473 4 तमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरङ्गागूढभित्तिप्रविष्टास्ती. क्ष्णा हन्युः । गूढप्रणिहिता वा रसेन स्वपतो वा निरुद्धे देशे गूढास्त्रियः सर्परसाग्निधूमानुपरि मुञ्चेयुः। प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत । ततो गूढमेवापगच्छेत् । स्वजनसंज्ञां च प्ररूपयेत् ।
4742 {{bold|
द्वार्स्थान्वर्षपरांश्चान्यान् निगूढोपहितान् परैः।
तूर्यसंज्ञाभिराहूय द्विषच्छेषाणि कारयेत् ॥
विजिगीषुः परग्राममवाप्तुकामः सर्वज्ञदैवतसंयोगख्यापना भ्यां स्वपक्षमुद्धर्षयेत् । परपक्षं चोद्वैजयेत् ।
सर्वज्ञख्यापनं तु-गृहगुह्यप्रवृत्तिज्ञाने[१] प्रत्यादेशो मुख्यानां; कण्टकशोधनापसागमेन प्रकाशनं राजद्विष्टकारिणां ; विज्ञाप्ये वा नयख्यापन[२]मदृष्टसंसर्गविद्यासंज्ञादिभिः विदेशिप्रवृत्ति- 475 2 ज्ञानं तदहरेव गृहकपोतेन मुद्रासंयुक्तेन ।