राजनिघण्टुः/अन्दनादिवर्गः

विकिस्रोतः तः
← आम्रादिवर्गः राजनिघण्टुः
अन्दनादिवर्गः
[[लेखकः :|]]
सुवर्णादिवर्गः →

राजनिघण्टु, अन्दनादिवर्गः
श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् ।
बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ १२.१
देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस्तथा ।
सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥ १२.२
कर्पूरौ स्याज्जवादिस्तु नन्दी च जातिपत्रिका ।
जातीफलं च कक्कोलं लवङ्गं स्वादुरुच्यते ॥ १२.३
अगर्व्यश्च त्रिधा मांसी तुरुष्को गुग्गुलुस्त्रिधा ।
रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥ १२.४
स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः ।
पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा ।
श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥ १२.५
श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनम् ।
गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवम् ॥ १२.६
गन्धराजं सुगन्धं च सर्पावासं च शीतलम् ।
गन्धाढ्यं गन्धसारं च भद्रश्रीर्भोगिवल्लभम् ।
शीतगन्धो मलयजं पावनं चाङ्कभूह्वयम् ॥ १२.७
श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदम् ।
वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ १२.८
श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे ।
स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमम् ॥ १२.९
चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकम् ।
बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥ १२.१०
मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः ।
तज्जातं चन्दनं यत्तु बेट्टवाच्यं क्वचिन्मते ॥ १२.११
बेट्टचन्दनमतीव शीतलं दाहपित्तशमनं ज्वरापहम् ।
छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकम् ॥ १२.१२
सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् ।
शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥ १२.१३
नातिपीतं कैरातं शबरं चन्दनं सुगन्धम् ।
वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥ १२.१४
कैरातमुष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि ।
विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥ १२.१५
पीतगन्धं तु कालीयं पीतकं माधवप्रियम् ।
कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनम् ॥ १२.१६
पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहम् ।
कण्डूविचर्चिकादद्रुकृमिहृत्कान्तिदं परम् ॥ १२.१७
पत्तङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदम् ।
पत्राढ्यं पट्टरागं च भार्यावृक्षश्च रक्तकः ॥ १२.१८
लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् ।
पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ १२.१९
पत्राङ्गं कटुकं रूक्षमम्लं शीतं तु गौल्यकम् ।
वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥ १२.२०
रक्तचन्दनमिदं च लोहितं शोणितं च हरिचन्दनं हिमम् ।
रक्तसारमथ ताम्रसारकं क्षुद्रचन्दनमथार्कचन्दनम् ॥ १२.२१
रक्तचन्दनमतीव शीतलं तिक्तमीक्षणगदास्रदोषनुत् ।
भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहम् ॥ १२.२२
बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा ।
शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥ १२.२३
बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् ।
कुष्ठकण्डूव्रणान् हन्ति विशेषाद्रक्तदोषजित् ॥ १२.२४
हरिचन्दनं सुरार्हं हरिगन्धमिन्द्रचन्दनं दिव्यम् ।
दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ १२.२५
हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः ।
पित्ताटोपविलोपि चन्दनवच्छ्रमशोषमान्द्यतापहरम् ॥ १२.२६
चन्दनानि समानानि रसतो वीर्यतस्तथा ।
भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरम् ॥ १२.२७
देवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च ।
भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥ १२.२८
स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् ।
आमदोषविबन्धार्शःप्रमेहज्वरनाशनम् ॥ १२.२९
देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकम् ।
अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ॥ १२.३०
देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् ।
भूतदोषापहं धत्ते लिप्तमङ्गेषु कालिकम् ॥ १२.३१
देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकम् ।
द्वितीयं काष्ठदारु स्याद्द्वयोर्नामान्यभेदतः ॥ १२.३२
चीडा च दारुगन्धा गन्धवधूर्गन्धमादनी तरुणी ।
तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् ।
चीडा कटूष्णा कासघ्नी कफजिद्दीपनी परा ।
अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥ १२.३३
सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः ।
सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥ १२.३४
बृहत्त्वग्बहुपर्णश्च तथा शाल्मलिपत्रकः ।
मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥ १२.३५
सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः ।
मदगन्धो निरुन्द्धेऽयं व्रणरक्तामयक्रिमीन् ॥ १२.३६
सरलस्तु पूतिकाष्ठं तुम्बी पीतद्रुरुत्थितो दीपतरुः ।
स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥ १२.३७
सरलः कटुतिक्तोष्णः कफवातविनाशनः ।
त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥ १२.३८
ज्ञेयं कुङ्कुममग्निसेखरमसृक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् ।
वाह्लीकं घुसृणं वरेण्यमरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ १२.३९
