काशकृत्स्न-धातुपाठः/तनादिगणः (७)

विकिस्रोतः तः
← रुधादिगणः(६) काशकृत्स्न--धातुपाठः
तनादिगणः (७)
[[लेखकः :|]]
क्र्यादिगणः (८) →

176
अथ तनादि--गणः
[ उ--विकरणः]
१. तनु विस्तारे--वर्णने विस्तारे । तनादेरुविकरणः--तनु--प्रभृतिभ्यो धातुभ्य 'उ' विकरणो भवति सार्वधातुके परतः। तनोति, तनुते--सविस्तरं ब्रवीति । तन्वन् , तन्वानः, तन्तः, तन्तवान् , तन्ता--पञ्च, विस्तारके। तनयः--पुत्रः । तन्वी--कन्या। तनुः, तनूः--द्वौ शरीरे । तान्--सः (?) । तानम् , रागभेदः । तानकम्--शस्त्रविद्याभेदः। तन्तिः, तन्त्री--द्वौ तारे। तन्तुः--सूत्रम् । तन्तुवायः--उर्णनाभिः, वस्त्रवायकः ( जुलाहा)। ततम्--तारवाद्यम् । विततम्--चर्मवाद्यम् । तान्तम्--चर्मवाद्यम् , एकान्तम् । ततिः--ऋतुकालः । तातः--पिता । तनिः--दुग्धस्नानम् । तनकम्--अवधिः । तननम् , तननीयम् , तन्यम् , तान्यम् , तन्तव्यम्--पञ्च विस्तरे। तत् , सः, सा--परोक्षवाचकाः । सन्तानः--कल्पवृक्षः । सन्तानम् , सन्ततिः--द्वावपत्ये । तन्त्रम्--आगमशास्त्रम् ।
२. णनु शङ्कायाम्1--विचारे । ननोति, ननुते--विचारयति । ननः, नन्तः, नन्तवान् , नन्ता, नान्--पञ्च विचारके । नाना--कुड्मलम् । ननु--प्रश्नार्थकोऽव्ययः । नानु:--कण्ठाभरणम् । नन्यम् , नान्यम् , नन्तिः, नन्तम् , नन्तव्यम् , नननम् , नननीयम् , ननकम् , नानकम् , नानम्--दश विचारणे ।
३. णीनु संबोधने--आमुखीभावे । नीनोति, नीनुते--अभिमुखं करोति । नीन्तः, नीन्तवान् , नीनः, नीन् , नीनुः, नीन्ता--षट् अभिमुखं कर्तरि । नीननम् , नीननीयम् , नीन्तव्यम् , नीन्यम् , नीन्तम् , नीन्तिः--षड् अभिखीकरणे ।
४. णूनु निश्चये--नूनोति, नूनुते--निश्चिनोति । नून्तः, नून्तवान् , नूनकः, नून्ता--चत्वारो निश्चेतरि । नूनम् , नूननम् , नूननीयम् , नून्तम् , नून्तिः, नून्तव्यम् , नून्यम् , नौन्यम्--अष्टौ निश्चये । नूना--तैलम् ।
५. षणु दाने--सनोति, सनुते--ददाति । सन्तः, सन्तवान् , सन्ता--त्रयो दातरि । सनकः, सनातनः, सनत्कुमारः, सनत्सजातः--चत्वारो ब्रह्मणो मानस--

