काठकसंहिता (विस्वरः)/वचनम् ०५

विकिस्रोतः तः
← चतुर्थं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (पञ्चमं वचनम् )
[[लेखकः :|]]
षष्ठं वचनम्  →
मितानुवचनम्

अथ पञ्चमं वचनम् ।

मितानुवचनम् ।
सिताय स्वाहासिताय स्वाहाभिहिताय स्वाहानभिहिताय स्वाहा युक्ताय स्वाहायुक्ताय स्वाहायुक्ताय स्वाहोद्युक्ताय स्वाहा विमुक्ताय स्वाहा प्रमुक्ताय स्वाहा वञ्चते स्वाहा परिवञ्चते स्वाहा संवञ्चते स्वाहानुवञ्चते स्वाहोद्वञ्चते स्वाहा यते स्वाहा धावते स्वाहा तिष्ठते स्वाहोपरताय स्वाहा सर्वस्मै स्वाहा ॥१॥

पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा संप्लोष्यते स्वाहा संप्लवमानाय स्वाहा संप्लुताय स्वाहा मेघायिष्यते स्वाहा मेघायते स्वाहा मेघायिताय स्वाहा मेघिताय स्वाहा मेघाय स्वाहा नीहाराय स्वाहा निहाकायै स्वाहा प्रासचाय स्वाहा प्रचलाकायै स्वाहा विद्योतिष्यते स्वाहा विद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्रँ स्तनयते स्वाहा वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा परिवर्षते स्वाहा संवर्षते स्वाहानुवर्षते स्वाहा प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहा शीकायिष्यते स्वाहा शीकायते स्वाहा शीतिकाय स्वाहोद्ग्रहीष्यते स्वाहोद्गृह्णते स्वाहोद्गृहीताय स्वाहा विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा विप्लुताय स्वाहातप्स्यते स्वाहातपते स्वाहोग्रमातपते स्वाहर्ग्भ्यस्स्वाहा यजुर्भ्यस्वाहा सामभ्यस्स्वाहाङ्गिरोभ्यस्स्वाहा वेदेभ्यस्स्वाहा गाथाभ्यस्स्वाहा नाराशँसीभ्यस्स्वाहा रैभीभ्यस्स्वाहा सर्वस्मै स्वाहा ॥२॥

दत्वते स्वाहादन्तकाय स्वाहा प्राणिने स्वाहाप्राणकाय स्वाहा नासिकावते स्वाहानासिकाय स्वाहा मुखवते स्वाहामुखकाय स्वाहाक्षण्वते स्वाहानक्षकाय स्वाहा कर्णवते स्वाहाकर्णकाय स्वाहा शीर्षण्वते स्वाहाशीर्षकाय स्वाहा पादवते स्वाहापादकाय स्वाहा प्राणते स्वाहाप्राणते स्वाहा वदते स्वाहावदते स्वाहा पश्यते स्वाहापश्यते स्वाहा शृण्वते स्वाहाशृण्वते स्वाहा मनस्विने स्वाहामनस्काय स्वाहा रेतस्विने स्वाहारेतस्काय स्वाहा प्रजाभ्यस्स्वाहाप्रजननाय स्वाहा लोमवते स्वाहालोमकाय स्वाहा त्वचे स्वाहात्वक्काय स्वाहा चर्मवते स्वाहाचर्मकाय स्वाहा लोहितवते स्वाहालोहिताय स्वाहा माँसन्वते स्वाहामाँसकाय स्वाहा स्नावभ्यस्स्वाहास्नावकाय स्वाहास्थन्वते स्वाहानस्थकाय स्वाहा मज्जन्वते स्वाहामज्जकाय स्वाहाङ्गवते स्वाहानङ्गकाय स्वाहात्मन्वते स्वाहानात्मकाय स्वाहा सर्वस्मै स्वाहा ॥३॥

अग्निः पशुरासीत् तेनायजत स एतं लोकमजयद्यस्मिन्नग्निस्स ते लोकस्तं जेष्यस्यथावजिघ्र वायुः पशुरासीत् तेनायजत स एतं लोकमजयद्यस्मिन् वायुस्स ते लोकस्तं जेष्यस्यथावजिघ्रादित्यः पशुरासीत् तेनायजत स एतं लोकमजयद्यस्मिन्नादित्यस्स ते लोकस्तं जेष्यस्यथावजिघ्र ॥४॥
 
द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्षँ समुद्रो योनिस्सूर्यस्ते चक्षुर्वातः प्राणश्चन्द्रमाश्श्रोत्रं दिशः पादा अवान्तरदिशाः पशवो नक्षत्राणि रूपं मासाश्चार्धमासाश्च परूँष्यृतवोऽङ्गानि संवत्सरो महिमा।।५।।

आयासाय स्वाहावयासाय स्वाहा वियासाय स्वाहा प्रयासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहा शोकाय स्वाहा शुचे स्वाहा शुचये स्वाहा तपसे स्वाहा तप्यत्यै स्वाहा क्षुधे स्वाहा भ्रूणहत्यायै स्वाहा सर्वस्मै स्वाहा ॥६॥

