लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०२१
← अध्यायः ०२० | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २१ [[लेखकः :|]] |
अध्यायः ०२२ → |
श्रीकृष्ण उवाच-
शृणु त्वं राधिके धाम्नि परे यथा विराजते ।
परमात्माऽवतारी स तथारूपोऽभवद्धरिः ।। १ ।।
अनादिश्रीकृष्णनारायणः कृष्णाऽर्बुदाऽधिकः ।
रूपानुरूपरूपाढ्यः सर्वोपरिस्वरूपवान् ।। २ ।।
सर्वेषां प्राणिनां चक्षुर्विषयश्चैक एव सः ।
मनोऽहंबुद्धिविषयश्चात्मविषय एकलः ।। ३ ।।
दिव्यरूपधरो न्यूनषोडशाब्दो युवा यथा ।
भ्राजमानोऽतितेजस्वी भ्राजद्वह्निसमाम्बरः ।। ४ ।।
कच्छनी स्वर्णवर्णाऽस्य मञ्जुलं कटिकञ्चुकम् ।
स्वर्णबुट्टाभरताढ्यं तथा धौत्रं च कैसरम् ।। ५ ।।
स्वर्णतारावलिव्याप्तं काटेयं पटमुत्तमम् ।
स्थितं कट्यां तथा स्कन्धे चोत्तरीयं सुतैजसम् ।। ६ ।।
मुकुटो मस्तके त्वस्य स्थितः श्रीपरमात्मनः ।
सर्वसौगन्ध्यसंव्याप्तो दिव्यामोदसमन्वितः ।। ७ ।।
मण्डपे निजयोग्ये स निषसादोच्छ्रये शुभे ।
महावेदीस्थितास्तत्र चन्दनानां सुपट्टिकाः ।। ८ ।।
चतस्रो दृढपादाढ्याः स्वर्णकुंभीपदाः शुभाः ।
सहस्रमल्लसन्तोल्या ह्येकैका पट्टिका हि सा ।। ९ ।।
गारुडी नारसिंही च शारभी काच्छपी तथा ।
पादेषु शक्तयस्तासां राजन्ते बलमण्डिताः ।। 2.21.१ ०।।
चतुष्पट्ट्यश्चतुर्हस्त्यधिष्ठिताः षष्टिहायनाः ।
करिणस्तत्र शोभन्ते चोत्थिताश्चाम्बरस्पृशः ।। ११ ।।
सर्वभूषाम्बरधरा द्योतन्ते स्वर्णवर्णिजः ।
श्वेतोदराः श्वेतशुण्ढाः श्वेतदन्ताः पयोनिभाः ।। १ २।।
हस्तिपृष्ठे स्थिताः सिंहाः कानका भूषिताः शुभाः ।
चत्वारः केसरिणस्ते सशुण्ढा गगनस्पृशः ।। १३ ।।
चतुःकेसरिणां पृष्ठदेशेषु कच्छपो महान् ।
राजते च हरिद्वर्णां लम्बवर्तुलमण्डलः ।। १४।।
तत्पृष्ठे माणिकी शक्तिरश्विनी दिव्यविग्रहा ।
सर्वोपस्करशोभाढ्या निषण्णा समपृष्ठिका ।। १५।।
तस्याः पृष्ठे स्वर्णवर्णं मृदु चास्तरणं शुभम् ।
तुलिका राजत तत्र कौशेयी चित्रवर्णिनी ।। १६ ।।
पार्श्वपृष्ठस्थितदिव्यकशिपूत्तमसुन्दरी ।
मखमल्लास्तरणैः शोभिता साप्तपदी शुभा ।। १७।।
उपरि वर्तते छत्रं शेषभोगिफणात्मकम् ।
टिव्यहीरकचक्षुर्भिर्दिव्यतेजःप्रदं शुभम् ।। १८।।
तुलिकायां हरिस्तत्र पादौ पीठे निधाय च ।
निषसाद महाराजो राजराजाधिराजकः ।। १ ९।।
