नव पञ्च शूले ॥
गण्डेऽतिगण्डे च षडेव नाड्यः शुभेषु कार्येषु विवर्जनीयाः" इति ।

 प्रथमो योगो विष्कम्भः ।

 उक्तान्यविषये त्वाह बृहस्पतिः--

"शिष्टाष्टादशयोगेषु प्रशस्तमुपनायनम्" इति ।

 करणव्यवस्थाऽपि तेनैवोक्ता--

"बवादीनां तु षट्कं स्यादुपनाये सुपूजितम् ।
शकुन्यादीनि विष्टिं च वर्जयेच्च विशेषतः" इति ॥

 दिनभागव्यवस्थामाह मनुः--

"सर्वदेशेषु पूर्वाह्णे मुख्यं स्यादुपनायनम् ।
मध्याह्ने मध्यमं प्रोक्तमपराह्णे च गर्हितम्" इति ॥

 उत्तरार्धेऽपि सर्वदेशेष्वित्यनुषज्यते ।  एवं व्यवस्थितेऽपि शुभकाले निमित्तविशेषेण निषेधमाह गर्गः--

"ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे ।
व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित्" इति ।

 वार्ज्यानीति शेषः।

 संकटे तु चण्डेश्वरः--

"दाहे दिशां चैव धराप्रकम्पे वज्रप्रपाते च विदारणे च ।
केतौ तथोल्कांशुकणप्रपाते त्र्यहं न कुर्याद्व्रतमङ्गलानि" इति ॥

 धर्मप्रकाशे गर्गः--

"चन्द्रसूर्योपरागेषु त्र्यहं प्रागशुभं भवेत् ।
सप्ताहमशुभं पश्चात्स्मृतं ग्रहणसूतकम्" इति ॥

 एतच्चार्धग्रासविषयम् ।

"सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् ।
त्रिद्व्येकाङ्गुलतो ग्रासे दिनमेकं विवर्जयेत्" ॥

 इत्यङ्गिरसा विशेषस्योक्तेः । विस्तरतो दुष्टकालांस्तु विवाहप्रकरणे वक्ष्यामः । एतेषूक्तेषु कालेषु सूत्रोक्तो मुख्यः कालः ।

 स्मृत्युक्तस्तु संकटे--

"मुख्यो विधिः स्वशास्त्रोक्त इतरः स्यात्तु संकटे" इतिवचनात् ।

 लल्लः--"व्रत्येऽह्नि पूर्वसंध्यायां वारिदो यदि गर्जति । तद्दिने स्यादनध्यायो व्रतं तत्र विवर्जयेत्" इति ।

 व्रत्येऽह्न्युपनयनदिवसे वारिदो मेघः । तद्दिने व्रत्यदिन उपनयनदिन इति यावत् । व्रतमुपनयनम् । तत्रानध्याये ।

 अनेन वचनेन सर्वस्यैवोपनयनक्रियाकलापस्य निषेधे प्राप्ते नान्दीश्राद्धोत्तरं वेदारम्भरहितस्य सर्वस्योपनयनस्य कर्तव्यतोक्ता ज्योतिर्निबन्धे--

"नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः ।
मौञ्जीबन्धं तदा कुर्याद्वेदारम्भं न कारयेत्" इति ।

 देशभेदेनाऽऽर्द्रादिज्येष्ठान्तव्यतिरिक्तेषु मृगादिविशाखान्तव्यतिरिक्तेषु नक्षत्रेषु वा यद्वृष्टिगर्जनादिकं तदकालिकं तन्निमित्तोऽनध्यायोऽकालिकः । स च नान्दीश्राद्धोत्तरं चेत्तदा मौञ्जीबन्धमुपनयनं कुर्यात् । तत्रत्यं वेदारम्भमात्रं तु नैव कारयेदित्यर्थः । नान्दीश्राद्धे कृत इतिवचनान्नान्दीश्राद्धात्प्राग्वारिद  गर्जने मौञ्जीबन्धोऽपि न भवति । वेदारम्भं न कारयेदिति निषेधस्तु येषां सूत्रे वेदारम्भस्तद्दिन एव विहितस्तत्परः । सत्याषाढसूत्रानुसारिभिरकालिकानध्यायेऽपि मौञ्जीबन्ध एतस्माद्वचनात्कर्तव्य एव । वेदारम्भस्त्वविहितत्वादेव न भवति । ननु गायत्र्यारम्भेणैव सर्ववेदारम्भो भवतीति प्रयोगान्तर उक्तत्वाद्गायत्र्युपदेशात्मकारम्भ एव सर्ववेदारम्भस्तस्य च वेदारम्भं न कारयेदित्यनेन निषेध इति चेन्न । तस्याथर्ववेदव्यतिरिक्तसर्ववेदान्तराध्ययनार्थकपुनरुपनयननिवृत्तिबोधनार्थत्वात् । न चात्र किं मानमिति वाच्यम् । 'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम्' इति धर्मसूत्रस्यागृह्यमाणविशेषत्वात् । एकमेवोपनयनं सर्वार्थमिति न्यायः । अस्मिन्नर्थे शाट्यायनब्राह्मणमेव पठितम् । अथर्ववेदस्य तु पृथगुपनयनं वचनात्कर्तव्यम् । तथा च तत्रैव श्रुतम्-- "नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत" इति । अन्यत्रान्यवेदार्थम् । भृग्वङ्गिरसोऽथर्ववेद इत्युज्ज्वलाकृद्व्याख्यानस्य च मानत्वात् ।

अथोपनेतारः ।

 तत्र वृद्धगर्गः--

"पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः ।
उपनायेऽधिकारी स्यात्पूर्वाभावे परः परः" इति ॥

 भ्राता पितुः ।

"पितैवोपनयेत्पुत्रं तदभावे पितुः पिता ।
तदभावे पितुर्भ्राता तदभावे तु सोदरः" ॥

 इति पितामहस्मरणात् ।

 पिता विद्वांश्चेत्तदैवोपनयेदन्यथा न । धर्मसूत्रेऽविद्वत्कर्तृकोपनयने दोषस्योक्तेः । स चाग्रे प्रदर्श्यते । पितुर्विद्वत्त्वाभावे वक्ष्यमाणव्यासवचनोक्तलक्षणलक्षितः कश्चनोपनयनं कुर्यात् । एतद्वचनद्वयं विप्रपरं न क्षत्रियवैश्यपरं गायत्रीवाचनस्याध्यापनरूपत्वेन तत्र तयोरनधिकारात् । एतदर्थमेव "वेदैकनिष्ठं धर्मज्ञम्" इति वक्ष्यमाणव्यासवचने विप्रग्रहणं ज्ञेयम् । अतः पुरोहित एवोपनेतैतयोरिति ज्ञेयम् । ज्ञातयः सपिण्डास्तेषु तदतिरिक्तेषु च गोत्रजेषु येऽग्रजा वृद्धा वटोरपेक्षयेति द्वितीयपादार्थः । उपनेयकनिष्ठाचार्यत्वस्य निषिद्धत्वात् । गोत्रजा अग्रजा इत्यपेक्षितेऽकारलोपश्छान्दसः ।

 यत्तु-- "असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः" ।  इति योगीश्वरवचस्तत्पितामहवचोनुरोधेन पितृव्याभावविषयमिति प्राञ्चः । भगिन्यादिविवाहविषयमिति नवीनाः ।

 पित्राद्युक्ताधिकार्यभावे कर्तारमाह शौनकः--

"कुमारस्योपनयनं श्रुताभिजनवृत्तवान् ।
तपसा धूतनिःशेषपाप्मा कुर्याद्द्विजोत्तमः" इति ॥

 आचार्यं कुर्यादित्यधिकृत्य व्यासोऽपि--

"वेदैकनिष्ठं धर्मज्ञं कुलीनं श्रोत्रियं शुचिम् ।
स्वशाखाढ्यमनालस्यं विप्रं कर्तारमीप्सितम्" इति ॥

 वेदेषु वेदयोर्वेदे वैका निष्ठा यस्य । श्रोत्रियश्छन्दोध्यायी 'श्रोत्रियंश्छन्दोऽधीते' इति पाणिनिस्मरणात् ।

"धर्मेण वेदानामेकां शाखामधीत्य श्रोत्रियो भवति" ।

 इति धर्मसूत्राच्च ।

 स्वशाखाढ्यं स्वस्य या पारम्पर्यागता शाखा तयाऽऽढ्यम् । एतेन स्वशाखीय एवाऽऽचार्यो भवतीति सूचितम् । विप्रग्रहणं क्षत्रियवैश्यनिवृत्त्यर्थम् । शूद्रस्य निवृत्तिस्तु वेदाध्ययनाद्यभावादेव भवति । आचार्यशब्दार्थो धर्मसूत्रे-- 'यस्माद्धर्मानाचिनोति स आचार्यः' इति । आचिनोत्युपदिशति ।

 बृहस्पतिः--

"आचिनोति च शास्त्राणि आचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु तस्माचार्यं प्रचक्षते" इति ।

 याज्ञवल्क्यः--

"स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥
एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी" इति ॥

 यः सर्वा निषेकादिक्रियाः कृत्वाऽस्मै माणवकाय वेदं प्रयच्छत्यध्यापयति स गुरुः । एवं च पिता गुरुर्निषेकादिक्रियाकर्तृत्वात्तस्य ।

 देवलेनान्येऽपि गुरव उक्ताः--

"उपाध्यायः पिता ज्येष्ठो भ्राता चाऽऽचार्य एव च ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥

वर्णज्येष्ठः पितृव्यश्च पुंस्यते गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥
पितामही स्वसा ज्येष्ठा धात्री च गुरवः स्त्रियः" इति ।

 अत्र पुंसवनादिसंस्कारक्रियाकरणाभावेऽपि पितुर्गुरुत्वम् । यस्तु केवलमुपनयनमात्रं कृत्वा वेदमध्यापयति स आचार्यः । आचार्यस्योपनेतृत्वं विद्वत्पित्रभावे द्रष्टव्यम् । यस्तु वेदैकदेशमात्रमध्यापयति न तूपनयनादिक्रियाः करोति स उपाध्यायः । यो याजयिता स ऋत्विगित्युदाहृतः । एते पूर्वोक्ता यथापूर्वं पूर्वं पूर्वमनतिक्रम्येति यथापूर्वं यथाक्रमं पूर्वः पूर्वो मान्यः पूजार्ह इत्यर्थः । एभ्य एतेभ्यो माता जननी गरीयसी श्रेष्ठा, गर्भधारणादिक्लेशसहनादित्यर्थः ।

 धर्मप्रकाशे पुराणे तु--

"द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥"

 इति पितुर्गरीयस्त्वमुक्तम् । []अत्रेच्छया विकल्पः । तुल्यकल्पत्वं वेति नवीनाः ।

 अविद्वत्कर्तृकोपनयने दोष उक्तो धर्मसूत्रे--

 "तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति विज्ञायते" इति ।

 वेदमजानानो यं माणवकमुपनयते । [स] माणवकोऽविद्वान्य उपनेता स च तमसः पापकर्मणः सकाशात्पापफलं दुःखाख्यं तमो मोहकरत्वात्प्रविशति प्राप्नोति । माणवको ह्यज्ञाननिरासार्थं विद्यार्थं संस्कारमपेक्षते स यदाऽविदुषा कृतस्त[]दा तेन विद्यां न प्राप्नोति । लोकनिन्दिनेन कर्मणोभावपि दुःखं च प्राप्नुत इति विज्ञायते श्रुतिरित्यर्थ इति व्याख्यातमुज्ज्वलाकृता । न चैतद्वचनेभ्यः कृत्स्नवेदाध्यायिन एवाऽऽचार्यत्वं न वेदैकदेशाध्यायिन इति वाच्यम् । गोमधुपर्कार्हो वेदाध्याय्याचार्य ऋत्विक्स्नातकः श्वशुरो राजा वा धर्मयुक्तश्चेतिधर्मसूत्रव्याख्यानावसरे-- 'अत एव ज्ञायते वेदैकदेशाध्यायिनावप्यृत्वेगाचार्यौ भवतः' इत्युज्ज्वलाकृताऽभिधानात् ।  विश्वप्रकाशे स्मृत्यन्तरे--

"असगोत्रः सगोत्रो वा य आचार्य उपायने ।
तदोपनेयपित्रादीनुद्दिश्याभ्युदयं चरेत् ।
कन्योद्वाहेऽप्ययं मार्गो मुनिभिः परिकीर्तितः" इति ।

 वटूपनेत्रोरधिकारसिद्ध्यै प्रायश्चित्तमाह प्रयोगपारिजाते बृहद्विष्णुः--

"कृच्छ्रत्रयं चोपनेता त्रीन्कृच्छ्रांश्च वटुश्चरेत्" इति ।

 वटोः प्रायश्चित्तं[] ब्राह्मणभोजनादिसुगमप्रत्याम्नायद्वारैव, असामर्थ्यात् । गायत्रीजपरुद्रैकादशिन्यादि वैदिकाः प्रत्याम्नाया एतस्य नैव भवन्ति, अनधिकारात् ।

 उपनेत्रा वा मुख्यकल्पेन चरितव्यम्--

"ऊनद्वादशवर्षस्य प्रायश्चित्तं चरेत्पिता" इति वचनात् ।

 पितेत्युपलक्षणमुपनेतुः ।

 आचार्यस्य गायत्र्युपदेशाधिकारार्थं [१०]जपमप्याह स एव--

"सावित्रीमभ्यसेदग्निपवित्राणि च संस्मरन् ।
गुरुर्द्वादशसाहस्रं सावित्रीं प्रजपेत्ततः ।
स्वाधिकारार्थमेवास्याः प्रदानार्थं हि तत्स्मृतम्" इति ।

 प्रदानार्थमिदं स्मृतमित्यपि क्वचित्पाठः । अग्निपवित्राणि अग्न आयू षि पवस इत्यादयो देवस्य त्वेतिप्रश्नान्तर्गताः षण्मन्त्राः । संस्मरन्निति लडादेशेन द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपं संकल्प्य तस्मात्पूर्वं मानसो जप एतेषां गायत्रीजपाधिकारसिद्ध्यर्थं कार्य इति ज्ञाप्यते । अभ्यसेदित्यस्य जपेदित्यर्थः । द्वितीयार्थे सावित्रीं प्रजपेदिति वचनमनुवादः ।

 सावित्रीं प्रजपेदित्यस्य विधायकत्वे तु सकृज्जपविधायकमेकम् । अन्यद्द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यजपविधायकं, नातः पुनरुक्तिदोषः । अस्मिन्पक्षे गायत्रीजपं संकल्प्याग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृज्जपित्वा सावित्रीं सकृदुक्त्वा द्वादशसहस्रद्वादशाधिकसहस्रान्यतरसंख्यया सावित्रीं प्रजपेदिति क्रमः ।

 संस्मरेदिति पाठे तु--अग्निपवित्राणि जपित्वा सकृद्गायत्रीमुक्त्वा संकल्पपूर्वकं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीं जपेदित्येवं क्रमः ।  गुरुरत्राऽऽचार्यः । अस्या गायत्र्याः प्रदानार्थं यः स्वस्याधिकारस्तदर्थमिदं स्मृतमित्यन्त्यार्धे योजना ।

इत्युपनेतार उपनेत्रुपनेयकर्तृकप्रायश्चित्तं च ।


अथोपनयनोपयोगिपदार्थनिरूपणम् ।

 तत्र मण्डपो वसिष्ठेनोक्तः--

"षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।
मण्डपं तोरणैर्युक्तं तत्र वेदिं[११] प्रकल्पयेत् ।
अष्टहस्तं तु रचयेन्मण्डपं वा द्विषष्ट्करम्" इति ।

 तत्र मण्डपे । द्विषट्करो द्वादशकरः । एतस्य मण्डप[१२]स्योपनयनविवाहसंस्काराङ्गत्वात्त[१३]योश्च सूत्रोक्तत्वात्सूत्रोक्तसंस्काराङ्गमण्डपे सूत्रोक्तचतुर्विंशाङ्गुलात्मक एवारत्निर्ग्राह्यः ।

 अन्यत्रापि--

"मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः ।
कार्यः षोडशहस्तो वा न्यूनस्तु स्याद्दशावधिः ।
स्तम्भैश्चतुर्भिरेवात्र वेदिर्मध्ये प्रतिष्ठिता" इति ।

 गृहमानत इत्यस्य महति गृहे महान्मण्डपः । अल्पे न्यून इत्यर्थः । दशावधिरिति न्यूनताया अवधिः । अतो वसिष्ठोक्तोऽष्टहस्तोऽत्यन्तापद्विषयः । स्तम्भैश्चतुर्भिरित्यत्र युक्तेति शेषः । इदं च वेदिविशेषणम् । वेदिर्मध्ये प्रतिष्ठितेति वचनाद्वेद्यनुरोधेनैव मण्डपः कार्यः, न तु पृथक् । अन्यथा-- सद्मनो वामभागे तु वे[१४]दी कार्या चतुष्करेति वेदिर्मध्ये प्रतिष्ठितेति वचनयोर्विरोधः स्यात् ।

"मण्डपः सद्मनो द्वारि कर्तव्यो गृहमानतः" ।

 इतिवचनानुरोधेन मण्डपो यदि क्रियते तदा वेदेर्मण्डपबहिर्भाव एवेति द्रष्टव्यम् ।

 वेदिरुक्ता मानवसूत्रानुसारिपद्धतौ संग्रहे--

"आचार्यस्य पदैः षड्भिश्चतुर्भिरथवा पदैः ।
आयामविस्तारवती वटोर्वेदी करोन्नता ।

लम्बा भित्तिर्द्विहस्ता स्यादुन्नता त्रिदशाङ्गुला ।
प्रत्यग्वेद्यां च सा कार्या विस्ताराद्द्वादशाङ्गुला ।
अष्टावष्टौ प्रकुर्वीत सोपानान्यथ पार्श्वयोः ।
तन्मध्ये कलशाकारमिति यज्ञविदां मतम्" इति ।

 विवाहवेदिदृष्टाः कूर्मपृष्ठोन्नतत्वप्रागुदक्प्रवणत्वपुष्पमालारम्भास्तम्भाद्युपशोभितत्वादयो धर्मा अविरोधादत्रापि ज्ञेयाः ।

 शिष्टास्त्विदानीं विवाहवेदिवदेव वेदिं कुर्वन्ति ।

 तत्रैव ग्रन्थान्तरे विशेषः--

"पश्चिमाभिमुखं द्वारं यद्वा चेदुत्तरामुखम् ।
वेदिका तु तदा कार्या गृहान्निर्गमदक्षिणे" इति ।

 निर्गमशब्देन द्वारमुच्यते । पश्चिमाभिमुखद्वारोत्तराभिमुखद्वारयोर्दक्षिणे वेदिकरणोक्त्या[१५] दक्षिणाभिमुखद्वारपूर्वाभिमुखद्वा[१६]रयोर्वामभागे वेदिः [१७]कार्येत्यर्थादवगतं भवति[१८] । एवं च नैर्ऋत्यां वेदिर्न भवतीति तात्पर्यार्थः सिध्यति[१९][२०]केवलं दक्षिणामुखं तु द्वारं शिल्पशास्त्रे निषिद्धम् । एवं चावशिष्टं पूर्वाभिमुखमेव द्वारं तस्य वामभागे वेदिर्भवतीत्यर्थः सिध्यति[२१]

 राशिविशेषपरत्वेन द्वारस्य दक्षिणा[भि]मुखतोक्ता श्रीपतिना--

"कर्किनक्रहरिकुम्भगतेऽर्के पूर्वपश्चिममुखानि गृहाणि ।
तौलिमेषवृषवृश्चिकयाते दक्षिणोत्तरमुखानि(णि) तु कुर्यात् ।
अन्यथा यदि करोति दुर्मतिर्व्याधिशोकभयहानिमश्नुते ।
मीनचापमिथुनाङ्गनागते भास्करे न तु गृहाणि कारयेत्" इति ।

 उपनयने मात्रा सह भोजनमनुज्ञातं संग्रहकारेण--

"मात्रा सहोपनयने विवाहे भार्यया सह ।
अन्यत्र सहभुक्तिश्चेत्पातित्यं प्राप्नुयान्नरः" इति ।

 कृच्छ्रत्रयात्मकप्रायश्चित्ताचरणोत्तरं कामचारकामवादकामभक्षणनिषेधप्रवृत्तेरिव न स्त्रिया सह भुञ्जीतेति निषेधस्यापि प्रवृत्तत्वात्तस्य बाधोऽनेन क्रियते । न च मात्रा सहोपनयन इति वचनादुपनयनमध्ये यावन्ति भोजनानि तेषु सर्वेष्वपि मातृसहितत्वमस्त्विति वाच्यम् । आचारसंवादेन सूत्रोक्ताशनपर्यायके भोजन एवैतस्य वचनस्य प्रवृत्तेरुचितत्वेन प्रधानोत्तरकालिके सूत्रकृता कण्ठरवेणानुक्ते भोजने मात्रा सहेत्यस्याप्रवृत्तेः ।

 यत्तु--

"मात्रा सहैव भुञ्जीत ऊर्ध्वं माता रजस्वला ।
व्रतबन्धः प्रशस्तः स्यादित्याह भगवान्यमः" ।

 इतिवचनतो भोजनात्प्राङ्मातरि रजस्वलायां व्रतबन्धो न भवतीति केचित् । अन्ये त्वेतस्य वचनस्यैव महानिबन्धेष्वदर्शनेन निर्मूलत्वात्कर्तव्यमेवेत्याहुः । अत्राऽऽचारानुरोधेन ग्राह्यम् ।

 कटिसूत्रं कौपीनं च परिकल्पनीयम्, तदुभयं यद्यप्यत्र सूत्रस्मृत्यादौ नोक्तं तथाऽपि ब्रह्मचारिधर्मप्रकरणे--

"मेखलामजिनं दण्डमुपवीतं च सर्वदा ।
कटिसूत्रं च कौपीनं ब्रह्मचारी तु धारयेत्" ॥

 इति वक्ष्यमाणयमवचन उपनयनीयमेखलाजिनदण्डोपवीतानां सर्वदा ब्रह्मचारिकर्तृकधारणविधानवत्कटिसूत्रकौपीनयोरपि सर्वदा धारणविधानेनोपनयन आक्षेपतस्तत्प्राप्तिसिद्धेः ।

 "वासः शाणीक्षौमाजिनानि" इति धर्मसूत्रव्याख्यानावसरे वस्यते कौपीनमाच्छाद्यते येन तद्वास इत्युज्ज्वलाकारोक्तेः ।

"गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् ।
कटिबन्धनसंयुक्तं तत्सर्वं निष्फलं भवेत्" ॥

 इति स्मृत्यन्तरे गृहस्थस्यैव कर्मकाले कटिबन्धननिषेधेन ब्रह्मचार्यादीनां कटिबन्धनस्यानुमतत्वप्रदर्शनात् । उज्ज्वलाकृता कौपीनधारणोक्त्या कटिबन्धनस्याप्यर्थत एव दर्शितप्रायत्वाच्छिष्टाचाराच्च ।

 यज्ञोपवीतं गृह्य--

"दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते" ।

 इति दक्षिणत इत्यस्योपविश्येत्यनेनान्वयः[२२]

 बौधायनगृह्ये--

 "स्नात शुचिवाससं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन्वाचयति-- यज्ञोपवीतं प० बलमस्तु तेज इति यज्ञोपवीतिनमप आचमय्य देवयजनमुदानयति" इति ।  धर्मसूत्रे--'अपि वा सूत्रमेवोपवीतार्थे' इति । अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति न वास एवेति नियम इत्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 एतच्च कार्पासम् ।

"कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्" इति मनूक्तेः ।

 कार्पासाभावे देवलः--

"कार्पासक्षौमगोवालशाणवल्कतृणादिकम् ।
यथासंभवतो धार्यमुपवीतं द्विजातिभिः" इति ।

 क्षुमाऽतसी । वल्कं तरुत्वक् । यथासंभवत इत्यत्र सार्वविभक्तिकस्तसिः । यथासंभवमित्यर्थः ।

 छान्दोग्यगृह्ये--

"यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव" इति ।

 भृगुः--

"त्रिवृदूर्ध्ववृतं कुर्यात्तन्तुत्रयमधोवृतम् ।
त्रिवृतं तूपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते' इति ।

 ऊर्ध्ववृतप्रकारमाह संग्रहकारः--

"करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् ।
वलितं ब्राह्मणैः सूत्रं शास्त्र ऊर्ध्ववृतं स्मृतम्" इति ।

 ऊर्ध्वं गतेनोर्ध्वस्थितेन दक्षिणकरेण त्रिगुणीकृतं सद्यद्वलितं तदूर्ध्ववृतमित्यर्थः ।

 देवलः--

"विधवारचितं सूत्रमनध्यायकृतं च यत् ।
विच्छिन्नं चाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत्" इति ।

 अधो यातमित्यत्र कटेरिति शेषः ।

 कात्यायनः--

"पृष्ठदेशे च नाभ्यां न धृतं यद्विन्दते कटिम् ।
तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्" इति ।

 नातिलम्बमित्यनेन कटितोऽधिकं निषिध्यते । नोच्छ्रितमित्यनेन कटितो न्यूनम् ।

 वसिष्ठः--

"नाभेरूर्ध्वमनायुष्यमधो नाभेस्तपःक्षयः ।
तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः" इति ।

 देवलः--

"उपवीतं वटोरेकं द्वे तथेतरयोः स्मृते ।
एकमेव यतीनां स्यादिति शास्त्रविनिश्चयः" इति ।

 इतरयोर्गृहस्थवानप्रस्थयोः । यतिस्त्रिदण्डी ।

 स्मृत्यन्तरे--

"छेदे विनाशे वा स्नातः कन्यया निर्मितं शुभम् ।
विधवाद्याभिरथवा सूत्रं गृह्णीत वै शुचिः" इति ।

 विधवेत्यापत्कल्पः[२३]

 आह्निकप्रयोगपारिजाते कार्पासबीजाहरणादिविधिना कार्पासवृक्षलापनं तद्बीजेन यज्ञोपवीतकरणमुक्तं तत्तत एवावगन्तव्यम् ।

 धारणे विशेषः श्रुतौ--

 "दक्षिणं बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीत संवीतं मानुषम्" इति ।

 मनुः--

"उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ।
सव्ये प्राचीनावीती स्यान्निवीती कण्ठसज्जनम्" इति ॥

 उपवीतनिर्माणधारणविधी[२४] बौधायनसूत्रे--

 "अथातो यज्ञोपवीतक्रियां व्याख्यास्यामो ब्राह्मणेन तत्कन्यया वा कृतं सूत्रमानीय भूरिति प्रथमां षण्णवतिं मिनोति भुव इति द्वितीयां सुवरिति तृतीयां मीत्वा पलाशपत्रे संस्थाप्याऽऽपो हि ष्ठेति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन सावित्र्या चाभिषिच्य वामहस्ते कृत्वा त्रिः संताड्य भूरग्निं चेत्येतैस्त्रिभिर्वलितं कृत्वा भूर्भुवः स्वश्चन्द्रमसं चेत्येतेन ग्रन्थिं कृत्वोंकारमग्निं नागान्यमं पितॄन्प्रजापतिं वायुं सूर्यं विश्वान्देवान्नवतन्तुषु क्रमेण विन्यस्य संपूजयेद्देवस्य त्वेत्युपवीतमादायोद्वयं तमसस्परीत्यादित्याय दर्शयित्वा यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज इति धारयेदित्याह भगवान्बौधायनः" इति ।

 एतावत्कर्तुमशक्तौ देवलः--

"ग्रामान्निष्क्रम्य संख्याय षण्णवत्यङ्गुलीषु तत् ।
तावत्त्रिगुणितं सूत्रं प्रक्षाल्याब्लिङ्गकैस्त्रिभिः ॥
देवागारेऽथवा गोष्ठे नद्यां वाऽन्यत्र वा शुचौ ।
सावित्र्या त्रिवृतं कुर्यान्नवन्ततु तु तद्भवेत् ॥

कार्पासं त्रिवृतं श्लक्ष्णं निदध्याद्वामहस्तके ।
सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् ॥
हरिब्रह्मेश्वरेभ्यश्च प्रणम्य परिपूज्य च ।
यज्ञोपवीतमिति वा व्याहृत्या वाऽपि धारयेत्" इति ॥

 उक्षयेदिति स्वार्थे णिच् । तूष्णीमेवोर्ध्ववृतत्वादिलक्षणविशिष्टं यज्ञोपवीतं निर्माय सावित्र्याऽऽपो हि ष्ठादिभिर्मन्त्रैर्वाऽभिमन्त्रिताभिरद्भिर्दशवारं सावित्र्यैवाभ्युक्ष्य यज्ञोपवीतं परममिति मन्त्रेण व्याहृतिभिर्वा धारयेदिति स्मृत्यर्णवे ।

 कौषीतकिशाखायां तु--

 "यज्ञोपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय" इति यज्ञोपवीतधारणमन्त्र उक्तः ।

 यज्ञोपवीतशब्दार्थ उक्तः स्मृतिसारे--

"यज्ञाख्यः परमात्मा य उच्यते चैव होतृभिः ।
उपवीतं ततोऽस्येदं तस्माद्यज्ञोपवीतकम्" इति ॥

 स्मृतिप्रकाशे--

"ज्ञातृविज्ञेययोरैक्यमविजानन्द्विजोत्तमः ।
न त्यजेदात्मनः सूत्रं ब्राह्मं ब्रह्मविनिर्मितम् ॥
सिसृक्षरेक एवाग्रे समासीनः शिवः स्वयम् ।
दृष्ट्वा गुणमयीं मायां सूत्ररूपामिवाकरोत् ॥
तया तदात्मकं विष्णुं सृष्ट्वा पालं दिवौकसाम् ।
स्वयं ब्रह्मा भवेद्रुद्रो रुद्रश्चास्य क्षयाय सः ॥
ज्ञानात्मकेन हरिणा ब्रह्मात्मनि शिवेऽव्यये ।
तत्सूत्रमुपवीतत्वाद्ब्रह्मसूत्रमिति स्मृतम् ॥
यज्ञेन चोपवीतत्वाद्यज्ञसूत्रं विदुर्बुधाः ।
तदाज्ञयाऽऽवृतत्वाच्च ब्रह्मणा ब्रह्मसूत्रकम् ॥
तावल्लोकास्त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।
शिवसृष्टास्त्रयो वर्णास्त्रिवृत्सूत्रं समाश्रयेत् ॥
तद्ग्रन्थिमाश्रयंस्तारस्त्रिमात्रो नादसंयुतः ।
तद्ग्रन्थ्यग्रं च सावित्री वेदमाता शिवाज्ञया ॥

एवं द्वादशदै(दे)वत्यं ब्रह्मसूत्रं द्विजन्मनाम् ।
ब्रह्माऽग्रे कल्पयामास वेदार्हाणामनुत्तमम् ॥
येनांसे धृतमात्रेण ब्रह्मसूत्रेण ते द्विजाः ।
भवन्ति ब्राह्मणा नाम वेदार्हाश्च त्रयस्त्विह ॥
यावत्प्रभृति वामांसे ब्रह्मसूत्रं द्विजस्य तत् ।
गुरुः प्रतिष्ठापयति काले प्रभृतिसंयतः ॥
तावत्प्रभृति तस्यैव पिताऽऽचार्यः स उच्यते ॥
माता च तस्य सावित्री द्वितीयं जन्म चोच्यते ।
आकटेस्तत्प्रमाणं स्याद्दीर्घं तु [२५]सुस्थितं [२६]तथा ॥
आयुर्हरत्यतिह्रस्वमतिदीर्घं तपोहरम् ।
सिद्धार्थफलमानेन स्थूलं स्यादुपवीतकम् ॥
यशोहरमतिस्थूलमतिसूक्ष्मं धनापहम् ।
पवित्रं परमं शुद्धमायुष्यं च शुभावहम् ।
[२७]औजस्यं ब्रह्मवर्चस्यं ब्रह्मसूत्रं तथोदितम्" इति ।

