सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]]
२६३
संस्काररत्नमाला ।
( उपनयनाग्निनाशप्रायश्चित्तम्)
 

ध्यति । सभायज्ञशालाराजगृहेषु नमस्कारमात्रं नाभिवादनम् । उदक्यासूतिकाभर्तृघ्नीगर्भघातिन्यो नाभिवाद्याः । एतासामभिवादन उपवासः । स्वयं युवा चेत्तदा युवतीनां गुरुपत्नीनां भुव्यभिवादनं कुर्यात् । ऋत्विजां मान्यत्वेऽप्यधिकवयस एवाभिवाद्याः । एवं श्वशुरमातुलपितृव्यादयोऽपि । एतेषां कनीयसां तु परितोषार्थमाभिमुख्यमभिभाषणं च । तच्चाभिभाषणं ब्राह्मणं प्रति कुशलशब्देन । क्षत्रियं प्रत्यनामयशब्देन । वैश्यं प्रति क्षेमशब्देन । शूद्रं प्रत्यारोग्यशब्देन । स्वस्मात्कनिष्ठानां ब्राह्मणानां क्षत्रियादीनां च स्वस्त्यस्त्वित्याशीर्देया । प्रत्यभिवादनं शूद्रं प्रत्यपि कार्यम् "प्रत्यभिवादेऽशूद्रे" इति पाणिनिसू[]त्रीयपर्युदासात् । देवताप्रतिमायास्त्रिदण्डियतेश्च दर्शने नमस्कारं न कुर्याच्चेत्तदैकरात्रमुपोषणम् । संध्यान्ते तु शिष्यं पुत्रं दौहित्रं दुहितुः पतिं च विना सर्वान्कनीयसोऽप्यभिवादयेदेवेति । एतन्मूलमाकरे स्पष्टम् ।

अथ प्रसङ्गादुपनयनाग्निनाशप्रायश्चित्तमुच्यते ।

 आचार्यो देशकालौ संकीर्त्योपयनाग्न्यनुगमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनादिनाऽऽयतनसंस्कारं विधाय मथितं श्रोत्रियागारादाहृतं लौकिकाग्निं वा तत्र प्रतिष्ठाप्य प्रज्वाल्य परिस्तीर्य तूष्णीं परिमृज्य परिषिच्यालंकृत्य प्रातरग्निनाश आसायमुपवसेत् । सायमग्निनाश आप्रातरुपवसेत् ।

 तत आज्यं संस्कृत्य समिधमभ्याधाय सर्वप्रायश्चित्तं हुत्वाऽनाज्ञातादि जपेत् । समिदभ्याधानात्प्रागग्नेरनुगमन उपवासान्ते सर्वप्रायश्चित्तं हुत्वाऽनाज्ञातादिजपं कृत्वाऽन्तरितं समिदभ्याधानं कालप्राप्तं च तन्त्रेणैव कुर्यात् । समिदभ्याधानोत्तरमनुगमने तु कालप्राप्तमेव । उपवासासामर्थ्ये तु--अयाश्चाग्न इत्येकामाज्याहुतिं जुहुयात् ।

 तत्राऽऽपूर्विकतन्त्रेण प्रयोगः । देशकालौ संकीर्त्याग्न्यनुगमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनाद्यग्निप्रतिष्ठापनान्तं कृत्वा चत्वारि शृङ्गेति ध्यायेत् । अत्र विण्नामाऽग्निः ।

 ततः समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वोपनयनाग्न्यनुगमनप्रायश्चित्तकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । अयासम[]ग्निमेकयाऽऽज्याहुत्या यक्ष्ये । एतां देवतां सद्यो यक्ष्य इत्युक्त्वाऽन्वाधानसमिधोऽग्नावादध्यात् । न वाऽन्वाधानम् ।


  1. घ. ङ. सूत्रात् ।
  2. ग. घ. ङ. ग्निमाज्या ।