टिप्पणी


१. इत आरभ्य त्रीणि धातुसूत्राणि कातन्त्रे अन्येषु च तन्त्रेषु नोपलभ्यन्ते ।

177
पुत्रेषु । सन्तम् , सन्तिः, सननम् , सननीयम् , सन्यम् , सान्यम् , सन्तव्यम् , सनम् , सनी, सनुम् , सानम्--एकादश दानक्रियायाम् । सानुः--उपत्यका1 ('तराई' इति भाषायाम् ) । सानी--माता ।
६. क्षणु क्षिणु हिंसायाम्--क्षणोति क्षणुते--हिनस्ति । क्षणिकः--घातकः । क्षणः--कालभेदः। क्षिणोति2 क्षिणुते--ताडयति । क्षिणकः--ताडकः । क्षिणम्--ताडनम् ।
७. ऋणु दुर्गतौ--दुर्गत्याम् । ऋणोति, ऋणुते--दुर्गच्छति । ऋणः--ऋणी । ऋणम्--अधमर्णाय प्रत्तं धनम् ।
८. तृणु अदने--तृणोति, तृणुते--अत्ति । तृणकः--अत्ता । तृणम्--घासः ।
९. घृणु3 दीप्तौ--प्रकाशे । घृणोति, घृणुते--प्रकाशते । घृणकः--प्रकाशकः घृणः--प्रकाशः । घृणा--करुणा । घृणः--क्रिमी ।
१०. चिणु शब्दे4--ध्वनौ। चिणोति, चिणुते--ध्वनिं करोति । चिणकः--ध्वनिता । चिण् , चिणी, चिणम्--शब्दः ।
११. छिणु वीणारवे--वीणाशब्दे । छिणुति, छिणुते--वीणाशब्दयति । छिणन् , छिणानः, छिणकः--त्रयो वीणावादके । छिण् , छिणनम् , छिणनीयम् , छिणु, छिणि--पञ्च वीणानादे।
१२, घिणु छिङ्गध्वनौ5--घिणोति घिणुते--छिङ्गध्वनिं करोति । घिणकः-- छिङ्गध्वनिकर्ता । घिण् , घिणः, घेणः--त्रयश्छिङ्गध्वनौ ।।
१३. घणु घण्टानादे----घणोति, घणुते--घण्टानाद इव ध्वनयति । घणन् , घणानः, घणकः--त्रयो घण्टानादकर्तरि ।
१४. डुकृञ् करणे--करोति कुरुते--करति6 । कुर्वन् , कुर्वाणः, कर्ता--त्रयः

टिप्पणी


१. सानुः--पर्वतशृङ्गम् ।।
२. इत आरभ्य चतुर्षु धातुषु गुणाभावं न सहन्ते पाणिनीयाः। अत्र माधवीया धातुवृत्तिरप्यवलोकनीया।
३. 'घृण' इति कर्नाटकलिप्यां मुद्रितेऽपपाठः, पूर्वोत्तरयोरुकारानुबन्धानां निर्देशात् । कातन्त्रेऽपि 'घृणु' इत्येव पाठः।
४. इत आरभ्य आकरोतेश्चत्वारो धातवः कातन्त्रपाठे अन्यपाठेषु च नोपलभ्यन्ते ।
५. पूर्वोत्तरयोर्ध्वात्वोरर्थनिर्देशादिह छिङ्गशब्दः कस्यचिद् वाद्यस्य शब्दविशेषकर्तुर्द्रव्यस्य वा वाचकः स्यात् ।
६. कृञ् धातुर्भौवादिकोऽपि । द्रष्टव्यमिह क्षीरतरङ्गिणी १।६३९; तत्रस्था चास्माकीना टिप्पणी ( पृष्ठ १३०, अस्मत्संस्करणे)।