"यज्ञोपवीतं परमं पवित्रं विभूषणं ब्राह्मणलक्षणं च ।
पद्मासनस्थेन पितामहेन उत्पादितं पङ्कजनालसूत्रात्" ।

 इति यज्ञोपवीतोत्पत्तिः ।

"यज्ञोपवीतस्योत्पत्तिं जानाति ब्राह्मणो न चेत् ।
स वै वहति भाराय पुस्तकानि यथा वृषः" इति ॥

 वासो धर्मसूत्रे--

'वासः शाणीक्षौमाजिनानि' इति ।

 वस्यते कौपीनमाच्छाद्यते येन तद्वासः । शणस्य विकारः शाणी पटी । क्षुमाऽतसी तस्य विकारः क्षौमम् । श्वेतपट्टाख्यं वासोविशेष इत्यन्ये । अजिनं यस्य कस्यचिन्मेध्यस्य पशोः । एतेषु त्रिष्वेकं वासः परिदध्यादित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 वसिष्ठेन तु ब्राह्मणस्य कार्पासं[२८] वास उक्तम्--

 "ब्राह्मणस्य कार्पासं वासः" इति ।

 एतच्चाहतं, तदुक्तं गृह्ये--

"अथैनमहतं वासः परिधापयति" इति ।

 अहतलक्षणमाह प्रचेताः--

"ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् ।
अहतं तद्विजानीयात्सर्वकर्मसु पावनम्" इति ।

 एतच्च वासः पुष्ये कर्तव्यमिति बौ[२९]धायनगृह्ये दृष्टं तदस्माकमप्यविरुद्धम् ।

 एतदनन्तरं द्विराचमनं कार्यम्--

"स्नात्वा पीत्वा क्षुते स्वापे भुक्त्वा रथ्याप्रसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधार्य च" ।

 इति याज्ञवल्क्योक्तेः ।

 अत्राऽऽचमनं पौराणमेव न तु वैदिकम्--

"न ह्यस्मिन्युज्यते कर्म किंचिदा मौञ्जिबन्धनात् ।
शूद्रेण तु समस्तावन्न तु वेदेन युज्यते" ॥

 इति मनुनोपनयनोत्तरमेव वैदिककर्माधिकारस्योक्तत्वात् ।

 उत्तरीयं धर्मसूत्रे--

 "हारिणमैणेयं वा कृष्णं ब्राह्मणम्य कृष्णं चेदमुपस्तीर्णासनशायी स्याद्रौरवं राजन्यस्य वस्ताजिनं वैश्यस्याजिनं वैश्यस्याऽऽविकं सार्ववर्णिकम्" इति ।

 हरिणो मृगस्तस्य विकारो हारिणं चर्म । एणी मृगी तस्या विकार ऐणेयं तच्च कृष्णं, कृष्णं चेद्बिभृयान्न केवलं हारिणं तदा तस्मिन्नास्तीर्णे नाऽऽसीत न च शयीत । रुरुर्बिन्दुमान्मृगस्तस्य विकारो रौरवम् । वस्तश्छागस्तस्याजिनम् । अविरूर्णायुर्मेषस्तस्य विकार आविकं तत्सर्वेषां वर्णानाम् । तस्य हारिणादिभिर्विकल्पः । कम्बलोऽप्याविक एव सर्वेषामित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 प्रावरणपर्याप्तोत्तरीयार्थाजिनासंभवे शाकलः--

"अखण्डं वा त्रिखण्डं वाऽष्टाचत्वारिंशदङ्गुलम् ।
चतुरङ्गुलविस्तीर्णं धारयेदजिनं सदा" इति ॥

 खण्डत्रयमानं स्मृत्यन्तरे--

"त्र्यङ्गुलं तु बहिर्लोम यद्वा स्याच्चतुरङ्गुलम् ।
अजिनं धारयेद्विप्रश्चतुर्विंशाष्टषोडशैः" इति ॥

 चतुर्विंशाङ्गुल एकः । अष्टाङ्गुलो द्वितीयः । षोडशाङ्गुलस्तृतीयः । एवं त्रिभिः खण्डैरष्टाचत्वारिंशदङ्गुलं(ल) परिमण्डलमजिनं धार्यमित्यर्थः । अत्र परिषीवणार्थं किंचिदधिकं ग्राह्यम् । अन्यथाऽष्टाचत्वारिंशदङ्गुलमजिनं धार्यमित्यनेन विरोधापत्तेः । अत्राङ्गुलानि संस्कार्यस्य ग्राह्याणि ।

 मेखला गृह्ये--

 "मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्या राजन्यस्याऽऽवीसूत्रं वैश्यस्य" इति ।

 मौञ्जीं मुञ्जतृणनिर्मिताम् । त्रिवृतां त्रिगुणाम् । धनुषो रज्जुर्ज्या । आवीसूत्रमविलोममयी रज्जुः ।

 धर्मसूत्रेऽपि--

 "त्रिवृन्मौञ्जी मेखला ब्राह्मणस्य शक्तिविषये दक्षिणावृतानां ज्या राजन्यस्य मौञ्जी वाऽयोमिश्राऽऽवीसत्रं वैश्यस्य सैरी तामली वेत्येके" इति ।

 त्रिवृत्रिगुणा । मुञ्जानां विकारो मौञ्जी । एवंभूता ब्राह्मणस्य मेखला भवति । सा च शक्तिविषये शक्तौ सत्यां दक्षिणावृतानां कर्तव्या । तद्धितार्थे गुणभूतानामपि मुञ्जानामेतद्विशेषणम् । ज्या धनुषो रज्जुः । अथवा मौञ्जी सा चायोमिश्रा क्वचित्कालायसेन बद्धा । अविरेवाऽऽविः(वी)। अ(आ)व्याः सूत्रमावीसूत्रम् । अविलोममयी रज्जुः । सैरी सीरवाहयोक्त्ररज्जुः। तामलो वृक्षस्तस्य त्वचा ग्रथिता तामली । एवंभूता वा वैश्यस्य मेखलेत्येक आचार्या मन्यन्त इति व्याख्यातमुज्ज्वलाकृता ।

 विशेषमाह मनुः--

"त्रिवृन्मौञ्जी समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी" इति ।

 समा न क्वचित्सूक्ष्मा न क्वचित्स्थूला किं तर्हि सर्वत एव समा श्लक्ष्णा तन्तुतनुत्वगुणयुक्ता परिधृष्टा च, ज्या कदाचिच्चर्ममयी भवति कदाचित्तृणमयी । तत्र चर्ममयीव्यावृत्त्यर्थं मौर्वीति ज्याविशेषणम्, तया धनुषोऽवतारितया श्रोणिबन्धः कर्तव्य इति मेधातिथिः । ज्यायां त्रिवृत्त्वादिगुणो न, स्वरूपनाशप्रसङ्गात् । शणतान्तव्यां त्वस्त्येवेति ज्ञेयम् ।  अनुकल्पमाह मनुः--

"मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा" इति ।

 अत्राऽऽदिशब्दलोपो द्रष्टव्यः । तेनेत्थं वाक्यं भवति--मुञ्जाद्यभाव इति । ग्रन्थयश्च प्रवरसंख्यया । एकप्रवरस्यैको ग्रन्थिः, त्रिप्रवरस्य त्रयः, पञ्चप्रवरस्य पञ्चेति वृद्धाः ।

 दण्डो गृह्ये--

"बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोध
राजन्यस्यौदुम्बरं वैश्यस्य" इति ।

 धर्मसूत्रेऽपि--

 "बैल्वः पालाशो वा दण्डो ब्राह्मणस्य नैयग्रोधः स्कन्धजोऽवाङग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति" इति ।

 नैयग्रोधो वटमयः, स चस्कन्धः शाखाविशेषस्तस्माज्जातः । अवाङवाचीनमग्रं यस्यैतादृशश्च । बादरो बदरवृक्षजः । वार्क्षो वृक्षमात्रजोऽनियतवृक्षजः, एतादृशो दण्डः सर्वेषां वर्णानां भवतीत्येक आचार्या उपदिशन्तीत्यर्थः ।

 मनुरपि--

"ब्राह्मणे बैल्वपालाशौ क्षत्रिये वटखादिरौ ।
पैप्पलौदुम्बरौ वैश्ये दण्डानर्हन्ति धर्मतः" इति ।

 अत्र सत्यपि द्वंद्वनिर्देशे बैल्वः पालाशो वा दण्ड इति धर्मसूत्रे विकल्पोक्तेरविवक्षितं साहित्यं ज्ञेयम् ।

 बौधायनधर्मसूत्रे--

"मूर्धललाटनासाग्रप्रमाणो यज्ञियस्य वृक्षस्य दण्डः" इति ।

 ब्राह्मणक्षत्रियवैश्यानां क्रमेण दण्डप्रमाणानीत्यर्थः । एषां क्रमेणेति पूर्वत्रोपक्रमात् । अत्र मूर्धादिप्रमाणानि संस्कार्यस्य ग्राह्याणि ।

 दण्डलक्षणान्याह मनुः--

"ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकराश्चैव सत्वचो नाग्निदूषिताः" इति ।

 ऋजवः सरलाः । अव्रणा अच्छिद्राः । सौम्यदर्शना अकण्टकिताद्याः । अग्निदूषिता अग्निदग्धाः ।  गोभिलगृह्ये--

 "क्षौमशाणकार्पासौर्णान्येषां वसनान्यैणेयरौरवाजान्यजिनानि मुञ्जकाशताम्बल्यो रशनाः पार्णबैल्वाश्वत्था दण्डाः । क्षौमं शाणं वा वसनं ब्राह्मणस्य कार्पासं क्षत्रियस्याऽऽविकं वैश्यस्यैते नैवेतराणि द्रव्याणि व्याख्यातान्यलाभे सर्वाणि सर्वेषाम्" इति ।

 ताम्बलीतामलीशब्दौ पर्यायौ ।

 कूर्चस्त्वसंख्यदर्भात्मकः--

"यज्ञवस्तुनि मुष्टौ च स्तम्बे दर्भवटौ तथा ।
दर्भसंख्या न विहिता कूर्चे संस्तरणेऽपि च" ।

 इति वचनात् ।

 यत्तु प्रयोगपारिजाते--

"नवभिः सप्तभिर्दर्भैः पञ्चभिः क्रमशः कृतः ।
कूर्चः श्रेष्ठो मध्यमश्च कनीयांश्च समीरितः ॥
तद्ग्रन्थिर्द्व्यङ्गुला ज्ञेया तदूर्ध्वं चतुरङ्गुलम्" ।

 इति कूर्चलक्षणं तदुपवेशनार्थकूर्चव्यतिरिक्तविषयमिति द्रष्टव्यम् ।

 स्मृतिसारे--

"एकमातृप्रसूतानां कन्ये वा पुत्रकौ तयोः ।
सहोद्वाहं न कुर्वीत तथैव व्रतबन्धनम्" इति ।

 उपनयनारम्भोत्तरं सूतके प्राप्ते विशेषः संग्रहे--

"कूश्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् ।
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्" इति ।

 ब्रह्मचारिकर्तृकक्रियाकरणीभूतमन्त्राणां शं नो देवीरित्येवमादीनामुपनयनात्प्रागेव शिक्षणं कर्तव्यं, सूत्रवृत्तिकृदभ्यनुज्ञातत्वात् । पत्न्या यथाऽवेक्षणादिमन्त्राणाम् ।


अथ त्रिवृदन्नहोमः ।

 तत्रेत्थं सूत्रम्--

 "उपस्थितेऽन्न ओदनस्यापूपाना सक्तूनामिति समवदाय सर्पिर्मिश्रस्य जुहोत्यग्नये स्वाहा सोमाय स्वाहाऽग्नयेऽन्नादाय स्वाहाऽग्नयेऽन्नपतये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति सर्वत्रैवमनादिष्टदेवतेऽमुष्मै स्वाहेति यथादेवतमादिष्टदेवत एतेषामेवान्नाना समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहेति त्रिवृताऽन्नेन ब्राह्मणान्परिविष्य पुण्याह स्वस्त्ययनमृद्धिमिति वाचयित्वा त्र्यहव्रतं चरति" इति ।

 अस्यार्थः--उपस्थित आगत आनीतेऽन्ने ब्राह्मणपरिवेषणार्थमोदनस्यापूपानां सक्तूनां त्रयाणां समवदाय यावदर्थमवखण्ड्य मिश्रयित्वा पुनः सर्पिषा मिश्रीकृतस्य जुहोत्यग्नये स्वाहेत्येतैर्मन्त्रैः । उपस्थितवचनं बहिः संस्कृतस्य ग्रहणार्थम्, ओदनस्यापूपानां सक्तूनामित्येतावदुच्यमानेऽत्रैव संस्कारः प्राप्नुयात् । उपस्थितस्यौदनस्यापूपानां सक्तूनामित्येतावतैव सिद्धेऽन्नग्रहणं सव्यञ्जनार्थम् । तेन ज्ञायते, भोजनार्थमप्येतदुपस्थितं भवति न होमार्थमेवेति । अनेन ज्ञायते भोजनं हुतशेषस्यैव नान्यस्येति । ओदनादीनां द्वंद्वसमासन निर्देश ओदनादीनां कदाचित्सहितानामपि पात्रान्तरे ग्रहणं स्यात्तन्मा भूदित्येतदर्थमसमासेन निर्देशः । अपूपानामिति बहुवचनात्त्रिप्रभृतयोऽपूपा ग्राह्याः । सक्तुशब्दस्तु बहुवचनान्त एव पिष्टशब्दवत्, यथा सक्तुभिर्जुहोतीत्यादौ । ओदनादीन्यक्षारलवणानि ग्राह्याणि ।

"न क्षारलवणहामा विद्यते"

 इति धर्मसूत्रे निषेधात् । इतिशब्दोऽवधारणार्थः, ओदनस्यापूपानां सक्तूनामेव समवदायेति । तेन हविष्यभूतव्यञ्जनव्यावृत्तिः । ओदनादीनामेकदेशं समवदाय तेन सर्पिर्मिश्रितेन जुहोति । न त्रयाणां सर्वेषामेव मिश्रणम् । सर्पिःशब्दान्मिश्रणे संस्काररहितमेवाऽऽज्यम् । स्विष्टकृदाहुतिः पूर्वाहुतिभिरसंसक्तोत्तरार्धपूर्वार्धे होतव्या । अमुं त्रिवृदन्नहोममन्यत्राप्यतिदिशति-- 'सर्वत्रैवमनादिष्टदेवते' इति । सर्वत्र सर्वस्मिन्नपि कर्मण्यनादिष्टदेवते । नाऽऽदिष्टाऽनादिष्टा, अनादिष्टा देवता यत्र तदनादिष्टदेवतं तस्मिन्ननादिष्टदेवते, एतादृशेऽन्न उपस्थिते सत्येवंप्रकारेण होमः कर्तव्य इत्यर्थः । सर्वत्रेति वचनं सर्वेषु कर्मस्वेवान्न उपस्थितेऽयं होमः स्यान्न तु केवल उपस्थिते लौकिकेऽन्न इत्येतदर्थम् । अनादिष्टदेवत इति वचनं स्थालीपाकमासिकादिश्राद्धान्नव्यावृत्त्यर्थं, तस्याऽऽदिष्टदेवतत्वात् । काण्डव्रतादावन्नोपस्थितेरभावान्नैष[३०] होमः । इयं चान्नोपस्थितिः कण्ठरवोक्तैव ग्राह्या, अन्यथा [३१]श्राद्धान्तरसिद्धब्राह्मणभोजना र्थान्नोपस्थितेः सूत्रोक्तेषु काण्डव्रतादिषु शास्त्रान्तरप्रोक्तेषु कर्णवेधादिकर्मसु च सत्त्वेनातिप्रसङ्गापत्तेः । न चेष्टापत्तिः, तथाऽऽचाराभावात् । यद्येवं, युग्मान्ब्राह्मणानित्यत्रापि कण्ठरवोक्ताया अत्रोपस्थितेः सत्त्वात्त्रिवृदन्नहोमः प्राप्नोति । नैष दोषः । यद्येवमिष्टं स्यात्तत्रैवेदं विधायातिदिशेत् । तस्मात्प्रथमोक्तान्नोपस्थितिव्यतिरिक्तस्थल एवायं होम इति सिद्धं भवति । अमुष्मै स्वाहेति यथा--देवतमादिष्टदेवते । आदिष्टदेवतेऽन्न उपस्थिते त्वमुष्मै स्वाहेति यथादेवतं होमः कार्य इत्यर्थः । आदिष्टदेवतेऽन्ने स्थालीपाक उपस्थिते कैश्चिदाचार्यैर्याज्यानुवाक्याभ्यां होमो विहितः स मा भूदित्येतदर्थममुष्मै स्वाहेति वचनम् । यथादेवतमिति वचनं यस्मिन्कर्मणि मन्त्रे यथा यथा छान्दसो धर्मो देवताशब्दे दृष्टो भवेत्तथैव नाममन्त्रेऽपि स्यादित्येवमर्थम् । दृष्टश्च क्षेत्रस्य पतिनेत्यस्मिन्मन्त्रे 'षष्ठीयुक्तश्छन्दसि वा' इत्यनेन घिसंज्ञारूपश्छन्दसि विकल्पेन विहितो धर्मस्तद्धर्मेणैव नाममन्त्रेण होमः । यथा क्षेत्रस्य पतये स्वाहेति घिसंज्ञाभावे क्षेत्रस्य पत्ये स्वाहेति । आदिष्टदेवत इति वचनमादिष्टदेवतान्नहोमीयमन्त्र एवैतन्नाऽऽज्यहोमीयनाममन्त्रे । तेन वेदोपाकरणादौ सदसस्पतये स्वाहेत्येवमेव मन्त्रः, न तु सदसस्पत्ये स्वाहेति । वास्तुबलिविधानात्पूर्वं परिभाषाकरणादेवं ज्ञायते पूर्वं स्विष्टकृद्धोमानन्तरं कर्मशेषं समाप्यैव वास्तुबलिरिति । वास्तुबलेरनावश्यकत्वद्योतनार्थं वा मध्ये परिभाषाकरणम् । अथवोत्तरत्र यथापुरस्तादित्येतस्य मध्यमणिन्यायेन ब्राह्मणानन्नेन परिविष्येत्यत्राप्यन्वयः । तेन सर्वत्रापि वास्तुबलिनैयत्यं सिध्यत्याचारश्चानुगृहीतो भवति । मध्ये परिभाषाकरणं तु वास्तुबलेरेवाव्यवहितत्वात्सर्वत्रातिदेशः स्याद्धोमस्य नैव स्याद्व्यवहितत्वात्तन्मा भूदित्येतदर्थम् । एतेषामिति वचनं बलिकरणे तान्येव द्रव्याणीति । एवकारो हविष्यव्यञ्जनस्यापि व्यावृत्त्यर्थः । समवदायेतिवचनात्पुनः पृथक्पृथग्गृहीत्वाऽवखण्ड्य मिश्रयित्वा तेन प्रागग्रेषु दर्भेषु बलिं करोति । प्रागग्रवचनमुदगग्रताव्यावृत्त्यर्थम् । नात्र सर्पिर्मिश्रणमवचनात् । बलिं करोतीतिवचनात्प्रथममवोक्ष्य बलिं तत्र न्युप्य तं परिषिञ्चति । त्रिवृता त्रिप्रकारेणान्नेन सव्यञ्जनेन ब्राह्मणान्परिविष्य संभोज्य तैः पुण्याहादीनि वाचयित्वा त्र्यहव्रतं चरतीत्यर्थः । अन्नेनेत्येतावतैव सिद्धे त्रिवृद्ग्रहणं युग्मान्ब्राह्मणानन्नेन परिविष्येत्यत्राप्योदनापूपसक्त्वात्मकत्रिवृदन्नसंप्रत्ययार्थम् ।


उपनयनप्रयोगः ।

 अथोपनयनप्रयोगः । उपनयनं चिकीर्षुराचार्यः कार्पासमुक्तविधिना निर्मितमेकं यज्ञोपवीतं प्रादेशमात्रं समचतुरश्रमश्मानमहतं वस्त्रद्वयं क्षौमं कार्पासं वा कौपीनं तद्बन्धनार्थं क्षौमं सूत्रमुत्तरीयार्थं काषायं वस्त्रमजिनं वा त्रिवृतां मौञ्जीं मेखलां प्रवरसंख्यग्रन्थियुतामुक्तलक्षणं दण्डमप्रच्छिन्नाग्राः प्रादेशमात्रीः सप्त पालाशीः समिधोऽनियतसंख्यैर्दर्भैर्निर्मितमासनार्थं कूर्चं कांस्यव्यतिरिक्तं भिक्षापात्रं गां चोपकल्पयेत् । होमादिसामग्रीं च पित्राद्युपनेतरि कुमारेण भिक्षया वरदानार्थं गौरुपकल्पनीया ।

 कृतनित्यक्रिय आचार्य आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममोपनेतृत्वाधिकारसिद्ध्यर्थं कृच्छ्रत्रयात्मकं प्रायश्चित्तममुकप्रत्याम्नायेनाहमाचरिष्य इति संकल्प्य तच्चरेत् ।

 एवं देशकालसंकीर्तनपूर्वकमुपनेयत्वाधिकारसिद्ध्यर्थं कृच्छ्रत्रयात्मकं प्रायश्चित्तं गोदानप्रत्याम्नायेनाहमाचरिष्य इति वटुना संकल्पं कारयित्वा तत्कारयेत् । तस्याशक्तावुपनेता वा कुर्यात् ।

 ततो मम गायत्र्युपदेशाधिकारार्थं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपमहं करिष्य इति संकल्प्य, अग्न आयू पीत्यादिषण्मन्त्राणां विश्वे देवा ऋषयः । आद्ययोरग्निः पवमानो देवता । मध्यमयोरग्निः पावकः । अन्त्ययोरग्निः शुचिर्गायत्री छन्दः । जपे विनियोगः। 'ॐ अग्न आयू षि० प्यर्चयः' इत्यग्निपवित्रसंज्ञकान्षण्मन्त्रान्सकृज्जपित्वा, गायत्र्या विश्वामित्र ऋषिः, सविता देवता, गायत्री छन्दः । जपे विनियोगः । 'ॐ तत्सवितुर्वरेण्यं० दयात्' इति सकृज्जपित्वा, ऋष्यादिस्मरणपूर्वकं संकल्पितपक्षानुसारेण द्वादशसहस्रं द्वादशाधिकसहस्रं वा यथाकालं गायत्रीजपं कुर्यात् । अथवाऽग्निपवित्रसंज्ञकान्षण्मन्त्रान्गायत्रीं च सकृज्जपित्वोक्तसंख्यं गायत्रीजपं संकल्पपूर्वकं कुर्यात् । अथवा गायत्र्याः सकृज्जपो न कार्यः ।

 तत आचार्यो ज्योतिर्विदादिभ्योऽवधारितादुपयनदिनात्पूर्वेद्युस्तद्दिदने वा सर्वं नित्यकर्म विधाय माङ्गलिकं स्नानं माङ्गलिकं वेषं च कृत्वा सोत्तरच्छदे रङ्गवल्लिकायुक्ते पीठे प्राङ्मुख उपविश्य स्वदक्षिणतः कृतमाङ्गलिकस्नानां कृतमाङ्गलिकवेषां भार्यां तद्दक्षिणतः कृतमाङ्गलिकस्नानं कृतमाङ्गलिकवेषं संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यास्य कुमारस्य द्विजत्वसि द्धिपूर्वकवेदाध्ययनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यं संस्कारं करिष्य इति संकल्पं कुर्यात् ।

 ततस्तदङ्गत्वेन पुण्याहादिवाचनं मातृकापूजनं नान्दीश्राद्धं ग्रहयज्ञमङ्कुरारोपणं मण्डपदेवताप्रतिष्ठापनं च करिष्ये । तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं यथाचारं कुलदेवतादिपूजनं [च] करिष्य इतिसंकल्पाद्यङ्कुरारोपणान्तं कुर्यात् । पूर्वमङ्कुरारोपणं पश्चाद्ग्रहयज्ञ इति वा क्रमः । इन्द्रः प्रीयतामिति पुण्याहवाचने विशेषः ।

 अथवा ग्रहयज्ञाङ्कुरारोपणे प्रधानसंकल्पात्पूर्वमेव कर्तव्ये । अस्मिन्पक्षे नास्मिन्संकल्प एतयोरुल्लेखः ।

 उपनयनस्य वेदाध्ययनार्थत्वेन द्विजत्वसंपादकत्वेन च विशिष्टत्वात्तत्र निर्विघ्नतासिद्ध्यर्थं ग्रहयज्ञात्पूर्वं विनायकशान्तिमपि पृथगेव कुर्यात्तन्त्रेण वा । सा च शान्तिरत्नमालायां द्रष्टव्या ।

 ग्रहयज्ञस्तु प्रधानसंकल्पदिनात्प्राक्सप्तदिनमध्ये दशदिनमध्य एव वा कर्तव्यः ।

"मण्डपस्थापनदिनात्पुरा ग्रहमखं चरेत् ।
दशाहे वाऽथ सप्ताहे ततः प्राङ्नैव तं चरेत्" ॥

 इति ज्योतिःसागरवचनात् । मण्डपस्थापनदिनात्प्रधानसंकल्पदिनात्पुरा प्राक्, ग्रहमखं ग्रहयज्ञं चरेत्कुर्यात् । तत्र कालनियममाह दशाह इति । ततो दशाहात्सप्ताहाद्वा प्राङ्नैव तं ग्रहमखं कुर्यादित्यर्थः । अत्र गौर्यादिमातृका गणपत्यादयश्च वंशपात्रोपरि वस्त्रं प्रसार्य तत्र संस्थाप्याः ।

 ततो यथाचारमाम्रादिप्रशस्तवृक्षपर्णवेष्टिता दूर्वाः शमीशाखाः सूत्रेण षोढा वेष्टयेत् । तत्रैकत्र मुशलमेकत्र च्छुरिकाशस्त्रं मध्ये प्रक्षिप्य वेष्टनीयम् । ततस्ताः शाखा मातृकावंशपात्रे निधाय तासु चतसृषूदक्संस्थं नन्दिनीनलिनीमैत्रोमा नाममन्त्रेणाऽऽवाह्य तदुत्तरस्थमुशलगर्भायां पशुवर्धिनीं नाममन्त्रेणाऽऽवाह्य तदुत्तरस्थच्छुरिकाशस्त्रगर्भायां भगवतीं नाम्नैवाऽऽवाहयेत् ।

 ततो मातृकावंशपात्रस्योत्तरतः स्थापिते सूक्ष्ममृन्मयकलशद्वय एकस्मिन्वा यथाचारं तण्डुलपूर्णे हरिद्राखण्डलड्डुकपूगीफलयुते न्युब्जशरावपिहिते श्वेतचूर्णरञ्जिते सूत्रवेष्टिते गणानां त्वेति मन्त्रेणाविघ्नगणपतिमावाह्य नर्य प्रजामिति प्रतिष्ठाप्याऽऽसनाद्याचमनीयान्तानुपचारान्समर्प्य स्वसमीपे ताम्रपात्रं निधाय तत्र ताः शाखाः संस्थाप्य भार्यया नीराजनसुगन्धितैलाभ्यङ्गयवा रकहरिद्राद्युद्वर्तनोष्णोदकस्नानानि कारयित्वाऽऽपो हि ष्ठेतितिसृभिः संस्नाप्याऽऽचमनीयं दत्त्वा ताः शाखा मातृकावंशपात्रे पूर्ववन्निधाय वस्त्रादिपुष्पान्तानुपचारान्समर्प्य दधिक्राव्ण इति दध्ना काण्डात्काण्डादिति दूर्वाभिश्चाभ्यर्च्य धूपाद्युपचारान्समर्प्य ।

"मन्त्रहीनं क्रियाहीनं भक्तिहीनं च देवताः ।
यत्पूजनं कृतमिदं परिपूर्णं तदस्तु मे" ॥

 इति संप्रार्थ्य वंशपात्रं स्वयं गृहीत्वाऽविघ्नगणपतिकलशं भार्यया ग्राहयित्वा घण्टादिवाद्यघोषेण सहितः सब्राह्मणः 'ॐ स्वस्ति न इन्द्रो वृद्धश्र० बृहस्पतिर्दधातु' 'अष्टौ देवा वसवः सो० ममृत स्वस्ति' 'ऋद्ध्यास्म हव्यैर्नमसो० सवीराः' इति मन्त्रान्पठन्गृहमध्ये गत्वा प्रतिष्ठापनदेशमुपलेपयित्वा रङ्गवल्ल्यादिभिरलंकृत्य तत्र तण्डुलान्प्रक्षिप्य तेषु तद्वंशपात्रं नर्य प्रजामिति प्रतिष्ठाप्य तत्रैवोत्तरतः कलशं भार्यया निधाप्य पञ्चोपचारैः संपूज्य स्थापितदेवताप्रीत्यर्थं यथाविभवं ब्राह्मणान्सुवासिनीश्च संभोज्य तेभ्यो यथाविभवं वस्त्रादि दद्यात् ।

 ततो नीराजिताभ्यां दंपतिभ्यां सुहृदो वस्त्रादि दद्युः ततः कर्ताऽन्यदपि कुलधर्मानुसारि कर्म चेत्तदपि कुर्यात् । यावन्मण्डपोद्वासनं प्रत्यहं स्थापितदेवताः पूजयेत् ।

 यथोक्तमण्डपकरणानुकूल्ये सति षोडशद्वादशान्यतमसंख्यहस्तपरिमितोऽसंभवेऽष्टहस्तपरिमितः स्थलानुरोधेन वा चतुरोपशोभितस्तोरणैर्युक्तो दृढस्तम्भचतुष्टययुक्तः सद्मनो वामभागे द्वारसमीपे वा मण्डपः कार्यः । अत्राऽऽचार्यहस्त एव ग्राह्यो न तु संस्कार्यस्य । अन्यथा मण्डपस्याष्टहस्तत्वपक्षेऽतिलघुतापत्तेः ।

"आचार्यहस्तमानेन मण्डपे निर्मिते शुभे ।
मध्ये वेदी प्रकर्तव्या चतुरश्रा समन्ततः" ॥

 इति ज्योतिर्निबन्धवचनाच्च ।

 आचार्य इति संस्कारकोपलक्षणं, तेन विवाहेऽपि मण्डपः संस्कारकस्य पित्रादेर्हस्तेनैव ।

"कन्याहस्तैः पञ्चभिः सप्तभिर्वा कार्या वेदिः कूर्मपृष्ठोन्नता सा" ।

 इति वचनेन वेदिविषय एव कन्याहस्तपरिमाणत्वे प्रतिपादिते मण्डपे संस्कारकहस्तपरिमाणत्वमर्थतः प्रतिपादितं भवति । तत्राऽऽग्नेय्यामाम्रमयो जम्बूमयो वा स्तम्भः । नैर्ऋत्यां खादिरो धात्रीवृक्षजो वा । वायव्यामौदुम्बरः शमीमयो वा । ई(ऐ)शान्यां बादर आश्मन्तको वा । एतैः स्तम्भर्मण्डपं दृढं कटादिनाऽऽच्छादितं निर्माय तोरणाद्यैः शोभयित्वा पूर्ववद्बद्धाश्चतस्रः शाखाः 'दधिक्राव्णो अकारिषं' 'या जाता ओषधयः' इति मन्त्राभ्यां चतुर्णां ब्राह्मणानां हस्तेषु दत्त्वाऽऽग्नेयस्तम्भे' 'गङ्गायै नमो गङ्गामावाहयामि' इत्यावाह्य संपूज्य सुदृढा स्थिरा भवेति प्रार्थयेत् । एवं नैऋत्ये(ते) गौरीं वायव्ये धरणीमैशाने लक्ष्मीम् । ततो विप्रहस्तेभ्यस्ताः शाखा आदायाऽऽग्नेयादिस्तम्भेषु ताः शाखा बद्ध्वा तत्राऽऽग्नेयशाखायां नन्दिनीं नैर्ऋत्य(त)शाखायां नलिनीं वायव्यशाखायां मैत्रामैशानीशाखायामुमामावाह्य प्रतिष्ठापयेत् । ततः स्वहस्तस्थामेव मुशलगर्भां शाखां मण्डपमध्यमवंशे बद्ध्वा तत्र नाम्नैव पशुवर्धिनीमावाह्य प्रतिष्ठापयेत् । ततस्ताः काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । तत्र समुद्रज्येष्ठा इत्यादयश्चत्वारो मन्त्राः क्रमेण नन्दिन्यादीनां चतसृणां देवतानां स्नानमन्त्राः । चत्वारोऽपि पशुवर्धिन्याः । आपो हि ष्ठेतिमन्त्रत्रयस्य सर्वत्र समुच्चयः । गन्धद्वारामिति गन्धस्य । दधिक्राव्ण इति दध्नः । काण्डात्काण्डादिति दूर्वायाः । दूर्वासमर्पणोत्तरं पुष्पाद्युपचारसमर्पणमिति विशेषः ।

