लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८३
← अध्यायः ०८२ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः ८३ [[लेखकः :|]] |
अध्यायः ०८४ → |
श्रीकृष्ण उवाच-
एवं राधे नृपतिः स जयध्वजः सुवैष्णवः ।
द्रोणैलानीलश्रीशैलान् चतुरोऽपि निजालये ।। १ ।।
सुसत्कृत्यासनाद्यैः संचकार स्वागतं परम् ।
ददौ भोज्यानि रम्याणि पेयान्येभ्यो विधान्यपि ।। २ ।।
भोग्यानि चोपकरणप्रासादिकजलानि च ।
श्रीहरेः पूजनवस्तून्यपि ददौ जयध्वजः ।। ३ ।।
पर्वतास्ते कृतकृत्याः पप्रच्छुस्तं जयध्वजम् ।
कथं पापानि नश्यन्ति तीर्यते प्रकृतिः कथम् ।। ४ ।।
कथं पाप्यभियोगेऽपि निर्लेपत्वं भवेत् सदा ।
केषां समागमान्मुक्तिः कस्माच्छान्तिश्च शाश्वती ।। ५ ।।
कः स्वार्थः कः परार्थश्च का प्रवृत्तिः शुभावहा ।
जडता दिव्यता वापि प्राप्यते केन कर्मणा ।। ६ ।।
भवानास्ते महाराज सर्वज्ञ इव भक्तराट् ।
अनादिश्रीकृष्णनारायणानुग्रहलेशतः ।। ७ ।।
तस्मान्नो वद परमं श्रेयो येनापि लभ्यते ।
श्रुत्वा जयध्वजः प्राह ममारण्ये महर्षयः ।। ८ ।।
वसन्ति बहवो दिव्या ये विज्ञानसमृद्धयः ।
तेषां नित्यं दर्शनार्थं प्रयामि ज्ञानलब्धये ।। ९ ।।
तेभ्यः श्रुतं मया यद्यत् कथाप्रसंगलाभतः ।
लक्ष्मीनारायणसंहितायाः कथाश्रवेऽपि च । । १० ।।
आत्मनाऽप्यनुभूतं च कथयामि निबोधत ।
तीर्थे पापानि नश्यन्ति तीर्थं स्थिरं च जङ्गमम् ।। ११ ।।
तारयित्वा वासनाख्यसागरात् शरणागतम् ।
प्रस्थापयति धामाऽपि परमं पारमेश्वरम् ।। १ २ ।।
तीर्थं तत् सर्वथा बोध्यं जडं वा चेतनात्मकम् ।
जडं जलानि चैत्यानि वस्तूनि भौतिकानि च ।। १३ ।।
निर्गुणानि च दिव्यानि दिव्ययोगाद्भवन्ति हि ।
पापिनस्तारयन्त्येव तीर्थानि तानि सर्वथा ।। १४।।
आत्मा तीर्थं महत् प्रोक्तं कृष्णस्तीर्थोत्तमोत्तमम् ।
अनादिश्रीकृष्णनारायणस्तीर्थं परोत्तमम् ।। १५।।
तस्य तीर्थस्य योगेन भक्तास्तीर्थस्वरूपिणः ।
भवन्ति तारकाः सर्वे सन्तः साध्व्यश्च योगिनः ।। १ ६।।
ब्रह्मशीला गृहशीला वनशीला विरागिणः ।
न्यासशीला ध्यानशीलाः कृष्णतीर्था हि ते मताः ।। १७ ।।
कृष्णदास्यः कृष्णभक्तास्तथा कृष्णस्य पार्षदाः ।
कृष्णसम्बन्धमाप्ताश्च तीर्था जडाश्च चेतनाः ।। १८ ।।
कृष्णगुणाढ्यपुरुषः सती कृष्णकृपामयी ।
पशुः पक्षी वृक्षलताः कृष्णयोगा हि तारका ।। १ ९।।
वाटिका ग्रामशालाश्च धर्मशालाः सरित्तटाः ।
सरस्तटा वनस्थल्यः शैलाः अरण्यभूमयः ।। 2.83.२० ।।
स्थावरा जंगमाश्चापि तीर्थास्ते कृष्णयोगिनः ।
ग्रामः पुरी पत्तनं च नगरं घोष इत्यपि ।। २१ ।।
पल्ल्यश्चावसथाश्चापि यत्र कृष्णो विराजते ।
