पात्रं न स्पृशेत् । नोच्छिष्टाज्यं गृह्णीयात् । द्रवद्रव्याणि च । न प्रसृताङ्गुलि[१]र्भुञ्जीयात् ।
न फूत्कारसंयुतं [२]नाजीर्णी नातिबुभुक्षितो [न] बहु नाऽऽर्द्रवासा नाऽऽर्द्रशिरा न देवतायतने न प्रसारितपादो न वेष्टितशिरा न सशब्दं नोत्सङ्गकृतभाजनो न ग्रासशेषं न बहूनां [३]भुञ्जतां त्वरान्वितो न ब्रह्म कीर्तयन्न भार्यया सह न [४]भिन्नभाजने न भूम्यां न पाणितले न तैलयन्त्रग्रावोलूखलपेषणयन्त्रशब्देषु जायमानेषु भुञ्जीयात् ।
यदि भुञ्जीयात्प्राणायामत्रयमष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीजपं[५] कुर्यात् । उद्धृतपीतावशेषितमुदकं नैव पिबेत् ।
यदि पिबेत्तदा चान्द्रायणं चरेत् ।
प्राणाहुत्युत्तरं दक्षिणभाग उदकपात्रासंस्थापने प्राणायामत्रयमष्टशतं गायत्रीजपश्च ।
चण्डालपतितरजस्वलावाक्यं शृण्वन्नैकमपि ग्रासं भुञ्जीयात् । यदि भुञ्जीयात्तदैकाहमुपवसेत् ।
उदकपानकाले भोजनपात्रे मुखाद्यद्युदकं पतेत्तदा तदन्नं न भुञ्जीयात् । यदि भुञ्जीयात्तदा सहस्रं गायत्रीजपं कुर्यात् ।।
ब्रह्मचारी चेन्माषमुद्गक्षारलवणादिवर्जमन्नं कांस्यव्यतिरिक्ते पात्रे भुञ्जीत ।
स्मृत्यन्तरे ताम्रपद्मपत्रपलाशेषु यो भोजनविधिः स गृहस्थेतरविषय इति केचित् । श्राद्धपरोऽयं विधिरित्यन्ये । ब्रह्मचारिपरोऽयमिति परे ।
अत्र पलाशे भोजनविधिर्वल्लीपलाशेतरविषयः । वल्लीपलाशे न भुञ्जीतेति स्मृत्यन्तरे निषेधात् । ताम्रवत्पित्तलेऽपि निर्णयः ।
वटाश्वत्थार्कपत्रेषु साग्रकदलीपत्रे पलाशमध्य[६]मपत्रे करे खर्परके पाषाणे च सर्वेषां भोजनं निषिद्धम् । अनापद्येषु[७] भोजने शतवारं गायत्र्या जपः । आपदि दशवारम् ।
त्र्यहव्रत एव माषमुद्गक्षारलवणादिवर्जनं, तदूर्ध्वं तु विकल्पः ।