तथेति त्रिदिनमित्यर्थः ।
तथा कश्यपः--
"ग्रस्तोदये परो दोषो ग्रस्तास्तेऽर्वाक्शशीनयोः । |
द्युनिशार्ध इत्यनेन दिवाखण्डे निशाखण्डे च सूर्यस्य चन्द्रस्य च ग्रस्तास्ताभ्युदययोरसंभवेनैव तयोरभावः सूचित इति । [१]उभयं तदित्यादि । दिनेषु खण्डग्रास एकैकस्मिन्स्थले पूर्वत्र परत्रापि दिनत्रये दिनत्रये दोषः, संपूर्णग्रासे तु पूर्वं परस्ताच्च सप्तदिनेषु सप्तदिनेषु दोष इत्युभयं तदित्येतदर्थो बोध्यः, बृहस्पतिवचनैकवाक्यत्वात् ।
अत एव--
"चन्द्रसूर्योपरागेषु त्र्यहं प्राक्तु शुभं त्यजेत् । |
इति वचनेन यत्पूर्वं त्र्यहे शुभवर्जनमुक्तं तत्संकटविषयकं सर्वग्रासविषयकं च बोध्यम् । परत्र सप्तरात्रोत्कीर्तनात् । शक्तिविषये पूर्वार्धं खण्डग्रासविषयकम् । तद्विषय एव पूर्णग्रासविषयकं परार्धमिति । त्र्यहं प्रागशुभं त्यजेदितिपाठे प्राक्त्र्यहमशुभं भवति तस्मिन्नशुभे त्र्यहे त्यजेत् । किमित्याकाङ्क्षायां योग्यतया शुभमिति शेषः । त्र्यहं प्राक्तु शुभं त्यजेदितिपाठे त्वग्रिममशुभपदं त्र्यहमित्यत्राप्यन्वेति । शुभपदं त्वस्त्येवेति ज्ञेयम् ।
अत्र च कर्मभेदेन श[२]क्तभेदेन च दिनमर्यादामाह भोजराजः--
"अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । |
त्रिविधेति । दिव्यभौमनाभसेत्यर्थः ।
अयं चोत्पातादौ सप्तरात्रनिषेधः[३] स क्षत्त्रियवैश्यविषयकः ।
तथा च भृगुः--
"कम्पादौ क्षत्त्रे वैश्ये च सप्ताहं ब्राह्मणे त्र्यहम् । |
अनिष्ट इतिकीर्तनाच्छुभोत्पाते सप्तरात्रं न किं तु तत्रैकरात्रम्, शुभोत्पातप्रदुष्टं दिनमितिवचनात् ।