 ततो मण्डपमध्य आग्नेय्यादिक्रमेण कलशस्थापनविधिना कुम्भचतुष्टयं स्थापयित्वा तत्त्रिसूत्र्या संवेष्ट्य तन्मध्ये देवकस्थापनं कुर्यात् । तच्चेत्थम् । अनुपहतपीठे वंशपात्रं निधाय तत्र देवकसंज्ञकच्छुरिकाशस्त्रगर्भायां शाखायां भगवतीमावाह्य प्रतिष्ठाप्याऽऽसनाद्याचमनीयान्तानुपचारान्समर्प्य चतसृभिः सुवासिनीभिर्नीराजनाभ्यङ्गोद्वर्तनोष्णोदकस्नानानि कारयित्वा देवकं वंशपात्रे संस्थाप्य वस्त्रादिभिरुपचारैः संपूज्य तस्मिन्नेव पीठे तत्कलशद्वयमेकं वा निधायाविघ्नसंज्ञकगणपतिं तत्राऽऽवाह्य प्रतिष्ठाप्य संपूजयेत् । तत एतत्समीपे मातृकावंशपात्रं निधाय ब्राह्मणभोजनादि सर्वं पूर्ववत्कुर्यात् ।

 ततस्तस्मिन्मण्डपे मध्ये षट्पदपरिमितायामविस्तारा चतुष्पदपरिमितायामविस्तारा वा हस्तोन्नता वेदिः कार्या । तत्र वेदिमध्यसूत्रपश्चिमसूत्रसंपाताद्दक्षिणत उत्तरतश्चैकैकहस्तपरिमिते देशे चिह्नं कृत्वा, ऋजुत्वार्थं दक्षिणोत्तरचिह्नयोः पुरतोऽप्येवं चिह्नद्वयं कृत्वा तत्र संपातद्वयदक्षिणस्थचिह्नयोः प्राक्सूत्रं दत्त्वा तत्सूत्रमनु द्वादशस्वङ्गुलेषु चिह्नं कुर्यादेवमुत्तरस्थचिह्नयोः ।

 एवं संसाध्य तत्र त्रिंशदङ्गुलोच्चां भित्तिं कुर्यात् । तस्याः पार्श्वयोरष्टावष्टौ सोपानानि कार्याणि । भित्तेरुपरि मध्यभागे कलशाकारं मृत्पिण्डं स्थापयेत् । अत्रापि प्रमाणमाचार्यस्य । कूर्मपृष्ठोन्नतत्वादयो विवाहवेदिदृष्टा धर्मा अविरोधादत्रापि कार्याः । शिष्टास्त्विदानीं विवाहवेदिवदेव वेदिं कुर्वन्ति ।

 ततो द्वितीयदिने प्रातराचार्यः षट्प्रभृतिसमसंख्याकान्ब्राह्मणान्संभोज्य तैः पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा, इन्द्रः प्रीयतामिति वदेत् ।

 ततः कृतमङ्गलस्नानमलंकृतं कुमारं मात्रा सह भोजयेत् । मातुरभावेऽन्ययाऽप्रत्याख्यायिन्या । एतस्या अप्यभाव एकाकिनमेव भोजयेत् । अष्टौ ब्रह्मचारिणोऽपि भोजयेदित्याचारः ।

 ततः कृतभोजनस्य कुमारस्य नापितेन केशान्वापयित्वा कुमारं संस्नाप्य द्विराचमय्य बद्धशिखं गन्धादिभिरलंकृत्याहतं वासस्तूष्णीं परिधाप्योपवेश्य द्विराचमनं कारयेत् । अत्राऽऽचमनं पौराणमेव । तद्यथा-- केशवाद्यैस्त्रिभिर्नामभिरुदकं पिबेत् । चतुर्थपञ्चमाभ्यां करतले स्पृशेत् । षष्ठसप्तमाभ्यामोष्ठौ स्पृशेत् । अष्टमनवमाभ्यां मुखं संमृजेत् । दशमेन वामहस्तं प्रोक्ष्यैकादशेन पादौ प्रोक्ष्य द्वादशेन शिरः स्पृष्ट्वा त्रयोदशेनोर्ध्वोष्ठमङ्गुल्यग्रैः स्पृष्ट्वा चतुर्दशेन दक्षिणनासारन्ध्रमङ्गुष्ठतर्जनीभ्यां पञ्चदशेन वामनासारन्ध्रं ताभ्यामेव षोडशसप्तदशाभ्यां यथाक्रमं दक्षिणवामनेत्रे अङ्गुष्ठानामिकाभ्याम्, अष्टादशैकोनविंशाभ्यां यथाक्रमं दक्षिणवामश्रोत्रे अङ्गुष्ठकनिकाभ्याम्, विंशेन नाभिं ताभ्यामेव, एकविंशेन हृदयं पाणितलेन, द्वाविंशेन शिरः पाणिना, त्रयोविंशचतुर्विंशाभ्यां यथाक्रमं दक्षिणवामभुजावङ्गुल्यग्रैः स्पृशेदिति । केशवादिनामानि नमोन्तानि प्रथमान्तानि वा संबुद्ध्यन्तानि वा । संबुद्ध्यन्तपक्षे केचिद्विष्णुपदं हरिपदं चाविभक्तिकमेवोच्चारयन्ति तत्साधूनेव प्रयुञ्जीतेति नियमात्तुच्छम् । गायत्र्युपदेशात्प्राक्तनानि सर्वाण्यप्याचमनान्येवमेव ।

 ततो वेद्यामुपवेश्योक्तरीत्याऽऽयतनं स्थण्डिलं वा वेद्यां विधाय तत्संस्कारं पूर्ववत्कृत्वा लौकिकारणिजं श्रोत्रियागारादाहृतं वा समुद्भवनामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वोपनयनहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे, आयुर्दामग्निमेकयाऽऽज्याहुत्या यक्ष्ये, आयुर्दां देवमग्निमेकयाऽऽज्याहुत्या यक्ष्ये । अङ्गहोमे, वरुणमित्यादि । पात्रासादनेऽश्मानमहतं वस्त्रद्वयमुत्तरीयार्थं काषायं वस्त्रमजिनं वा मौञ्जीं मेखलां दण्डं दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषमङ्गारनिरूहणार्थं पात्रं कौपीनं तद्बन्धनार्थं क्षौमं सूत्रं बौधायनोक्तविधिना  निर्मितमुपवीतं भिक्षापात्रं च प्रयुज्य गां समीपे संस्थाप्य संमार्गदर्भानवज्वलनदर्भार्न्बहिरिध्ममाज्यं सप्त पालाशीः समिधश्चाऽऽसादयेत् । मातृदत्तेन पौष्करसादिपक्ष एव कूर्चप्रयोग उक्तः स चिन्त्यः ।

 ततो ब्रह्मवरणादिपरिधिपरिधानान्तं कृत्वाऽग्नेरुत्तरतस्तिष्ठतः कुमारस्य कटावासादितं सूत्रमाबध्याऽऽसादितं कौपीनं परिधाप्य दर्भेषूपवेश्य द्विराचमनं कारयेत् ।

 ततः कुमारस्तत्रैवोपविष्टः--देवस्य त्वेत्यस्य मन्त्रस्य प्रजापतिरुपवीतं यजुः । आदाने विनियोगः । 'ॐ देवस्य त्वा स० भ्यामाददे' इत्यासादितमुपवीतमादाय, उद्वयमित्यस्य सोमः सूर्योऽनुष्टुप् । आदित्यायोपवीतप्रदर्शने विनियोगः । 'ॐ उद्वयं त० रुत्तमम्' इत्युपवीतमादित्याय प्रदर्श्य, यज्ञोपवीतमित्यस्य परब्रह्म परमात्मा त्रिष्टुप् । उपवीतधारणे विनियोगः । ॐ यज्ञोपवीतं० स्तु तेजः' इति दक्षिणं बाहुमुद्धार्य धारयेत् ।

 शिष्टास्त्विदानीं बौधायनोक्तविधिना यज्ञोपवीतनिर्माणासंभवेन सिद्ध एव यज्ञोपवीते तत्तन्मन्त्रैश्चेष्टाः कृत्वा तद्धारयन्ति । अत्राप्यसंभवे तूष्णीमेव निर्मितं यज्ञोपवीतं गायत्र्याऽऽपो हि ष्ठादिभिस्त्रिभिर्मन्त्रैर्वाऽभिमन्त्रिताभिरद्भिः सव्याहृतिकया गायत्र्या दशवारमभ्युक्ष्य यज्ञोपवीतं परमं पवित्रमिति मन्त्रेण समस्तव्याहृतिभिर्वा "यज्ञोपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय" इति कोषीतक्युक्तमन्त्रेण वा धारयेत् ।

 ततो द्विराचम्याग्न्यायतनादीशान्यां दिशि द्विराचम्याग्रेणाग्निं ब्रह्माग्न्योर्मध्येनाऽऽचार्यस्य दक्षिणतो गत्वा तत्र प्राङ्मुख उपविश्य तमन्वारभते । अपरेणाग्निमिति मातृदत्तः ।

उपनयनहोमः ।

 अथाऽऽचार्यः कुमारेणान्वारब्धः परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् ।

 आयुर्दा इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । आयुर्दा देवेत्यस्य सौत्रमन्त्रस्य वामदेव आयुर्दा देवोऽग्निस्त्रिष्टुप् । उपनयनप्रधानाज्यहोमे विनियोगः । 'ॐ आयुर्दा अग्ने० दिम स्वाहा' आयुर्देऽग्नय इदं० । 'ॐ आयुर्दा देवज० नयेम स्वाहा' आयुर्दे देवायाग्नय इदं० । इति प्रधानाहुतिद्वयं जुहुयात् । अविज्ञातस्वरा मन्त्राः सर्वत्रैकश्रुत्येन प्रयोक्तव्याः ।

 तत इमं मे वरुणेत्यादि स्विष्टकृदन्तं कृत्वाऽग्नेरुत्तरत उत्तरपरिधिसंधिमग्रेणाऽऽसादितमश्मानं निधाय कुमारमग्रेणाग्निमानीय, 'ॐ आ तिष्ठेममश्मानमश्मेव स्व स्थिरो भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः' इति दक्षिणेन पादेनाश्मन उपरि तं स्थापयति । सूत्रे दक्षिणेनेतिवचनं सव्यनिवृत्त्यर्थं क्रमार्थं वा । प्रथमे पक्षे दक्षिणपादस्यैवाश्मोपरि स्थापनं न सव्यस्य । द्वितीयपक्षे तु कुमारस्य प्रथमं दक्षिणपादमेव संस्थाप्य सव्यः संस्थापनीयः । सर्वत्र सौत्रमन्त्राणामृषिर्वामदेवः । मन्त्रोक्ता देवताः । छन्दांसि तूह्यानि । सौत्रमन्त्रे ह्यृप्याद्यवगमापेक्षा नास्तीति मतस्यापि सत्त्वान्नोच्यत ऋष्यादिकम् । मतान्तरमादायोच्यमाने तु सौत्रमन्त्राणामतिबहुत्वादतिविस्तरः स्यात् ।

 ततः कुमारमश्मनोऽवतार्याश्मानं तस्माद्देशान्निःसार्य पूर्वं परिधापितं वासः प्रज्ञातं निधाय,

 "ॐ या अकृन्तन्नवयन्या अतन्वत याश्च देवी रन्तानभितो ददन्त । तास्त्वा देवीर्जरसा संव्ययंत्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैन शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधात वा उ । जरां गच्छासि परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व" इत्यासादितयोर्वाससोर्मध्य एकं वासः परिधापयति ।

 ॐ परीदं वासोऽधिधाः स्वस्तये भरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन्' इति परिहितवाससं कुमारमभिमन्त्रयते । वसूनि चाय्यो विभजासजीवन्निति प्रमादपाठः ।

 ततस्तमुपवेश्य द्विराचमनं कारयेत् ।'ॐ या दुरिता परिबाधमाना शर्म वरूथे पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवाना सुभगा मेखलेयम् ।' इत्यासादितया मेखलया कुमारं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति, द्विरित्येके सकृन्मन्त्रः । ततो नाभेरुत्तरतो मेखलायास्त्रिगुणं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति ।

 "ॐ मित्रस्य चक्षुर्धरुणं धरीयस्तेजो यशस्वि स्थविर समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासावदितिस्ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय"

 इति कुमाराय कृष्णाजिनमुपरिष्टाल्लोमोर्ध्वग्रीवमुत्तरीयं करोति ।

 रौरवं राजन्यस्य वस्ताजिनं वैश्यस्य । प्रावरणपर्याप्तोत्तरीयार्थाजिनालाभेऽष्टाचत्वारिंशदङ्गुलं चतुरङ्गुलविस्तीर्णं त्र्यङ्गुलविस्तीर्णं वाऽजिनं गृहीत्वा परिषीवणार्थं किंचिदधिकं गृहीत्वाऽष्टाचत्वारिंशदङ्गुलपरिमाणाविरोधेन परिषीव्य तत्परिमण्डलमजिनमुत्तरीयं कारयेत् । तत्र संस्कार्याङ्गुलैरष्टाङ्गुल एकः खण्डः षोडशाङ्गुलो द्वितीयश्चतुर्विंशाङ्गुलस्तृतीयः । यदा वास एवोत्तरीयं तदा मन्त्रनिवृत्तिरजिनपदलोपो वा । यत्र यत्र मन्त्रेऽसौशब्दस्तत्र संबुद्ध्यन्तं संस्कार्यस्य शर्मान्तं व्यावहारिकं नाम ग्राह्यम् ।

 ततः 'ॐ इन्द्राय त्वां परिददे' इति कुमारं ब्रूूयात् । परिदेहीति कुमारः । अथाऽऽचार्यः 'ॐ परीममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमाणये ज्योक्छ्रोत्रे अधिजागरत्' इति ब्राह्मणकुमारमिन्द्राय परिददाति । कुमारमालभ्य मन्त्रं ब्रवीतीत्यर्थः । उत्थाप्य संस्पृश्य मन्त्रवचनं परिदानमिति गृह्यकारिकाकृत् । श्रोत्रशब्दस्थाने राष्ट्रशब्दः क्षत्त्रियकुमारपरिदाने पोषशब्दो वैश्यकुमारपरिदाने ।

 अथाग्रेणाग्निं कुमारं दक्षिणतो नीत्वाऽपरेणाग्निमुदङ्मुखमुपवेश्य 'ॐ त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । त्वयि मेधां त्वयि प्रजां त्वयीन्द्र इन्द्रियं दधातु । त्वयि मेधां त्वयि प्रजां त्वयि सूर्यो भ्राजो दधातु' इति त्रिभिर्हुतोच्छेषमाज्यं सर्वमर्धं वा सकृत्कुमारं प्राशयति । त्रयाणामन्ते प्राशनम् । यदा सर्वस्य प्राशनं तदा सप्तपलाशसमिधामभ्याधानार्थं लौकिकाज्येनाभ्यञ्जनम् । परिध्यञ्जनप्रायश्चित्तहोमयोः कर्तव्यतायामन्यदाज्यं पूर्ववत्संस्कृत्य तेनोभयं कार्यम् । यदा त्वर्धस्य प्राशनं तदाऽवशिष्टेन तेनैवाभ्यञ्जनं परिध्यञ्जनप्रायश्चित्तहोमौ च ।

 अथवा हुतोच्छेषमाज्यमल्पीयसि लौकिके दध्नि सर्वमर्धे वाऽऽनीयाऽऽलोडनेन पृषद्गुणकं कृत्वा तत्प्राशयेदेतैरेव मन्त्रैः । हुतोच्छेषाज्येऽल्पं दध्यानीय पृषदाज्यं कर्तव्यमित्येवं तु न भवति । तृतीयमाज्यस्य दधन्यानीयेति पृषद्गुणस्वार्थं पशुसूत्रे दृष्टस्य दध्यधिकरणकाज्यानयनविधेरेवात्र ग्रहीतुमुचितत्वात् ।  ततो योगे योग इत्यस्याग्निरिन्द्रो गायत्री । इममग्न आयुष इत्यस्य विश्वे देवा अग्निवरुणसोमादितिविश्वदेवा भूरिक्त्रिष्टुप् । कुमारसमीक्षणे विनियोगः-- 'ॐ योगे योगे तव० मूर्तये' 'इममग्न आयुषे० थासत्' इति द्वाभ्यां प्राश्नन्तं कुमारं समीक्षते ।

 अथवा हुतोच्छेषमाज्यं पृषदाज्यं वाऽऽभ्यां मन्त्राभ्यां प्राशयति । अस्मिन्पक्षे त्वयि मेधामिति मन्त्रत्रयस्य समीक्षणस्य च लोपः । ततः कुमारः प्राशनाङ्गमाचमनं कुर्यात् । हुतोच्छेषाज्यनाशे प्राशनाभावः । प्राशनाभावादाचमनस्याप्यभावः । आज्यान्तरं तत्स्थान उपादाय तत्प्राशनीयमिति केचित् ।

 अथाऽऽचार्य आचान्तं कुमारमात्मानमुपस्पर्शयित्वा(र्श्य) 'ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषताऽऽयुर्गन्तोः' इति कुमारमभिमन्त्रयते ।

 अथ कुमार आचार्यं ब्रह्माणं च बहिष्कृत्य पात्रसहितमग्निं प्रदक्षिणं परिक्रामति । आचार्यः ॐ आ[३२]गन्त्रा समगन्महि प्राप्तमृत्युं युयोतन । अरिष्टाः संचरेमहि स्वस्ति च[३३]रतादिह स्वस्त्या गृहेभ्यः' इत्यासीन एव प्रदक्षिणमग्निं परिक्रामन्तं कुमारमभिमन्त्रायते-- 'ॐ ब्रह्मचर्यमागामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः' इति कुमारं वाचयति ।

 को नामासीति कुमारं पृच्छति । अथ कुमारः स्वस्य शर्मान्तं व्यावहारिकं नाक्षत्रं च नामाऽऽचष्टे । यथा देवदत्तशर्मा कार्तिकोऽस्मीति । अथाऽऽचार्यः । 'ॐ स्वस्ति देव सवितरहमनेन देवदत्तशर्मणा कार्तिकेनोदृचमशीय' इति कुमारस्य नामनी गृह्णाति ।

 शं नो देवीरित्यस्य प्रजापतिरापो गायत्री । मार्जने विनियोगः । 'ॐ शं नो देवी० तु नः' उभावद्भिर्मार्जते । उभयोर्मन्त्रः ।

अथ प्रधानोपनयनम् ।

 अथाऽऽचार्यो ज्योतिर्विदं संपूज्याग्नेर्दक्षिणतः प्राङ्मुख उपविश्याग्नेराग्नेय्यां दिशि स्वपुरोभाग आत्माभिमुखं कुमारमुपवेश्योभयोर्मध्ये ज्योतिर्विदा स्वस्तिकेनाङ्कित उदग्दशेऽन्तःपटे धृते ब्राह्मणैर्मङ्गलसूक्तपद्यपाठे च क्रियमाणे स्वकुलदेवतादीनां चिन्तनं पटस्थस्वस्तिकावलोकनं च कुर्व न्नासीत । एवं कुमारोऽपि । अथवा स्वस्थानस्थितावेवोभौ । अस्मिन्पक्षे प्राग्दशोऽन्तःपटः ।

 तत आचार्यो ज्योतिर्विदां सुलग्नसमयेऽन्तःपट उदक्प्राग्वा निष्काशिते तत्रस्थ एव कुमारस्योपनयनं कुर्यात् । तच्चेत्थम् । कुमारस्य दक्षिणमंसं स्वदक्षिणेन हस्तेन सव्यहस्तेन सव्यमंसं तूष्णीं किंचिदन्वारभ्य, समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । गायत्र्या विश्वामित्रोऽग्निश्च सविता गायत्री । देवस्य त्वेत्यस्य वामदेवः सविता यजुः । कुमारस्योपनयने विनियोगः । 'ॐ भूर्भुवः सुवः' 'ॐ तत्सवितुर्व० प्रचोदयात्' 'ॐ देवस्य त्वा स० हस्ताभ्यामुपनयेऽमुकशर्मन्' इति कुमारस्य दक्षिणं बाहुमात्मन आभिमुख्येनाऽऽनीय समासीनः कुमारमुपनयते कुमारं स्वसमीपे संमुखं करोतीत्यर्थः । इदं प्रधानो[३४]पनयनमाचार्यः कर्ममध्ये न विस्मरेत् । विस्मरणं चेदखिलं कर्माऽऽवर्तनीयं मातृदत्तोक्तेः । प्रधानत्वादिति भावः । अग्नेर्दक्षिणत उपनयनक्रियापक्ष उभावत्र स्वे स्वे स्थान उपविशतः । अत्र 'ॐ ये यज्ञेन दक्षिणया समक्ता अग्ने तेजस्विन्' इत्याद्या आशिषो दद्युराचारात् ।

 अथाऽऽचार्यः-- 'ॐ अग्निष्टे हस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविता ते हस्तमग्रभीत्सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीद्बृहस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीद्वरुणस्ते हस्तमग्रभीत्त्वष्टा ते हस्तमग्रभीद्धाता ते हस्तमग्रभीद्विष्णुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रभीत्' [ इति ] कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं दक्षिणेन हस्तेन गृह्णाति । 'ॐ सविता त्वाऽभिरक्षतु मित्रस्त्वमसि धर्मेणाऽग्निराचार्यस्तव देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवामुकशर्मन्नपोऽशान समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः' इति कुमारं संशास्ति । संशासनं शिक्षणम् । अपोऽशानेत्याचमनाद्युपलक्षणम् । मूत्रोत्सर्गादौ निमित्ते शौचान्ते विधिनाऽऽचमनं कुरु । समिध आधेहि यावद्ब्रह्मचर्यं सायंप्रातः सायमेव वाऽग्निकार्यं कुरु । कर्म कुरु संध्योपासनादिकं गुरुशुश्रूषावेदाध्ययनादिकं च कर्म कुरु । मा दिवा स्वाप्सीः । दिवा निद्रां मा कुर्वित्यर्थः । बाढमिति कुमारोऽङ्गी कुर्यात् ।

 अथाऽऽचार्यो दक्षिणेन हस्तेन कुमारस्य तूष्णीं दक्षिणांसस्योपरि सामीप्येन पृष्ठतः प्रवेश्य क्रमेणावाचीनमभिमृश्य 'ॐ मम हृदये हृदयं ते अस्तु, मम चित्तं चित्तेनान्वेहि, मम वाचमेकमना जुषस्व, बृहस्पतिस्त्वा नियुनक्तु मह्यं, मामेवानुस रभस्व, मयि चित्तानि सन्तु ते, मयि सामीच्यमस्तु ते, मह्यं वाचं नियच्छतात्" [ इति ] कुमारस्य हृदयमभिमृशति ।

 अप उपस्पृश्य'ॐ प्राणानां ग्रन्थिरसि समाविस्रसः" [ इति ] तथैव नाभिदेशमभिमृशति । अप उपस्पृश्य 'ॐ भूर्भुवः सुवः सुप्रजाः प्रजया भूयास सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः" [ इति ] कुमारमभिमन्त्र्य 'ॐ भूर्ऋक्षु त्वाऽग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽमुकशर्मन् । भुवो यजुःषु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽमुकशर्मन् । सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽमुकशर्मन् । इष्टतस्ते प्रियोऽसान्यमुकशर्मन् । अनलस्य ते प्रियोऽसान्यमुकशर्मन् । इदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषि वसामुकशर्मन्" [ इति ] पुनः कुमारमभिमन्त्रयते ।

 अग्निरायुष्मानिति सानुषङ्गाणां मन्त्राणां विश्वे देवा अग्न्यायुष्मदादयो यजूंषि । कुमारस्य दक्षिणहस्तग्रहणे विनियोगः । 'अग्निरायुष्मान्स व० सोम आयुष्मान्स० यज्ञ आयुष्मान्स० ब्रह्माऽऽयुष्मत्त० देवा आयुष्म०' एतैः पञ्चभिः पर्यायैर्दक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति ।

 आयुष्टे विश्वत इत्यस्य विश्वे देवा [३५]आयुर्दा अग्निरनुष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । कुमारस्य दक्षिणकर्णे जपे विनियोगः 'ॐ आयुष्टे वि० मिते" "अग्नौ पृथिव्या प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि या स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपो नु संचरन्ति ता स्वस्तिमनुसंचरामुकशर्मन्प्राणस्य ब्रह्मचार्यभूरमुकशर्मन्' [ इति ] कुमारस्य दक्षिणे कर्णे जपति ।

 आयुर्दा अग्न इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । कुमारस्योत्तरकर्णे जपे विनियोगः । 'ॐ आयुर्दा अ० दिमम्' 'अग्नौ पृथिव्यां० भूरमुकशर्मन्' [ इति ] कुमारस्योत्तरे कर्णे जपति । 'मेधां त इन्द्रो ददातु मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्त्रजौ' [इति ] कुमारस्य मुखं स्वमुखेन सह संनिधाय जपति ।

 कषकादिदेवेभ्यस्त्वां परिदद इति कुमारं ब्रूयात् । परिदेहीति कुमारः ।

 तत आचार्यः--

 "कषकाय त्वा परिददाम्यन्तकाय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानरायै परिददाम्यद्भ्यस्त्वा परिददाम्योषधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामि"

 इति कुमारं कषकादिभ्यः परिददाति । यदि पुनरुपनयनं तदाऽत्र सावित्रीवाचनं कृत्वा सप्तपलाशसमिद्धोमादिकं कर्म कार्यं नात्राक्षारलवणाशनादिव्रतं चरितत्वात् । पुनरुपनयनप्रयोगस्त्वग्रे वक्ष्यते । प्रथमोपनयने तु परिदानानन्तरं सप्तपलाशसमिद्धोमादित्रिवृदन्नहोमान्तं वक्ष्यमाणरीत्या कृत्वा त्र्यहव्रतमक्षारलवणाशनादिकं वक्ष्यमाणरीत्या देवतोपस्थानपूर्वकं कुमारेण कारयित्वा चतुर्थदिवसे प्रातः सावित्रीवाचनं चतुर्थदिवसीयत्रिवृदन्नहोमादिकं सर्वं क्रमेण समापयेदित्येकं मतम् । सद्यः सावित्रीवाचनमिति पौष्करसादिमतम् । एतन्मतेऽपि त्र्यहव्रतं भवत्येव । "सद्यः पौष्करसादिः" इत्यस्मिन्सूत्रे प्राग्व्रतचर्यापरिसमाप्तेः शुक्रियाणामध्ययनदर्शनात् । व्रतमनारभ्याध्ययनस्यानुपपन्नत्वादिति मातृदत्तोक्तेः

 तत्र पौष्करसादिमतमाश्रित्य प्रयोग उच्यते । परिदानानन्तरं कुमारेणाऽऽसादितसप्तपलाशसमिधां घृतेनाभ्यञ्जनं कारयित्वोपनयनाग्नावभ्याधापयति मन्त्रान्वाचयति च । कुमारः-- "ॐ अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा" [ इति ] एकां समिधं घृतेनाभ्यक्तामभ्यादधाति । अग्नय इदमिति त्यागं कुर्यात् । तथैव द्वे द्वितीये । तथैवावशिष्टाश्चतस्रस्तृतीये । अग्नये समिधावाहार्षमिति द्वितीये मन्त्रसंनामः । अग्नये समिध आहार्षमिति तृतीये । त्यागस्तु पूर्ववदेवोभयत्रापि । मन्त्रान्तर्गतद्वितीयसमिच्छब्दे तु नोहः । तस्येन्धनमात्राभिधायित्वात्संनमनावचनाच्च । केचिदभ्याधानात्पूर्वं संकल्पमपि कुर्वन्ति, तन्न । सर्वेष्वङ्गभूतेषु कर्मस्वतिप्रसङ्गापत्तेः "समस्ते क्रतावर्थं श्रूयमाणं यजमानः कामयते, यानि तु कामयति श्रावयति" इति सूत्रेण साक्षात्कमिधातुसमभिव्याहार एव संकल्पकर्तव्यतोक्तेश्च । न ह्यत्र कमिधातुः श्रूयते । एवमन्यत्रापि ।

 ततः शुल्बप्रहरणादिसंस्थाजपान्तं कर्म समाप्य "न गायेन्न रोदेन्न नृत्यदर्शी भवेन्मधुमांसाशनादि वर्जयेत्" इत्यादीनि धर्मसूत्रोक्तानि, एतद्व्रत एवात  ऊर्ध्वमित्यारभ्य न स्त्रियमुपैतीत्यन्तानि गृह्योक्तानि च ब्रह्मचर्याश्रमव्रतानि कुमारायोपदिशति ।

 ततोऽग्ने व्रतपत इत्यादीनां चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । अग्निवायुसूर्यव्रतपतयः क्रमेण देवता यजूंषि । उपस्थाने विनियोगः । "ॐ अग्ने व्रतपते व्रतं च० ध्यताम्" [ इति ] अग्निमुपतिष्ठते । "ॐ वायो व्रतपते० वायुम् । आदित्यव्रतप० आदित्यम् । व्रतानां व्रतप० व्रतपतिम्" अत्र व्रतपतिशब्देनाग्निर्ग्राह्यः । "व्रतेन वै मेध्योऽग्निर्व्रतपतिः" इति श्रुतेः । एतद्व्रतोपायनम् । अस्य समावर्तने त्यागः ।

 अत्र गुरवे वरं ददाति "गुरो वरं ते ददामि" इति । गुरुराऽऽचार्यः । पितुरप्याचार्यत्वे पूर्वोपक्लृप्ताऽन्यस्मात्प्रतिग्रहेणाऽऽनीता गौर्वरार्थे देया । गौर्वरो ब्राह्मणस्य ग्रामो राजन्यस्याजा वैश्यस्य । गोरभावे शक्त्यनुसारेण पञ्चविधमानान्यतममानेन द्रव्यं देयम् । गुञ्जापरिमितं सुवर्णमिति पैङ्ग्यः ।

 आचार्यः सप्तदशकृत्वोऽपान्य, देवस्य त्वा सवितुरिति मन्त्रस्य प्रजापतिः सविता यजुः । वरप्रतिग्रहणे विनियोगः । "ॐ देवस्य त्वा सवि० दक्षिणे रुद्राय गां तयाऽमृतत्वमश्यां वयो० गृह्णातु" [इति] वरं प्रतिगृह्णाति । वामहस्तेन तृणप्रदानं दक्षिणहस्तेन प्रतिग्रहः । सूत्रे दात्र इत्यनन्तरं भूयान्मय इति पठितं तथा वा ब्रूयात् । प्रतिनिधित्वेन द्रव्यदानपक्षेऽप्ययमेव मन्त्रः । निष्क्रयत्वेन द्रव्यदानपक्षे तु । उत्तानस्त्वेत्यस्य प्रजापतिराङ्गीरसो यजुः । प्रतिग्रहणे विनियोगः । "ॐ उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु" इति प्रतिगृह्णाति । अत्रापि सावित्रान्वाधीस्त इति केचित् । वस्तुतस्तूष्णीमेव प्रतिग्रहो न मन्त्रेण । एतस्या दक्षिणाया यागसंबन्धित्वाभावात् । "देवा वै वरुणमयाजयन्" इति श्रुतौ यागस्यैवोपक्रमेण तत्संबन्धिदक्षिणाप्रतिग्रह एव समन्त्रकप्रतिग्रहस्योक्तेः । "तान्त्रीणां दक्षिणानां दर्शयति" इति सूत्रकृदुक्तेश्च । अस्मिन्कल्पेऽपाननं तृणप्रदानं च नास्ति । व्यावृत्य प्रतिग्रहणमपि न भवति । भवतीति केचित् । प्रतिग्रहमन्त्रेऽप्यृष्यादिस्मरणे विकल्पः ।

