सर्वेऽपि द्व्यार्षेया एवमनेन प्रकारेण त्र्यार्षेया एव भवितुमर्हन्ति न शण्डिला एव । तस्मादष्टकानां लोहितानां च द्व्यार्षेयाणां त्र्यार्षेयत्वमेव द्रष्टव्यम् । द्व्यार्षेया एव सर्वे शण्डिला भवितुमर्हन्ति न त्र्यार्षेया इति केचिद्व्याचक्षते तदनुपपन्नम् । "अत्र्यार्षेयस्य हानं स्यादधिकारात्" इतिजैमिनीयन्यायविरोधात् । अन्यद्गतार्थम् । कश्यपानां परस्परमविवाहः । कश्यपस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्सप्रवरत्वाच्च ।
इति कश्यपगोत्रप्रवरकाण्डम् ।
अथ वसिष्ठगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्-- "एकार्षेया वासिष्ठा अन्यत्रोपमन्युपराशरकुण्डिनेभ्यो वासिष्ठेति होता वसिष्ठवदित्यध्वर्युरथोपमन्यूनां त्र्यार्षेयो वासिष्ठैन्द्रप्रमदाभरद्वसो इत्याभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदित्यथ पराशराणां त्र्यार्षेयो वासिष्ठशाक्त्यपाराशर्येति पराशरवच्छक्तिवद्वसिष्ठवदित्यथ कुण्डिनानां त्र्यार्षेयो वासिष्ठमैत्रावरुणकौण्डिन्येति कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदित्यथ संकृतिपूतिमापतण्डिनां त्र्यार्षेयः शाक्त्यसांकृत्यगौरिवीतेति गुरिवीतवत्संकृतिवच्छुक्तिवदिति" इति ।
उत्तरत्र विधानादेवोपमन्युप्रभृतीनां त्र्यार्षेयत्वे सिद्धेऽन्यत्रोपमन्युपराशरकुण्डिनेभ्य इति वचनं केवलं वसिष्ठभेदा न संकृत्यादयस्तेषां द्व्यामुष्यायणत्वादितिप्रदर्शनार्थम् । वासिष्ठमैत्रावरुणकौण्डिन्येत्यस्मिन्प्रवरे मित्रावरुणसंज्ञकौ कौचिदृषी मन्त्रदृशौ द्रष्टव्यौ न प्रसिद्धौ देवताविशेषौ । न देवैर्न मनुष्यैरार्षेयं वृणीत इति निषेधात् । तयोश्च मित्रावरुणयोः संहतयोरेवर्षित्वमत्र द्रष्टव्यं न प्रत्येकम् । न चतुरो वृणीत इति चतुर्णां वरणप्रतिषेधात् । मत्स्यपुराणे मित्रावरुणयोर्बदर्याश्रमे तपस्यतोरागतामुर्वशीं दृष्टवतोः शुक्रं स्कन्नं क्वचित्तोयपूर्णे कलशे गृहीतं ततो वसिष्ठो जातो वसिष्ठाच्च कुण्डिनो जात इति दृष्टत्वात्तयोः संहतयोरेवर्षित्वं पितृत्वं चेति द्रष्टव्यम् । एषां वासिष्ठानां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च । संकृत्यादीनां द्व्यामुष्यायणानां वसिष्ठत्वं तु वसिष्ठगणमध्ये पाठाद्वासिष्ठस्य शक्तेर्वरणाच्च ।
इति वसिष्ठगोत्रप्रवरकाण्डम् ।