एतत् पृष्ठम् परिष्कृतम् अस्ति
196
३ अधि. १९ अध्या.
धर्मस्थीयम्
सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजनोपरोधषु[१]
च मध्यमस्माहसदण्ड , समुन्थानव्ययश्च[२] देशकालातिपत्तौ क
ण्टकशोधनाय नीयेत ।
महाजनस्यैकं घ्नतो प्रत्येकं द्विगुणो दण्डः ।
"पर्युषितं[३] कलहेऽनुप्रवेशो वा नाभियोज्यः" इसाचार्या ।
" नास्त्यपकारिणो मोक्षः" इति कौटिल्यः[४] ।
"कलहे पूर्वागतो जयत्यक्षममाणो हि प्रधावति" इत्या
चार्या।
'न' इति कौटिल्य । पूर्व पश्चाद्वाऽऽगतस्य[५] साक्षिणः
प्रमाणम् । असाक्षिके घात कलहोपलिङ्गनं वा।
घाताभियोगमप्रतिब्रुवतस्तदहरेव पश्चात्कारः ।
कलहे द्रव्यमपहरतो दशपणो दण्डः ।
क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः ।
स्थूलकद्रव्यहिंसायां तञ्च द्विगुणश्च दण्डः ।
वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः।
[६]परकुडयमभिघातेन क्षोभयतस्त्रिपणो दण्डः। छेदनभेदने
षट्पणः प्रतीकारश्च ।