जुम्बकाय स्वाहावभृथाय स्वाहा सर्वस्मै स्वाहा ॥७॥

मृत्यवे स्वाहावभृथाय स्वाहा सर्वस्मै स्वाहा ॥८॥
 
कस्त्वा युनक्ति स त्वा युनक्तु विष्णुस्त्वा युनक्त्वस्य यज्ञस्यर्यैध्यत मह्यँ संनत्या अमुष्मै कामायायुषे त्या प्राणाय त्वा व्यानाय त्वापानाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा पोषाय त्वा घोषाय त्वाराद्घोषाय त्वा प्रच्युत्यै त्वा कस्त्वा विमुञ्चति स त्वा विमुञ्चतु विष्णुस्त्वा विमुञ्चत्वस्य यज्ञस्यर्यैध्ुत मह्यँ संनत्या अमुष्मै कामायायुषे त्वा प्राणाय त्वा व्यानाय त्वापानाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा पोषाय त्वा घोषाय त्वाराद्घोषाय त्वा प्रतिष्ठित्यै त्वा ॥९॥

अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तायाष्टाकपाल इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्मायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यस्सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविँशाभ्यां वैराजाभ्याँ शारदाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुस्सवित्र आतिच्छन्दसाय त्रयस्त्रिँशाय रैवताय शैशिराय द्वादशकपालोऽदित्यै विष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोऽनुमत्यै चरु: काय एककपाल: ॥१०॥

हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।
उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते द्यौर्महिमा नक्षत्राणि रूपमादित्यस्ते तेजस्तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥११॥

अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः।
स प्रत्युदैद्धरुणं मध्वो अग्रँ स्वा यत् तनू तन्वमैरयत ।।
उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य तेऽन्तरिक्षं महिमापो वयाँसि रूपं वायुष्टे तेजस्तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥१२॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
ईशे यो अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।
उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपमग्निस्ते तेजस्तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥१३॥

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामास्मिन् राष्ट्रे राजन्य इषव्यश्शूरो महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुस्सप्तिर्जिष्णू रथेष्ठाः पुरंधिर्योषा सभेयो युवास्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्जन्यो वर्षतु फलवतीर्न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥१४॥
 
 
आक्रान् वाजी पृथिवीमग्निं युजमकृत वाज्यर्वाक्रान् वाज्यन्तरिक्षं वायुं युजमकृत वाज्यार्वा द्यां वाज्याक्रँस्त सूर्यं युजमकृत वाज्यर्वायुष्टे वाजिन्युङ्ङनु त्वारभे स्वस्ति मा संपारय वायुष्टे वाजिन्युङ्ङनु त्वारभे खस्ति मा संपारयादित्यस्ते वाजिन्युङ्ङनु त्वारभे स्वस्ति मा संपारय प्राणधृगसि प्राणं मे दृँह व्यानधृगसि व्यानं मे दृँहापानधृगस्यपानं मे दृँह चक्षुरसि चक्षुर्मे धेहि श्रोत्रमसि श्रोत्रं मयि धेह्यायुरस्यायुर्मे धेहि सर्वमायुर्गेषम् ॥१५॥

क्रमैरभ्यक्रमीद्वाजी विश्वैर्देवैर्यज्ञियैस्संविदानस्स नो नय सुकृतस्य लोकं तस्य ते वयँ स्वधया मदेम ॥१६॥

जज्ञि बीजं वर्ष्टा पर्जन्यः पन्था सस्यँ सुपिप्पला ओषधयस्स्वधिचरणेयँ सूपसदनोऽग्निस्स्वध्यक्षमन्तरिक्षँ सूपवाः पवमानस्सूपस्थाना द्यौश्शिवमसौ तपन् यथापूर्वमहोरात्रे पञ्चदशिनोऽर्धमासास्त्रिँशिनो मासाः क्लृप्ता ऋतवश्शान्तस्संवत्सरः ॥१७॥

आग्नेयोऽष्टाकपालस्सौम्यश्चरुस्सावित्रोऽष्टाकपालस्सारस्वतश्चरुः पौष्णश्चरू रौद्रो गावीधुकश्चरुरग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि नागच्छेदग्नयेँऽहोमुचेऽष्टाकपालस्सौर्यं पयो वायव्य आज्यभागः ॥१८॥

अग्नयेँऽहोमुचेऽष्टाकपाल इन्द्रायाँहोमुच एकादशकपालो वायोसावित्र आगोमुग्भ्यां चरुर्मित्रावरुणाभ्यामागोमुग्भ्यां पयस्याश्विभ्यामागोमुग्भ्यां धाना मरुद्भ्य एनोमुग्भ्यस्सप्तकपालो विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालोऽनुमत्यै चरुरग्नये वैश्वानराय द्वादशकपालो द्यावापृथिवीभ्यामँहोमुग्भ्यां द्विकपालः ॥१९॥

अग्नये समनमत् पृथिव्यै समनमद्यथाग्निः पृथिव्या समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु वायवे समनमदन्तरिक्षाय समनमद्यथा वायुरन्तरिक्षेण समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु सूर्याय समनमद्दिवे समनमद्यथा सूर्यो दिवा समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु वरुणाय समनमदद्भ्य
स्समनमद्यथा वरुणोऽद्भिस्समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु साम्ने समनमदृचे समनमद्यथा सामर्चा समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु ब्रह्मणे समनमत् क्षत्राय समनमद्यथा ब्रह्म क्षत्रेण समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु राज्ञे समनमद्विशे समनमद्यथा राजा विशा समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु रथाय समनमदश्वेभ्यसमनमद्यथा रथोऽश्वैस्समनमदेवं मह्यं भद्रास्संनतयस्संनमन्तु ॥२०॥

समिद्दिशां कया नः॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥२१॥ [२९०६]

इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पचमे ग्रन्थे मितानुवचनं नाम पञ्चमं वचनं संपूर्णम्॥५