ततो मेक्षणमनुप्रहृत्य संस्रावेणाभिजुहोति । न वा मेक्षणप्रहरणम् । अयं चावदानधर्मो भाष्यकृदभिमतः । अन्येषां मते तु न । अवदानधर्माभावे सुवासादनं नास्ति ।
ततः शुल्बप्रहरणादि समानम् । अत्र दक्षिणा धेनुः । दक्षिणादानोत्तरमग्रेणाग्निं दर्भस्तम्बं निधाय, ब्रह्म जज्ञानं पिता विराजामित्यनयोर्मन्त्रयोर्विश्वे देवा ब्रह्म त्रिष्टुप् । हुतशेषस्थापने विनियोगः--'ॐ ब्रह्म जज्ञानं प्रथमं० विवः' 'ॐ पिता विराजा० वर्धयन्तः' इति द्वाभ्यां तत्र हुतशेषं संस्थापयेत् ।
ततोऽग्निं संपूज्य भस्म धृत्वा भूयसीं दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
अत्र केचित्पृथगौपासनाग्निधारणहोमादिष्वशक्तस्यायं विधिः, शक्तस्य तु पृथगेव धारणादीति वदन्ति तन्न । अदृष्टकार्येषु शास्त्रं विनेच्छया पक्षान्तरस्वीकारस्यायुक्तत्वात् । तदा पृथग्धारणपुरःसरहोमादिबोधकशास्त्रस्याभावात् । शास्त्राभावेऽपीच्छया शास्त्रविरुद्धपक्षाश्रयणे दोषदर्शनात् ।
तथा च संग्रहे--
"बौधायनादिभिः प्रोक्तं विधानं धर्मनिर्णये । |
तथा च व्रतं समाप्य द्वादशाहं त्रयोदशाहं वा पृथगग्निधारणं तत्र होमं[१] च कुर्यात् । अन्यतरस्या मरणदशायां तु, औपासनाग्निं विभज्यैकं भागं तदीय एवायमग्निरिति विभाव्य तेन भागेन तां संस्कुर्यात् । विद्यमानभार्याग्निभाग एवौपासनादि चरेत् । आत्मार्थमौपासनाग्न्येकदेशधारणमिति पक्षे तत्राप्येवमेवौपासनहोमादि ।
इति संस्काररत्नमालायामर्कविवाहाग्निद्वयसंसर्गप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां द्वादशं प्रकरणम् ॥ १२ ॥
- ↑ च. मं कु ।