श्रीकृष्णोऽहं तथा नारायणः पार्श्वे स्थितावुभौ ।
चामराभ्यां च सहितौ पादाग्रे चाक्षरः स्थितः ।। 2.21.२० ।।
लोमशः पादपार्श्वे च पूजास्थालीकरः स्थितः ।
माता पिता निषण्णौ च कृष्णनारायणान्तिकम् ।। २१ ।।
एवं स्थिते तदा व्योम्नि विमानानां तु कोटयः ।
द्रष्टुं देवभृता दिव्या वर्तन्ते युगलाश्रिताः ।। २२।।
पूजार्थं भूमितलतश्चारोढुं शोभनोच्छ्रिता ।
निःश्रेणिका कृता सोपानानां परम्परायुता ।।।२३ ।।
भूमिभागे तु पट्टीनां कृतं सोपानसप्तकम् ।
ततो हस्तिलम्बशुण्ढाद्वयं पट्टीस्पृशं च यत् ।। २४।।
सोपानाधारताप्राप्तं निःश्रेणीदण्डवत् स्थितम् ।
शुण्ढयोः कुंभपर्यन्तं क्लृप्तान्यारुणकानि च ।।।२५।।।
सोपानानि शृंखलाभिर्बद्धानि सुदृढानि च ।
कुंभस्थलयोस्तत्रैव क्लृप्ता विश्रामशालिका ।।२६ ।।
तत ऊर्ध्वं केसरिणोः शुण्ढयोर्दण्डभान्तयोः ।
सोपानानि सुरम्याणि क्लृप्तानि चापराण्यपि ।।२७।।
केसरिमस्तकं यावत् सा निःश्रेणी कृता ततः ।
चतुष्की सिंहशिरसोर्धृता कच्छपलग्निका ।।२८।।
कच्छपस्य गलपार्श्वे स्थितं हंसद्वयं शुभम् ।
तयोरन्तर्भुजयोश्च क्लृप्ता निःश्रेणिका परा ।।२९।।
माणिकीमुखसंस्पर्शा पार्श्वयोर्गरुडद्वयम् ।
पक्षाभ्यां विवृताभ्यां च हंसपृष्ठे तु पिच्छिकाः ।।2.21.३ ०।।
स्पृष्टाः क्रमाद् यथा सोपानानि पक्षात्मकानि वै ।
माणिकीपार्श्वयोर्लग्नान्येव चोपरि पिच्छके ।।३ १ ।।
स्थित्वा पूजा हरेर्यत्र निर्वर्त्यते सुरादिभिः ।
एवं दिव्ये चायते चोच्छ्रिते रम्यासने प्रभुः ।।३२।।
अनादिश्रीकृष्णानारायणः सर्वैः प्रपूज्यते ।
न श्रुतं नापि सन्दृष्टं चासनं श्रीप्रभोः पुरा ।।।३३।।
तत्र तं राजमानं श्रीराजाधिराजशोभया ।
पूजयितुं कम्भराश्रीः प्रथमं समुपस्थिता ।।३४।।
धृत्वा हस्ते स्वर्णपात्रं कुंकुमाऽक्षतचन्दनैः ।
कस्तूरिकाऽबिरद्रव्यैस्तुलसीमञ्जरीयुतैः ।। ३५।।
गुलालांऽकुरलाजाभिः पुष्पमालाविभूषणैः ।
फलैर्जलैः शर्कराद्यैर्गन्धसारैः प्रपूरितम् ।। ३६।।
लोमशः प्राह वै चाशीर्वचनानि तदा क्षणे ।
ओं स्वस्ति बालकृष्णस्य मुक्ताः स्वस्ति चरन्तु च ।।३७।।
करोतु चाक्षरं ब्रह्म स्वस्ति दीर्घायुरेव च ।
ओं स्वस्ति तं वितन्वन्तु श्रीश्रीकृष्णनरायणाः ।।३८।।
वासुदेवादयः स्वस्ति स्वस्ति कुर्वन्तु चेश्वरा ।
स्वस्ति कुर्वन्त्ववतारा देवेशाः शंकरादयः ।।३९।।.