178
कारके । करी--हस्ती । करिणी, करेणुः--द्वौ हस्तिन्याम् । करः--हस्तम् , रश्मिः । कारुः, कारी, कारकः--त्रयः कर्तरि । करणम्--साधनम् । कारणम्--हेतुः । कृतिः--कर्म । कृतम्--समाप्तम् । कृत्यम्--कर्म । कार्यम्--प्रयोजनम् । कारितम्--निष्पादितं कर्म। कर्मन्--कर्तुः कर्म । आकारणा--आह्वानम् । आकारितम्--आहुतम् । आकृतिः, आकारः--द्वावाकारे । संस्कृतम्--सुरभारती । प्राकृतम्--सुरस्त्रीणां भाषा ।
१५. वनु याचने--वनोति वनुते--याचते । वन्वन् , वन्वानः, वन्ता, वनकः--चत्वारो याचके । वननम् , वननीयम् , वन्तव्यम् , वन्तम् , वन्तिः--पञ्च भिक्षणे । वनम्--जलम्1, अरण्यम् । वन्यम्--आरण्यं फलम् । वानम्--वर्षा । वनी--यानादिः । वानरः--कपिः।
१६. मनु अवबोधने--ज्ञाने । मनोति मनुते--जानाति । मन्वन् , मन्वानः, मन्ता, मनकः, मन्तः, मन्तवान्--षट् ज्ञातरि । मनुः--एतन्नामा पुरुषः, मन्त्रः । मन्त्रः--जपः । मन्त्री2--विचारकः । आमन्त्रणम् , आमन्त्रणीयम्--द्वौ अभिमुखीकरणे ।
१७. यनु उद्धारे3-------- यनोति यनुते--उद्धरति । यन्वन् , यन्वानः, यनकः, यन्ता--चत्वार उद्धारके। यन्त्रम्4--उद्धरणम् । यन्त्रणम्--प्रेरणा । यानम्--वाहनम् ।
१८. अनु धारणे----सहने । अनोति अनुते--सहते । अन्वन् अन्वानः, अनकः, अन्ता--चत्वारः सहनकर्तरि । अन्त्रम्--उदरावयवः ('आंत' इति भाषायाम् )।
१९. कनु5 शोभायाम--प्रकाशे। कनोति कनुते--प्रकाशते । कन्वन् ,

टिप्पणी


१. अयं वैदिकोऽर्थः (निघ० १।१२)। वनस्पतिशब्दे सकारान्तो वनस्शब्दोऽपि जलनामा द्रष्टव्यः।
२. मन्त्रः, मन्त्री, आमन्त्रणम् , आमन्त्रणीयम् , एते शब्दा मत्रि गुप्तभाषणे इति चौरादिकस्येति पाणिनीयाः ।
३. इत आरभ्य आगणान्ता धातवः कातन्त्रे अन्यपाठेषु च न पठ्यन्ते ।
४. यन्त्रम् , यन्त्रणम् एते द्वे यत्रि संकोचे इत्यस्य चौरादिकस्येति पाणिनीयाः ।
५. एतस्मादपि धातोः कन्याशब्दः, तदर्थकः कनीनाशब्दश्च ज्ञेयः । कनीनाया एवापत्यम् कानीनः । कनीनाशब्दोऽनार्येषु ईरानादिदेशवासिषु प्रयुक्त आसीत् , यथा कम्बोजवासिषु शवशब्दः (द्र० निरु० २।२॥ महा० पस्पशाह्निकम् ) । अत एव पाणिनिना कानीनशब्दसाधुत्वप्रदर्शनाय 'कनीना'शब्दनिर्देशप्रसङ्गे कन्याशब्दो निर्दिष्टः, तस्य च कनीनादेशो विहितः (द्र० कन्यायाः कनीन च । अष्टा० ४।१।११६ ) । अत्रास्मदीयः 'सं०व्या० शास्त्र का इतिहास' नामा ग्रन्थो द्रष्टव्यः (भाग १, पृष्ठ ११, द्वि० सं)। अत्र पूर्वत्र २८ पृष्ठस्था द्वितीया टिप्पण्यपि द्रष्टव्या ।

179
कन्वानः, कन्ता, कन्तः, कन्तवान्--पञ्च प्रकाशके। कनकम्--सुवर्णम् । कन्तुः--अवधिः । कन्तिः--प्रकाशिका । कननम् , कननीयम् , कन्त्रम् , कन्यम् , कान्यम् , कानम् , कनम्--सप्त प्रकाशे ।

[इति उ--विकरणस्तनादिः समाप्तः ]