तत् सर्वं तीर्थमेवेति तारकं दिव्यतां गतम् ।। २२।।
यत्स्पृष्टं हरिणा साक्षात् तत् तीर्थं तारकं भवेत् ।
यथा हरिस्तथा तस्य सन्तस्तीर्थानि सन्ति हि ।। २३ ।।
सन्तारयन्ति सततं जनान् ज्ञानप्रदानकैः ।
अज्ञान नाशयित्वा च समर्पयन्ति दिव्यताम् ।। २४।।
कामं क्रोधं च लोभं च मदं मानं च मत्सरम् ।
तृष्णां च वासनां नाशयित्वा कुर्वन्ति शोधनम् । । २५ ।।
तद्योगात्तीर्यते माया सत्सु नौषु स्थितैर्जनैः ।
सन्तो भवन्ति चक्षूंषि सन्तो दीपा भवन्ति च ।। २६ ।।
सन्तो नौकाश्चार्णवस्था दावस्था अमृतस्थलाः ।
विषोल्बणेषु वै सन्तो विषघ्नाः क्ष्वेडहारिणः ।।२७।।
हालाहलाब्धिसंसारे नीलकण्ठा हि साधवः ।
महारोगाब्धिसंसारे धन्वन्तरिस्वरूपिणः ।।२८।।
विषयानलदग्धानां सन्तो मानसवृष्टयः ।
वासनाजालबद्धानां कर्तनीरूपिणो हि ते ।। २९।।
सन्तस्तीर्थं परं तीर्थं परमात्मविनिर्मितम् ।
यत्र नारायणः साक्षान्मूर्तिमान् वर्तते सदा ।। 2.83.३०।।
हर्यर्थं यैश्च गार्हस्थ्यं त्यक्तं त्यक्तं च सर्वशः ।
बन्धनं श्रीहरौ बद्धास्तीर्थरूपा हि साधवः ।। ३१ ।।
हरिस्तीर्थं परं तीर्थ तीर्थं तत्साधवस्ततः ।
साध्व्यस्तीर्थं साधुवच्च तरन्ति पापिनश्च तैः ।।३२।।
एतत्त्रयं परं तीर्थं चतुर्थं विप्रमण्डलम् ।
गुरुस्तीर्थं सर्वतीर्थोत्तमं मोक्षप्रदं सदा ।। ३३।।
माता तीर्थं परं तीर्थं तीर्थं पिता पतिस्तथा ।
सती तीर्थं धर्मतीर्थं तीर्थास्तु धार्मिका जनाः ।।३४।।
पुत्रस्तीर्थं धर्मवच्च कन्या तीर्थं वृषान्विता ।
स्वसा तीर्थं धर्मयुक्ता पत्नी तीर्थं सती यदि ।।३५।।
कुटुम्बं धार्मिकं तीर्थं तारयेत् तीर्थमुत्तमम् ।
देवस्तीर्थं मन्दिरं च तीर्थं तीर्थं कथामृतम् ।। ३६।।
वृद्धानां वचनं तीर्थं शास्त्रं तीर्थं च शाश्वतम् ।
गोदानं परमं तीर्थं तीर्थं स्वर्णान्नदानकम् ।।३७।।
सत्यं तीर्थं क्षमा तीर्थं तीर्थं रागविहीनता ।
द्वेषराहित्यमेवाऽपि तीर्थं नैर्मल्यकारकम् ।।३८।।
कृष्णसेवा परं तीर्थं भक्तिस्तीर्थं तथोत्तमम् ।
कृष्णार्पणं तु तीर्थानामुत्तमं तीर्थमुच्यते ।।३९।।
दीक्षा भिक्षा समीक्षा च तीर्थत्रयं विवेकतः ।
एवं शैलास्तु तीर्थानि हरेर्योगाद् भवन्ति वै ।।2.83.४०।।
किं बहुनाऽत्र वचसा सन्तस्तीर्थानि सर्वथा ।
सर्वप्रदास्ते जीवानां धर्मार्थकाममोक्षिणाम् ।।४१ ।।
सतां शरणमापन्नस्तरत्येव न संशयः ।
काष्ठाधारं समापन्नस्तरत्येव जलार्णवम् ।।४२।।
काष्ठे लघुत्वमेवाऽस्ति सत्सु हरिर्वसत्यपि ।
यत्र हरिस्तत्र सर्वं यद्यदिष्टतमं भवेत् ।।४३।।
कल्पवल्ली सतां हस्ते चिन्तामणिः सतां मुखे ।
