नवान्नाशनाकरणेऽपि करणपक्ष इदं कार्यमेव ।
"प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । |
तत्र प्रथमाग्रयणं तु पर्वण्येव । द्वितीयादौ त्वनियमः ।
अथ प्रयोगः ।
उक्तकाले प्रातरौपासनं हुत्वाऽग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम सपत्नीकस्य नवानां व्रीह्यादिधान्यानां प्राशनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं व्रीह्याग्रयणस्थालीपाकं करिष्य इति संकल्पं कुर्यात् । यदि तु केनापि निमित्तेन नवान्नप्राशनं न करोति तदा श्रीपरमेश्वरप्रीत्यर्थं व्रीह्याग्रयणस्थालीपाकं करिष्य इत्येवं संकल्पः । यदि तु यस्मिन्वर्षे यस्य धान्यस्यानुत्पत्तिस्तदा तस्मिन्वर्षे तदीयाग्रयणस्य लोपः । प्रथमाग्रयणं गुरुशुक्रास्तमलमासादिषु न भवति । द्वितीयादिप्रयोगेष्वपि शुद्धकाललाभेऽस्तादौ न कार्यम् ।
ततो गणेशं संपूज्य पुण्याहादिवाचनं मातृकापूजनं नान्दीश्राद्धं च कुर्यात् । तत्रेन्द्राग्न्यादयः प्रीयन्तामिति वदेदिति प्रथमे प्रयोगे विशेषः ।
ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रयणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । इन्द्राग्नी विश्वान्देवान्द्यावापृथिव्यौ चैकैकया नवव्रीह्येकचर्वाहुत्या यक्ष्ये[१] । स्विष्टकृद्धोमे--अग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्ये । एता देवताः सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरन्वाधानसमिदभ्याधानं कुर्यात् । पुरस्तात्स्विष्टकृतोऽज्यानीहोम इत्यस्मिन्पक्षेऽन्वाधाने प्रधानदेवतोल्लेखानन्तरमज्यानीहोमदेवतोल्लेखः कार्यः । स यथा । अज्यानीहोमे-- इन्द्रमाज्याहुत्या यक्ष्ये । द्यावापृथिव्यावाज्याहुत्या यक्ष्ये । ग्रीष्मं हेमन्तं वसन्तं शरदं वर्षाश्चाऽऽज्याहुत्या यक्ष्ये । इदुवत्सरं परिवत्सरं संवत्सरं चाऽऽज्याहुत्या यक्ष्ये । देवान्पितुं चाऽऽज्याहुत्या यक्ष्य इत्युक्त्वाऽग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्य इत्यादि समिदभ्याधानान्तं कुर्यात् ।
ततोऽग्निं परिस्तीर्येत्यादि । पात्रासादने दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं चतुःशरावपरिमितचरुश्रपणपर्याप्तां चरुस्थालीं मेक्षणं निर्वापार्थमेकं
- ↑ क.क्ष्ये । अ ।