 तत उदायुपेत्यस्य सोमः सोमो यजुः । कुमारस्योत्थापने विनियोगः । "ॐ उदीयुषा० अनु" [ इति ] कुमारं वाचयन्नुत्थापयति । "ॐ सूर्याय त्वां परिददे" इति कुमारं ब्रूयात् । परिदेहीति कुमारः । आचार्यः "ॐ सूर्यैष ते पुत्रस्तं ते परिददामि"इति सूर्याय कुमारं परिददाति ।  ततो ब्रह्मचार्याचार्यो वा--तच्चक्षुरित्यस्य सोमः सूर्यो यजुः । सूर्योपस्थाने विनियोगः । "ॐ तच्चक्षुर्देव० दृशे" इति सूर्यमुपतिष्ठते । अथाऽऽचार्यः 'ॐ अग्निष्ट आयुः प्रतरां कृणोत्वग्निष्टे पुष्टिं प्रतरां दधात्विन्द्रो मरुद्भिरिह ते दधात्वादित्यस्ते वसुभिरादधातु' [ इति ] कुमाराय पूर्वासादितमूर्ध्वाग्रं दण्डं प्रदाय तूष्णीं पूर्वासादितमरिक्तं भिक्षापात्रं प्रदाय भिक्षाचर्यं चरेति प्राह । ततो ब्रह्मचार्योमित्युक्त्वा प्रथमं मातरं भिक्षेत तदभावे मातृस्थानीयामन्यामप्रत्याख्यायिनीं 'भवति भिक्षां देहि' इति । ततो मित्रकुलेषु । तत्र पुमांसं भवान्भिक्षां ददात्विति । तद्भिक्षितं द्रव्यमाहृत्य भैक्ष्यमिदं भो इत्याचार्याय निवेदयेत् । आचार्यस्तत्सुभैक्षमिति प्रतिगृह्णाति । अत्रापि सप्तदशकृत्वोऽपाननमिति केचित् ।

 ततो-- 'ॐ यस्य ते प्रथमवास्य हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुहृदो वर्धमानमनु जायन्तां बहवः सुजातम्" [ इति ] कुमारस्य पूर्वनिहितं वासो गृह्णाति ।

अथ त्रिवृदन्नहोमः ।

 आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । जातवेदसमग्निमिधमेनेत्यादिप्रसाधनीदेव्यन्तमुक्त्वा प्रधानहोमे, अग्निं त्रिवृदन्नाहुत्या यक्ष्ये, सोमं त्रिवृदन्नाहुत्या यक्ष्ये, अनिमन्नादं त्रिवृदन्नाहुत्या यक्ष्ये, अग्निमन्नपतिं त्रिवृदन्नाहुत्या यक्ष्ये, प्रजापतिं त्रिवृदन्नाहुत्या यक्ष्ये, विश्वान्देवांस्त्रिवृदन्नाहुत्या यक्ष्ये, सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्ये, अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये, एता देवताः सद्यो यक्ष्य इत्युक्त्वा समित्त्रयमग्नावभ्यादध्यात् । अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यनन्तरं वास्तोष्पतिं त्रिवृदन्नबलिना यक्ष्य इति केचिद्वदन्ति ।

 ततोऽग्निं परिस्तीर्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्यग्निं गृह्णीयात् ।


ततो ब्रह्मासनकल्पनादि ।

 पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भा[३६]निध्मं बर्हिरवज्वलनदर्भानाज्यं ब्राह्मणपरिवेषणार्थमानीताद्बहिरेव संस्कृतादन्नाद्गृहीतमोदनापूपसक्त्वात्मकं त्रिवृदन्नं चाऽऽसादयेत् । तत्रापूपास्त्रिभ्योऽधिका होमपर्याप्ता ग्राह्याः । अपूपशब्देन गोधूमविकाराः सच्छिद्राः पूरिका उच्यन्ते । मण्डका इति केचित् । सक्तवो भर्जितयवपिष्टानि । एतदभावे भर्जितगोधूमपिष्टानि । अपूपा अक्षारलवणा ग्राह्याः ।


ततः पवित्रकरणादि ।

 ब्रह्माऽत्र स एव । पृथग्वा । प्रथमपक्षे नात्र तद्वरणं वृतत्वात् । ततः प्रणीताप्रणयनादि परिधिपरिधानान्तं कृत्वाऽऽसादितं त्रिवृदन्नं बहिर्निष्पन्नत्वादग्नावधिश्रित्याभिघार्योत्तरत उद्वास्याद्भिः प्रोक्षति । अयं देवपवित्रसंस्कारो मातृदत्तमते । उज्ज्वलाकृन्मते तु नैष संस्कारः । शूद्रकर्तृकपाक एव तेनोक्तेः । एवं मासिश्राद्धादावपि । ततस्तमभिघार्याग्नेः पश्चाद्बर्हिषि निधायापूपानवखण्ड्यौदने प्रक्षिप्य सक्तव(क्तूं)श्च प्रक्षिप्य लौकिकमाज्यमासिच्य मिश्रयित्वा सप्त भागान्समान्कृत्वा, इदं विश्वेभ्यो देवेभ्य इद सर्वाभ्यो देवताभ्य इत्यन्तिमभागयोर्देवतानिर्देशं कुर्यात् । न वा विभागनिर्देशौ ।

 ततोऽग्निं परिषिच्येध्माभ्याधानादिप्रसाधनीदेवीहोमान्तं कृत्वा सर्पिर्मिश्रितं त्रिवृदन्नमवदानधर्मेणावदायावदाय जुहोति । दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धाच्चावदायाभिघार्य हविः प्रत्यभिघारयतीत्येषोऽवदानधर्मः । विभागपक्षे क्रमेण तत्तद्भागादवदानम् । 'अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा' इति क्रमेण हुत्वा दर्व्यामुपस्तीर्य सर्वेभ्यो हविर्भ्य उत्तरार्धात्सकृत्सकृन्मेक्षणेन हस्तेन वाऽवदाय द्विरभिघार्य न हविः प्रत्यभिघारयति । अग्नये स्विष्टकृते स्वाहेतिपूर्वाहुतिभिरसंसक्तामुत्तरार्धपूर्वार्धे जुहोति यथालिङ्गं त्या[३७]गाः । विभागाभावपक्ष एकमेवावदानमेकत्वाद्धविषः । अयं चावदानधर्मो भाष्यकृन्मते । अन्येषां मते तु लाजहोमव्यतिरिक्तस्थले न कुत्राप्यवदानधर्मोऽस्तीति द्रष्टव्यम् ।

 ततः परिस्तरणविसर्गपरिषेकौ कृत्वा सर्वप्रायश्चित्तं हुत्वोपस्थानं कुर्यात् । शुल्बप्रहरणादिधर्माः कृताकृताः ।  तत उत्तरेणाग्निं कांश्चिद्दर्भानास्तीर्य तत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य 'वास्तुपतये स्वाहा' [इति ] तेन बलिं करोति । वास्तुपतय इदं० । ततो बलिं परिषिञ्चति । नात्र सर्पिर्मिश्रणमवचनात् ।

 ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । तत्र त्रिवृदन्नहोमकर्मणः पुण्याहं भवन्तो ब्रुवन्तु, त्रिवृदन्नहोमकर्मणः स्वस्त्ययनं भवन्तो ब्रुवन्तु, त्रिवृदन्नहोमकर्मण ऋद्धिं भवन्तो ब्रुवन्तु । इति वाक्येषु विशेषः । ओमस्तु पुण्याहम् । ओमस्तु स्वस्त्ययनम् । ओमस्त्वृद्धिरिति विप्राणां प्रतिवचनानि ।

 ततः श्रद्धामेधे प्रीयतामिति वदेत् । अयं च होमः स्थालीपाकमासिश्राद्धादिव्यतिरिक्तेषु सूत्रोक्तेषु कर्मसूपनयनारम्भविहितान्नोपस्थितिव्यतिरिक्तायां सूत्रकृद्विहितायामन्नोपस्थितौ कार्यः ।

अथ व्याहृतिहोमवारुणीहोमादिसहितो होमप्रयोगः ।

 आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादायेत्यादि प्राणायामान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे, अग्निं त्रिवृदन्नाहुत्या यक्ष्य इत्यादि सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्य इत्यन्तं देवताः पूर्ववदुक्त्वाऽहोमे वरुणमित्यादि समित्त्रयाभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्य पात्रासादनादि प्रसाधनीदेवीहोमान्तं पूर्ववत्कृत्वा व्यस्तसमस्तव्याहृतिभिश्चतस्र आहुतीर्हुत्वा पूर्ववदग्नये स्वाहेत्याद्याः सप्ताऽऽहुतीस्त्रिवृदन्नेन हुत्वा, इमं मे वरुणेत्याद्याः षडाहुतीर्जयाभ्यातानराष्ट्रभृद्धोमपक्षे तानपि हुत्वाऽग्नये स्विष्टकृते स्वाहेत्येतेनैव स्विष्टकृद्धोमं विदध्यात् ।

 ततः शुल्बप्रहरणादिहोमशेषं सर्वं समाप्य वास्तुबलिं दत्त्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा श्रद्धामेधे प्रीयतामिति वदेत् ।

इति व्याहृतिहोमवारुणीहोमादिसहितस्त्रिवृदन्नहोमप्रयोगः ।


अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।

 आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अग्निं त्रिवृदन्नाहुत्या यक्ष्ये । सोमं त्रिवृदन्नाहुत्या यक्ष्ये । अग्निमन्नादं त्रिवृदन्नाहुत्या यक्ष्ये । अग्निमन्नपतिं त्रिवृदन्नाहुत्या यक्ष्ये । प्रजापतिं त्रिवृदन्नाहुत्या यक्ष्ये । विश्वान्देवांस्त्रिवृदन्नाहुत्या यक्ष्ये । सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा समित्त्रयमग्नावभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य पात्राणि प्रयुनक्ति । दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं हविरासादनार्थं दर्भान्संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं त्रिवृदन्नं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राण्युत्तानानि कृत्वा प्रोक्ष्य दर्वीनिष्टपनाद्याज्यसंस्कारान्तं कुर्यात् ।

 ततोऽग्नेः पश्चादासादितान्दर्भानास्तीर्य तत्राऽऽज्यं निधाय तदुत्तरतो दर्वीं निदध्यात् ।

 ततो देवपवित्राख्यसंस्कारेण संस्कृत्याभिघार्याग्नेः पश्चादास्तृतेषु दर्भेष्वोदनापूपसक्तून्निधाय तानेकीकृत्य लौकिकमाज्यमासिच्य मिश्रयित्वाऽग्निं परिषिच्याऽऽसादितामेकां समिधमभ्याधाय दर्व्योपहत्योपहत्याष्टावाहुतीर्मिश्रितेन त्रिवृदन्नेन जुहोति-- "अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा" इति पूर्वाहुतिभिरसंसक्तामुत्तरार्धपूर्वार्धे जुहोति । यथालिङ्गं त्यागाः[३८] । अन्त्याहुतिः पूर्वाहुतिभिरसंसक्तोत्तरार्धपूर्वार्धे होतव्या । नात्रावदानधर्म आपूर्विकत्वात् ।

 ततः परिस्तरणविसर्गपरिषेकौ कृत्वा सर्वप्रायश्चित्तं हुत्वोपस्थानं कुर्यात् । न वोपस्थानम् । सर्वप्रायश्चित्तहोमानन्तरं वोत्तरपरिषेकः ।

 तत उत्तरेणाग्निं कांश्चिद्दर्भानास्तीर्य तत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य "वास्तुपतये स्वाहा" [ इति ] तेन बलिं करोति । वास्तुपतय इदं० । ततो बलिं परिषिञ्चति । नात्र सर्पिर्मिश्रणमवचनात् ।

 ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । ततः श्रद्धामेधे प्रीयतामिति वदेत् ।

इत्यापूर्विकतन्त्रेण त्रिवृदन्नहोमः ।

 उपनयनसमावर्तनवत्सातिरिक्तगोकृतगोस्तनपानशालाकरणवास्तुशमनसीमन्तोन्नयनपुंसवननामकरणान्नप्राशनचूडाकरणगोदानेष्वेवायं भवति नान्यत्र । पाणिग्रहणादिरग्निरित्येतत्खण्डोक्तरीत्या पुनःसंधानकरणपक्षे तत्राप्ययं भवति । समावर्तनादित्रिवृदन्नहोमे वास्तुबलेर्विकल्पः ।

 ततस्त्र्यहव्रतं कुमारायोपदिशति । इक्षुविकारलवणमाषमुद्गादिधान्यमधुमांसाशनं मञ्चकाद्युपरिशयनं मृन्मयेन जलपानं मृन्मयपात्रे कांस्यपात्रे च भोजनं शूद्रायोच्छिष्टदानं दिवाशयनं च न कार्यम् । उभौ कालौ भिक्षाचर्यमुदकुम्भाहरण सायमुपक्रम्य प्रत्यहमुभौ कालौ प्रत्यहं सायमेव वाऽग्निकार्यं कर्तव्यमिति । त्र्यहव्रतसमाप्त्यनन्तरमिक्षुविकारलवणशमीधान्यानामशने विकल्पः । उदकुम्भाहरणमग्निकार्यं च ब्रह्मचर्यव्रतसमाप्तिपर्यन्तमेव । ब्रह्मचारी बाढमित्युक्त्वाऽग्ने व्रतपत इत्यादिभिर्देवतोपस्थानं कृत्वा त्र्यहव्रतं स्त्री कुर्यात् ।

 तत आचार्यो यथाचारं गायत्रीपूजनं विधाय गायत्र्युपदेशार्थमपरेणाग्निमासादितं कूर्चमुदगग्रं निधाय 'राष्ट्रभृदस्याचार्यासन्दी मा त्यद्योपम्' [ इति ] तस्मिन्प्राङ्मुख उपविशेत् । ततो ब्रह्मचारी तूष्णीमादित्याय नमस्काराञ्जलिं कृत्वाऽऽचार्यस्य दक्षिणं पादं सव्यान्वारब्धेन दक्षिणेन हस्तेनाधस्तादुपरिष्टाच्चावमृश्य पाणी व्यत्यस्य ताभ्यां सकुक्षिकौ तस्य पादौ धारयेत् । इदमुपसंग्रहणम् । अत्राऽऽचार्येण गुप्तं नाम कुमारायोपांशु कथनीयम् । कुमारस्तेनोपांशूच्चारितेन नाम्नाऽऽचार्यमभिवादयेत् । एतन्नामाविज्ञाने तु व्यावहारिकेण नाम्नोपांश्वेवाभिवादयेत् ।

 तत्राभिवादनप्रकार इत्थम् । दक्षिणं बाहुं सव्यान्वारब्धं श्रोत्रसमं प्रसार्यामुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं भो अभिवादय इत्युपांशूच्चारयञ्शिरोवनतिपूर्वकं तिष्ठन्नाचार्यं नमस्कुर्यात् । इदमभिवादनम् ।

 तत आचार्येणाऽऽयुष्मान्भवामुकशर्मा३ अ, इत्यविसर्गाकारोत्तरेण प्लुतान्त्यस्वरोच्चारणेन केवलं प्लुतान्त्यस्वरोच्चारणेन वोपांशुप्रयुक्ताशीर्वाद आसीनो विनयावनतो भूत्वा सर्ववेदारम्भार्थत्वेन सावित्र्युपदेशं वाञ्छन्नध्येषणारूपं मन्त्रद्वयमेकश्रुत्या पठेत् । अधीहि भो इत्युक्त्वा सावित्रीं भो अनुब्रूहीति । तत उत्तानीकृतवामपाण्यङ्गुष्ठाङ्गुलीर्न्यङ्मुखीकृतदक्षिणपाण्यङ्गुष्ठाङ्गुलीभिर्दृढसंयोगिनीः कृत्वा दक्षिणाङ्के निक्षिप्याऽऽसीत ।

 तत आचार्यो गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । कुमाराभि मन्त्रणे विनियोगः । 'ॐ गणानां त्वा० सादनम्' [इति ] कुमारमभिमन्त्र[३९]यते । ततस्तमञ्जलिं स्वपाणिभ्यामादाय, व्यस्तसमस्तव्याहृतीनां गायत्र्याश्चर्ष्यादि पूर्ववत्स्मृत्वा, कुमारस्य गायत्र्युपदेशे विनियोग इति विनियोगवाक्यं स्मृत्वा,

 "भूस्तत्सवितुर्वरेण्यं, भूवो भर्गो देवस्य धीमहि, सुवर्धियो यो नः प्रचोदयात्, भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्"

 सावित्रीमेवंप्रकारेण पच्छोऽर्धर्चशोऽनवानमिति प्राङ्मुखं कुमारं वाचयति । अत्र सर्वानुवाचनस्यादृष्टार्थत्वादवसानं विना यथा वाचनं स्यात्तथा वाचनं कार्यम् । सर्वथैवमुच्चारणाशक्तौ यथाशक्ति वाचयति । यथाशक्ति वाचयन्संधिकृतं वर्णविकारं नान्यथा कुर्वीतेति कौस्तुभे । तैत्तिरीयाणां गायत्र्यारम्भेणैव ऋग्यजुःसामात्मकवेदत्रयाध्ययनाधिकारो भवति ।

 ततः कर्माङ्गदेवताप्रीत्यर्थं शतद्व[४०]यं पञ्चाशद्वाऽत्यशक्तौ दश वा ब्राह्मणान्भोजयित्वा तेभ्यो दक्षिणां दद्यात् । ततः कर्माङ्गदेवताप्रीत्यर्थं गन्धताम्बूलादिभिर्ब्राह्मणपूजनं तेभ्यो भूयसीदक्षिणादानं च कृत्वा 'ॐ अग्ने तेजस्विन्' इत्यादिभिर्मन्त्रैराशिषो ग्राह्याः । ततः प्रमादादिति कर्मसाद्गुण्याय विष्णुं स्मरेत् ।

 ततो ब्रह्मचारी स्वकाले कालप्राप्तां मध्याह्नसंध्यां कुर्यात् । नात्र सायमारम्भो नियतोऽनुक्तत्वात् । "संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इत्युक्तत्वात् ।

"यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकं च न ।
जाते ब्रह्मोपदेशे तु कर्म संध्यादिकं चरेत्" ॥

 इति जैमिनिवचनतोऽपि मध्याह्नसंध्याया एव प्रथमतः प्राप्तत्वाच्च । 'त्र्यहे पर्यवेते तथैव त्रिवृताऽन्नेन ब्राह्मणान्परिविष्य' इतिसूत्रे तथेति वचनेनोपनयनाग्निप्राप्तेर्ज्ञापितत्वात्, बौधायनीय उपनयनाग्नेः कर्मसमाप्त्यन्तं व्यक्ततया धारणस्योक्तेश्चोपनयनाग्निश्चतुर्थदिवसीयकर्मसमाप्त्यन्तं संरक्षणीयः । तस्मिन्नेव कर्मसमाप्तिपर्यन्तं सायंप्रातः सायमेव वाऽग्निकार्यसंज्ञकं समिदभ्याधानं कुर्यात् । तदनन्तरं लौकिकाग्नौ । तत्प्रयोगस्त्वग्रे वक्ष्यते ।

"जाते ब्रह्मोपदेशे तु कर्म संध्यादिकं चरेत्"

 इति जैमिनिवचनेनोपदेशोत्तरं संध्योपासनकर्तव्यता पूर्वत्र प्रदर्शिता । तच्चोपासनं कथं कार्यमित्याकाङ्क्षायां संध्यात्रयस्वरूपप्रदर्शनपूर्वकं तदभिधीयते ।

 तत्र संध्यास्वरूपं प्राह श्रुतिः--

  "रक्षा सि ह वा पुरोनुवाके तपोग्रमतिष्ठन्त तान्प्रजापतिर्वरेणोपामन्त्रयत तानि वरमवृणीताऽऽदित्यो नो योद्धा, इति तान्प्रजापतिरब्रवीद्योधयध्वमिति तस्मादुत्तिष्ठन्त ह वा तानि रक्षा स्यादित्यं योधयन्ति यावदस्तमन्वगात्तानि ह वा एतानि रक्षा सि गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता आऽप ऊर्ध्वं विक्षिपन्ति ता एता आपो वज्री भूत्वा तानि रक्षा सि मन्देहारुणे द्वीपे प्रक्षिपन्ति यत्प्रदक्षिणं प्रक्रमन्ति तेन पाप्मानमवधून्वन्त्युद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद" इति ।

 वक्ष्यमाणप्रकारेण प्राणायामादिकं कर्म कुर्वन्वक्ष्यमाणयथोक्तनामवर्णरूपोपेतसंध्याशब्दवाच्यमादित्यं ब्रह्मेति ध्यायन्नैहिकमामुष्मिकं च सकलं भद्रमश्नुते । य एवमुक्तध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षात्कुरुते स पूर्वमपि ब्रह्मैव सन्नज्ञानाज्जीवत्वं प्राप्तो यथोक्तज्ञानेन तदज्ञानापगमे ब्रह्मैव प्राप्नोतीत्यर्थः । अत्राभिध्यानमुपासनम् ।

 व्यासोऽप्येतदेवाभिप्रेत्याऽऽह--

"न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह ।
सोऽहमस्मीत्युपासीत विधिना येन केनचित्" इति ॥

 स्मृत्यन्तरेऽपि--

"संध्येति सूर्यगं ब्रह्म संधानादिविधानतः ।
ब्रह्माद्यैः सकलैर्भूतैः स्तम्बान्तैः सच्चिदात्मनः ॥

तस्य दासोऽहमस्मीति सोऽहमस्मीति वा मतिः ।
भवेदुपासकस्येति ह्येवं वेदविदो विदुः" इति ॥

 संध्यास्वरूपमाह पराशरः--

"अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः ।
सा तु संध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः" इति ॥

 अत्र यद्यपि कालवाचकत्वेन संध्याशब्दः प्रतीयते तथाऽपि तस्मिन्काल उपास्या देवता संध्याशब्देनोपलक्ष्यते । तथा च देवताया उपासनमुपलक्ष्य पराशरवचने कर्मपरत्वेन संध्याशब्दः प्रयुक्तः । अथवा संधौ भवा क्रिया संध्या ।

 अत एव व्यासः--

"उपास्ते संधिवेलायां निशाया दिवसस्य च ।
तामेव संध्यां तस्मात्तत्प्रवदन्ति मनीषिणः" इति ॥

 तामेव क्रियां विदधाति[४१] याज्ञवल्क्यः--

"संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ" इति ।

 सा च संध्या त्रिविधा ।

 तदुक्तमत्रिणा--

"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा" इति ।

 तत्र कालभेदेन देवताया नामादिभेदमाह व्यासः--

"गायत्री नाम पूर्वाह्णे सावित्री दिनमध्यके ।
सरस्वती च सायाह्ने सैव संध्या त्रिषु स्मृता ॥
प्रतिग्रहान्नदोषात्तु पातकादुपपातकात् ।
गायत्री प्रोच्यते तस्माद्गायन्तं त्रायते यतः ॥
सवितृद्योतनात्सैव सावित्री परिकीर्तिता ।
जगतः प्रसवित्री वा वाग्रूपत्वात्सरस्वती" इति ॥

 वर्णभेदः स्मृत्यन्तरे विहितः--

"गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका ।
सरस्वती तथा कृष्णा उपास्या वर्णभेदतः" इति ॥

  तत्रैव--

"गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी ।
सरस्वती विष्णुरूपा उपास्या रूपभेदतः" इति ॥

 स्मृत्यन्तरे--

"उद्यदादित्यसंकाशां पुस्तकाक्षकरां स्मरेत् ।
कुम्भाजिनधरां रक्तगन्धाढ्यां हंसगामिनीम् ॥
रक्तमाल्याम्बरां देवीं प्रातर्ब्राह्मीं विचिन्तयेत् ॥
श्वेतां श्वेताम्बरां देवीं श्वेतगन्धानुलेपनाम् ।
त्रिनेत्रां वरशूलौ च [४२]परशुं चाभयं तथा ॥
वृषगां रुद्रशक्तिं च मध्याह्ने संविचिन्तयेत् ।
कृष्णां कृष्णाम्बरां देवीं कृष्णगन्धानुलेपनाम् ॥
शङ्खचक्रगदापद्मधरां देवीं सुपर्णगाम् ।
विष्णुशक्तिं तु सायाह्ने सर्वदा संविचिन्तयेत्" इति ॥

संध्याकालनिर्णयः ।

 अथ कालः । तत्र प्रातःसंध्यायाः कालपरिमाणमाह दक्षः--

"रात्र्यन्त्ययामनाडी द्वे संध्यादिः काल उच्यते ।
दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः" इति ॥

 अग्निस्मृतौ तूदयात्प्राग्द्विमुहूर्त उक्तः--

"संध्याकालः प्रागुदयाद्विप्रस्य द्विमुहूर्तकः" इति ।

 एतद्बह्वाह्निककर्तृपरमिति महेशादयः ।

 धर्मसारे--

"उत्तमा तारकोपेता मध्यमा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसंध्या त्रिधा मता" इति ॥

 मध्याह्नसंध्यायाः कालपरिमाणं तत्रैव--

"अध्यर्धयामादासायं संध्या माध्याह्निकी स्मृता" इति ।

 स्मृतिसंग्रहे--

"मध्याह्नस्नानादूर्ध्वं यः कालस्त्वव्यवधानतः ।
तत्र मध्याह्नसंध्या स्यादूर्ध्वं गौणः स्मृतो बुधैः" इति ॥

 सायंसंध्यायाः कालपरिमाणं धर्मसारे--

"उत्तमा सूर्यसहिता मध्यमा लुप्ततारका ।
कनिष्ठा तारकोपेता सायंसंध्या त्रिधा मता" इति ॥

 स्मृत्यन्तरे--

"प्रातःसंध्यां सनक्षत्रां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां संध्यामुपासीत यथाविधि" इति ॥

 स्नानकर्मणीत्यत्र निर्वृत्त इति शेषः । तेन माध्याह्निकस्नानानन्तर[४३]मित्यर्थः

 संध्याया गौणकालमाह गोभिलः--

"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्संध्यामुपासीत प्रायश्चित्तं ततः परम्" इति ॥

अथ देशः ।

 व्यासः--

"गृहे त्वेकगुणा संध्या गोष्ठे दशगुणा स्मृता ।
शतसाहस्त्रिका नद्यामनन्ता विष्णुसंनिधौ ।
बहिः संध्या दशगुणा गर्तप्रस्रवणेषु च ।
खाते तीर्थे शतगुणा ह्यनन्ता जाह्नवीजले" इति ॥

 विष्णुरिति शिवादीनामुपलक्षणम् । खाते देवखाते ।

 शातातपः--

"अनृतं मद्यगन्धं च दिवामैथुनमेव च ।
पुनाति वृषलस्यान्नं बहिः संध्या ह्युपासिता" इति ॥

 यदि विहरणाद्यङ्गलोपस्तदा गृह एव संध्याद्वयं कार्यमित्याहात्रिः--

"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा ।
उभे संध्ये तु कर्तव्ये ब्राह्मणाद्यैर्गृहे सदा" इति ॥

 यद्यपि प्रशस्तत्वाद्बहिरेव संध्यात्रयं कर्तव्यत्वेन प्राप्तं तथाऽपि श्रौतत्वे विहरणस्य प्राबल्यात्तदनुरोधेन सायंप्रातःसंध्ये गृहेऽभ्यनुज्ञायेते ।

 भारद्वाजसूत्रव्याख्यातारस्तु सायं संध्यायां विशेषमाहुः--

"आहिताग्निर्गार्हपत्यस्य पश्चात्सायं संध्यामुपासीत" इति ।

अथ प्रयोगः ।

 बृहस्पतिः--

"प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत्संध्यामिति श्रुतिः" इति ॥

 स्मृतिसंग्रहे--

"बद्ध्वाऽऽसनं नियम्यासून्स्मृत्वा चर्ष्यादिक तथा ।
संनिमीलितदृङ्मौनी प्राणायामं समभ्यसेत्" इति ॥

 स्मृतिसारे--

"प्राणानायम्य विधिवद्वाग्यतः संयतेन्द्रियः ।
अथ संध्यामुपासिष्य इति संकल्पमाचरेत्" इति ॥

 प्राणायामात्पूर्वमाचमनमपि कर्तव्यम् ।

 तदुक्तं स्मृत्यर्थसारे--

"आचम्यासून्समायम्य संध्योपासनमाचरेत्" इति ।

 असून्प्राणान् ।

 आचमनप्रकार उक्तो धर्मसूत्रे--

 "आसीनस्त्रिराचामेद्धृदयंगमाभिरद्भिस्त्रिरोष्ठौ परिमृजेद्द्विरित्येके सकृदुपस्पृशेद्द्विरित्येके दक्षिणेन पाणिना सव्यमभ्युक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च" इति ।

 गौतमोऽपि--

 "शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्यामणिबन्धात्पाणिं प्रक्षालयति वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत्पादौ चाभ्युक्षेत्खानि चोपस्पृशेत्" इति ।

 याज्ञवल्क्योऽपि--

"अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्" इति ॥

 अत्रोपस्पर्श आचमनम् ।

 ब्राह्मतीर्थस्वरूपमाह याज्ञवल्क्यः--

"कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मतीर्थान्यनुक्रमात्" इति

 एतदेव शङ्खलिखिताभ्यां स्पष्टीकृतम्--

 "अङ्गुष्ठमूलस्योत्तरतः प्रागग्रायां लेखायां ब्राह्मं तीर्थं, प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यं, कनिष्ठिकातलयोरन्तरा प्राजापत्यं, पूर्वेणाङ्गुलिपर्वाणि दैवतम्" इति ।

 आचमनीयमुदकं विशिनष्टि शङ्खः--

"अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः ।
वह्निना न च तप्ताभिरक्षाराभिरुपस्पृशेत्" इति ॥

 याज्ञवल्क्योऽपि--

"अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ।
हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः ॥
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः" इति ।

 मनुरपि--

"हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिस्तालुगाभिस्तु शूद्रः स्पृष्टाभिरन्ततः" इति ॥

 प्रचेता अपि--

"अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रचक्षुषा ।
हृद्गताभिरशब्दाभिस्त्रिश्चतुर्वाऽद्भिराचमेत्" इति ॥

 हृदयपर्यन्तमुदकगमनमाचमने नियतमन्यथोच्छिष्टदोष इत्युक्तं गोभिलगृह्ये--

"हृदयस्पृशस्त्वेवाप आचामेदुच्छिष्टो हैवातोऽन्यथा भवति" इति

 इदमुपलक्षणं कण्ठपर्यन्तत्वादीनाम् ।

 उदकस्य ग्रहणप्रकारं परिमाणं चाऽऽह भारद्वाजः--

"आयतं पर्वतः कृत्वा गोकर्णाकृतिवत्करम् ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठेन शेषेणाऽऽचमनं चरेत् ।
माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः" इति ॥

 स च पाणिर्दक्षिणो द्रष्टव्यः--

"त्रिः पिबेद्दक्षिणेन तु" इति पुराणवचनात् ।

 आचमने मन्त्रविशेषमिन्द्रियोपस्पर्शनं चाऽऽह भारद्वाजः--

"देव्याः पादैस्त्रिभिः पीत्वा खानि पश्चादुपस्पृशेत्" इति ।

 देव्या गायत्र्याः ।

 अत्रिणा तु--

"आपो हि ष्ठादिभिर्मन्त्रैस्त्रिभिस्त्रिः प्राशनं चरेत्" इत्युक्तम् ।

 एतच्चाऽऽचमनं द्विवारं कर्तव्यम् ।

 तदुक्तं षट्त्रिंशन्मते--

"होमे भोजनकाले च संध्ययोरुभयोरपि ।
आचान्तः पुनराचामेज्जपहोमार्चनादिषु" इति ॥

 पृथ्वीचन्द्रोदये देवीनन्दिपुराणयोः--

"दाने प्रतिग्रहे होमे संध्यात्रितयवन्दने ।
बलिकर्मणि चाऽऽचामेदादौ द्विर्नान्ततो द्विजः" इति ।