कल्पवृक्षः सद्धृदये कामधेनुः सतां मतौ ।।४४।।
अणिमाद्याः सिद्धयस्तु लुठन्ति पादयोः सताम् ।
ऐश्वर्याणि सतामोष्ठे वसन्ति सुखदानि वै ।।४५।।
पावित्र्यं तु सतां दृष्टौ वाक्ये धर्मो वसत्यपि ।
मुक्तिं सतां तु सेवायां वर्तते शरणं गता ।।४६।।
प्रकृतिः प्रोच्यते मायाऽभ्यासो विषयवस्तुषु ।
संस्कारः स्थितिसंस्थोऽयं कृष्णाभ्यासेन जीर्यति ।।४७।।
कृष्ण कृष्णेति कृष्णेति नारायणेति सर्वदा ।
रटणेन हि संस्कारा भावनाख्या भवन्ति वै ।।४८ ।।
कृष्णयोगेन दिव्यास्ते नाशयन्ति तु मायिकान् ।
प्राकृतान् नाशयित्वैव शोधयन्ति हृदन्तरम् ।।४९।।
सा माया भ्रमरूपा वाऽविद्याऽहंममतात्मिका ।
रागद्वेषात्मिका वापि संशयो वा मृषात्मिका ।।2.83.५० ।।
याथार्थ्येन विधानेन लयं याति हरेर्बलात् ।
आमृत्युक्षणमासाद्य कृष्णे मतिर्न चेद् भवेत्। ।।५ १ ।।
यत्र नार्यां नरे पुत्रे द्रव्येऽन्यत्र मतिर्भवेत् ।
सा माया बन्धकर्त्र्येव कृष्णस्मृत्या विनश्यति ।।५२।।
एवं शैलाः संशृण्वन्तु कृष्णयोगो हि तारकः ।
सतां योगस्तारकोऽपि माया तेन निवर्तते ।।५३।।
यथा लौहं काष्ठयोगे तरत्येव जलोपरि ।
तथा पापी सतां योगे तरत्येव भवोपरि ।।५४।।
यथा पद्मं स्वभावाच्च जलेऽपि नहि लिप्यते ।
तथा ज्ञानी भक्तियुक्तः पापेऽपि नहि लिप्यते ।।५५।।
यथा तैलं जलमध्ये क्षिप्तं तरति मूर्धनि ।
तथा ज्ञानी पापिमध्ये स्थितस्तरति पापतः ।।५६।।
ज्ञानं दहति कर्माणि भक्तिः कर्मफलानि च ।
दहत्येवं द्वयं चान्यत् कृष्णेतरत् कृतं तु यत् ।।५७।।
आत्मा येन धृतः कृष्णे नारायणे परात्मनि ।
स चात्मा वर्तते चान्तःकरणेभ्यो वियोगवान् ।।५८।।
आन्तरं करणं तेन भिन्नं प्रयत्नमन्तरा ।
नेन्द्रियैर्शयते शक्तिशून्यं रूक्षं पतिं विना ।।५९।।।
नेन्द्रियाणि ततो यान्ति विषयान् कृष्णवर्जितान् ।
विषयेषु गत पापं नोपसंक्रामति ह्यतः ।।2.83.६० ।।
इन्द्रियाण्यविषयाणि यदा भवन्ति योगिनः ।
मानसं चाऽविषयं च जायते सर्वदाऽस्य तु ।।६१ ।।
आत्मा विषयशून्यश्च कृष्णमात्रेण संमतः ।
भवत्येव तदा पापान्निवृत्तो मोक्षगो यथा ।।६२।।
एवं भूत्वा शरीरं चेन्द्रियाण्यस्य करोति चेत् ।
क्रियां यां कां, न चैषा स्याद् बन्धनाय तु योगिनः ।।६३।।
विधिक्रियाऽथवा विधिविवर्जिताऽपि काऽपि वा ।
लोके मताऽथवा नैव मता लोकविवर्जिता ।।६४।।
विवेकेन कृता वा न कृता विवेकवर्जिता ।
पापा वा पापशून्या वा लोकदृष्ट्या तु यादृशी ।।६५।।
यादृशी तादृशी वापि क्रिया या स्यात्तु योगिनः ।
निसर्गजा न सा तस्य बन्धनाय प्रजायते ।।६६।।
यस्य नास्ति सुखे रागो न द्वेषो दुःखवस्तुषु ।
हर्षाहर्षरहितात्मा न स पापेन लिप्यते ।।६७।।