ऋषयः पितरः सिद्धाः साधवः सांख्ययोगिकाः ।
स्वस्ति कुर्वन्तु बालस्य हरेर्देवाश्च मानवाः ।।2.21.४०।।
सर्वतीर्थानि चादित्या रुद्राः स्वस्ति भवन्तु च ।
वसवो निधयो वैद्यो स्वस्ति कुर्वन्तु वै हरेः ।।४१ ।।
सत्यः साध्व्यः कुमार्यश्च पतिव्रताश्च योषितः ।
देवता वनवासिन्यः स्वस्ति कुर्वन्तु वै हरेः ।। ४२
वृक्षा वल्ल्यश्चारणाश्च किन्नराद्याश्च सूतकाः ।
भृत्या दासा नदा नद्यः स्वस्ति कुर्वन्तु वै हरेः ।।४३।।
यक्षाः ऋक्षाश्च गन्धर्वा मागधाः किम्पुमंशकाः ।
विद्याधरास्तथा साध्याः स्वस्ति कुर्वन्तु वै हरेः ।।४४।।
पर्वताः खनयो यूपाः खाता रणा वनानि च ।
पातालाः सर्पदैत्याश्च दानवा आसुरास्तथा ।।४५।।
राक्षसा भूतकूष्माण्डाः प्रेताः पिशाचकास्तथा ।
मातरः कृत्यकाश्चापि जलेशयाः स्थलेशयाः ।।४६ ।।
वनेशया विशयाश्च स्वस्ति कुर्वन्तु वै हरेः ।
चैत्या मन्त्रा दिव्यदेहाः शस्त्राऽस्त्राद्या विभूतयः ।।४७।।
बालाश्च बालिकावर्गा वृद्धा विप्रा जरायुजाः ।
अण्डजाः स्वेदजाश्चांकुरजाः स्वस्तिधराश्च ये ।।४८।।
विनायका गणेशाद्या हनुमान् गरुडस्तथा ।
पार्षदा नन्दमुख्याश्च स्वस्ति भवन्तु वै हरेः ।।४९।।
राधा रमा च ललिता पद्मा जया सरस्वती ।
माणिकी श्रीः कमला च पार्वती च प्रभा रतिः ।। 2.21.५० ।।
शारदा विरजा गंगा लक्ष्मीः सती च नर्मदा ।
सावित्री मंजुला हंसाऽमृता दुर्गा च मंगला ।।५१ ।।
सगुणा द्वादश स्वस्ति शतं कुर्वन्तु सुप्रियाः ।
अन्याः षोडशसाहस्राः कोट्यर्बुदाब्जशक्तयः ।।५२।।
सूर्यचन्द्रग्रहाद्याश्च स्वस्ति भवन्तु वै हरेः ।
तत्त्वानि भूतजा भावा माया मायापरे स्थिताः ।।५३।।
योगिनो ब्रह्मचर्यस्था वैराजा गुणमूर्तयः ।
आभूषणानि दिव्यानि स्वस्ति भवन्तु वै हरेः ।।५४।।
शृंगारा विविधाकाराः स्वराश्च गीतयस्तथा ।
दिव्यवाद्यानि वै स्वस्ति कुर्वन्तु श्रीहरेः सदा ।।५५।।
संकर्षणोऽनिरुद्धश्च प्रद्युम्नो धर्मराजकः ।
धर्मदेवो भक्तियुक्तः स्वस्ति कुर्वन्तु ते हरेः ।।५६।।
जनकः कम्भरास्वामी स्वस्ति करोतु वै हरेः ।
अन्तरात्मा परमात्मा स्वस्ति स्वस्य करोतु सः ।।५७।।
मुक्ता चम्पा जया हैमी रमा शान्ता व्रजा दया ।
भानुर्दीपावली चोर्जा स्वस्ति कुर्वन्तु वै हरेः ।।५८।।
ओं सुशान्तिः सदा चास्तु दीर्घायुश्चान्तवर्जितम् ।
