पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
70
[२ आधि, ९ अध्या.
अभ्यक्षप्रचार

जिह्वातलस्थं मधु वा विष वा।
अर्थस्तथा ह्यर्थचरेण राज्ञ.
स्वल्पोऽप्यनाखादायतुं न शक्यः ।।
मत्स्या यथाऽन्तस्सलिले चरन्तो
ज्ञातुं न शक्याः सलिलं पिबन्तः ।
युक्तास्तथा कार्यविधौ नियुक्ताः
ज्ञातुं न शक्या धनमाददानाः ॥

801

अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् ।
न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः ।
आस्रावयेच्चोपचितान् विपर्यस्येच्च कर्मसु ।
यथा न भक्षयन्त्यर्थ भक्षित निर्वमन्ति वा।
न भक्षयन्ति ये त्वर्थान्नयायतो वर्धयन्ति च ।
नित्याधिकाराः कार्यास्ते राज्ञः प्रियहिते रताः ।।
इत्यध्यक्षप्रचारे उपयुक्तपरीक्षा नवमोऽध्यायः.
आदितस्त्रिंशः.


२८ प्रक. शासनाधिकारः


805  शासने शासनमित्याचक्षते । शासनप्रधाना हि राजान', तन्मूलत्वात् सन्धिविग्रहयोः ।
 तस्मादमायसम्पदोपेतः सर्वममयविदाशुग्रन्थश्चाक्षरो लेख- वाचनसमर्थो लेखकः स्यात् । सोऽव्यग्रमना राज्ञस्सन्देशं