यस्य नास्ति सुखं मे स्याद् दुःखं मा स्यादिति प्रधीः ।
ईहाशून्यस्य कर्तव्यं निरीहं नहि लुम्पति ।।६८।।
इष्टं तथाप्यनिष्टं च त्यक्तं येनाऽऽत्मतः सदा ।
गुणत्रयाऽभिभवनं तस्य नैव हि जायते ।।६९।।
सर्वं कृष्णात्मकं यस्य भोग्यं भोगश्च भोक्तृता ।
क्रियाकृष्णार्पिता येन देहेन्द्रियतदीयजा ।।2.83.७० ।।
तत्पापं तस्य पुण्यं वा फलं कृष्णार्पितं तथा ।
स तु सर्वेषु लिप्तोऽपि लिप्यते न मनागपि ।।७ १ ।।
एवं वै वर्तमानस्य कृष्णार्थकृतकर्मणः ।
प्रसाधितप्रसाध्यस्य सदा साधुस्वभाविनः ।।७२।।।
निर्लेपस्य प्रसंगेन मुक्तिः स्याद् बन्धनाशिनी ।
बन्धो वै वासना प्रोक्ता चाहंममत्वकारिता ।।७३ ।।
मिथ्याज्ञानजनिर्या च वासना जडतात्मिका ।
स संसारो बन्धनं वै कृष्णयोगेन नश्यति ।।७४।।
सतां कृष्णस्वभावानां समागमेन नश्यति ।
ततो मुक्तिर्जीवतो वै भूतबन्धनवर्जिता ।।७५।।
निर्द्वन्द्वा च निरीहा च वितृष्णा रागवर्जिता ।
स्थितिर्नित्यात्मसंस्था च नित्यानन्दपरिप्लुता ।।७६ ।।
सदा शान्तस्य कृष्णस्य योगेन शान्तिरच्युते ।
आत्मना चात्मनि ध्रौव्या या शाश्वत्यनुभूयते ।।७७।।
सा शान्तिः शाश्वती कृष्णात् परमेशात् प्रजायते ।
इयं मुक्तिः परा मुक्तिर्यतः शान्तिर्न वै परा ।।७८।।
असंख्यानन्दसन्दोहे मग्नता परमात्मनि ।
स स्वार्थस्वात्मनो ह्यर्थः परं प्रयोजनं हि तत् ।।७९।।
मोक्षोऽर्थो जीवलोकस्य मुमुक्षोः स्वार्थ एव ह ।
ज्ञातोऽर्थः स्वात्मनि प्रेच्छेत् स्वार्थः स चात्र मोक्षणम् ।।2.83.८० ।।
क्षणिकः सुखदः स्वार्थो नापेक्ष्यो वै मुमुक्षुभिः ।
शाश्वतानन्दभृत्स्वार्थः समपेक्ष्यो मुमुक्षुभिः ।।८१ ।।
एवं स्वार्थं प्रलक्ष्यैव प्रवृत्तिः शुभदायिनी ।
शुभं पुण्यं स्वर्गलोकः सत्यमैश्वरधिष्ण्यकम् ।।८२।।
विनाशयोगि तत् प्रोक्तं प्रकृतेः कृतसर्जने ।
अविनाशं शुभं मोक्षः कृष्णपादाभिलंभनम् ।।८३।।
कृष्णनारायणप्राप्तिः शुभं सर्वोत्तमोत्तमम् ।
कृष्णो दिव्यः सदा चास्ते यादृशस्तादृशोऽपि वा ।।८४।।
तादात्म्यकर्मभिर्दिव्यभावं विन्दति मानवः ।
शरीरेन्द्रियकर्माणि जडान्यपि हरेर्ग्रहात् ।।८५।।
भवन्ति दिव्यभावानि जडता याति दिव्यताम् ।
एवं शैला! भवन्तोऽपि जडा भक्तिप्रयोगतः ।।८६।।
जाड्यं भावं परित्यज्य भवन्तु दिव्यरूपिणः ।
अनादिश्रीकृष्णनारायणस्वामिपतिप्रभुः ।।८७।।
वर्तते कुंकुमवापीक्षेत्रे चाश्वसरोन्तिके ।
तद्योगं तद्भजनं च कुर्वन्तु तेन दिव्यताम् ।।८८।।
प्रयास्यथैव शीघ्रं च नारायणकृपावशात् ।
इत्येवं प्रोच्यमानेषु जयध्वजेन चाऽद्रिषु ।।८९।।
चत्वारः पुरुषाश्चान्ये शान्तास्तत्र समाययुः ।