आरोग्यं नित्यसौख्यं च शाश्वतं चास्तु वै हरेः ।।५९।।
इत्येवं लोमशः स्वस्तिवाग्भिः प्रोक्ष्य जलादिना ।
यवांकुरैश्च कुसुमैस्तिलकं चन्द्रकं शुभम् ।।2.21.६०।।
मात्रा संकारयामास पूजन सांगकर्मभिः ।
मिष्टं मुखे ददौ माता दुःखहा चांजलिं मुहुः ।
शिरस्यावातारयच्चाशीर्वचो जननी ददौ ।।६ १ ।।
शाश्वतायुर्युतस्त्वं वै भव सर्वेश्वरः प्रभुः ।
इत्युक्त्वा दिव्यपुष्पाणां कल्पमालां गले ददौ ।।६२।।
विकीर्य मस्तके तस्याऽक्षतान् नीराजनं व्यधात् ।
पुष्पांजलिं ददौ माता नत्वा स्वासनमागता ।।६३ ।।
पिता पूजां चकारैवं स्वस्तिमान् भव पुत्रक ।
सन्तानतन्तुसन्धाता शाश्वतायुर्युतो भव ।।६४।।
अथ श्रीलोमशो देवेश्वरं समर्चयन्मुदा ।
सर्वोपचारकैर्मन्त्रैराशीर्वाद्ं ददौ शुभम् ।।६५।।
बुद्ध्या गुणैर्विचारैश्चात्मना भक्त्या च विद्यया ।
धर्मैर्योगैश्वर्यवर्यैः शाश्वताऽभ्युदयो भव ।।६६।।
आयुषाऽचरणैर्दिव्यैस्तेजसा च बलेन च ।
कारुण्येन विरागेण शाश्वताऽभ्युदयो भव ।।६७।।
मातापित्रोः सेवया श्रीगुरोः शुश्रूषया तथा ।
शरणागतरक्षाकृत् शाश्वताभ्युदयो भव ।।६८।।
ब्रह्ममार्गपरो नित्यं मानसेष्टप्रपूरकः ।
समदृष्टिर्महाश्रेष्ठी दानधर्मपरायणः ।
सर्वसन्तोषदाता च शाश्वताभ्युदयो भव ।।६ ९।।
इत्याशीर्भिर्लोमशेन वर्धितो बालनन्दनः ।
अनादिश्रीकृष्णनारायणो लाजाविकीरितः ।।2.21.७०।।
अथाऽन्येभ्यस्ततः पूजाऽवसरः सम्प्रदापितः ।
परधामगताः पत्न्यः पूजार्थं श्रीहरिप्रियाः ।।७१ ।।
दिव्यसाधनसम्पद्भिर्गन्धचन्दनवारिभिः ।
रत्नहारसुमालाभिः पुष्पैः संहृदयैस्तथा ।।७२।।
पूजां चक्रुस्तत आरार्त्रिकं चक्रुश्च दुःखहाम् ।
अञ्जलिं शिरसो नीत्वा चरणोदकमित्यपि ।।७३ ।।
पीत्वोपदाः समर्प्यैव धृत्वा प्रसादकुंकुमम् ।
गाले स्पृष्ट्वा मुहुः प्रेम्णा निरीक्ष्य प्राणवल्लभम् ।।७४।।
ययुर्नैजविमानानि ततस्तत्राऽक्षरादयः ।
अक्षरस्थास्तथा मुक्ता मुक्तान्योऽप्यर्चयन् पतिम् ।।७५।।
श्रीकृष्णो राधिकायुक्तः श्रीयुक्तश्च नरायणः ।
गोलोकवासिनः सर्वे तथा वैकुण्ठवासिनः ।।७६।।
चतुर्वैकुण्ठवासाश्चाऽमृताऽव्याकृतवासिनः ।
अन्यधामनिवासाश्च मुक्ता व्यूहास्तथा परे ।।७७।।
अवतारा ईश्वराश्च सदाशिवप्रभूत्तमाः ।
महाविष्णुसमकक्षा मायाप्रधानपूरुषाः ।।७८।।