 प्राणायामलक्षणं मनुराह--

"प्रणवं व्याहृतीः सप्त गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते" इति ॥

 याज्ञवल्क्योऽपि--

"गायत्रीं शिरसा सार्धं जपेद्व्यात्दृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः" इति ॥

 अत्र पाठजपशब्दाभ्यां वर्णाभिध्यानमात्रं नोच्चारणं तस्यासंभवात् ।

 स्मृत्यन्तरे--

"शनैर्नासापुटे वायुमुत्सृजेन्न तु वेगतः ।
न कम्पयेच्छरीरं तु स योगः परमो मतः" इति ।

 व्यासः--

"आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् ।
ब्रह्माणं केशवं शंभुं ध्यायन्देवाननुक्रमात्" इति ।

 योगयाज्ञवल्क्यः--

"पूरकः कुम्भको रेच्यः प्राणायामस्त्रिलक्षणः ।
नासिकाधृत उच्छ्वासो ध्यातः पूरक उच्यते ।
कुम्भको निश्चलश्वासो रिच्यमानस्तु रेचकः" इति ।

 याज्ञवल्क्यः--

"दक्षिणे रेचकं कुर्याद्वामेनाऽऽपूर्य चोदरम् ।
कुम्भकेन जपं कुर्यात्प्राणायामस्य लक्षणम्" इति ।

 दक्षस्तु--

"वामेन रेचकं कुर्याद्दक्षेनाऽऽपूर्य चोदरम् ।
कुम्भकेन जपं कुर्यात्प्राणायामस्य लक्षणम्" इत्याह ।

 स्मृतिसंग्रहे--

"पञ्चाङ्गुलिभिर्नासाग्रं पीडयेत्प्रणवेन वै ।
मुद्रेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः ।
कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः" इति ।

 संध्यामुपासिष्य इति पूर्वं संकल्पकरणमुक्तं तत्र संकल्पप्रकारो मतभेदेन त्रिविधः । कौमारिलमते तावत्संध्यावन्दनादिषु नित्येषु कर्मस्वधिकारवाक्यचोदितफलाभावेऽपि मन्त्रलिङ्गार्थवादादिबहुवाक्यपर्यालोचनयोपात्तदुरितक्षय एव फलत्वेन परिकल्पित इति तदनुरोधादुपात्तदुरितक्षयार्थं प्रातःसंध्यायुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या सर्वेषु नित्यकर्मसु संकल्पः ।

 गुरुमते तु विधिसिद्धिरेव विधेः फलमिति चोदितफलाभावेऽपि विधिसिद्ध्यर्थं प्रातःसंध्यामुपासिष्ये, ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या नित्येषु संकल्पः ।

 शारीरकभाष्ये तु 'जन्माद्यस्य यतः' इति सूत्रे यतो वेत्यादिविषयवाक्यव्याख्याने ब्रह्मणः सकाशादेव प्रपञ्चजातमुत्पन्नं, यथा मृदः सकाशादुत्पन्नो घटः स्वोपादानां मृदमत्यक्त्वा जीवति प्रलीयमानोऽपि मृद्येव प्रलीयते, एवं ब्रह्मणः सकाशाज्जातं जगदपि ब्रह्मात्यक्त्वा जीवति प्रलीयमानं च ब्रह्मण्येव प्रलीयत इत्युक्त्वोत्तरशास्त्रसंदर्भेण ब्रह्मणि समन्वयादिकं प्रतिपाद्य ब्रह्मार्पणबुद्ध्यैव कर्माणि कर्तव्यानीत्युक्तम् । एतन्मते श्रीपरमेश्वरप्रीत्यर्थं प्रातःसंध्यामुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या संकल्पः ।

इति संकल्पप्रकारः।

ततो मार्जनम् ।

 तदुक्तं प्रयोगपारिजाते--

"संकल्प्य मार्जनं कुर्यादापो हि ष्ठादिभिस्त्रिभिः" इति ।

 स्मृतिसंग्रहेऽपि--

"आपो हीति त्रिभिर्मन्त्रैः शिरस्यंसे च विप्रुषः ।
यस्य क्षयायेत्यधस्तात्क्षिप्त्वाऽद्भिः परिषेचयेत् ॥
मध्यमानामिकाङ्गुष्ठैः क्षेपणं तु कुशोदकैः ।
रक्षस्तमोमोहजाताञ्जाग्रत्स्वप्नसुषुप्तिजान् ॥
वाङ्मनःकायजान्दोषान्नवैतान्मार्जनं दहेत्" इति ।

 प्रजापतिरपि--

"ऋगन्ते मार्जनं कुर्यात्पादान्ते वा समाहितः ।
अर्धर्चान्तेऽथवा कुर्याच्छिष्टानां मतमीदृशम्" इति ।

 प्रकारान्तरं संग्रहे--

"ससथत्रयमाकाशे मस्तके वरवत्रयम् ।
भूम्यां प्रोक्तं नत्रयं तु एतन्मार्जनलक्षणम्" इति ।

 वरवत्रयमस्तक इति पाठस्तु असंगत एव । क्वचिद्दिवि स्याद्वरवत्रयमिति द्वितीयपादपाठः । नान्ह्या आसीदन्तरिक्षमिति मन्त्रेऽन्तरिक्षस्य हृदयजन्यत्वाज्जन्यजनकयोरभेदोपचारस्वीकारेण हृदयशब्देनाऽऽकाशोऽत्र गृह्यते । अत्र नाभिशब्दो हृदयलक्षकः । अन्तरिक्षशब्देनाऽऽकाशः । नभोऽन्तरिक्षं गगनमिति कोशात् । एवं शीर्ष्णो द्यौः समवर्ततेत्यत्र पद्भ्यां भूमिरित्यत्रापि चाभेदोपचारस्वीकारेण शिरःपच्छब्दाभ्यां क्रमेण द्युभूम्योर्ग्रहणम् । एतान्यक्षराणि पादान्तप्रदर्शनार्थानि । चक्षसे । रसः । जिन्वथ । इत्येतेषु पादान्तेषु, आकाशे हृदये मार्जनं कुर्यात् । मयोभुवः । मातरः । गमाम वः । इत्येतेषु पादान्तेषु मस्तके शिरसि । दधातन । इह नः । च नः । इत्येतेषु पादान्तेषु भूम्यां पादयोरित्यर्थः ।

 हारीतः--

"मार्जनार्चनबलिकर्मभोजनानि देवतीर्थेन कुर्यात्" इति ।

 [४४]तच्च मार्जनं न धाराच्युतोदकेन कार्यम् ।

 तथा च ब्रह्मा--

"धाराच्युतेन तोयेन संध्योपास्तिर्विगर्हिता ।
पितरो न प्रशंसन्ति देवता ऋषयस्तथा" इति ।

 कथं तर्हि मार्जनमिति तत्राऽऽह स एव--

"नद्यां तीर्थे हृदे वाऽपि भाजने मृन्मयेऽपि वा ।
औदुम्बरेऽथ सौवर्णे राजते दारुसंभवे ।
कृत्वा तु वामहस्ते वा संध्योपास्तिं समाचरेत्" इति ।

 कृत्वेत्यनन्तरमुदकमिति शेषः ।

 मृन्मयादिपात्रसद्भावे तु वामहस्तप्रतिषेधः--

"वामहस्ते जलं कृत्वा ये तु संध्यामुपासते ।
सा संध्या वृषली ज्ञेया असुरास्तैस्तु तर्पिताः" इति स्मरणात् ।

 भाजन इत्यादिकं गृहसंध्याविषयं न तु नद्यादिसंनिधिकर्तव्यसंध्याविषयम् । पूर्वमार्जनानन्तरमापो वा इदमित्यनुवाकेनाभिमन्त्रणं कुर्वन्ति शिष्टाः । वस्तुतस्तु सर्वात्मकत्वेनाभिध्यानमात्रमनेन कार्यम् ।

 ततः समन्त्रमुदकपानं पुनर्मार्जनं च कुर्यात् ।

 तत्राऽऽह बौधायनः--

 "अथातः संध्योपासनविधिं व्याख्यास्यामस्तीर्थं गत्वा प्रयतोऽभिषिक्तः प्रक्षालितपाणिपादोऽप आचम्याग्निश्च मा मन्युश्चेति सायमपः पीत्वा सूर्यश्च मा मन्युश्चेति प्रातः सपवित्रेण पाणिना सावित्र्या सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति" इति ।

 भारद्वाजः--

"सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् ।
आपः पुनन्तु मध्याह्ने ततश्चाऽऽचमनं चरेत्" इति ।

 प्रातः सूर्येत्यत्राप्युक्त्वेत्यस्यान्वयः । सूर्य इतीत्यपेक्षिते सूर्येतीति संधिश्छान्दसः ।

 कात्यायनोऽपि--

"शिरसो मार्जनं कुर्यात्कुशैः सोदकबिन्दुभिः ।
प्रणवेन व्याहृतिभिर्गायत्र्येति क्रमात्त्रयम् ।
अब्दैवताभिर्ऋग्भिश्च चतुर्थमिति मार्जनम्" इति ।

 मार्जनानन्तरं प्रजापतिः--

"उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ।
निःश्वसन्नासिकाग्रेषु पाप्मानं पुरुषं स्मरेत् ।

ऋतं चेतितृचं वाऽपि द्रुपदां वा जपेदृचम् ।
दक्षनासापुटेनैव पाप्मानमपसारयेत् ।
तज्जलं नावलोक्याथ वामभागे क्षितौ क्षिपेत्" इति ।

अथार्घ्यदानम् ।

 तच्चाऽऽदित्योपासनं कुर्वन्कुर्यात् ।

 तथा च श्रुतिः--

"उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्" इति ।

 एतदुपासनमेव प्रधानम् ।

"संध्यामुपासते ये तु सततं संशितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम्" ॥

 इत्यत्रैव फलसंबन्धावगमात् । अत एव रणेऽर्जुनादिभिरङ्गेष्वसामर्थ्यात्सूर्योपासनमात्रं प्रधानमकारि ।

 भारते--

"ते तथैव महाराज दंशिता रणमूर्धनि ।
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे" इति ।

 अर्घ्यदानं[४५] प्रधानमिति केचित्[४६] । अङ्गमित्यन्ये ।

 अर्घ्यदानप्रकारमाह व्यासः--

"कराभ्यां तोयमादाय गायत्र्या चाभिमन्त्रितम् ।
आदित्याभिमुखस्तिष्ठंस्त्रिरूर्ध्वमथ तत्क्षिपेत्" इति ।

 अत्र संतत एव पाठो ग्राह्यः । अथ संततामित्यत्राथशब्दः प्राधान्यख्यापनार्थस्तेन संध्योपासनादिषु तृतीय एव पाठो ग्राह्य इति मातृदत्तोक्तेः । जपेऽप्येवम् । धीमहि धिय इत्यनयोः सांतत्ये सस्वरः संधिः । अनवानत्वमात्रं वाऽस्मिन्पाठे द्रष्टव्यम् । हिकारोऽनुदात्तः ।

 आश्वलायनोऽपि--

"ततस्तिष्ठञ्जलं गृह्य प्राङ्मुखोऽञ्जलिना स्मरन् ।
मण्डले सुस्थितं तेजः स्फाटिकज्योतिषा समम् ।
उत्तीर्य तच्च संप्राप्तं दक्षिणेन पथाऽञ्जलिम् ।
व्याहृत्यादि जपेन्मन्त्रं स्मृत्वैवं परितो रवेः ।

मन्देहान्युध्यतः क्रूरान्निक्षिपेत्तेष्ववञ्जलीन् ।
षोडशाक्षरमन्त्रेण पुनराकृष्य सत्वरः ।
पुनर्जलं गृहीत्वैवं तेजोमन्त्रं च संस्मरन् ॥
एवं त्रिवारमावर्त्य दग्ध्वा तानसुरान्द्विजः ।
मन्त्रेणाऽऽकृष्य तत्तेजः स्थानादौ स्थापयेत्स्मरन् ॥
पूर्ववद्वाममार्गेण स्मृत्वा संस्थाप्य चाऽऽत्मनि ।
प्रदक्षिणं समावर्त्य जलं गृह्याऽऽचमेत्ततः" इति ॥

 स्थानादावाधारमण्डपे स्थितं ज्योतिर्नासादक्षिणरन्ध्रेणाऽऽधारमण्डपादन्तरञ्जलिमागतं मन्देहाख्यराक्षसनाशाय तोयेन सह क्षि[४७]प्तं गायत्रीशिरसा नासावामरन्ध्रेण पुनराधारमण्डपे स्थापयामीति भावयेदिति सर्वतात्पर्यार्थः ।

 षोडशाक्षरमन्त्रमाह व्यासः--

"षोडशाक्षरकं ब्रह्म गायत्र्यास्तु शिरः स्मृतम् ।
ओमापो ज्योतिरित्येष मन्त्रो वै तैत्तिरीयके" इति ॥

 प्रणवत्वेनैकमक्षरम् । अन्यथा षोडशाक्षरकं ब्रह्मेत्येतद्विरुध्येतेति । अथवा सुवरित्यस्यैकाक्षरत्वभावनया षोडशाक्षरत्वं द्रष्टव्यम् ।

 जलाभावे रजसाऽर्घ्यं देयम्--

"जलाभावे महामार्गे बन्धने त्वशुचावपि ।
उभयोः संध्ययोः काले रजसा चार्घ्यमुत्सृजेत्" इत्यग्निस्मृतेः ।

 अर्घ्यदाने विशेषः संग्रहे--

"मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत् ।
तर्जन्यङ्गुष्ठयोगे तु राक्षसी मुद्रिका स्मृता ॥
राक्षसीमुद्रिकार्घ्येण तत्तोयं रुधिरं भवेत् ।
जलेष्वर्घ्यं प्रदातव्यं जलाभावे शुचिस्थले ॥
संप्रोक्ष्य वारिणा सम्यक्ततोऽर्घ्यं तु प्रदापयेत् ।
ईषन्नम्रः प्रभाते वै मध्याह्न ऋजुरास्थितः ॥
सूर्यायार्घ्याञ्जलीन्दद्यात्सायं तूपविशेद्भुवि" इति ।


अथ गायत्रीजपः ।

"जपन्नासीत सावित्रीं प्रत्यगा तारकोदयात् ।
संध्यां प्राक्प्रातरेवं हि तिष्ठेदा सूर्यदर्शनात्" इति ।

 सायं प्रत्यङ्मुख आसीन आनक्षत्रोदयं जपेत् । प्रातः प्राङ्मुखस्तिष्ठन्नासूर्योदयमित्यर्थः ।

 शौनकः--

"प्रातस्तिष्ठञ्जपेद्देवीं सायं चैवोपविश्य च ।
उपविश्य तु मध्याह्ने प्राङ्मुखो जपमाचरेत्" इति ॥

 तद्विधिमाह मनुः--

"आचम्य प्रयतो नित्यमुभे संध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि" इति ॥

 कथमित्यपेक्षित आह शङ्खः--

"कुशबृस्यां समासीनः कुशोत्तरीयां वा कुशपवित्रपाणिः
सूर्याभिमुखो देवतां ध्यायञ्जपं कुर्यात्" इति ।

 आसनान्याह व्यासः--

"कौशेयं कम्बलं चैव अजिनं पट्टमेव च ।
दारुजं ताडपत्रं वा आसनं परिकल्पयेत् ॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षः श्रीर्व्याघ्रचर्मणि ।
कुशासने व्याधिनाशः सर्वेष्टश्चि(ष्टं चि)त्रकम्ब[४८]लम् ॥
वंशासने तु दारिद्र्यं पापाणे व्याधिरेव च ।
धरण्यां तु भवेद्दुःखं दौर्भाग्यं छिद्रदारुजे ॥
तृणे धनयशोहानिः पल्लवे चित्तविभ्रमः" इति ।

 प्रचेताः--

"गोशकृन्मृन्मयं भिन्नं तथा पालाशपिप्पलम् ।
लोहबद्धं सदैवाऽऽर्कं वर्जयेदासनं बुधः" इति ।

स्मृत्यन्तरे--

"मृगचर्म प्रयत्नेन वर्जयेत्पुत्रवान्गृही" इति ।

 पुराणे--

"सायं प्रातः समाचम्य दद्यात्सूर्याय चाञ्जलिम् ।
दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति" इति ।

 श्रुतिरपि--

"यत्प्रदक्षिणं प्रक(क्रा?)मन्ति तेन पाप्मानमवधून्वन्ति" इति ।

 गृह्यपरिशिष्टे--

"असावादित्यो ब्रह्मेति प्रदक्षिणं परिक्रामन्परिषिञ्चेत् " इति ।

 उपवेशनमन्त्र उक्तो गायत्रीकल्पे--

"पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चाऽऽसनम्" इति ।

 ऋष्याद्याह व्यासः--

"पृथिव्या मेरुपृष्ठं तु ऋषिरित्यभिधीयते ।
कूर्मपृष्ठं देवता तु सुतलं छन्द ईरितम् ।
आसनारोहणे तस्य विनियोगः प्रकीर्तितः" इति ॥

 गृह्यपरिशिष्टे--

 "शुचौ देशे दर्भाम्भसोक्षिते दर्भान्संस्तीर्य व्याहृतिभिरुपविश्य प्राणायामत्रयं कृत्वाऽऽत्मानं व्यात्दृतीभिरभ्युक्ष्य सावित्र्या ऋषिदैवतच्छन्दांस्यनुस्मृत्य षड्भिस्तदङ्गमन्त्रैर्यथाङ्गमात्मनि विन्यस्याऽऽत्मानं तद्रूपं भावयेत् । तत्सवितुर्हृदयाय नम इति हृदये, वरेण्यं शिरसे स्वाहेति शिरसि, भर्गो देवस्य शिखायै वषडिति शिखायां, धीमहि कवचाय हुमित्युरसि, धियो यो नो नेत्रत्रयाय वौषडिति नेत्रललाटेषु विन्यस्य, प्रचोदयादस्त्राय फडिति करतलेऽस्त्रं प्राच्यादिषु दशसु न्यसेदेषोऽङ्गन्यास एतमेके नेच्छन्ति स हि विधिरवैदिकः" इति ।

 अत्राऽऽसनोपवेशनविधिप्रदर्शनात्पूर्वत्र तूष्णीमेव दर्भासन उपवेशनमिति गम्यते ।

 गायत्रीकल्पे तु--

"विन्यस्यैवं षडङ्गेषु ऋष्यादीन्संस्मरेत्ततः" इत्युक्तम् ।

 बृहत्पराशरस्मृत्यादिषु तु प्रणवसप्तव्याहृतिवर्गकुक्षिपादवर्णदेवतान्यासादिकमप्युक्तमस्ति तत्तत्रैव द्रष्टव्यं विस्तरभीत्या नोच्यते ।

 तत आवाहनम् ।

"आयात्वित्यादिभिर्मन्त्रैर्देवीमावाहयेत्ततः"

 इति पाठक्रमादप्यत्रैवाऽऽवाहनम् ।

 जपे गायत्री प्रणवव्याहृतियुता ज्ञेया । तथा च व्यासः--

"प्रणवव्याहृतियुतां गायत्रीं प्रजपेत्ततः" इति ।

 जपसंख्यामाह योगयाज्ञवल्क्यः--

"ब्रह्मचार्याहिताग्निश्च शतमष्टोत्तरं जपेत् ।
वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत् ॥
सायं प्रातश्च मध्याह्ने सावित्रीं वाग्यतो जपेत् ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं प्रजपेद्धीमान्सर्वपापप्रणा[४९]शिनीम्" इति[५०]

 बौधायनोऽपि--

 "दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेदपरिमितकृत्वः प्राणायामशो वा शतकृत्व उभयतःप्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः" इति ।

 प्रातःसंध्यायां विशेष उक्तस्तेनैव--

"एवमेव प्रातः प्राक्तिष्ठन्" इति ।

 प्राणायामशः प्राणायामप्रकारेण । तमेव प्रकारमाह-- उभयतःप्रणवामित्यादिना । अयं च प्रकारो[५१] बौधायनीयानामेव न सत्याषाढसूत्रानुसारिणां ज्ञापकसिद्धस्योपनयनोपदिष्टतृतीयपाठस्यैव तैर्ग्रहीतुमुचितत्वात् । उक्तसंख्यात आधिक्यमेवापरिमितशब्दार्थः । न तु ततो न्यूनत्वमपि । "अपरिमितं प्रमाणाद्भूयः" इति कात्यायनेनाधिकस्यैवापरिमितशब्दार्थत्वोक्तेः ।

 व्यासः--

"अष्टोत्तरशतं नित्यमष्टाविंशतिमेव वा ।
विधिना दशकं वाऽपि त्रिकालं प्रजपेद्बुधः" इति ॥

 नारदः--

"सर्वत्रैव प्रदोषेषु[५२] गायत्रीमष्टसंख्यया ।
अष्टाविंशत्यनध्याये जपेन्नाष्टोत्तरं शतम्" इति ॥

 सुमन्तुः--

"अष्टम्यां च चतुर्दश्यां नित्यादर्धं जपेत्सुधीः ॥
प्रतिपत्सु तुरीयांशं पर्वण्यल्पतरं जपेत्" इति ॥

 जपमालोक्ता स्मृत्यन्तरे--

"पर्वभिस्तु जपेद्देवीं माला काम्यजपे स्मृता ।
गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते ॥
आरभ्यानामिकामध्यं पर्व देवीमनुक्रमात् ।

तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ।
मध्यमाङ्गुलिमूले तु यत्पर्वद्वितयं भवेत् ।
तं वै मेरुं विजानीयाज्जपे[५३] तं नातिलङ्घयेत्" इति ।

 अगस्त्यसंहितायाम्--

"कनिष्ठाऽनामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाः स्युर्मध्यमा त्वेकपर्विका ।
पर्वभिस्तु जपः कार्यो नाङ्गुलीनां निपातनैः ।
मध्यमाद्यद्व[५४]यं पर्व जपकाले विवर्जयेत् ।
एतन्मेरुं विजानीयात्करमालाजपे बुधैः" इति ॥

 स्मृत्यन्तरे तु--

"आरभ्यानामिकामूलात्प्रादक्षिण्येन वै क्रमात् ।
मध्यमामूलपर्यन्तं जपेद्दशसु पर्वसु" इत्युक्तम् ॥

 जपस्त्रिविधः । नृसिंहपुराणे--

"त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ।
वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ।
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्त[५५]रम्" इति ॥

 वाचिकोपांशुत्वयोर्लक्षणं पुराणेऽभिहितम्--

"यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
अपरैरश्रुतः किंचित्स उपांशुजपः स्मृतः[५६]" इति ॥

 विश्वामित्रेण मानसस्य लक्षणमुक्तम्--

"धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः" इति ॥

 त्रयाणां तारत[५७]म्यं च तेनैवोक्तम्--

"उत्तमं मानसं जाप्यमुपांशु मध्यमं स्मृतम् ।
अधमं वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजः(द्विजाः) ॥

वाचिकस्यैकमेकं स्यादुपांशु शतमुच्यते ।
सहस्रं मानसं प्रोक्तं मन्वत्रिभृगुनारदैः" इति ॥

 ([५८]मानसजपस्य फलमुक्तं नृसिंहपुराणे--मानसं जपं प्रकृत्य,

"अनेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान्भोगान्दद्यान्मुक्तिं च शाश्वतीम्" इति ॥)

 स्मृत्यन्तरे--

"चतुर्विंशत्यक्षरां तु गायत्रीं प्रजपन्त्दृदि ।
सर्वान्वर्णानभिध्यायेद्देवतामर्थमेव च" इति ।

 अक्षरशब्दः स्वरेषु वर्तते । तत्र यद्यपि स्वरास्त्रयोविंशतिरेव गायत्रीमन्त्रे वर्तन्ते तथाऽपि ण्यमित्यत्र भावनया णियमिति स्वरद्वयं ज्ञेयम् ।

 उक्तं च पिङ्गलेन--

"इयादिपूरणः" इति ।

 पाद इत्यनुवर्तते । इयादिः पूरणो यस्य स इयादिपूरणः । आदिशब्देनोवादयो गृह्यन्ते । तत्रायमर्थः--यत्र गायत्र्यादौ छन्दसि पादस्याक्षरसंख्या न पूर्यते तत्रेयादिभिः सा पूरयितव्या । यथा तत्सवितुर्वरेणियं दिवं गच्छ सुवः पतेत्येवमादय इति हलायुधेन व्याख्यातम् ।

 "घृणिरिति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि । एतद्वै सावित्रस्याष्टाक्षरं पद श्रियाऽभिषिक्तम्" ।

 इति श्रुतिरपि साधिकाऽत्रेति ज्ञेयम् ।

 जपे नियममाह शौनकः--

"कृत्वोत्तानौ करौ प्रातः सायं चाधोमुखौ ततः ।
मध्ये संमुखहस्ताभ्यां जप एवमुदाहृतः" इति ।

 स्मृत्यन्तरे--

"हस्तौ नाभिसमौ धृत्वा प्रातः संध्याजपं चरेत् ।
त्दृत्समौ तु करौ मध्ये सायं मुखसमौ करौ" इति ।

 वृद्धमनुः--

"वस्त्रेणाऽऽच्छाद्य तु करं दक्षिणं यः सदा जपेत् ।
तस्य तत्सफलं जप्यं तद्धीनमफलं स्मृतम्" इति ।

 आच्छादन आर्द्रवस्त्रनिषेधः स्मृत्यन्तरे--

"आच्छाद्याऽऽर्द्रेण वस्त्रेण करं यस्तु जपेद्यदि ।
निष्फलः स्यात्तस्य जपो देवता न प्रसीदति" इति ।

 व्यासः--

"मनःसंतोषणं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतवः" इति ।

 मन्त्रार्थ उक्तो बृहत्पराशरेण--

"तच्छुद्धं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।
देवस्य सवितुर्भर्गो वरणीयं च धीमहि ।
तदस्माकं धियो यस्तु ब्रह्मत्वे च प्रचोदयात्" इति ।

 तत्सवितुर्जगत्कारणस्य श्रीसूर्यस्य वरेण्यं वरणीयम् । वृञ एण्यः । भर्गस्तेजः । अन्धकारभर्जनात् । "अव्यञ्जियुजिभृजिभ्यः कुश्च" इति भृजेरसुन् । धीमहि ध्यायेम । यो नो धियोऽस्माकं बुद्धीः प्रचोदयात्स्वरूपे प्रेरयेत्, प्रेरयतीत्यर्थः । इत्येवं गायत्रीमन्त्रार्थस्य चिन्तनं मनसाऽनुसंधानं कार्यम् । शब्दस्याप्येवम् । उत्तमं मानसं जाप्यमित्यनन्तरोदाहृतविश्वामित्रोक्तेः ।

 [५९]बौधायनः--

"[६०]नाभेरधस्तात्संस्पर्शं कर्मयुक्तो विवर्जयेत्" इति ।

 अत्रिः--

"न च[६१] कामन्न च हसन्न पार्श्वमवलोकयन् ।
नापाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संश्रावयञ्जपेत्" इति ॥

 व्यासः--

"जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्वेवावसक्तस्तु यथा गच्छन्द्विजोत्तमः ॥
अभिवाद्य ततो विप्रं योगं क्षेमं च कीर्तयेत्" इति ।

 यथा गमनवेलायां तन्मनस्कः सन्नेव गच्छति तद्वज्जपादिष्वपि तन्मनस्क एव भवेदित्यर्थः । विप्रमभिवाद्य तेन विप्रेण योगं क्षेमं च कीर्तयेदित्यर्थः । अलब्धलाभो योगः । लब्धस्य रक्षणं क्षेमः ।  योगयाज्ञवल्क्यः--

"यदि वाग्यमलोपः स्याज्जपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम्" इति ।

 संवर्तः--

"लोकवार्तादिकं श्रुत्वा श्रुत्वा तु परुषं वचः ।
संख्यां विना च यज्जप्तं तत्सर्वं निष्फलं भवेत्" इति ।

 संख्यां विना गणनां विनेत्यर्थः । अपरिमितत्वपक्षेऽपि गणना कर्तव्यैवान्यथा जपस्य निष्फलत्वापत्तेः ।

 तथा च गौतमः--

गच्छतस्तिष्ठतो वाऽपि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा विना संख्यां तत्सर्वं निष्फलं भवेत्" इति ।

 बृहत्पराशरोऽपि--

"असंख्यमासुरं यस्मात्तस्मात्तद्गणयेद्ध्रुवम्" इति ।

 गौतमः--

"क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भणे ।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥
आचामेत्संभवे चैषां स्मरेद्विष्णुं सुरार्चितम् ।
ज्योतींषि च प्रशंसेद्वा कुर्याद्वा प्राणसंयमान् ॥
ज्वलनं गाश्च विप्रांश्च यतीन्वाऽपि विशुद्धये" इति ।

पश्येदिति शेषः ।

 संग्रहे--

"स्वरवर्णपदैर्वाक्यैः शुद्धमावर्तयेज्जपम् ।
न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेत् ॥
संस्पृशेयुर्न चान्योन्यं दीक्षिता जापका द्विजाः ।
तैरेव भाषणं कृत्वा प्राणायामं समाचरेत् ॥
पादप्रसारणं वार्ता भूलेखनविजृम्भणे ।
जिह्वाप्रसारणं वासोनखच्छेदनताडने ॥
क्षुतनिष्ठीवने गात्रचालनं केशबन्धनम् ।
शिखाविमोक्षणं चैव केशानां चैव मार्जनम् ॥
आक्रन्दनं पर्यटनं तृणसूत्रादिबन्धनम् ।
अधरस्पन्दनं दन्तघर्षणं देहकम्पनम् ॥
आस्फोटनं प्रहसनं शयनं परिवीक्षणम् ।

यूकान्वेषणमङ्गुल्या मुखवायुप्रपूरणम् ॥
शिरःप्रच्छादनं शिल्पकरणं चोष्ठचर्वणम् ।
भवन्ति कर्माण्येतानि यदि चेतःप्रमादतः ॥
प्रक्षाल्य चरणौ हस्तावाचम्य च यथाविधि ।
प्राणायामत्रयं कृत्वा सवितारं विलोक्य च ॥
नमस्कृत्य ततो धीमाञ्जपशेषं समापयेत्" इति ।

 देशनियमस्तु योगयाज्ञवल्क्येनोक्तः--

"अग्न्यगारे जलान्ते वा जपेद्देवालयेऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विनक्षेत्रेऽथवा गृहे" इति ।

 शङ्खोऽपि--

"गृहे त्वेकगुणं जप्यं नद्यां तु द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणमग्न्यगारे शताधिकम् ॥
सिद्धतीर्थेषु क्षेत्रेषु देवतायाश्च संनिधौ ।
सहस्रं शतकोटीनामनन्तं विष्णुसंनिधौ" इति ।

 अत्र नद्यामिति पदं तीरे लाक्षणिकं गङ्गायां घोष इत्यत्र गङ्गापदमिव । समीपसप्तमी वा । आर्द्रवासोविषयं वा ।

"यदि स्याक्लिन्नवस्त्रो वै गायत्रीमुदके जपेत् ।
अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः" इति यमोक्तेः ।

 कूर्मपुराणेऽपि--

"गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते तु शुभे देशे तस्माज्जप्यं सदाऽऽचरेत्" इति ।

 गायत्रीजपं प्रशंसति व्यासः--

"दशकृत्वः प्रजप्ता सा त्र्यहाद्यच्च कृतं लघु ।
तत्पापं नाशयत्याशु नात्र कार्या विचारणा ॥
शतजप्ता तु सा देवी पापौघशमनी स्मृता ।
सहस्रजप्ता सा देवी उपपातकनाशिनी ॥
लक्षजप्येन च तथा महापातकना[६२]शिनी ।
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात्" इति ॥

