पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
208
[४ अधि. ३ अध्या.
कण्टकशोधनम्

 पर्वसु च नदीपूजा कारयेत्
 मायायोगविदो वेदविदो[१] वर्षमभिचरेयु ।

2624  वर्षावग्रहे शचीनाथगङ्गापर्वतमाहाकच्छपूजा. कारयेत् ।

 व्याधिभयमोपनिषदिकै. प्रती[२] कार पतिकुर्युः। औषधैश्चि-
कित्सकाः, शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः ।
 तेन मरको व्याख्यातः।
 तीर्थाभिषेचन महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्ध
दहनं देवरात्रि च कारयेत् ।
 पशुव्याधिमरके स्थानान्यर्धनीराजनं स्वदैवतपूजनं च कार
येत् ।
 दुर्भिक्षे राजा बीजभक्तोपग्रहं[३] कृत्वानुग्रहं कुर्यात् ।दुर्गतकर्म[४]
वा भक्तानुग्रहेण भक्तसंविभागं वा देशनिक्षेपं वा।
 मित्राणि वा[५] व्यापाश्रयेत ।
 कर्शनं बमनं वा कुर्यात् ।
 निष्पन्नसस्यमन्यविषयं वा मजनपदो यायात् ।
 समुद्रसरस्तटाकानि वा सश्रयेत ।
 धान्यशाकमूलफलावापान् सेतुषु कुर्वीत ।

263 4  मृगपशुपक्षिव्याळमत्स्यारम्भान् वा ।


  1. * विदो वा.
  2. 2 प्रति.
  3. : प्राइ,
  4. * दुर्गसेतुकर्म.
  5. बाप्य