इति दर्शनात् । ननु "दक्षिणाग्निमुपसमाधाय" इत्यत्राऽऽहरणासंभवादस्तु प्रज्वलनमुपसमाधानशब्दार्थः, अत्र तु संभवादाहरणमेवोपसमाधानशब्दार्थः, स्थलान्तर आहरणे सिद्धे स्थापनस्यापि सिद्धत्वात्तत्संबन्ध्युद्धननादीनामपि सिद्धिरिति चेन्न । वैरूप्यापत्तेः । नन्वेवं तत्र तत्रानुवादो व्यर्थः, प्रज्वलनस्यार्थत एव सिद्धेरिति चेत् । सत्यम् । तत्र तत्रानुवादस्य स्थाननियमार्थत्वेन वैयर्थ्याभावात् । यत्र "अग्निमुपसमाधाय" इति वचनं तत्रोक्तस्थान एव कार्यम् । अन्यत्र त्वनियमः । उक्तस्थाने तदकरणे सर्वप्रायश्चित्तं नैतदन्यत्रेति द्रष्टव्यम् ।
अग्निप्रज्वलनं नाप्रोक्षितैः काष्ठैः कर्तव्यम् । तदुक्तं धर्मसूत्रे-- "नाप्रोक्षितमिन्धनमग्नावादध्यात्" इति । श्रौते स्मार्ते लौकिकेऽग्नावप्रोक्षितमिन्धनं नाऽऽदध्यात् । केचिल्लौकिके नेच्छन्तीत्युज्ज्वलाकृता व्याख्यातम् ।
अग्निप्रबोधने विशेषो धर्मसूत्रे-- "न चैनमुपधमेत्" इति । अप्रयत इत्येव । एनमग्निमप्रयतो नोपधमेत् । प्रयतस्य न दोष इत्येके । अपर आहुर्मुखेन नोपधमेत् । 'नाग्निं मुखेनोपधमेत्' इति मानवे दर्शनात् ।
स्मृत्यन्तरे तु-- "मुखेनोपधमेदग्निं मुखादग्निरजायत" इति ।
उभयोर्विकल्पः । अपर आह वाजसनेयके श्रौतप्रकरणे-- " मुखादग्निरजायत तस्मान्मुखेनोपसमिध्यते" इति दर्शनाच्छ्रौते मुखेनोपधमनमन्यत्र स्मार्तः प्रतिषेध इति । अन्ये तु वैणवेनाऽऽयसेन वा ससुषिरेणोपधमनमिच्छन्ति । एवमग्नेर्मुखव्यापारस्यान्वयाच्छ्रुतिरप्यनुगृहीता भवति ।आस्यबिन्दूनां पातनशङ्काभयात्प्रतिषेधस्मृतिरपीति व्याख्यातमुज्ज्वलाकृता ।
संग्रहे--
श्रुतिरपि--
"तेजो वै वेणुः । तेनः प्रवर्ग्यः । तेजसैव तेजः समर्धयति" इति । |
अग्नेर्वेणुस्पर्श[३]निषेध उक्तो ग्रन्थान्त[४]रे--"न वेणुनाऽग्निं[५] संस्पृशेत्" इति ।