 यमोऽपि--

"गायत्र्या न परं जाप्यं गायत्र्या न परं तपः ।
गायत्र्या न परं ध्यानं गायत्र्या न परं हुतम्" इति ॥

 मनुरपि--

"योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतीन्द्रियः ।
स ब्रह्म परमप्येति वायुभूतश्च मूर्तिमान्" इति ॥

 गौतमोऽपि--

"अनेन विधिना नित्यं जपं कुर्यात्प्रयत्नतः ।
प्रसन्नो विपुलान्भोगान्भुक्त्वा मुक्तिं च विन्दति" इति ॥

 जपसमाप्तौ जपनिवेदनमुक्तमाचारप्रदीपे--

"प्रातःसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन ब्रह्मात्मा प्रीयतां रविः" इति ।

 एवं मध्याह्नसंध्याप्रयुक्तजपे प्रातर्ब्रह्मपदयोः स्थाने मध्यरुद्रशब्दोहेन, सायंसंध्याप्रयुक्तजपे तु सायंविष्णुशब्दोहेन । जटमल्लग्रन्थे तु तथाविधमन्त्रावेव प्रदर्शितौ ।

 ततो गायत्रीं विसर्जयेत् । तदुक्तं स्मृत्यन्तरे--

"उत्तमे शिखर इति देवीं जप्त्वा विसर्जयेत्" इति ।

अथोपस्थानम् ।

 तत्र [६३]बौधायनः--

 "ब्रह्मत्दृदयेन वारुणीभ्यां रात्रिमुपतिष्ठत इमं मे वरुण तत्त्वा यामीति द्वाभ्यामेव प्रातः प्राक्तिष्ठन्मैत्रीभ्यामहरुपतिष्ठते मित्रस्य चर्षणीधृतो मित्रो जनान्यातयति प्रजानन्निति द्वाभ्याम्" इति ।

 ब्रह्महृदयं प्रणवः ।

 प्रातःसंध्योपस्थानं कूर्मपुराणेऽपि--

"अथोपतिष्ठेदादित्यमुदये सु समाहितः ।
मन्त्रैस्तु विविधैर्मैत्रैर्ऋग्यजुःसामसंभवैः" इति ।

 मैत्रैर्मित्रदेवत्यैः । मित्रस्य चर्षणीधृत इत्यादिभिरित्यर्थः ।

 मध्याह्नसंध्योपस्थानं ब्रह्मपुराणे--

"प्रक्षिप्य चाञ्जलिं सम्यगुदु त्यं चित्रमित्यपि ।
तच्चक्षुर्देव इति च हंसः शुचिषदित्यपि ।
एतज्जपेदूर्ध्वबाहुः सूर्यं पश्यन्समाहितः" इति[६४]

 बौधायनेन तु गायत्रीजपानन्तरमेवोपस्थानमत्राप्युक्तम्--

 "अप आचम्य दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा [६५]दशावरामथाऽऽदित्यमुपतिष्ठेतोद्वयं तमसस्पर्युदु त्यं चित्रं तच्चक्षुर्देव हितं य उदगादिति" इति ।

 एतदेव तैत्तिरीयैः स्वीकार्यम् । इतरशास्त्रापेक्षया बौधायनोक्तस्याभ्यर्हितत्वात् ।

 सायंसंध्योपस्थानमपि कौर्मे--

"वारुणीभिस्तथाऽऽदित्यमुपतिष्ठेत्समाहितः" इति ।

 वारुण्यश्चेमं मे वरुणेत्याद्याः । यद्यपि वारुणीभिर्वरुणोपस्थानं लिङ्गबलात्प्राप्तं तथाऽपि श्रुतेः प्राबल्यात्तया लिङ्गं बाधित्वाऽऽदित्योपस्थाने मन्त्राविनियुज्यन्त ऐन्द्रीवत्[६६] । बौधायनसूत्रोक्तमन्त्रद्वयेनोपस्थानपक्षे सायं रात्रेरुपस्थानं प्रातरह्नः । वस्तुतो रात्र्यहोरूपत्वेनाऽऽदित्यमभिव्यायन्नुप[६७]तिष्ठेत । एवं च न बौधायनकूर्मपुराणयोर्विरोधः ।

 अथ दिग्द्विक्पत्युपस्थानम् । तत्र नारायणः--

"वारुणीभिस्तथाऽऽदित्यमुपस्थाय प्रदक्षिणाम्[६८]
कुर्वन्दिशो नमस्कुर्याद्दिगीशांश्च पृथक्पृथक्" इति ।

 यद्यप्येतस्माद्वचनात्सायंसंध्याङ्गता दिग्दिक्पतिनमस्कारस्य प्रतीयते तथाऽपि प्रातःसंध्यायामप्येतद्द्रष्टव्यम् । भगवत्स्मृतौ प्रातःसंध्यायामपि तस्य विहितत्वात् ।

 एतच्च नमः प्राच्यै दिशे याश्च देवता इत्याद्यैर्मन्त्रैर्लिङ्गात् ।

 नमो गङ्गायमुनयोरिति मन्त्रस्तु गङ्गायमुनान्तरवासिमुनिनमस्कारे लिङ्गाद्विनियुज्यते ।

 अत्र वा गायत्र्युद्वासनम्--

"उपस्थायाथवाऽऽदित्यं गायत्रीं तु विसर्जयेत्" ।

 इत्याचारदर्पणे स्मृत्यन्तरवचनात् ।

 संध्योपासनं प्रशंसति यमः--

"संध्यामुपासते ये तु सततं शंसितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥
यदह्ना कुरुते पापं कर्मणा मनसा गिरा ।
आसीनः पश्चिमां संध्यां प्राणायामैस्तु हन्ति तत् ॥
यद्रात्र्या कुरुते पापं कर्मणा मनसा गिरा ।
पूर्वां संध्यां समासीनः प्राणायामैर्व्यपोहति ॥
ऋषयो दीर्घ[६९]संधत्वाद्दीर्घमायुरवाप्नुयुः ।
प्रजा यशश्च [७०]कीर्तिं च ब्रह्मवर्चसमेव च" इति ।

 अकरणे प्रत्यवायो दर्शितो दक्षेण--

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत्" इति ॥

 गोभिलोऽपि--

"संध्या येन न विज्ञाता संध्या येनानुपासिता ।
जीवमानो भवेच्छूद्रो मृतः श्वा चाभिजायते" इति ॥

 विष्णुपुराणेऽपि--

"उपतिष्ठन्ति ये संध्यां न पूर्वां न च पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप" इति ॥

 कूर्मपुराणेऽपि--

"योऽन्यत्तु कुरुते सर्वं धर्मकार्यं द्विजोत्तमः ।
विहाय संध्याप्रणतिं स याति नरकायुतम्" इति ॥

 एतत्सर्वमनार्तविषयम् ।

 तथा च याज्ञवल्क्यः--

"अनार्तश्चोत्सृजेद्यस्तु स द्विजः शूद्रसंमितः ।
प्रायश्चित्ती भवेच्चैव लोके भवति निन्दितः" इति ।

 अत्रिरपि--

"नोपतिष्ठन्ति ये संध्यां स्वस्थावस्थास्तु वै द्विजाः ।
हिंसन्ति वै सदा पापा भगवन्तं दिवाकरम्" इति ॥

 क्वचित्संध्याहानिरपि न दोषायेत्याह जमदग्निः--

"राष्ट्रक्षोभे नृपक्षोभे रोगार्तौ भय आगते ।
देवाग्निद्विजभूपानां कार्ये महति संस्थिते ॥
संध्याहानौ न दोषोऽस्ति यतस्तत्पुण्यसाधनम्" इति ॥

 अथ संध्याकालातिक्रमप्रायश्चित्तम् ।

 ([७१]तत्र स्मार्तप्रायश्चित्तकुतूहले स्कान्दे--

"उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्संध्यामुपासीत प्रायश्चित्तमतः परम्" इति ॥

 इदं च श्रान्तपरम् ।

 अन्यथा--

"प्रातःसंध्यां सनक्षत्रां नोपास्ते यः प्रमादतः ।
गायत्र्यष्टशतं तस्य प्रायश्चित्तं विशद्धये" ॥

 इति कर्मप्रदीपवचनविरोधापत्तेः । प्रातःसंध्यां सनक्षत्रामिति सायंसंध्यां तु सादित्यामित्येतदुपलक्षणमिति पृथ्वीचन्द्रः)।

 तत्र यमः--

"प्राणायामत्रयं प्रातः संगवे द्विगुणं चरेत् ।
मध्याह्ने त्रिगुणं प्रोक्तमपराह्णे चतुर्गुणम् ॥
सायाह्ने पञ्चगुणकं संध्यातिक्रमणे भवेत्" इति ॥

 ([७२]स्मार्तप्रायश्चित्तकुतूहले संध्याकल्पे तु--

"प्राणायामत्रयं प्रातर्द्विगुणं संगवे स्मृतम् ।
मध्याह्ने त्रिगुणं प्रोक्तमपराह्णे तु षड्गुणम् ॥
सायाह्ने द्वादशगुणं सूर्यहत्यां ततो व्रजेत्" इत्युक्तम् ।

 शक्ताशक्तपरत्वेनात्र व्यवस्था । प्रातरादिष्वकरणे सूर्यहत्यां व्रजेत् । सूर्यहत्यां प्राप्नोतीत्यर्थः) ।

 यत्तु जमदग्निवचनं--

"संध्याकाले त्वतिक्रान्ते स्नात्वाऽऽचम्य यथाविधि ।
जपेदष्टशतं देवीं ततः संध्यां समाचरेत्" ॥

 इति तत्प्राणायामाशक्तपरम्[७३] । एवं कर्मप्रदीपवचनमपि ।  यत्तु--

"यः संध्यां चैव नोपास्ते अग्निकार्यं यथाविधि ।
गायत्र्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः" ॥

 इति स्मृतिवचनं तद्बुद्ध्या सकृल्लोपविषयम् ।

 यत्तु वसिष्ठवचनं--

"कालातिक्रमणे चैव त्रिसंध्यमपि सर्वदा ।
चतुर्थ्यार्घ्यं प्रकुर्वीत भानोर्व्यार्दृतिसंपुटम्" इति ॥

 तदल्पकालातिक्रमविषयम् ।

 एकाहाद्यतिक्रमे जमदग्निः--

"एकाहं समतिक्रम्य संध्यावन्दनकर्म तु ।
अहोरात्रोषितो भूत्वा गायत्र्या अयुतं जपेत्
द्विरात्रे द्विगुणं प्रोक्तं त्रिरात्रे त्रिगुणं स्मृतम् ।
त्रिरात्रात्परतश्चेत्स्याच्छूद्र एव न संशयः" इति ॥

 दैवाद्यदि माध्याह्निकं दिवा न कृतं तदा विशेषः स्मर्यते--

"रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् ।
अवगाहं ब्रह्मयज्ञं सौरजप्यं विवर्जयेत्" इति ॥

 स्मृतिसंग्रहेऽपि--

"दिवोदिताः क्रियाः कार्या रात्रावपि यथाक्रमम् ।
अवगाहं विना सौरं ब्रह्मयज्ञं च तर्पणम्" इति ॥

 अवगाहशब्देन निमज्जनरूपं स्नानं निषिध्यते ।

 ब्रह्मयज्ञनिषेधस्तु तैत्तिरीयातिरिक्तपरः ।

"ग्रामे मनसा स्वाध्यायमधीयीत दिवा नक्तं वा"

 इति श्रुतौ तैत्तिरीयाणां रात्रावपि तत्कर्तव्यताप्रतिपादनात् । अथवा बहुलं ब्रह्मयज्ञं निषेधयतीयं स्मृतिः । तेन तैत्तिरीयैस्तदतिरिक्तैश्च रात्रौ स्वल्पो ब्रह्मयज्ञः कर्तव्य एव । श्रुतेः साधारण्येन प्रबलत्वेन च सर्वशाखिषु प्रवृत्तेर्निराबाधात्[७४] । इदं च शौचाह्नेयर्षिमतेनोक्तम् ।

 मध्याह्नसंध्या रात्रावपि कार्या सा चोपस्थानं विना तस्य सौरत्वात् ।

"कुर्वीताऽऽवर्तनीं संध्यां रात्रावपि न दुष्यति ।
दद्यादर्घ्यं तु गायत्र्या सौर[७५]मात्रं तु वर्जयेत्" ॥

 इति स्मृतिरत्नावल्याद्युक्तेश्च[७६]

 संध्यायामन्यथाकरणे स्मार्तप्रायश्चित्तकुतूहले संवर्तः--

"स्वरमात्राविहीनं तु पदाक्षरविवर्जितम् ।
न्यूनाधिकं वा कृत्वा तु आभिर्गीर्भिरितीरयेत्" इति ॥

अथ क्रमप्राप्तत्वादादौ मध्याह्नसंध्योपासनप्रयोगः ।

 शुचौ देशे दर्भानास्तीर्य तूष्णीमेव तेषु प्राङ्मुख उपविश्य कुशपाणिर्गायत्र्यास्त्रिभिः पादैरापो हि ष्ठादिभिस्त्रिभिर्मन्त्रैर्वा तूष्णीं वा त्रिराचम्य सोदकेन दक्षिणेन पाणिना त्रिर्द्विर्वोष्ठावलोमकौ परिमृज्य द्विः सकृद्वोष्ठावुपस्पृश्य सव्यं पाणिं पादौ शिरश्च प्रोक्ष्य चक्षुषी नासिके श्रोत्रे चाऽऽलभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं पूर्ववत्त्रिराचम्य द्विरोष्ठौ परिमृज्य सदुपस्पृश्य सव्यं पाणिं पादौ प्रोक्ष्य शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं वा द्विवारमाचम्य,--

 प्रणवस्य परब्रह्म ऋषिः । अग्निर्देवता गायत्री छन्दः । सप्तानां व्याहृतीनां याज्ञिक्यो देवता उपनिषद ऋ[७७]षयः । अग्निर्वायुः सूर्यो बृहस्पतिर्वरुण इन्द्रो विश्वे देवा इति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति क्रमेण च्छन्दांसि । गायत्र्या अग्निर्विश्वामित्रश्चर्षिः सविता देवता गायत्री छन्दः, शिरोमन्त्रस्य याज्ञिक्यो देवता उपनिषद ऋ[७८]षयः । अबादयो देवता यजुश्छन्दः सर्वेषां प्राणायामे विनियोगः--"ॐ भूः, ॐ भुवः, ॐ सुवः,० भूर्भुवः सुवरोम्" इति ब्रह्मविष्णुशिवान्क्रमेण ध्यायन्पूरककुम्भकरेचकक्रमेण त्रिरभ्यसेत् ।

 अथवा कुम्भकेनैव त्रिरभ्यसेत् ।

 ॐ तद्ब्रह्मेत्यस्य पुरोर्नम इत्यन्तस्य याज्ञिक्यो देवता उपनिषदो ब्रह्मयजुः प्राणायामे विनियोगः-- "ॐ तद्ब्रह्म । ॐ तद्वायुः० ॐ तत्पुरोनमः" इत्येतेन वा प्राणायामं कुर्यात् । इति प्राणायामत्रयं कृत्वा संध्यां ध्यायेत् । मध्याह्नसंध्यां युवतिं श्वेतां श्वेतवस्त्रां श्वेतगन्धानुलेपनां त्रिनेत्रां वरशूलपरश्वभयधारिणीं वृषवाहनां रुद्ररूपिणीं सावित्रीं ध्यायामीति सूर्याभेदेन ध्यात्वा देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं मध्याह्नसंध्योपास्तिं करिष्य इति संकल्पं कृत्वा--

 आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । मार्जने विनियोगः-- "ॐ आपो हि ष्ठा० च नः" इति कुशोदकैर्मध्यमानामिकाङ्गुष्ठैर्ऋगन्तेऽर्धर्चान्ते पादान्ते वा मार्जनं कुर्यात् ।

 पादान्ते मार्जनपक्षे "तस्मा अरं गमाम वः" इत्यन्तैः पादैः शिरस्यंसयोश्च प्रतिपादं प्रोक्ष्य, "ॐ यस्य क्षयाय जिन्वथ" "आपो जनयथा च नः" । इति द्वाभ्यां कण्ठाधः प्रोक्षेदिति विशेषः ।

 अथवा-- 'ॐ आपो हि ष्ठा मयोभुवः' शिरसि । 'ता न ऊर्जे दधातन' पादयोः । 'महे रणाय चक्षसे' हृदि । 'यो वः शिवतमो रसः' हृदि । तस्य भाजयतेह नः' पादयोः । 'उशतीरिव मातरः' शिरसि । 'तस्मा अरं गमाम वः' शिरसि । 'यस्य क्षयाय जिन्वथ' हृदि । आपो जनयथा च नः' पादयोः । इति मार्जनक्रमः ।

 तत आपो वा इदमित्यनुवाकस्य याज्ञिक्यो देवता उपनिषद आपो यजुः । सर्वात्मकत्वेनावभिध्याने विनियोगः-- "ॐ आपो वा इद राप ॐ" इति सर्वात्मकत्वेनापोऽभिध्यायेत् ।

 तत आपः पुनन्त्वित्यस्य याज्ञिक्यो देवता उपनिषद ऋषयः । आपः पृथिवी ब्रह्मणस्पतिर्ब्रह्म च देवताऽष्टपदा, अष्टिश्छन्दः । उदक[७९]प्राशने विनियोगः-- "ॐ आपः पुनन्तु पृ० ग्रह स्वाहा" इत्युदकं पिबति ।

 ततो द्विराचम्य पुनर्मार्जनं कुर्यात् । प्रणवस्य परब्रह्मर्षिः । अग्निर्देवता गायत्री छन्दः । व्यस्तसमस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयो देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यश्छन्दांसि । गायत्र्या विश्वामित्र ऋषिः । सविता देवता गायत्री छन्दः । दधिक्राव्ण इत्यस्य विश्वे देवा दधिक्रावाऽनुष्टुप् । आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । यच्चिद्धि त इति मन्त्रत्रयस्य विश्वे देवा ऋषयः । वरुणो देवता प्रथमस्य गायत्री छन्दः । द्वितीयतृतीययोस्त्रिष्टुप् । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः पवमानसुवर्जनादयो लिङ्गोक्ता देवताः । गायत्र्यनुष्टुप्त्रिष्टुबिति च्छन्दांसि । व्यस्तसमस्तव्याहृतीनां पूर्ववत्पुनर्ऋष्याद्युक्त्वा द्रुपदेत्यस्य विश्वे देवा आपोऽनुष्टुप् । सर्वेषां मार्जने विनियोगः । ओमिति प्रणवान्ते मार्जयित्वा व्याहृत्यन्ते द्वितीयं मार्जनं कृत्वा गायत्र्यन्ते तृतीयमवशिष्टमन्त्रान्ते चतुर्थमिति मार्जयेत् । प्रतिमन्त्रं मार्जनमिति केचित् ।

 ततो गोकर्णवत्कृते दक्षिणे हस्ते जलमादाय तत्र श्वासं त्यजन्नासिकाग्रे पापपुरुषं स्मरन्,

 द्रुपदेत्यस्य विश्वे देवा आपोऽनुष्टुप् । पापपुरुषोत्सारणे विनियोगः-- "ॐ द्रुपदादिव० तु मैनसः" इत्यनेन पापपुरुषमुत्सार्य तज्जलमनवलोकयन्स्वस्य वामभागे भूमावेव क्षिपेत् ।

 तत उत्थाय सूर्याभिमुख आदित्यं रुद्ररूपां सावित्र्यभिधां संध्यां चाभेदेनाभिध्यायन्हस्ताभ्यां जलमादाय,

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । गायत्र्या विश्वामित्रः सविता गायत्री । जलाभिमन्त्रणे विनियोगः-- "ॐ भूर्भुवः सुवः । ॐ तत्सवितुर्वरेण्यं० चोदयात्" इति तज्जलमभिमन्त्र्य दक्षिणनासापुटेन तत्राऽऽदित्यमण्डलस्थं तेजः समागतं विभाव्य व्याहृतीनां गायत्र्याश्चर्ष्यादि[८०]कं पूर्ववत्स्मृत्वाऽर्घ्यदाने विनियोग इति विनियोगं च स्मृत्वा समस्तव्याहृतिसहितां गायत्रीं संततामुक्त्वा सवित्रे सावित्र्या इदमर्घ्यं न ममेति सूर्याभिमुख ऊर्ध्वं जलमञ्जलिनोत्क्षिपञ्जलेऽर्घ्यं दद्यात् ।

 षोडशाक्षरस्य शिरोमन्त्रस्य याज्ञिक्यो देवता उपनिषदोऽवादयो यजुः । रक्षोपहननार्थं क्षिप्तस्य ज्योतिषः पुनः स्वस्थाने स्थापने विनियोगः-- "ओमापो ज्यो० सुवरोम्" इति तत्तेजो वामनासापुटेनाऽऽकृष्य स्वस्थान आगतं विभावयेत् ।

 एवं पुनर्जलग्रहणादि ज्योतिषः स्वस्थानस्थापनान्तं द्विवारं कृत्वाऽऽत्मानं प्रदक्षिणीकुर्वन्नसावादित्यो ब्रह्मेत्यात्मानं परिषिच्याऽऽसीनो[८१]ऽप उपस्पृशेत् ।

 तत उपविश्य द्विराचम्य प्राणानायम्यापः स्पृष्ट्वा--

 "ॐ अपक्रामन्तु भूता० समारभे" इति भूतान्युत्सार्य दर्भैरुदकेनाऽऽसनदेशं प्रोक्ष्य तत्र दर्भाद्यासनमास्तीर्य--

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । पृथ्वीत्यस्य मन्त्रस्य मेरुपृष्ठ[८२] ऋषिः कूर्मपृष्ठं देवता सुतलं छन्दः । आसनोपवेशने विनियोगः[८३]-- "ॐ भूर्भुवः सुवः" "ॐ पृथ्वि त्वया धृता लोका० त्वं च० चाऽऽसनम्" इत्यासन उपविश्य पूर्ववत्प्राणायामत्रयं कृत्वा--

 समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । आत्माभ्युक्षणे विनियोगः-- "ॐ भूर्भुवः सुवः' इत्यात्मानमभ्युक्षेत् ।

अथ न्यासः ।

 तत्सवितुर्हृदयाय नमः, हृदये । वरेण्यं शिरसे स्वाहा शिरसि । भर्गो देवस्य शिखायै वषट्, शिखायाम् । धीमहि कवचाय हुम्, उरसि । धियो यो नो नेत्रत्रयाय वौषट्, नेत्रभ्रूमध्येषु । प्रचोदयादस्त्राय फट्, करतलास्फोटनेनास्त्रं प्राच्यादिदशदिक्षु । अयं च न्यासः कृताकृतः ।

 आयात्वित्यनुवाकस्थमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋषयः[८४] । सूर्याभिन्ना रुद्ररूपिणी सावित्र्यभिधा संध्या देवता । प्रथमद्वितीययोरनुष्टुप् । सर्ववर्ण इत्यस्य द्विपदा गायत्री । ओजोऽसीत्यस्य श्रियमावाहयामीत्यन्तस्य यजुः । आवाहने विनियोगः--"आयातु वरदा देवी अ० श्रियमावाहयामि" । इत्येतैरावाह्य--

 प्रणवस्य परब्रह्मर्षिः । अग्निर्देवता, गायत्री छन्दः । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । जपे विनियोगः--गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय रुद्रः शिखा पृथिवी कुक्षिः पञ्चशीर्षोपनयने विनियोगः, इत्यृष्यादि स्मृत्वा मौनी चापल्यरहितोऽभाषमाणो नासाग्रदृष्टिरुन्नतगात्र एकाग्रचित्तः, देवस्य स्वप्रकाशस्य सवितुः श्रीसूर्यस्य वरेण्यं वरणीयं भर्गस्तेजो धीमहि ध्यायेम यो नो धियोऽस्माकं बुद्धीः प्रचोदयात्स्वरूपे प्रेरयतीत्यर्थं मनस्यनुसंदधदुपांश्वष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिर्वा(तिं वा) यथाशक्त्युपनयनोपदिष्टतृतीयपाठधर्मेण जपं कुर्यात् ।

 जपसमाप्तौ पुनः षडङ्गन्यासान्कुर्यात् ।

"मध्यसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन रुद्रात्मा प्रीयतां रविः" इति जपं निवेदयेत् ।

 सह[८५]स्रादौ शतपदस्थाने सहस्र(स्रा)[ दि] पदम्[८६] । ततो[८७] द्विः सकृ[८८]द्वाऽऽचम्य प्राणानायम्य--

 उद्वयमित्यस्याग्निर्विश्वे देवा वा सूर्योऽनुष्टुप् । उदु त्यमित्यस्य सोमः सूर्यो गायत्री । चित्रं देवानामित्यस्य सोमो विश्वे देवा वा सूर्यस्त्रिष्टुप् । तच्चक्षुर्देव हितमित्यस्य सोमः सूर्यो गायत्री । य उदगादित्यस्य सोमः सूर्यस्त्रिष्टुप् । ह सः शुचिषदित्यस्य विश्वे देवा अग्निर्वा सूर्यो जगती । सूर्योपस्थाने विनियोगः--"ॐ उद्वयं तम०" "ॐ उद् त्यं जात" "चित्रं देवाना०" "तच्चक्षुर्दे०" "य उदगा०" "ह सः शुचिप०" इत्येतैरूर्ध्वबाहुरादित्यमुपतिष्ठते ।

 उत्तमे शिखर इत्यनुवाकमन्त्रयोर्याज्ञिक्यो देवता उपनिषद ऋ[८९]षयः सूर्याभिन्ना रुद्ररूपिणी सावित्र्यभिधा संध्या देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य त्रिष्टुप् । घृणिः सूर्य आदित्य इत्यनुवाकमन्त्रयोर्याज्ञिक्यो देवता उपनिषद ऋ[९०]षयो रुद्ररूपसावित्र्यभिधसंध्याभिन्नः सूर्यो देवता । प्रथमस्य गायत्री द्वितीयस्य यजुः । संध्याविसर्जने विनियोगः-- "उत्तमे शिखरे० ब्रह्मलोकम्" "घृणिः सूर्य आदि० रोम्" ।

 इति संध्यां विसर्जयेत् ।

 अन्तश्चरति भूतेष्वित्यादिमन्त्रद्वयस्य याज्ञिक्य उपनिषद ऋ[९१]षयः । आत्मा देवता प्रथमस्य द्विपदा गायत्री, द्वितीयस्य यजुः । आत्मोपस्थाने विनियोगः-- "ॐ अन्तश्चर० रोम्" इत्यात्मानमुपतिष्ठते ।

 ततः संध्यायै नमः । गुरुभ्यो नमः । मातापितृभ्यां नमः । इत्यभिवाद्य सकृदेव पूर्ववदाचम्य प्राणानायम्य विष्णुं [९२]स्मरेत् ।

इति मध्याह्नसंध्या ।

अथ सायंसंध्या ।

 पूर्ववदाचमनप्राणायामौ कृत्वा सायंसंध्यां वृद्धां कृ[९३]ष्णां कृष्णवस्त्रां कृष्ण गन्धानुलेपनां शङ्खचक्रगदापद्मधरां गरुडवाहनां विष्णुरूपिणीं सरस्वतीं ध्यायामीति सूर्याभेदेन ध्यात्वा देशकालसंकीर्तनाद्यबभिध्यानान्तं कृत्वा-- अग्निश्च मेत्यनुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋषयः । अग्निर्मन्युर्मन्युपतयोऽहश्च देवताः । रक्षन्तामित्यन्तो मन्त्रो गायत्री दुरितं मयीत्यन्तः पङ्क्तिः । अवशिष्टमन्त्रो विराट् । एकं यजुर्वा । उदकपाने विनियोगः-- "ॐ अग्निश्च मा० यदह्ना० सत्ये ज्योतिषि जुहोमि स्वाहा" इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगायत्र्याद्यैर्मार्जयित्वा पाप्मानमुत्सार्य प्रत्यङ्मुख उपविश्यैव सूर्याभेदेन सरस्वत्यभिधां संध्यां ध्यायन्नर्घ्यत्रयं भूमावेव पूर्ववद्दद्यात् । तत्र सवित्रे सरस्वत्या इदमर्घ्यं न ममेत्यर्घ्यदानवाक्ये विशेषः ।

 ततः पूर्ववत्प्रदक्षिणीकृत्याऽऽचमनप्राणायामौ कृत्वाऽपक्रामत्वित्यादिविधिना प्रत्यङ्मुखो गायत्रीजपं कृत्वा पूर्ववदुत्तरन्यासं कुर्यात् । तत्राऽऽयात्वित्यनुवाकमन्त्रेषु सूर्याभिन्ना विष्णुरूपिणी सरस्वत्यभिधा संध्या देवतेति देवतावाक्ये विशेषः । ऋषिच्छन्दोविनियोगवाक्यानि तु समानान्येव । विसर्जनवाक्येऽपीयं देवता ज्ञेया । शेषं पूर्ववत् ।

 ततः--

"सायंसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन विष्ण्वात्मा प्रीयतां रविः"

 इति जपं निवेद्य संध्याविसर्जनं विधायोपस्थानं कुर्यात् ।

 तद्यथा-- इमं मे वरुण तत्त्वा यामीति द्वयोर्विश्वे देवा ऋषयः । वरुणो देवता । प्रथमस्य गायत्री द्वितीयस्य त्रिष्टुप् । यच्चिद्धि त इति मन्त्रत्रयस्य विश्वे देवा ऋषयः । वरुणो देवता । प्रथमस्य गायत्री द्वितीयतृतीययोस्त्रिष्टुप् । आदित्योपस्थाने विनियोगः-- "ॐ इमं मे वरु० " "तत्त्वा यामि०" "यच्चिद्धि ते०" यत्किं चेदं" "कितवासो०" इत्यादित्यं प्रत्यङ्मुख उपस्थाय--

"यां सदा सर्वभूतानि स्थावराणि चराणि च ।
सायं प्रातर्नमस्यन्ति सा मा संध्याऽभिरक्षत्वों नमः" ॥

 इति संध्यामुपस्थाय--

 नमः प्राच्यै दिश इत्यादिमन्त्राणां स्वयंभूर्ऋषिः । प्राच्यादिदिशस्तत्तद्दिक्पतयस्तत्तद्दिग्वासिदेवताश्च देवताः । नमो गङ्गायमुनयोरित्यस्य गङ्गायमुनान्तरवासिनो मुनयो देवता यजूंषि । उपस्थाने विनियोगः--"ॐ नमः प्राच्यै दिशे याश्च दे० भ्यश्च नमः" । इति प्राचीं दिशं तदधिपतिं तद्वासिदेवांश्चोपस्थाय--  "नमो दक्षिणायै दिशे" इत्याद्यैस्तत्तन्मन्त्रैस्तत्तदुपस्थानं कुर्यात् । अवान्तरदिगाद्युपस्थानमन्त्रस्य चतुर्वारमावृत्तिः सकृदेव वा । नमो गङ्गायमुनयोरित्येतेन मुनीन्प्राङ्मुख उपतिष्ठेत । केचित्तु प्रतीच्यादिक्रमोऽत्रेत्याहुः । अत्र वा संध्याविसर्जनम् । ततः संध्यायै नम इत्यादि विष्णुस्मरणान्तं कुर्यात् ।

इति सायंसंध्या ।

अथ प्रातःसंध्या ।

 पूर्ववदाचमनप्राणायामौ कृ[९४]त्वा प्रातःसंध्यां कुमारीं रक्तां रक्तवस्त्रां रक्तमाल्यां रक्तगन्धानुलेपनां पुस्तकाक्षकमण्डल्वजिनकरां हंसवाहनां ब्रह्मरूपिणीं गायत्रीं ध्यायामीति सूर्याभेदेन ध्यात्वा देशकालसंकीर्तनाद्यवभिध्यानान्तं कृत्वा--

