हत्यः क्रमेण च्छन्दांसि । समावर्तनवैशेषिकप्रधानाज्यहोमे विनियोगः । इति स्मृत्वा ताभिश्चतस्र आज्याहुतीर्जुहुयात् ।
ततः ॐ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुष स्वाहा । अग्नय इदं० । इति प्रधानाहुतीर्हुत्वा, इमं मे वरुणेत्यादित्रिवृदन्नहोमं पुण्याहवाचनान्तं कृत्वा प्रजापतिः प्रीयतामिति वदेत् । अत्रात्रेतिवचनं विद्याव्रतस्नानविद्यास्त्रानयोर्जयादयो वैकल्पिका एव स्युः । व्रतमात्रस्नाने तु नित्या एवेत्येतदर्थम् ।
ततोऽग्ने व्रतपते व्रतमचारिषमित्यादीनां चतुर्णां मन्त्राणां विश्वे देवा ऋषयः । अग्निवायुसूर्यव्रतपतयः क्रमेण देवताः । यजूंषि । उपस्थाने विनियोगः । ॐ अग्ने व्रतपते व्रतमचारिषं० राधि' इत्यग्निमुपतिष्ठते । 'ॐ वायो व्रतप०' इति वायुम् । 'ॐ आदित्य व्रत०' इत्यादित्यम् । 'ॐ व्रतानां व्रत०' इति व्रतपतिम् । इति चतुर्भिर्मन्त्रैर्मन्त्रोक्ता देवता उपस्थायोपनयने स्वीकृतानां ब्रह्मचर्याश्रमविहितव्रतानामुत्सर्गं कुर्यात् ।
उदु त्यं चित्रमिति द्वयोः सोम ऋषिः । आदित्यो देवता । प्रथमस्य गायत्री । द्वितीयस्य त्रिष्टुप् । आदित्योपस्थाने विनियोगः । ॐ उदु त्यं जातवेदसं० सूर्यम्' 'ॐ चित्रं देवानामुदगादनीकं० स्तस्थुषश्च' इति द्वाभ्यामादित्यमुपतिष्ठते । उदुत्तमं वरुण पाशमस्म० च्छ्रथायेतिमन्त्रस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । उत्तरीयवासोनिधाने विनियोगः । ॐ उद्त्तमं वरुण पाशमस्म० च्छ्रथाय' [ इति ] उत्तरीयं वासो निदधाति ।
ततोऽन्येनाहतेन महता वाससा शरीरं प्रावृत्य द्विराचम्यावाधममित्यस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । अन्तरीयवासोनिधाने विनियोगः । ॐ अवाधमं वरुण पाशमस्म० च्छ्रथाय' [ इति ] अन्तरीयं वासो निदधाति । अन्तरीयं वासो नामाधरीयं कौपीनाच्छादनं वासः । विमध्यममित्यस्य वामदेवो विश्वे देवा वा वरुण एकपदा स्वराड्जगती । मेखलानिधाने विनियोगः । ॐ विमध्यमं वरुणपाशमस्म० च्छ्रथाय' [ इति ] मेखलां विस्रस्य निदधाति । अथा वयमादित्येत्यस्य वामदेवो विश्वे देवा वा वरुणो द्विपदा त्रिष्टुप् । दण्डनिधाने विनियोगः । 'ॐ अथा वयमा० स्याम' [ इति ] दण्डं निदधाति ।
ततोऽजिनवासोमेखलादण्डानप्सु तूष्णीं प्रास्यान्तरीयंवासोर्थिने ब्रह्मचारिणे दद्यात् ।