सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६४३
संस्काररत्नमाला
( आग्रयणम् )
 

 रेवतीनक्षत्रे कर्मकर्तव्यताविषयेऽप्यस्ति श्रुतिः--

"तस्माद्रेवत्यां पशूनां कुर्वीत । यत्किंचार्वाचीन सोमात्प्रैव भ[]वति" इति ।

 देवनक्षत्राणि कानीत्यपेक्षायां तत्रैवोक्तम्--

"कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि" इति ।

 एतानि नक्षत्राण्यापूर्यमाणपक्षान्तर्वर्तीन्येव ग्राह्याणि न तु कृष्णपक्षान्तर्वर्तीन्यपि । तेन शुक्लपक्षान्तर्वर्तिनक्षत्रेष्वेव विकृतिर्भवति । तत्र पर्वणः संपूर्णत्वेऽपराह्णसंधौ वा तद्दिने प्रकृतिप्रधानानुष्ठानाभावाद्विकृतिं कृत्वा प्रकृतेरुपक्रमः कार्यः । यदीष्ट्येतिवाक्यविहितकाललाभादिति मीमांसकानां याज्ञिकानां च संप्रतिपन्नमेव । पूर्वाह्णसंधौ त्वौदयिकपर्वणः प्रकृत्यवरुद्धत्वात्पूर्वपर्वण्येवोपदिष्टपर्वकालत्वानुरोधेनातिदेशप्राप्तं प्रातःकालं द्व्यहकालतावद्बाधित्वा विकृत्यनुष्ठानं युक्तमिति मीमांसकाः ।

 याज्ञिकास्तु--आवर्तनतत्पूर्वसंध्योः प्रकृत्यनुष्ठानानन्तरं संधिदिन एव विकृत्यनुष्ठानं कर्तव्यमिति वदन्तीति कालतत्त्वविवेचने ।

 आग्रयणे विशेषः श्रुतावुक्त आग्रयणेष्टिं प्रकृत्य--

"यस्मिन्कालेऽमावास्या सपद्येत तयेष्ट्वाऽथैतया यजेत यदि
पौर्णमासी स्यात्तयेष्ट्वाऽथ पौर्णमास्या यजेत" इति ।

 आवर्तनात्पूर्वमिति शेषः । संपद्येत प्राप्नुयात् । तयाऽमावास्यया । एतयाऽऽग्रयणेष्ट्या । यदि पौर्णमास्यावर्तनकालात्पूर्वं प्राप्नुयात्तयाऽऽग्रयणेष्ट्येष्ट्वा पौर्णमास्या यजेतेति ।

 मण्डनोऽपि--

"आवर्तनात्प्राग्यदि पर्वसंधिः कृत्वा तु तस्मिन्प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात्तस्मिन्विकृत्याः प्रकृतेः परेद्युः" इति ॥

 अस्यार्थः--आवर्तनात्पूर्वं यदि पर्वसंधिस्तस्मिन्संधिदिने प्रथमतः प्रकृतिं कृत्वा पश्चाद्विकृतिं कुर्यात् । यदा त्वावर्तनात्परः संधिस्तदा संधिदिने विकृतिरेव भवति प्रकृतिस्तु परेद्युरेवेति । धुर्तस्वामिकपर्दिस्वाम्यादयोऽप्येवमाहुः । तत्राऽऽग्रयणं त्रिविधं व्रीह्याग्रहणं यवाग्रयणं श्यामाकाग्रयणं चेति ।

 तत्र सूत्रम्--

"व्रीहीणामग्रपाकस्य यजते तथा श्यामाकानां
यवानामग्रपाकस्य यजते" इति ।

 अग्रपाकस्तत्कालपाकः ।



  1. क. ख. ङ .च. भवन्ति ।