 सूर्यश्चेत्यनुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषद ऋ[९५]षयः सूर्यो मन्युर्मन्युपतयो रात्रिश्च देवताः । रक्षन्तामित्यन्तस्य गायत्री, दुरितं मयीत्यन्तस्य, पङ्क्तिः । अवशिष्टमन्त्रस्य विराट् । एकं यजुर्वा । उदकपाने विनियोगः-- "ॐ सूर्यश्च मा० यद्रात्रिया पापम० रात्रिस्तद० सूर्ये ज्योतिषि जुहोमि स्वाहा" इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगायत्र्याद्यैर्मार्जयित्वा पापपुरुषमुत्सार्य तिष्ठन्प्राङ्मुखः सूर्याभेदेन गायत्र्यभिधां संध्यां ध्यायन्नञ्जलिनाऽर्घ्यत्रयं जलमध्य एव दद्यात् । तत्र सवित्रे गायत्र्या इदमर्घ्यं न ममेत्यर्घ्यदानवाक्ये विशेषः ।

 ततः प्रदक्षिणादि न्यासान्तं कुर्यात् । तत्राऽऽयात्वित्यनुवाकमन्त्रेषु सूर्याभिन्ना ब्रह्मरूपिणी गायत्र्यभिधा संध्या देवतेति देवतावाक्ये विशेषः । ऋषिच्छन्दोविनियोगवाक्यानि तु समानान्येव ।

 ततः--

"प्रातःसंध्याप्रयुक्तेन गायत्रीजपनेन च ।
अध्यष्टशतजप्येन ब्रह्मात्मा प्रीयतां रविः" ॥

 इति जपं निवेद्य संध्यां विसृज्य मुकुलितकर आदित्यमुपतिष्ठते--

 मित्रस्य चर्षणीधृत इत्यादिमन्त्रत्रयस्य विश्वे देवा ऋषयो मित्रो देवता । प्रथमस्य गायत्री, द्वितीयतृतीययोस्त्रिष्टुप् । आदित्योपस्थाने विनियोगः-- "ॐ मित्रस्य०" "मित्रो जना०" "प्रसमित्र" इत्यादित्यमुपस्थाय यां सदेति संध्यामुपस्थाय नमः प्राच्यै दिश इत्यादि विष्णुस्मरणान्तं सायंसंध्यावत्कुर्यात् ।

इति प्रातःसंध्या ।

अथ प्रसङ्गाद्भोजनविधिः ।

 आयुष्कामः प्राङ्मुखः कीर्तिकामो दक्षिणामुखः श्रीकामः प्रत्यङ्मुखो निष्कामः प्राङ्मुखः पित्र्यं विना नोदङ्मुखः कदाचन जीवन्मातृपितृको जीवदन्यतरो वा दक्षिणामुखो नैव कदाचनेत्यभिसंधायोपविश्य समस्तव्याहृतीनां पूर्ववदृष्याद्युक्त्वाऽन्नोपस्थाने विनियोग इति विनियोगमुक्त्वा भूर्भुवः सुवरों तदन्नमाह्रियमाणमुपस्थाय परिविष्टं प्रणवव्याहृतिसहितया गायत्र्याऽभ्युक्ष्य तर्जन्यां रौप्यं धृतं चेन्निष्कास्य वामहस्तेन चतुरश्रमण्डले स्थापितं भोजनपात्रं धृत्वा दक्षिणहस्तेन जलमादाय--

 ऋतं त्वेत्यस्याग्निरन्नं यजुः । अन्नपरिषेचने विनियोगः--"ॐ ऋतं त्वा स० षिञ्चामि" इति सायमन्नं परिषिञ्चति ।

 सत्यं त्वर्तेनेत्यस्याग्निरन्नं यजुः । अन्नपरिषेचने विनियोगः--"ॐ सत्यं त्वर्तेन परिषिञ्चामि" इति प्रातरन्नं परिषिञ्चति ।

 ततो भोजनपात्रस्य दक्षिणतो दशाङ्गुलपरिमितं पञ्चाङ्गुलपरिमितं वा स्थलं त्यक्त्वा, तत्र तूष्णीमभ्युक्ष्यान्नात्किंचिदन्नं गृहीत्वा,

 व्यस्तव्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापत[९६]यः क्रमेण चतसृणां देवताः । गायत्र्युष्णिगनुष्टुब्बृह[९७]त्यः क्रमेण चतसृणां छन्दांसि, बलिनिवपने विनियोगः--"भूः स्वाहा" अग्नय इदं० । पुनरन्नाद्गृहीत्वा--"भुवः स्वाहा" वायव इदं० । पुनर्गृहीत्वा--"सुवः स्वाहा" सूर्यायेदं० । पुनर्गृहीत्वा--"भूर्भुवः सुवः स्वाहाः" प्रजापतय इदं० । इति प्राक्संस्थमुदक्संस्थं वाऽभ्युक्षितप्रदेशे बलीन्निवपति । बलिषु न वा त्यागः । एवं सर्वेषु बलिषु ।

 ततो बलीन्परिषिच्य हस्तं प्रक्षाल्य, अन्न पत इत्यस्याग्निरन्नपतिस्त्रिष्टुप् । अन्नाभिमन्त्रणे विनियोगः-- "ॐ अन्नपतेऽन्नस्य नो० चतुष्पदे" इत्यन्नमभिमन्त्रयते ।  ततो गोकर्णाकृतिना हस्तेन माषपरिमितं जलमादाय-- श्रद्धायां प्राण इत्यादिप्रथमानुवाकमन्त्राणां याज्ञिक्यो देव[९८]ता उपनिषदः प्राणादयो यजुः । आत्मनः परमात्मनि संयुक्तत्वभावने विनियोगः-- "ॐ श्रद्धायां प्राणे नि० श्रद्धायामपाने नि० मृतत्वाय" इत्यात्मानं परमात्मनि संयुक्तं भावयित्वा,

 अमृतोपस्तरणमसीत्यस्य याज्ञिक्यो देवता उपनिषद उदकं यजुः । उदकपाने विनियोगः--"ॐ अमृतोपस्तरणमासि" इति पुरस्तादुदकं पिबति ।

 ततः श्रद्धायां प्राण इति द्वितीयानुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषदः प्राणादयो यजुः । आत्मनि होमे विनियोगः--"ॐ श्रद्धायां प्राणे नि० शिवो मा० प्राणाय स्वाहा" इति तर्जनीमध्यमाङ्गुष्ठैः परिविष्टादन्नाद्धृतप्लुतादेकामाहुतिं मुखे जुहोति ।

 "श्रद्धायामपाने०" इति मध्यमानामिकाङ्गुष्ठैस्तथैव द्वितीयाम् । "श्रद्धायां व्या०" इति कनिष्ठिकानामिकाङ्गुष्ठैस्तथैव तृतीयाम् । "श्रद्धायामु०" इति तर्जनीरहिताभिः साङ्गुष्ठाभिः कनिष्ठातर्जन्यङ्गुष्ठैरेव वा तथैव चतुर्थीम् । "श्रद्धाया समा०" इति सर्वाङ्गुलीभिः पञ्चमीम् । त्यागे विकल्पः । अथवा सर्वा आहुतयो मुक्तकनिष्ठिकेन करेण होतव्याः ।

 ततः प्रजापतिं मनसा ध्यायंस्तूष्णीं सकृद्भूयो जुहुयात् । अयं च होमोऽन्नरसमविजानता दन्तैः स्पर्शमकुर्वता मौनेनैव कर्तव्यः । अत ऊर्ध्वमनियमो मौनस्य । जीवत्पितृकस्य प्राणाहुत्यूर्ध्वं मौनं नास्त्येव । मौनलोपे विष्णुस्मरणम् ।

 ततो भोजनपात्रमाधारोपरि संस्थाप्य दत्तांश्चतुरो बलीन्केनचिन्निष्का[९९]शयित्वा, असंभवे तान्प्रच्छाद्य पादौ भूमौ निधाय वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिर्धृतभोजनपात्रः पञ्चार्द्रो मु[१००]क्तकेशो भुञ्जीयात्[१०१]

 गायत्र्यभ्युक्षितं किंचिदन्नं पात्रे कस्मिंश्चित्प्रदेशे पृथग्निधायान्यदन्नं न गृह्णीयात् । भोजनान्ते तद्भुञ्जीयात् ।

 वामहस्तेनान्नं न स्पृशेत् । न पादौ शिरो बस्तिं च स्पृशेत्[१०२] । पदा भोजन पात्रं न स्पृशेत् । नोच्छिष्टाज्यं गृह्णीयात् । द्रवद्रव्याणि च । न प्रसृताङ्गुलि[१०३]र्भुञ्जीयात् ।

 न फूत्कारसंयुतं [१०४]नाजीर्णी नातिबुभुक्षितो [न] बहु नाऽऽर्द्रवासा नाऽऽर्द्रशिरा न देवतायतने न प्रसारितपादो न वेष्टितशिरा न सशब्दं नोत्सङ्गकृतभाजनो न ग्रासशेषं न बहूनां [१०५]भुञ्जतां त्वरान्वितो न ब्रह्म कीर्तयन्न भार्यया सह न [१०६]भिन्नभाजने न भूम्यां न पाणितले न तैलयन्त्रग्रावोलूखलपेषणयन्त्रशब्देषु जायमानेषु भुञ्जीयात् ।

 यदि भुञ्जीयात्प्राणायामत्रयमष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीजपं[१०७] कुर्यात् । उद्धृतपीतावशेषितमुदकं नैव पिबेत् ।

 यदि पिबेत्तदा चान्द्रायणं चरेत् ।

 प्राणाहुत्युत्तरं दक्षिणभाग उदकपात्रासंस्थापने प्राणायामत्रयमष्टशतं गायत्रीजपश्च ।

 चण्डालपतितरजस्वलावाक्यं शृण्वन्नैकमपि ग्रासं भुञ्जीयात् । यदि भुञ्जीयात्तदैकाहमुपवसेत् ।

 उदकपानकाले भोजनपात्रे मुखाद्यद्युदकं पतेत्तदा तदन्नं न भुञ्जीयात् । यदि भुञ्जीयात्तदा सहस्रं गायत्रीजपं कुर्यात् ।।

 ब्रह्मचारी चेन्माषमुद्गक्षारलवणादिवर्जमन्नं कांस्यव्यतिरिक्ते पात्रे भुञ्जीत ।

 स्मृत्यन्तरे ताम्रपद्मपत्रपलाशेषु यो भोजनविधिः स गृहस्थेतरविषय इति केचित् । श्राद्धपरोऽयं विधिरित्यन्ये । ब्रह्मचारिपरोऽयमिति परे ।

 अत्र पलाशे भोजनविधिर्वल्लीपलाशेतरविषयः । वल्लीपलाशे न भुञ्जीतेति स्मृत्यन्तरे निषेधात् । ताम्रवत्पित्तलेऽपि निर्णयः ।

 वटाश्वत्थार्कपत्रेषु साग्रकदलीपत्रे पलाशमध्य[१०८]मपत्रे करे खर्परके पाषाणे च सर्वेषां भोजनं निषिद्धम् । अनापद्येषु[१०९] भोजने शतवारं गायत्र्या जपः । आपदि दशवारम् ।

 त्र्यहव्रत एव माषमुद्गक्षारलवणादिवर्जनं, तदूर्ध्वं तु विकल्पः ।  जीवत्पितृकस्य प्राणाहुतिपर्यन्तमेव पात्रधारणं न तूर्ध्वम् । सर्वेषामप्येतदिति केचित् । यावद्भोजनं पात्रधारणमजीवत्पितृकाणामिति बहवः ।

 उदकपानकाले दक्षिणहस्तेन पात्रं धारयन्नुद्धृतोदकपात्रं वामहस्तेनाऽऽदाय दक्षिणमणिबन्धे तत्पात्रं संस्पर्श्य वामहस्तेनैव पिबेत् । केचित्तु वामहस्तेन धारयन्दक्षिणेनैव पिबेदिति वदन्ति ।

 ततः सर्वं भुक्तोच्छिष्टमन्नमादाय,--

"रौरवादिनिमग्नानां देहिनामन्नमिच्छताम् ।
तृप्तयेऽन्नमिदं दत्तमक्षय्यमुपतिष्ठतु" ॥

 इत्युच्छिष्टान्न[११०]भाग्भ्य उच्छिष्टमन्नं दत्त्वा,--

"रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु" ॥

 इत्यन्नोपर्युदकं दद्यात् । जीवत्पितृकस्याप्येतदिति केचित् । नेत्यन्ये ।

 ततोऽमृतापिधानमसीत्येतस्य याज्ञि० षद उदकं यजुः । उदकपाने विनियोगः-- "ॐ अमृतापिधानमसि" इत्युदकं पीत्वोत्तिष्ठेत् ।

 एकपङ्क्त्युपविष्टानां मध्ये यदि कश्चन नास्तिक्यात्प्रमादाद्वा भुञ्जानेषु पूर्वमुत्तिष्ठेत्तदा शिष्टं भोजनपात्रस्थमन्नं परित्यजेत् । संकटेऽग्निना भस्मना दर्भेणोदकेन द्वारव्यवधानेन वा पङ्क्तिभेदः कार्यः ।

 भोजनपात्रे यदि लवणं शिष्टं भवेत्तदा तत्पात्रमस्पृशन्वामहस्तेन जलेन प्लावयेत् । यदि न [१११]प्लावयेत्तदा प्राणायामत्रयमष्टोत्तरशतं गायत्रीजपश्च । उत्तरापोशनानन्तरं भोजनपात्रस्पर्शे स्नानं प्राणायामश्च ।

 ततो भोजनपात्रं [११२]निष्काशयित्वा हस्तप्रक्षालनमकुर्वन्नेकवारं गण्डूषमेवाऽऽदौ कृत्वा हस्तौ मुखं च यावल्लेपनिःसरणं तर्जनीरहिताङ्गुलिभिः प्रक्षाल्य लोहितनिःसरणं विना यावद्दन्तलग्नमुच्छिष्टं निर्गच्छति तावन्निष्काश्य षोडशगण्डूषान्कृत्वा मुखं पादौ च प्रक्षाल्य द्विराचम्य भूमिमुपले[११३]पयित्वाऽभावे स्वयं विलिप्य पुनर्हस्तपादप्रक्षालनं कृत्वाऽऽचम्य भूमिं संस्पृश्य द्विराचम्य,

 प्राणानां ग्रन्थिरित्यस्य याज्ञि० षद आत्मा यजुः । हृदयाभिमर्शने विनियोगः-- "ॐ प्राणानां ग्रन्थि० प्यायस्व" ।इति हृदयमभिमृशति ।  ततः पुनराचम्य,

 अङ्गुष्ठमात्रः पुरुष इत्यस्य याज्ञिक्यो देवता उपनिषदः परमात्माऽनुष्टुप् । दक्षिणपादाङ्गुष्ठे दक्षिणपाणिजलनिःस्रावणे विनियोगः--"ॐ अङ्गुष्ठमात्रः पु० भुक्" इति दक्षिणपादाङ्गुष्ठे दक्षिणं पाणिं निःस्रावयति ।

 श्रद्धायां प्राणे निविश्येत्यादिमन्त्राणां याज्ञि[११४]क्य उपनिषद आत्मा यजुः । हुतानुमन्त्रणे विनियोगः-- "ॐ श्रद्धायां प्राणे निविश्यामृत हुतम् । प्राणमन्नेनाऽऽप्यायस्व । श्रद्धायाम० समानमन्नेनाऽऽप्यायस्व" इत्यूर्ध्वहस्तो हुतानुमन्त्रणं कुर्यात् ।

 ब्रह्मणि म इत्यस्य याज्ञि[११५]क्य उपनिषद आत्मा यजुः । स्वस्मिन्नात्मयोजने विनियोगः-- "ॐ ब्रह्मणि म आत्माऽमृतत्वाय" इति स्वस्मिन्नात्मानं योजयेत्[११६] । स्वं हृदयम् ।

 एतावत्कर्तुमशक्तावन्नाभिमन्त्रणान्तं कृत्वा,

 "ॐ अमृतोप० मसि" इत्युदकं पीत्वा,

 "ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा"  इत्येतैरेव मन्त्रैः पूर्ववदाहुतीर्हुत्वा बलिनिष्काशनादि सर्वं पूर्ववत् । भोजनान्तेऽमृतापिधानमसीत्युदकपानमेव नान्यत्समन्त्रकं कर्मजातम् । इत्यशक्तौ विधिः ।

 ततो वाङ्म इत्यादिमन्त्राणां याज्ञि[११७]क्य उपनिषदो वागादयो यजुः । वागाद्यालम्भे विनियोगः---"ॐ वाङ्म आसन्" इति मुखमालभते । "ॐ नसोः प्राणः" इति नासिके युगपत्सकृदेव मन्त्रो द्विवचनलिङ्गात् । "ॐ अक्ष्योश्चक्षुः" इति चक्षुषी तथैव । "ॐ कर्णयोः श्रोत्रम्" इति श्रोत्रे । "ॐ बाह्वोर्बलम्" इति बाहू । 'ऊरुवोरोजः' इत्यूरू[११८] । बाह्वन्तानां दक्षिणहस्तेन क्रमेण । ऊर्वोस्तु वामहस्तेनैव । मुखादीनि यथायथं दक्षिणवामहस्ताभ्याम् । एतेष्वपि द्विवचनलिङ्गात्सकृदेव मन्त्रः । अरिष्टा० इति सर्वाण्यङ्गानि । सकृदेव मन्त्रः ।

 वयः सुपर्णा इत्यस्य याज्ञि[११९]क्य उपनिषदः सुपर्णास्त्रिष्टुप् । चक्षुर्निमार्जने विनियोगः । "ॐ वयः सु० बद्धान्" इति चक्षुषी निमृजीत । अङ्गुष्ठेन दक्षिणमनामिकयोत्तरम् ।

 नमो रुद्रायेत्यस्य याज्ञिक्यो देव० पदो रुद्रविष्णू यजुः । उपस्थाने विनियोगः-- "ॐ नमो रु० पाहि" इति रुद्रविष्णू उपतिष्ठते ।

 त्वमग्ने द्युभिरित्यस्य याज्ञि[१२०]क्य उपनिषदोऽग्निस्त्रिष्टुप् । अन्नपाचनार्थमग्न्युपस्थाने विनियोगः--"ॐ त्वमग्ने द्युभिः शुचिः" इति जाठरमग्निमुपतिष्ठते ।

 शिवेन म इत्यस्य याज्ञि[१२१]क्य उपनिषदोऽग्निस्त्रिष्टुप् । प्रार्थने विनियोगः--"ॐ शिवेन०" इति प्रार्थयेत्[१२२]

 परिवेषणे शाकादीनां स्थानान्याह स्मृतिरत्नाकरे जातूकर्ण्यः--

"शाकादि पुरतः स्थाप्यं भक्ष्यं भोज्यं च वामतः ।
संस्थाप्य ओदनो मध्ये दक्षिणे घृतपायसम् ॥
ओदनस्यापरार्धे तु दद्यादुपरि सूपकम्" इति ।

 सूपकं सूपम् । स्वार्थे कः ।

 बलिदानाकरण[१२३]प्रायश्चित्तमाह जातूकर्ण्यः--

"अकृत्वा यश्चित्रबलिं भुङ्क्ते विप्रस्त्वनापदि ।
प्राणायामत्रयं कृत्वा गायत्र्यष्टशतं जपेत्" इति[१२४]
भोजनादौ बलिं मुक्तं समुद्धार्यैव भोजनम् ।
अनुद्धार्य तु यो भुङ्क्ते प्राणायामाष्टकं चरेत्" इति[१२५]

 समुद्धार्येति णिच्प्रयोगादन्यकर्तृकमुद्धरणम् । न स्वकर्तृकमिति गम्यते ।

 अपोशा(आपोश)नाकरणप्रायश्चित्तमाह संवर्तः[१२६]--

"अपोशा(आपोश)नमकृत्वा तु भुङ्क्ते योऽनापदि द्विजः ।
भुञ्जानस्तु यदा ब्रूयाद्गायत्र्यष्टशतं जपेत्" इति ।

 अष्टशतमष्टोत्तरशतम् ।

 भोजने परस्परं स्पर्शे स्मृतिसारे--

"यदि भोजनकाले तु ब्राह्मणो ब्राह्मणं स्पृशेत् ।
त्यक्त्वा तदन्नमुत्थाय प्राणायामत्रयं चरेत्" इति ॥

 प्रयोगदर्पणे स्मृत्यन्तरे तु--

"यदि भोजनकाले तु ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायत्र्यष्टशतं जपेत्" इत्युक्तम् ।

 यज्ञोपवीतं विना भोजने लघुहारीतः--

"विना यज्ञोपवीतेन भुङ्क्ते तु ब्राह्मणो यदि ।
स्नानं कृत्वा जपं चैव उपवासेन शुध्यति" इति ।

 जपो गायत्र्याः । इदं च ज्ञानतः ।

 अज्ञानतस्तु--

"ब्रह्मसूत्रं विना भुङ्क्ते ब्राह्मणो यद्यकामतः ।
गायत्र्यष्टसहस्रेण प्राणायामेन शुध्यति" ।

 इति संवर्तोक्तं द्रष्टव्यम् । अष्टसहस्रमष्टोत्तरसहस्रम् ।

 ([१२७]स्मृत्यन्तरे--)

"नीलीक्षेत्रोत्पन्नान्नादिभुक्तौ चान्द्रम् । नीलीं धृत्वा
यदन्नादि दीयते तत्र दातुर्भोक्तुश्च सांतपनम् ।

 यत्तु शङ्खः--

"नीलीवस्त्रं परिधाय भुक्त्वा स्नानार्हको भवेत्" इति ।

 तदज्ञानविषयम् ।

 स्मृत्यन्तरे--

"कम्बले पट्टसूत्रे च नीलीदोषो न विद्यते" इति ।

 स्मृत्यन्तरे--

 भुक्त्वाऽनाचम्योत्थाने सद्यः स्नानम्, अस्थिदूषितान्नभक्षणे घृतप्राशनं, दन्तपाते च, एवं मुखे रक्तादिदुष्टे त्रिरात्रं, दीपोच्छिष्टमभ्यङ्गोच्छिष्टं च तैलं भुक्त्वा नक्तमाचरेत्" इति ।

 भोजनकाले रेतोमूत्रपुरीषोत्सर्गे ब्रह्मपुराणे--

"रेतोमूत्रपुरीषाणामुत्सर्गश्चेत्प्रमादतः ।
तदादौ तु प्रकर्तव्या तेन शुद्धिर्मुदाऽम्बुभिः ।
पश्चादाचम्य तु जले जप्तव्यमघमर्षणम्" इति ।

 एतदनिगीर्णग्रासविषयम् ।  सकृन्निगीर्णग्रासे तु, आपस्तम्बः--

"भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ।
उच्छिष्टमशुचित्वं च प्रायश्चित्तं कथं भवेत् ।
आदौ कृत्वा तु वै शौचं ततः पश्चादुपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ।

 यत्तु शातातपः--

"कृत्वा मूत्रविडुत्सर्गं मोहाद्भुङ्क्तेऽथवा पिबेत् ।
त्रिरात्रं तत्र कुर्वीत प्राणायामत्रयं ततः" इति[१२८]

 तद्भूयो ग्रासाशने । त्रिरात्रमित्यनन्तरमुपोषणमिति शेषः[१२९] । विडुत्सर्गः पुरीषोत्सर्गः ।

 भोजनकालेऽशुचितायां शातातपः--

"अथ भोजनकाले चेदशुचिर्भवति द्विजः ।
भूमौ निक्षिप्य तं ग्रासं स्नात्वा विप्रो विशुध्यति ।
भक्षयित्वा तु तं ग्रासमहोरात्रेण शुध्यति ।
अशित्वा सर्वमन्नं तु त्रिरात्रेण विशुध्यति" इति[१३०]

 ([१३१]एतत्सर्वं प्राणाहुत्युत्तरं ज्ञेयम् ।

 दुष्टान्नाशने ब्रह्मपुराणे--

"भक्ष्यं त्वभक्ष्यवाक्येन(ण) यद्दद्या[१३२]द्रोषधर्मतः ।
गुरोरपि न भोक्तव्यं वाग्दुष्टं तन्महापदि" इति ।

 एतत्प्रायश्चित्तमाह गौतमः, वाग्दुष्टादि प्रक्रम्य--

"छर्दनं घृतप्राशनं च" इति ।

 एतच्चाकामतः ।

 कामतस्तु शङ्खः--

"वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ।
भुक्त्वाऽन्नं तु द्विजः पश्चात्रिरात्रं तु व्रती भवेत्" इति ।

 [१३३]व्रतमत्र यावकम् ।)  संवर्तः--

"केशकीटावपन्नं च नीलीलाक्षोपघाति[१३४]तम् ।
स्नाय्वस्थिचर्मसंसृष्टं भुक्त्वा तूपवसेदहः" इति ।

 इदमापद्यकामतः ।

 अनापदि कामतस्तु शङ्खः--

"दूषितं केशकीटैश्च मार्जारैर्मूषकैस्तथा ।
मक्षिकाचटकैश्चैव त्रिरात्रं तु व्रतं चरेत्" इति ।

 कामतोऽभ्यासे प्रचेताः, दुष्टकीटानुपक्रम्य,--

"एतैः काकादिभिश्चैव यदन्नं दूषितं भवेत् ।
तदन्नं कामतो जग्ध्वा कृच्छ्रं सांतपनं चरेत्" इति ।

 अकामतोऽर्धम् ।

 यत्त्वाह विष्णुः--

"भुक्त्वाऽस्पृश्यं तथाऽऽशौचिकीटकेशैश्च दूषितम् ।
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ॥
शङ्खपुष्पीसुवर्चादिक्वाथं पीत्वा विशुध्यति" इति ।

 तदापद्यशक्तविषयम् ।

 सिद्धान्ने केशकीटादिपाते तु प्रचेताः--

"अन्नं भोजनकाले तु मक्षिकाकेशदूषितम् ।
अनन्तरं [१३५]स्पृशेदापस्तदन्नं भस्मना स्पृशेत्" इति ।

 ब्राह्मेऽपि[१३६]--

"चण्डालपतितामेध्यैः कुनग्वैः कुष्ठि[१३७]भिस्तथा ।
ब्रह्मघ्नसूतिकोदक्याकौलेयककुटुम्बिभिः ।
दु(व्यु)ष्टं वा केशकीटाक्तं मृद्भस्मकनकाम्बुभिः ।
शुद्धमद्यात्सत्दृल्लेखं प्रदुष्टं दुष्टमेव च" इति ।

 कौलेयकः श्वा । कुटुम्बी कीटविशेषः । व्युष्टं पर्युषितम् ।

 यत्तु कीटादिभिः सहैव पक्वं तत्तु वर्जनीयमेवेत्याह हारीतः--

"विशुद्धमपि चाऽऽहारं मक्षिका[१३८]क्रिमिजन्तुभिः ।
केशरोमनखैर्वाऽपि दूषितं परिवर्जयेत्" इति ।

 क्वचिदपवादमाह यमः--

"देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्जयेत् ।
अन्नं तन्मात्रमुद्धृत्य शेषं संस्कारमर्हति ।
घृ[१३९]तस्य प्रोक्षणाच्छुद्धिर्द्रवाणामतितापनात् ।
संस्पर्शाच्च भवेच्छुद्धिरपामग्नेर्घृतस्य च ।
छागेन मुखसंस्पृष्टं शुचि चैव हि तद्भवेत्" इति ।

 संवर्तः--

"शूद्राणां भाजने भुक्त्वा अथवा भिन्नभाजने ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 भिन्नभाजनं कांस्यमेव--

"ताम्ररजतसुवर्णाश्मशङ्ख[१४०]स्फटिकानां भिन्नमभिन्नमपि"

 इति देवलस्मरणात् ।

"भिन्नकांस्ये तु योऽश्नीयान्नद्यां स्नात्वा जपेद्द्विजः ।
गायत्र्यष्टसहस्रं तु एकभुक्तस्तदा शुचिः" इति बौधायनोक्तेश्च ।

 एतच्च ज्ञानतः, संवर्तोक्तं त्वज्ञानविषयम् ।

 यत्तु पराशरः--

"भिन्नभाण्डे तु भुञ्जानो ह्यज्ञानेन द्विजोत्तमः ।
सुवर्णोदकसंस्पृष्टं घृतं प्राश्य विशुध्यति" ॥

 इति संवर्तोक्तिसमानविषयं तदिति द्रष्टव्यम्[१४१]

 [१४२]स्मृत्यर्थसारे परिवेषणे रजोदृष्टौ तत्स्पृष्टान्नस्य त्यागः । एवं चण्डालसूतिका[१४३]दिस्पृ[१४४]ष्टेऽपि ।

 भुञ्जानस्य क्षुते संग्रहे--

"क्षुतं भोजनमध्ये चेज्जायते यस्य कस्यचित् ।
आदित्यं जन्मभूमिं च स्मरेत्प्रोक्षितमस्तकः" इति ।

इति भोजनविधिः ।

अथाग्निकार्यसंज्ञकं समिदभ्याधानमुच्यते ।

 तत्रेदं गृह्यम्--

 "उभौ कालौ साय सायं वा समिधोऽभ्यादधाति पुरस्तात्परिषेचनाद्यथा ह तद्वसवो गौर्यमिति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति यथा पुरस्ताद्व्याहृतिभिः समिधोऽभ्यादधात्येकैकशः समस्ताभिश्चैषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो० स्रजौ स्वाहा । अप्सरासु च० र्जुषता स्वाहा । आ मां मेधा सु० जुषन्ता स्वाहेति तथैव परिमृज्य परिषिञ्चति यथा पुरस्ताद्यत्ते अग्ने तेज इत्येतैरुपति[१४५]ष्ठते मयि मेधां मयि प्रजामिति च" इति ।

 अस्यार्थः--उभौ कालौ सायंप्रातः सायमेव वा समिधोऽभ्यादधाति, आसमावर्तनम् । अहरहः काष्ठकलापमित्यतोऽहरहरित्यनुवर्तनीयम् । अन्यथा सायंसमिदाधानपक्ष एव वीप्साश्रवणादावृत्तिः स्यात् । उभौ कालावित्यस्मिन्पक्षे न स्याद्वीप्साया अश्रवणात् । न चैवं सायमित्यत्र वीप्सावचनं व्यर्थमिति वाच्यम् । सर्वत्र यः प्रथमं प्रक्रान्तः पक्षः स एवाऽऽन्तं कार्य इतिपरिभाषाज्ञापनार्थत्वात् । न च प्रक्रमात्तु नियम्यत इति वचनादेव सिद्धिः । तस्यानुनिर्वाप्यविषयत्वात् ।

 अथवाऽहरहरिति नानुवर्तते । न चैवं सायमित्यत्रैव वीप्साश्रवणादावृत्तिः स्यात् । उभौ कालावित्यस्मिन्कल्पे न स्यात्तस्या अश्रवणादिति वाच्यम् । अनुकल्पपक्षे वीप्सयाऽऽवृत्तौ सिद्धायां कैमुतिकन्यायेन मुख्यकल्पेऽपि तत्सिद्धेः । अस्मिन्व्याख्याने परिगृहीतपक्षः प्रक्रमात्तु नियम्यत इ[१४६]त्येतेनैव सिध्यति ।

 पुरस्तात्परिषेचनाद्यथा ह तद्वसवो गौर्यमित्यनेन मन्त्रेण प्रदक्षिणमग्न्यायतनं सोदकेन पाणिना संमृज्य परिषिञ्चति यथा पुरस्तात्, उपनयनोक्तेन पूर्वपरिषेकप्रकारेणेत्यर्थः । व्याहृतिभिरेकैकश एकैकया व्याहृत्या समस्ताभिश्चेति चतस्रः समिधोऽभ्याधायैषा त इत्याद्यैश्चतुर्भिश्चतस्रः समिधोऽभ्यादधातीत्यष्टौ समिधोऽभ्याधाय तथैव यथा ह तदिति परिमृज्योपनयनोक्तेनोत्तरपरिषेकप्रकारेण परिषिञ्चति ।  ततस्तमग्निं यत्ते अग्न इत्येतैस्त्रिभिर्मन्त्रैरुपतिष्ठते, मयि मेधां मयि प्रजां मय्यग्निरित्येतैस्त्रिभिश्च ।