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् ।
मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ १२.४०
तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् ।
गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ १२.४१
तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् ।
कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परम् ॥ १२.४२
प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया ।
गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥ १२.४३
भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी ।
शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ १२.४४
प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् ।
वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ १२.४५
कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका ।
वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥ १२.४६
सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा ।
कुरङ्गनाभी ललिता मदो मृगमदस्तथा ।
श्यामली काममोदी च विज्ञेयाष्टादशाह्वया ॥ १२.४७
कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् ।
किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥ १२.४८
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥ १२.४९
साप्येका खरिका ततश्च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा ।
सा शुद्धा मृगनाभितः क्रमवशादेषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ १२.५०
चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च ।
स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥ १२.५१
स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च ।
याप्सु न्यस्ता नैव वैवर्ण्यमीयात्कस्तूरी सा राजभोग्याप्रशस्ता ॥ १२.५२
या गन्धं केतकीनामपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिक्कणा स्यात् ।
दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ १२.५३
बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता ।
कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥ १२.५४
या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोऽन्तर्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः ।
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥ १२.५५
शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातमेतावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यमेको गुणः ।
येनासौ स्मरमण्डनैकवसतिर्भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम् ॥ १२.५६
गोरोचना रुचिः शोभा रुचिरा शोभना शुभा ।
गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ १२.५७
पीता च गौतमी गव्या वन्दनीया च काञ्चनी ।
मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥ १२.५८
गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।
भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ १२.५९
कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर्हिमवालुका हिमकरः शीतप्रभः शाम्भवः ।
शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाह्वा द्विशः ॥ १२.६०
पोतासो भीमसेनस्तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च ।
पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥ १२.६१
कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः ।
चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥ १२.६२
शिरो मध्यं तलं चेति कर्पूरस्त्रिविधः स्मृतः ।
शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ १२.६३
भास्वद्विशदपुलकं शिरोजातं तु मध्यमम् ।
सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकम् ॥ १२.६४
स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमम् ।
स्वच्छमीषथरिद्राभं शुभ्रं तन्मध्यमं स्मृतं सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥ १२.६५
स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि ।
निःस्नेहं दार्ढ्यपत्त्रं शुभतरमिति चेत्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद्बहुतरमशने स्फोटदायि व्रणाय ॥ १२.६६
चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः ।
मेघसारस्तुषारश्च द्वीपकर्पूरजः स्मृतः ॥ १२.६७
चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः ।
कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥ १२.६८
जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजम् ।
समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् ।
सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ॥ १२.६९
सौगन्धिकं जवादि स्यात्स्निग्धं चोष्णं सुखावहम् ।
वाते हितं च राज्ञां च मोहनाह्लादकारणम् ॥ १२.७०
जवादि नीलं सस्निग्धमीषत्पीतं सुगन्धदम् ।
आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥ १२.७१
तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा ।
नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ १२.७२
वृक्षः कटुस्तिक्तः शीतस्तिक्तास्रदाहजित् ।
शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥ १२.७३
जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा ।
मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥ १२.७४
जातीपत्री कटुस्तिक्ता सुरभिः कफनाशनी ।
वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥ १२.७५
जातीफलं जातिशस्यं शालूकं मालतीफलम् ।
मज्जासारं जातिसारं पुटं च सुमनःफलम् ॥ १२.७६
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।
वातातिसारमेहघ्नं लघु वृष्यं च दीपनम् ॥ १२.७७