जयध्वजादिकान् नत्वा तस्थुः पृष्ठास्ततो हि ते ।।2.83.९० ।।
कुत आगम्यते कुत्र गम्यते किं प्रयोजनम् ।
ते प्रोचुस्तं विनताश्च वयं श्रुत्वा तव क्रतुम् ।।९१।।
आगता हर्षतश्चात्र गच्छामोऽश्वसरोवरम् ।
स्नातुं द्रष्टुं परेशं श्रीकृष्णनारायणं प्रभुम् ।।९२।।
यात्रिकैः सम्प्रदत्तानि पापान्यसंख्यकानि तु ।
क्षालयितुं प्रगच्छामः कुंकुमवापिकास्थलीम् ।।९३।।
कोलारसर एवायं नाम्ना ख्यातोऽस्ति तीर्थराट् ।
द्वितीयो वर्तते नाम्ना ह्ययं चिलसरोवरः ।।९४।।
तृतीयः शंभलसरोऽभिधोऽयं तीर्थराजकः ।
चतुर्थोऽहं पुमानस्मि नारायणसरोवरः ।।९५।।
वयं त्वद्य मिलित्वा तु याता अभूम मानसम् ।
सरो दिव्यं हैमशैले दर्शनार्थं ततः पुनः ।।९६।।
श्रुत्वा चात्र समायाता यज्ञं तेऽथ ततो वयम् ।
गच्छामस्तत्र यत्रैव परमेशो विराजते ।।९७।।
एतच्छ्रुत्वा च ते शैला जयध्वजोऽपि भूपतिः ।
व्योम्ना कुटुम्बसहितः सर्वे ययुर्हरेः पुरीम् ।।९८।।
कुंकुमवापिकातीर्थं चाश्वपट्टसरोवरम् ।
व्योम्ना ते चाऽवतेरुश्च सस्नुश्चाश्वसरोवरे ।।९९।।
ततो दिव्यस्वरूपाश्च दृष्ट्वा श्रीलोमशं मुनिम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। 2.83.१० ०।।
गृहीत्वा परमं मन्त्रं बालकृष्णान्तिकं ययुः ।
सम्पूज्य विधिवत् कृष्णनारायणं च ते ततः ।। १०१ ।।
पीत्वाऽमृतं चरणयोर्निषेदुः सत्कृताः पुरः ।
प्रार्थयामासुरत्यर्थं देहि मोक्षं परं पदम् ।। १ ०२।।
श्रीहरिः कृपया ताँश्च त्रिरूपान् संव्यधापयत् ।
तीर्थभक्तमुक्तरूपान् तीर्थान्यप्रेषयत्तदा ।। १ ०३।।
नैजं नैजं निवासं च पावनार्थं हि देहिनाम् ।
भक्तरूपाँस्तत्र चाश्वसरस्येव न्यवासयत् ।। १ ०४।।
निजाश्रये महाभक्तान् संविधायैव सेवकान् ।
तत आरभ्य तत्तीर्थे तीर्थाष्टकं ततोऽवसत् ।। १०५।।
कोलाटतीर्थं च तथा चिलतीर्थं तथोत्तमम् ।
तथा शंभलतीर्थं च नारायणसरस्तथा ।। १ ०६।।
द्रोणतीर्थं नीलतीर्थं श्रीतीर्थं चैलतीर्थकम् ।
दिव्यरूपा विराजन्ते श्रीकृष्णपादपंकजे ।। १ ०७।।
मुक्तरूपान् विमानेनाऽक्षरं चाऽप्रेषयत् प्रभुः ।
धाम मुक्तनिवासाख्यं राधिके करुणानिधिः ।। १ ०८।।
इत्येवं तच्चमत्कारं दृष्ट्वा जयध्वजोऽपि च ।
स्थित्वा मासं मार्गशीर्षं ययाचे मोक्षणं हरेः ।। १ ०९।।
चक्रे तस्य हरिर्मुक्तिं विमानेन ययौ स तु ।
धामाऽक्षरं पदं दिव्यं शाश्वतानन्दपूरितम् ।। 2.83.११० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जयध्वजेन प्रदत्तं ज्ञानं, द्रोणैलनीलश्रीपर्वतानां कोलाटचिलशंभलनारायणसरसां दिव्यरूपता मोक्षणं जयध्वजस्य मुक्तिश्चेत्यादिनिरूपणनामा त्र्यशीतितमोऽध्यायः ।।८३।।