 पुरस्तात्परिषेचनादिति वचनं सर्वेष्वपि श्रौतेषु दर्विहोमेष्वभ्यन्तरदीक्षायामाधानादौ च परिषेकार्थम् । अग्रे परिषिञ्चतीति वचनं परिमार्जनपरिषेकयोः संबन्धप्रदर्शनार्थम् । तेनानन्तरोक्तेषु कर्मस्वपि परिमार्जनमपि सिध्यति । पुरस्तात्परिषेचनादिति सिद्धवदनुवादादेव परिषेकस्य समन्त्रत्वसिद्धौ यथा पुरस्तादिति वचनमत्रैव समन्त्रं परिषेक इतरत्र तु तूष्णीमित्येतदर्थम् , परिसंख्यानार्थं च । तेनाग्न्यायतनसंस्कारपरिस्तरणानि न विद्यन्ते । पूर्वपरिषेकसंबन्धादेवोत्तरपरिषेके सिद्धे पुनर्वचनं समन्त्रपूर्वपरिषेक एवायमुत्तरपरिषेकः । न त्वमन्त्रकपूर्वपरिषेकेऽपि । तेनैतत्समिदाधानातिरिक्तेषु कर्मसु नोत्तरपरिषेकः ।

 अथवा पुरस्तात्परिषेचनादिति सिद्धवदनुवाद उद्धननादितन्त्रप्राप्त्यर्थः । अग्रे पुनः परिषिञ्चतीति वचनं पूर्वपरिषेकस्यैव पूर्वतन्त्रावधित्वप्रदर्शनार्थम् । उत्तरत्र तथैव परिमृज्य परिषिञ्चति यथा पुरस्तादिति वचनं परिसंख्यानार्थम् । तेनेतरस्योत्तरतन्त्रस्य निवृत्तिः ।

 अथवा पुरस्तात्परिषेचनादिति वचनं परिषेकसदृशान्यधिकरणसंस्कारकाणि कर्माण्यग्न्यायतनसंस्कारपरिस्तरणात्मकान्येवात्र भवन्ति, नान्यानीत्येतदर्थम् । अग्रे परिषिञ्चतीति वचनं परिषेकान्तान्येवाधिकरणसंस्कारकाणि कर्माणि स्युर्नोत्तराणीध्माधानादीनि ता[१४७]दृशानीत्येतदर्थम् । यथा पुरस्तादितिवचनस्य प्रयोजनं तु पूर्ववदेव ।

 परिमार्जने प्रदक्षिणवचनमेकप्रयत्नेनैव परिमार्जनं न तु व्यवच्छेदेन तत्तद्दिक्षु परिमार्जनमिति ज्ञापनार्थम् ।

 एकैकशः समस्ताभिश्चेत्युभयवचनादेवं ज्ञायते, केवलव्याहृतिग्रहणे व्यस्ताः समस्ता वा व्याहृतयः प्रत्येतव्याः । न तु व्यस्ताः समस्ताश्चेति ।

 परिसमुह्य समिध आदध्यात्सायं प्रातर्यथोपदेशं सायमेवाग्निपूजेत्येक इति धर्मसूत्रे वचनं परिषेकनिवृत्त्यर्थम् । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।

 एतच्च प्रातःकालस्यातीतत्वादर्थात्सायमुपक्रम्याऽऽसमावर्तनादहरहरुभयोः कालयोः सायं सायमेव वा कार्यम् ।

 न चोभयत्र क्रियापक्षे द्वितीयदिने प्रातरेवोपक्रमः कर्तव्यो वैश्वदेववदिति वाच्यम् । उपस्थितसायंकालपरित्यागे प्रमाणाभावात्[१४८] । वैश्वदेववत्प्रातरुपक्रमसाधकप्रमाणाभावाच्च । वैश्वदेवे तु ये भूताः प्रचरन्ति दिवानक्तमितिमन्त्रे प्रातःसायंकालवाचकयोर्दिवानक्तपदयोर्मध्ये दिवापदप्रथमोपादानमेव प्रातरुपक्रमे प्रमाणम् । न ह्यत्र तथा प्रमाणं लभ्यते ।

 प्रातःसंध्योत्तरमकृतस्याग्निकार्यस्य यावद्भोजनं गौणकालमाह याज्ञवल्क्यः--

"कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया" इति ।

 अग्निकार्यार्थसमिदाहरणे विशेषो धर्मसूत्रे--

 "सदाऽरण्यादेधानाहृत्याधो निदध्यान्नास्तमिते समिद्धारो गच्छेत्" इति ।

 आत्मनः समिदाधानार्थमेधान्काष्ठानि सदा प्रत्यहमाहरेत् । तान्याहृतान्यधो निदध्यात् । अस्तमित आदित्ये समिध आहर्तुं न गच्छेच्चोरव्याघ्रादिसंभवादिति व्याख्यातमुज्ज्वलाकृता ।

 अन्यश्च विशेषो बैजवापेनोक्तः--

 "पुराऽस्तमयात्प्रागुदीचीं दिशं गत्वाऽहिंसन्नरण्यात्समिध आहरेच्छुष्का ब्रह्मवर्चसकामस्याऽऽर्द्रा अन्नाद्यकामस्योभयीरुभयकामस्य" इति ।

 अहिंसन्नच्छिन्दन् । अभावे छिन्दन्नपीति ज्ञेयम् ।

 समिन्नियमो वायवीये--

"पालाश्यः समिधः कार्याः खादिर्यस्तदलाभतः ।
शमीरोहितकाश्वत्थास्तदभावेऽकवेतसौ" इति ॥

 रोहितको वटावान्तरजातिः । रोहितो वर्णोऽस्यास्तीति मत्वर्थीयोऽच् स्वार्थे कन् । रोहीतक इति दीर्घकारवानप्येतदर्थक एव ।

 समिल्लक्षणं कात्यायन आह--

"नाङ्गुष्ठादधिका कार्या समित्स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥
प्रादेशान्नाधिका नोना तथा नैव द्विशाखिका ।
न सपर्णा न निर्वीर्या होमेषु च विजानता" इति ॥

 प्रादेशान्नाधिका नोनेति सूत्रोक्तसमित्कार्यविषये न प्रवर्तते, तत्र तत्र  सूत्रोक्तस्य समिद्विषये प्रादेशमात्रत्वस्य वैयर्थ्यापत्तेः । शास्त्रान्तरोक्तसमिद्विषये तु विकल्पो वेति द्रष्टव्यम् ।

अथ प्रयोगः ।

 उक्तरीत्या सायंसंध्यां विधायाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं सायमग्निकार्यं करिष्य इति संकल्प्याग्निं समिध्य प्रज्वाल्य ध्यायेत् ।

 उपनयनसमष्ट्युत्तरभावीन्यग्निकार्याणि तु श्रोत्रियागारादाहृते लौकिकेऽग्नावेव कार्याणि ।

 उपनयनाग्निरेव विवाहाग्निरिति पक्षे तु तत्रैवाग्निकार्यम् । विवाहहोमोऽपि तत्रैव । अग्नावौपासनत्वसिद्धिद्वारेत्यस्य लोप इति विशेषः[१४९] । तत्राग्निकार्येऽग्न्यायतनसंस्कारपरिस्तरणयोर्विकल्पः ।

 उल्लेखनावोक्षणोत्सेचनकरणपक्ष आयतनं प्रकल्प्य तत्र लौकिकाग्नेः स्थापनं कृत्वा तत्र समिदाधानं कार्यम् ।

 ततो यथा ह तद्वसव इत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । परिसमूहने विनियोगः-- "ॐ यथा ह तद्व० आयुः" इति सोदकेन पाणिनाऽग्निं प्रदक्षिणं परिसमूहेत् ।

 ततोऽदित इत्यादिभिः परिषेकं कृत्वा स्वयमेव पुराऽस्तमयात्प्रागुदीचीमसंभवे यां कांचन दिशं गत्वा स्वयमेव च्छित्त्वा, अशक्तावन्येन च्छेदयित्वा वाऽऽहृता अध एव स्थापिता अष्टौ पलाशसमिधो गृहीत्वा शुद्धोदकेन प्रोक्ष्य व्य[१५०]स्तव्याहृतीनामग्निर्ऋषिः समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापत[१५१]यः क्रमेण चतसृणां देवताः । गायत्र्युष्णिगनुष्टुब्बृह[१५२]त्यः क्रमेण चतसृणां छन्दांसि । समिदभ्याधाने विनियोगः-- "ॐ भूः, ॐ भुवः, ॐ सुवः," "ॐ भूर्भुवः सुवः" इति चतसृभिश्चतस्रः समिधोऽभ्यादधाति । जुहोतिचोदनाभावान्न स्वाहाकारः ।

 केचित्तु स्वाहाकारमपीच्छन्ति । अस्मिन्पक्षे--अग्नय इदं० वायव इदं० सूर्यायेदं० प्रजापतय इदं० इति त्यागाः ।

 'ॐ एषा ते अग्ने० महि स्वाहा' अग्नय इदं० । "ॐ मेधां म इन्द्रो० स्रजौ स्वाहा" "इन्द्राय सरस्वत्या अश्विभ्यां चेदं० । 'ॐ अप्सरासु च या० न्मनः । दैवीं० षता स्वाहा' मेधाया इदं ।

 आ मां मेधा सुरभिरित्यस्य याज्ञिक्य उपनिषदो मेधा त्रिष्टुप् , समिदभ्याधाने विनियोगः--"ॐ आ मां मेधा जुषन्ता स्वाहा" मेधाया इदं० ।

 इत्येतैश्चतुर्भिश्चतस्रोऽभ्यादधाति । एतेषु स्वाहाकारः सूत्रकृता पठितत्वात् ।

 ततः पूर्ववत्परिसमुह्यादितेऽन्वम स्था इत्येतैरुत्तरपरिषेकं कृत्वा परिस्तरणसत्त्वे तानि विसृज्य--

 यत्ते अग्ने तेज इत्यादिमन्त्रत्रयस्याग्निर्द्विपदा गायत्र्यः । मयि मेधामि[१५३]त्यादिमन्त्रत्रयस्याग्निर्द्विपदा गायत्र्यः । उपस्थाने विनियोगः--"ॐ यत्ते अग्ने तेज० यासम्" "यत्ते अग्नेवर्चस्ते०" "यत्ते अग्ने हरस्ते०" "मयि मे० य्यग्निस्तेजो०" "मयि मेधां० मयीन्द्र इन्द्रियं दधातु" "मयि मेधां० मयि सूर्यो भ्रा०" इत्येतैरग्निमुपतिष्ठते । अन्त्ययोर्मयि मेधामिति मन्त्रयोरैन्द्रीन्यायेन विनियोगः ।

 ततो भस्म धृत्वाऽग्निं संपूज्य श्रद्धां मेधामित्यग्निं संप्रार्थ्य प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

 एवं प्रातरुक्तरीत्या प्रातःसंध्यां विधाय सायमग्निकार्यवत्प्रातरग्निकार्यं कुर्यात् । तत्र प्रातरग्निकार्यं करिष्य इति संकल्पवाक्ये विशेषः ।

इत्यग्निकार्यम् ।

 तत उक्तप्रकारेण स्वसंनिहितानां पितृमात्रादीनामुपसंग्रहणमभिवादनं च कार्यम् । तत्राभिवादनं प्रत्यभिवादनज्ञानामेव कार्यं तदनभिज्ञानां तु नमस्क्रियामात्रम् । सभायज्ञशालादेवतायतनेषु सर्वान्युगपदेव नमस्कुर्यात् । न प्रत्येकम् । उन्मत्तमशुचिं धावन्तं जृम्भमाणं वमन्तं दन्तान्धावयन्तमभ्यक्तशिरसं स्नानं कुर्वन्तं जपन्तं यज्ञादिकर्मव्यासक्तं जलस्थं समित्पुष्पकुशादीन्वहन्तं पाषण्डं[१५४] षण्ढं शठं महापातकिनं नास्तिकं व्रात्यं पतितं कितवं कृतघ्नं च नाभिवादयेत् । न च नमस्कुर्यात् । प्रमादात्करणे त्वष्टोत्तरशतं गायत्रीजपः प्राणायामत्रयं च । क्षत्रियवैश्याभिवादने दशाष्टौ वा ब्राह्मणानभिवाद्य विशुध्यति । शूद्राभिवादने सचैलं स्नानं कृत्वा शतं ब्राह्मणानभिवाद्य विशु ध्यति । सभायज्ञशालाराजगृहेषु नमस्कारमात्रं नाभिवादनम् । उदक्यासूतिकाभर्तृघ्नीगर्भघातिन्यो नाभिवाद्याः । एतासामभिवादन उपवासः । स्वयं युवा चेत्तदा युवतीनां गुरुपत्नीनां भुव्यभिवादनं कुर्यात् । ऋत्विजां मान्यत्वेऽप्यधिकवयस एवाभिवाद्याः । एवं श्वशुरमातुलपितृव्यादयोऽपि । एतेषां कनीयसां तु परितोषार्थमाभिमुख्यमभिभाषणं च । तच्चाभिभाषणं ब्राह्मणं प्रति कुशलशब्देन । क्षत्रियं प्रत्यनामयशब्देन । वैश्यं प्रति क्षेमशब्देन । शूद्रं प्रत्यारोग्यशब्देन । स्वस्मात्कनिष्ठानां ब्राह्मणानां क्षत्रियादीनां च स्वस्त्यस्त्वित्याशीर्देया । प्रत्यभिवादनं शूद्रं प्रत्यपि कार्यम् "प्रत्यभिवादेऽशूद्रे" इति पाणिनिसू[१५५]त्रीयपर्युदासात् । देवताप्रतिमायास्त्रिदण्डियतेश्च दर्शने नमस्कारं न कुर्याच्चेत्तदैकरात्रमुपोषणम् । संध्यान्ते तु शिष्यं पुत्रं दौहित्रं दुहितुः पतिं च विना सर्वान्कनीयसोऽप्यभिवादयेदेवेति । एतन्मूलमाकरे स्पष्टम् ।

अथ प्रसङ्गादुपनयनाग्निनाशप्रायश्चित्तमुच्यते ।

 आचार्यो देशकालौ संकीर्त्योपयनाग्न्यनुगमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनादिनाऽऽयतनसंस्कारं विधाय मथितं श्रोत्रियागारादाहृतं लौकिकाग्निं वा तत्र प्रतिष्ठाप्य प्रज्वाल्य परिस्तीर्य तूष्णीं परिमृज्य परिषिच्यालंकृत्य प्रातरग्निनाश आसायमुपवसेत् । सायमग्निनाश आप्रातरुपवसेत् ।

 तत आज्यं संस्कृत्य समिधमभ्याधाय सर्वप्रायश्चित्तं हुत्वाऽनाज्ञातादि जपेत् । समिदभ्याधानात्प्रागग्नेरनुगमन उपवासान्ते सर्वप्रायश्चित्तं हुत्वाऽनाज्ञातादिजपं कृत्वाऽन्तरितं समिदभ्याधानं कालप्राप्तं च तन्त्रेणैव कुर्यात् । समिदभ्याधानोत्तरमनुगमने तु कालप्राप्तमेव । उपवासासामर्थ्ये तु--अयाश्चाग्न इत्येकामाज्याहुतिं जुहुयात् ।

 तत्राऽऽपूर्विकतन्त्रेण प्रयोगः । देशकालौ संकीर्त्याग्न्यनुगमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनाद्यग्निप्रतिष्ठापनान्तं कृत्वा चत्वारि शृङ्गेति ध्यायेत् । अत्र विण्नामाऽग्निः ।

 ततः समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोपनयनाग्न्यनुगमनप्रायश्चित्तकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । अयासम[१५६]ग्निमेकयाऽऽज्याहुत्या यक्ष्ये । एतां देवतां सद्यो यक्ष्य इत्युक्त्वाऽन्वाधानसमिधोऽग्नावादध्यात् । न वाऽन्वाधानम् ।  ततोऽग्निं परिस्तीर्य दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमेकां समिधं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं संमृज्याऽऽज्यं संस्कृत्याग्नेः पश्चाद्दर्भेष्वाज्यं दर्वीं च निधायाग्निं मन्त्रैः परिषिच्यालंकृत्य दर्व्याऽऽज्यमादाय, 'ॐ अयाश्चाग्नेऽस्य० भेषज स्वाहा' इत्येकामाहुतिं जुहुयात् । अयसेऽग्नय इदं० ।

 ततः परिस्तरणानि विसृज्य सर्वप्रायश्चित्तं हुत्वोत्तरपरिषेकं कुर्यात् । अस्मिन्पक्षे समिदाधानात्प्रागग्न्यनुगमनेऽपि प्रायश्चित्तहोमानन्तरमेव समिदभ्याधानं कार्यम् । अथवा सर्वप्रायश्चित्तमात्रमत्र नोपवासो नायाश्चाग्न इत्याहुतिः ।

इत्यग्निनाशप्रायश्चित्तम् ।

अथ चतुर्थदिवसीयोपनयनाङ्गानि ।

 आचार्यः प्रातः कृतनित्यक्रियः कृतप्रातःसंध्याग्निकार्योपसंग्रहणाभिवादनेन ब्रह्मचारिणा सह प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य त्रिवृदन्नहोमं वास्तुपतये बलिदानं च पूर्ववत्कृत्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा श्रद्धामेधे प्रीयतामिति वदेत् ।

 ततो ब्रह्मचार्याचम्य प्राणानायम्य व्रतविसर्गार्थं देवतोपस्थानं पूर्ववत्कुर्यात् । तत्र 'तच्छकेयं तन्मे राध्यताम्' इत्येतस्य स्थाने 'तदशकं तन्मेऽराधि' इतिमन्त्रसंनामः । ततस्त्र्यहव्रतं विसृजेत् ।

 तत आचार्यः स्थापितदेवतानां तत्रैव पञ्चोपचारैः पूजनं विधाय तद्वंशपात्रं स्वयं गृहीत्वा गृहीताविघ्नगणपकलशया भार्यया ब्रह्मचारिणा च सह वेदिसमीपमागत्य वेद्यामुपविश्य गणपतिमभ्यर्च्य षोडशोपचारैरावाहितदेवताः पूजयेत् । तत्राभिषेककाले नीराजनतैलाभ्यङ्गसुगन्धिद्रव्यसमर्पणोष्णोदकस्नानादि पूर्ववत् ।

 तत आवाहितदेवताविसर्गोत्तरं पूर्ववन्मही द्यौरित्यादिविधिना पुण्याहादिवाचनं विदध्यात् । तत्रास्य मण्डपोद्वासनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिवाक्यप्रयोगः । श्रद्धामेधे प्रीयेतामिति देवतानिर्देशः ।

 ततः समुद्रज्येष्ठा इत्यभिषेकान्ते कुलपूज्योऽन्यो वा कश्चन मान्यस्ताः शाखा उन्मुच्य तत्सूत्रं कलशवेष्टनसूत्रं च क्षीराभ्यक्तं कृत्वाऽक्षतपूगीफलयुक्तं तत्कर्तृहस्ते दद्यात् । स च भार्यायै तत्सूत्रं प्रदर्श्य वस्त्रादिधनपेटिकायां संस्थापयेत् ।

 ततोऽग्निं विसृज्य ताः शाखास्तत्स्नानजलं च गृहस्योपरि शुद्धदेशे निक्षिप्याङ्गणवितानस्येशानकोणे विमोचनं कुर्यात् । मुख्यमण्डपसत्त्वे तु देवतापूजनमावाहनक्रमेण तत्र तत्र गत्वा कार्यम् ।

 ततो यथासंभवं ब्राह्मणभोजनं कृत्वा नानानामगोत्रेभ्यो ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं भूयसीं दक्षिणां दत्त्वोपनयनकर्मणः साङ्गतासिद्ध्यर्थं कुलमान्यायान्यस्मै वा मान्याय गां तत्प्रतिनिधिभूतं द्रव्यं वा दद्यात् । ततो विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।

 ततो ब्रह्मचारी गुरुकुले वसेद्गुरोरनुकूलां सेवां च कुर्यात् । प्रागुक्तानि गृह्योक्तानि धर्मोक्तानि च व्रतानि यथाशक्त्याचरेत् । लौकिकाग्नावग्निकार्यं कुर्याद्यावत्समावर्तनम् ।

 यदि मोटनाचारश्चेत्सोऽपि कार्यः । तच्च मोटनमुक्तं मेरुतत्रे--

"अथ मोटनकं वक्ष्ये देवाविर्भावकारणम् ।
पाकक्रिया प्रकर्तव्या चतुर्भक्ष्यसमन्विता ॥
भार्यया साधकेन्द्रस्य पातिव्रत्यादियुक्तया ।
अप्रसूताः स्त्रियः पञ्च आहूय सकुमारिकाः ॥
अलंकृताः पवित्रास्ता एकपङ्क्त्योपवेशयेत् ।
तत्राऽऽदौ विघ्नपस्थानमन्ने तु बटुकस्य च ॥

 चकारात्कुलदेवतायाः ।

ताः संपूज्य महापात्रे पवित्रे तत्र चार्पयेत् ।
क्रमाद्द्विगुणमानेन मध्वाज्ये च सितादधि ॥
दुग्धं च निक्षिपेत्तत्र नैवेद्यं तत्र निक्षिपेत् ।
कुमारिकाया हस्तेन मन्थयेयुः स्त्रियश्च तत् ॥
स्त्रीभिस्तस्मिन्मथ्यमाने देवावेशः प्रजायते ।
देवावेशे जायमाने सुगन्धो वाति मारुतः ॥
सर्वं मनोगतं वक्ति देवताऽऽशु प्रसीदति ।
सिध्यन्ति सर्वकार्याणि मोटनानां शतेन च ॥
नखैर्भवेद्विवाहस्तु पञ्चाशद्भिः सुतस्तथा ।

 नखैर्विशैरित्यर्थः । पञ्चाशद्भिः सुतलाभ इत्यर्थः ।

अशीत्या गतराज्याप्तिर्विशत्या लभते धनम् ॥
अष्टोत्तरशतेनापि असाध्येन तु मेलयेत् ।
कौमारिका चेष्टदेवं कौमार्या ईरितो विधिः" इति ।

 अष्टोत्तरशतसंख्यैर्मोटनैरसाध्येन कार्येणापि मेलयेत् । असाध्यमपि कार्यं साधयेदित्यर्थः । ([१५७]अष्टोत्तरशतेनाष्टोत्तरशतसंख्यमोटनैः साधकेनाभीष्टदेवं मेलयेत् । साधकस्याभीष्टदेवो भवेदित्यर्थो वा । कौमारिका चाष्टोत्तरशतमोटनानि कुर्यात् । उत्तमपतिलाभार्थमिति शेषः । कौमारी योगेश्वरी तत्संबन्ध्येवायं विधिरित्यर्थः । अथवा कौमार्याः कुमार्येव कौमारी कुमारीप्रधानोऽयमीरितो विधिरित्यर्थः । कुमारीं विनाऽयं विधिर्नैव भवतीति तात्पर्यार्थः । ) कौमारिका चेष्टदेवमुद्दिश्योत्तमपतिलाभार्थमिमं विधिं कुर्यात् । अयं विधिः कौमार्या एवेरितः, कुमारिकां विना विधिर्न भवतीत्यर्थः । कौमारी योगेश्वरी तन्माहात्म्ये तस्यास्तथैव वर्णितत्वात् । तदुद्देशेनायं विधिर्भवतीत्यप्यर्थः । एवमन्येष्वपि संस्कारेष्वाचारश्चेत्कार्यम् ।

इति संस्काररत्नमालायामुपनयनप्रकरणम् ।

इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां चतुर्थं प्रकरणम् ॥ ४ ॥

  1. ग. घ. ङ. यमोक्तेः ।
  2. घ. ङ. ज्योतिर्निबन्धे ।
  3. ग. यौ सोम ।
  4. क. ख. व्रतादिषु ।
  5. ख. ग. माश्लेषाः ।
  6. क. घ. धनिष्ठाः ।
  7. घ. द. अविद्व ।
  8. क. स्तदाऽतेन ।
  9. क. स. त गोदाना ।
  10. क. जप्यम ।
  11. घ. वेदीं ।
  12. क. ख. पस्य वि ।
  13. क. ख. त्तस्य च सू ।
  14. ग. वेदि (:) कायं (र्या) च ।
  15. क. ख. क्त्या पू ।
  16. क. ख. द्वारे वाम ।
  17. ग. वतीति वचनैर्नैर्ऋत्यां ।
  18. क. ति । के ।
  19. ख. ति । उ । घ. ङ. ति । रा ।
  20. पर्वोक्तार्थसमर्थनार्थ केवलमित्यादिर्ग्रन्थः ।
  21. क. ति । उप ।
  22. घ. ङ. य. । बोधा ।
  23. ख. ल्पः । द ।
  24. घ. द. धी बोधा ।
  25. ग. सुस्थिरं ।
  26. क. तदा ।
  27. क. आयुष्यं ।
  28. क. ख. ग. र्पासवा ।
  29. क.ख. शास्त्रान्तरे ।
  30. न्नैव हो ।
  31. घ. श्राद्धोत्तर ।
  32. क. ग. आगन्ता ।
  33. क. चरिता ।
  34. क. ख. यनं ब्रह्मचारी न ।
  35. घ. ङ. आयुर्धा ।
  36. क. र्भानवज्वलनदर्भानिध्मं बर्हिराज्यं ।
  37. ग. घ ङ. त्यागः ।
  38. ख. ग. घ. ड. त्यागः ।
  39. ग. न्त्रयेत् । त ।
  40. घ. यं पञ्चाशद्वयं प ।
  41. ख.ग. घ. ङ. ति योगया ।
  42. ख. ग. घ. ङ. पर्शु चाभीतिमेव च । वृ ।
  43. ग. रमेवेत्य ।
  44. ग. तत्र ।
  45. घ. ङ. दानमङ्गमि ।
  46. घ. ङ. त् । अर्घ्य ।
  47. ग. घ. क्षिप्रं ।
  48. ग. म्बले । वं ।
  49. घ. ङ. णाशनी ।
  50. घ. ङ. ति । बोधा ।
  51. घ. ङ. रो बोधा ।
  52. क. ख.षे तु गा ।
  53. क. ङ. पेत्तं ना ।
  54. घ. द्वयप ।
  55. क. त्तरः" इति । एतेषां लक्षणानि तत्राभिहितानि । य ।
  56. क. तः । धि ।
  57. क. म्यं विश्वामित्रेणोक्त ।
  58. धनुश्चिह्नान्तर्गतं क. पुस्तक एव ।
  59. घ. ङ. बोधायनः ।
  60. नाभेरधस्तु संस्पर्शमिति क. पुस्तके शोधितः पाठः ।
  61. घ. ङ. चङ्क्राम ।
  62. घ. ङ. नाशनी ।
  63. घ. ङ. बोधायनः ।
  64. घ. ङ. ति । बोधा ।
  65. ग. घ. ङ. दशव ।
  66. घ. ड. त् । बोधा ।
  67. ग. घ. ङ. तिष्ठते । ए ।
  68. क. क्षिणम् ।
  69. क. संघत्वा ।
  70. ग. कीर्तिश्च ब्र ।
  71. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  72. धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।
  73. क. म् । य ।
  74. क. त् । मध्या ।
  75. क. ख. रमन्त्रं तु ।
  76. क. श्च । अं ।
  77. क. ग. घ. ङ. ऋषिः ।
  78. ग. घ. ङ. ऋषिः ।
  79. क. कपाने ।
  80. क. दि पू ।
  81. ग. घ. ङ. नोऽपः स्पृ ।
  82. क. ख. ष्टमृषिः ।
  83. ख. ग. घ. ड. गः– पृ ।
  84. ग. घ. ङ. ऋषिः ।
  85. क. हस्रजपे श ।
  86. क. म् । दशवारं जपे "अनेन दशजप्येन रुद्रात्मा प्रीयतां रविः" इत्यूहः । त ।
  87. घ. ङ. तो द्विजः सकृदाच ।
  88. ग. कृदाच ।
  89. ग. घ. ङ. ऋषिः
  90. ग घ. ङ. ऋषिः, रु ।
  91. ग. घ. ङ. ऋषिः ।
  92. ग. घ. ङ. संस्मरेत् ।
  93. घ. ङ. कृष्णवस्त्रां ।
  94. ग. घ. ङ. विधाय ।
  95. ग. घ. ङ. ऋषिः ।
  96. ग. घ. द. तयो दे ।
  97. ग. घ. ङ. हत्यदछन्दा ।
  98. क. ख. वताः प्रा ।
  99. निष्काश्येति युक्तः पाठः ।
  100. ग. घ. ङ. विमुक्तशिखो ।
  101. क. ख. त् । वाम ।
  102. क. ख. त् । न प्र ।
  103. क. ख. लिभिर्भु ।
  104. ख. नाजीर्णे ना । ग. घ. ङ. नाजीर्णा ।
  105. भुञ्जानानामित्यात्मनेपदपाठो युक्तः ।
  106. क. न्न कांस्यभा
  107. क. पं च कु ।
  108. क. ख. ग. ध्यप ।
  109. ग. घ. ङ. षु भुञ्जानो गायत्रीं शतवारं जपेत् । आ ।
  110. ग. घ. ङ. भाग्भ्योऽन्नं ।
  111. ग. घ. ङ. येत्प्राणा ।
  112. अत्र निष्काश्येति पाठो युक्तः ।
  113. उपलेप्येति पाठो युक्तः ।
  114. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  115. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  116. क. त् । ए ।
  117. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  118. ख. रू । श्रोत्रादिषु द्वाभ्यां हस्ताभ्यां सहैव । एते ।
  119. ग. घ. ड. ज्ञिक्यो देवता उ।
  120. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  121. ग. घ. ङ. ज्ञिक्यो देवता उ ।
  122. क. ख. त् । बलि ।
  123. अस्मादनन्तरं बल्युद्धरणाकरणेत्यधिकं पठितव्यं तथा सति भोजनादावित्यादिगम्यत इत्यन्तो ग्रन्थः संगच्छते । स ग्रन्थोऽधिक इत्येव वा बोध्यम् ।
  124. क. स. ति । अ ।
  125. क. ख. ति । आपो ।
  126. ख. र्तः । आपो ।
  127. धनुश्चिह्नान्तर्गतो ग्रन्थः क. ग. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  128. ख. ग. घ. ङ. ति । त्रि ।
  129. ख. ग. घ. ङ. षः । एतद्भूयो ग्रासाशने । वि ।
  130. ख. ति । दु ।
  131. धनुश्चिह्नान्तर्गतो ग्रन्थो घ. ङ पुस्तकयोर्नास्ति ।
  132. क. द्याद्दोष ।
  133. एतत्प्रभृति भोजनविधिसमाप्तिपर्यन्तो ग्रन्थो नास्ति ख. पुस्तके ।
  134. क. तिनम् ।
  135. सर्वपुस्तकेषु दीर्घपाठः स चाऽऽर्षः ।
  136. घ. ङ. पि--चाण्डा ।
  137. घ. ङ. ष्ठिना तथा ।
  138. घ. ङ. काकृमि ।
  139. घ. ङ. घृतानां ।
  140. क. ङ्खस्फाटि ।
  141. अस्मात्पुरतो घ. ङ. पुस्तकयोरनुपदं धनुश्चिह्नमध्ये संगृहीतो ग्रन्थो वर्तते ।
  142. एतत्पङ्क्तिद्वयं क. पुस्तके भुञ्जानस्येत्यादिमस्तक इतीत्यन्तग्रन्थात्पुरतो वर्तते ।
  143. क. ख. कास्पृ ।
  144. ग. घ. ङ. स्पृष्टे । भु ।
  145. घ. ङ. तिष्ठेते ।
  146. घ. ङ. इत्यनेनै ।
  147. तानि । सदृ ।
  148. ख. त् । वैश्वदेवे । घ. ङ. त् । प्रात ।
  149. क. षः । अग्नि ।
  150. घ. ड. व्यस्तानां व्या ।
  151. घ. ङ. तयो दे ।
  152. घ. ङ. हन्नाश्छन्दां ।
  153. क. मिति म ।
  154. ख. ग. घ. ङ. ण्डं श ।
  155. घ. ङ. सूत्रात् ।
  156. ग. घ. ङ. ग्निमाज्या ।
  157. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. घ. ङ. पुस्तकेषु नास्ति ।