कक्कोलकं कृतफलं कोलकं कटुकं फलम् ।
विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितम् ।
कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ॥ १२.७८
कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् ।
दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥ १२.७९
लवंगकलिका दिव्यं लवंगं शेखरं लवम् ।
श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवम् ॥ १२.८०
तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा ।
पुष्पकं चन्दनादि स्यात्ज्ञेयं त्रयोदशाह्वयम् ॥ १२.८१
लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् ।
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥ १२.८२
लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् ।
वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥ १२.८३
स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः ।
स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥ १२.८४
कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकम् ।
शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकम् ।
धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयम् ॥ १२.८५
कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् ।
पाने पित्तहरं किंचित्त्रिदोषघ्नमुदाहृतम् ॥ १२.८६
अन्यागरु पीतकं च लोहं वर्णप्रसादनम् ।
अनार्यकमसारं च कृमिजग्धं च काष्ठकम् ॥ १२.८७
काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् ॥ १२.८८
दाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च ।
धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ १२.८९
दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च ।
अपनयति केशदोषानातनुते संततं च सौगन्ध्यम् ॥ १२.९०
मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका ।
मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥ १२.९१
मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी ।
केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥ १२.९२
जटाला नलदा मेषी तामसी चक्रवर्तिनी ।
माता भूतजटा चैव जननी च जटावती ।
मृगभक्षापि चेत्येता एकविंशतिधाभिधाः ॥ १२.९३
सुरभिस्तु जटामांसी कषाया कटुशीतला ।
कफहृद्भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥ १२.९४
द्वितीया गन्धमांसी च केशी भूतजटा स्मृता ।
पिशाची पूतना चैव भूतकेशी च लोमशा ।
जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥ १२.९५
गन्धमांसी तिक्तशीता कफकण्ठामयापहा ।
रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥ १२.९६
आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा ।
सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥ १२.९७
अभ्रमांसी हिमा शोफव्रणनाडीरुजापहा ।
लूतागर्दभजालादिहारिणी वर्णकारिणी ॥ १२.९८
तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः ।
सिह्लकः सिह्लसारश्च पीतसारः कपिस्तथा ॥ १२.९९
पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः ।
करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥ १२.१००
तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् ।
कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ १२.१०१
गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः ।
जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥ १२.१०२
कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः ।
देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ।
दिव्यस्तु महिषाक्षश्च नामान्येतानि विंशतिः ॥ १२.१०३
गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् ।
क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥ १२.१०४
गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः ।
कनको वंशपोतश्च सुरसश्च पलंकषः ॥ १२.१०५
कणगुग्गुलुः कटूष्णः सुरभिर्वातनाशनः ।
शूलगुल्मोदराध्मानकफघ्नश्च रसायनः ॥ १२.१०६
गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः ।
दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः ।
मज्जाजो मदजश्चैव महिषासुरसम्भवः ॥ १२.१०७
गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् ।
उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ १२.१०८
रालः सर्जरसश्चैव शालः कनकलोद्भवः ।
ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ॥ १२.१०९
बहुरूपः शालरसः सर्जनिर्यासकस्तथा ।
सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ।
कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥ १२.११०
रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः ।
वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।
कुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस्तीक्ष्णः ।
गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥ १२.१११
कुन्दुरुर्मधुरस्तिक्तः कफपित्तार्तिदाहनुत् ।
पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ १२.११२
कुष्ठं रुजागदो व्याधिरामयं पारिभद्रकम् ।
रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषमुत्पलम् ।
कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ १२.११३
कुष्ठं कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् ।
विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥ १२.११४
सारिवा शारदा गोपा गोपवल्ली प्रतानिका ।
गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥ १२.११५
सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा ।
भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्यपि ॥ १२.११६
सारिवे द्वे तु मधुरे कफवातास्रनाशने ।
कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥ १२.११७
नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः ।
वलः कोशी च करजो हनुर्नागहनुस्तथा ॥ १२.११८
पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी ।
संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥ १२.११९
नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः ।
कुष्ठकण्डूव्रणघ्नश्च भूतविद्रावणः परः ॥ १२.१२०
नखोऽन्यः स्याद्बलनखः कूटस्थश्चक्रनायकः ।
चक्री चक्रनखस्त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥ १२.१२१
द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः ।
व्यालायुधो व्यालबलो व्यालखड्गश्च षोडश ॥ १२.१२२
व्यालनखस्तु तिक्तोष्णः कषायः कफवातजित् ।
कुष्ठकण्डूव्रणघ्नश्च वर्ण्यः सौगन्ध्यदः परः ॥ १२.१२३
स्पृक्का च देवी पिशुना वधूश्च कोटिर्मनुर्ब्राह्मणिका सुगन्धा ।
समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥ १२.१२४
निर्माल्या सुकुमारा च मालाली देवपुत्रिका ।
पञ्चगुप्तिरसृक्प्रोक्ता नखपुष्पी च विंशतिः ॥ १२.१२५
स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् ।
श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥ १२.१२६
स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा ।
विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ १२.१२७
स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् ।
पित्तप्रकोपशमनं बलपुष्टिविवर्धनम् ॥ १२.१२८
मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी ।
सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ॥ १२.१२९
मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् ।
श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ १२.१३०
शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् ।
स्थविरं पलितं जीर्णं तथा कालानुसार्यकम् ॥ १२.१३१
शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकम् ।
शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ॥ १२.१३२
शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।
दाहतृष्णावमिश्वासव्रणदोषविनाशनम् ॥ १२.१३३
चोरकः शङ्कितश्चण्डा दुष्पत्त्रः क्षेमको रिपुः ।
चपलः कितवो धूर्तः पटुर्नीचो निशाचरः ॥ १२.१३४
गणहासः कोपनकश्चौरकः फलचोरकः ।
दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः ।
ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस्त्रिनेत्रधा ॥ १२.१३५
चोरकस्तीव्रगन्धोष्णस्तिक्तो वातकफापहः ।
नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥ १२.१३६
पद्मकं पीतकं पीतं मालयं शीतलं हिमम् ।
शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् ।
पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद्द्वादशाह्वयम् ॥ १२.१३७
पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् ।
मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥ १२.१३८
प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् ।
पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतम् ॥ १२.१३९
प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् ।
पित्तरक्तव्रणान् हन्ति ज्वरदाहतृषापहम् ॥ १२.१४०
लामज्जकं सुनालं स्यादमृणालं लवं लघु ।
इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ १२.१४१
लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् ।
तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहम् ॥ १२.१४२
मांसरोहिण्यतिरुहा वृत्ता चर्मकषा च सा ।
विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ १२.१४३
अन्या मांसी सदामांसी मांसरोहा रसायनी ।
सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥ १२.१४४
विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् ।
रसायनप्रयोगाच्च सर्वरोगहरा मता ।
कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥ १२.१४५
रोहिणीयुगलं शीतं कषायं क्रिमिनाशनम् ।
कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ १२.१४६
श्रीवेष्टो वृक्षधूपश्च चीडागन्धो रसाङ्गकः ।
श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥ १२.१४७
वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः ।
धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥ १२.१४८
श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् ।
योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥ १२.१४९
उशीरममृणालं स्याज्जलवासं हरिप्रियम् ।
मृणालमभयं वीरं वीरणं समगन्धिकम् ॥ १२.१५०
रणप्रियं वारितरं शिशिरं शितिमूलकम् ।
वेणीगमूलकं चैव जलामोदं सुगन्धिकम् ।
सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयम् ॥ १२.१५१
उशीरं शीतलं तिक्तं दाहश्रमहरं परम् ।
पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ १२.१५२
नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या ।
सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥ १२.१५३
नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा ।
कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥ १२.१५४
इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् ।
वर्गं वक्त्राम्भोरुहमोदार्हमधीयाथैनं मध्ये संसदसौ दीव्यतु वैद्यः ॥ १२.१५५
ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् ।
तेषामयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिमेति वर्गः ॥ १२.१५६
यस्योच्चैश्चरितानि शीतसुरभीण्यभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग्दौःस्थमास्थन् स्वकं तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ १२.१५७