उखः शाखामिमां प्राह आत्रेयाय यशस्विने । |
उत्तमोपनिषदोऽस्य शिरोऽर्कावंसौ भुवनस्य पतेर्नव यान्यात्मा सः । |
मन्त्रात्मा धर्मशृङ्गोऽष्टास्य उपनिषत्ककुत् । |
पूर्वमेकीभूय स्थिता वेदास्तत्तद्वेदाध्यायिनः सकल वेदाध्ययनं कर्तुमसमर्थान्दृष्ट्वाऽधीतवेदत्वसिद्धये जगदुपकाराय च वेदव्यासेन वेदा व्यस्तास्तत्तच्छाखापरिच्छिन्नाः कृताः ।
ततः स भगवान्वैशंपायननाम्ने स्वशिष्याय यजुर्वेदं प्राह । ततः स वैशम्पायनो यास्कनाम्ने मुनय एतां तैत्तिरीयशाखां प्राह । स च यास्कः पैङ्गये । पलिङ्गव इत्यपि पाठः । स चास्मत्सूत्रानुगुणः ।
ततः पैङ्गिर्ऋषिस्तित्तिरये । स चोखाय । स चाऽऽत्रेयाय । यशस्वी त्यात्रेयस्य विशेषणम् ।
यशस्वित्वमेवाऽऽह--"तेन शाखा प्रणीतेयमात्रेयी इति प्रोच्यते" इत्यनेन ।
तेनाऽऽत्रेयेणेयं शाखाऽन्येभ्यः प्रणीताऽध्यापिता सत्यात्रेयीति संज्ञां प्राप्तवती । एतादृशं यश आत्रेयस्य । यस्याः शाखाया आत्रेय ऋषिः पदकृद्भवति । वृत्तिकारः कुण्डिन ऋषिर्भवति । एतादृशी तां महाशाखामधीतवन्तो विद्वांसो महद्भद्रं कल्याणमश्नुवते ।