वैराजा ब्रह्मदेवेशा मुनयः ऋषयस्तथा ।
पितरः सुरकोट्यश्च भुवर्लोकनिवासिनः ।।७९।।
बृहस्पतिपुरोगाश्च शुक्राचार्यपुरोगमाः ।
नदा नद्यो मानवाश्च पर्वता द्रुलतादयः ।।2.21.८०।।
स्तम्बास्तीर्थानि चैत्याश्च मानवाः सूतबन्दिनः ।
तृणानि रणवासाश्च पशवः पक्षिणस्तथा ।।८ १ ।।
नागा गन्धर्ववर्याश्च सौराष्ट्रा भूनिवासिनः ।
सामुद्रा व्योमयानाश्च कोट्यर्बुदाश्च कन्यकाः ।।८२।।
लोकपालास्तथा सर्वे दिशामग्रेसरेश्वराः ।
राजानो दिव्यराजाश्च ब्रह्मक्षत्रा दिवौकसाम् ।।।८३ ।।
सर्वे पुपूजुरत्यर्थं बालकृष्णं पुमुत्तमम् ।
तिलकं चन्द्रकं चक्रुर्ददुश्चोपायनानि च ।।८४।।
भव शाश्वतजीवश्चेत्याशीर्वादान् ददुर्मुहुः ।
सर्वब्रह्माण्डदेव्यश्च मिलित्वा कोटिवर्तिकम् ।।८५।।
आरार्त्रिकं हरेश्चक्रुः शतैकवारभ्रामितम् ।
पुष्पाञ्जलिं ददुश्चाथ पादवारि पपुस्ततः ।।८६।।
दुःखहां चाऽञ्जलिं प्राप्य ययुर्नैजविमानकम् ।
एवं वै पूजने चाशीर्वचने विनिवर्तिते ।।८७।।
लोमशः सर्वसत्कारं भाषणं विदधे ततः ।
स्वागतं श्रीहरिकृष्णः स्वयं करोति वः शुभम् ।।८८।।
भवतां श्रीमतां सर्वपूज्यानां चाशिषाऽप्यहम् ।
शाश्वताऽभ्युदयश्चास्मीप्येवं चार्थयते हरिः ।।८९।।
कृतकृत्योऽस्मि सञ्जातो बालकृष्णो भवत्सुतः ।
पुनश्चापि निभाल्योऽहं प्रत्यब्दं च प्रतिव्रतम् ।।2.21.९०।।
प्रत्युत्सवं प्रकर्षेण योजनीयः शुभाशिषा ।
एषोऽहं वालपुत्रो वै नमस्करोमि सादरम् ।। ९ १।।
क्षतिः त्वागतकर्मादौ क्षन्तव्या मम वै पितुः ।
लोमशस्य महर्षेश्च मातुर्मेऽपि तथेश्वराः ।। ९२।।
इत्युक्त्वा लोमशः प्राह भोजनस्य क्षणः शुभः ।
वर्तते भोजनं युष्मन्निवासेष्वागमिष्यति ।। ९३।।
सदसः परिहारश्च जायते विजयोऽस्तु वः ।
इत्युक्ते प्रोत्थितः कृष्णः समाजोऽपि तदोत्थितः ।। ९४।।
ययुर्नैजान्निवासाँस्ते भोजनं तत्तदर्हकम् ।
नैकरूपं तथा पानं कन्याः परार्धसंख्यकाः ।। ९५।।
नैकरूपधरा दास्यो भूत्वा निन्युस्तदालयान् ।
तर्पयित्वा समाजाँश्च विश्रान्तिशयनानि च ।।९६।।
ददुः सेवां तथा चक्रुर्मध्याह्नोत्तरमुत्तमाम् ।
विदायं प्राप्य च ययुर्नैजधामानि सोत्सुकाः ।। ९७।।
पिता ददौ तदा विश्वकर्मणे पारितोषिकम् ।
कल्पहारं कल्पसूत्रं कल्पवल्लीं त्रयं त्विदम् ।। ९८।।
अन्येभ्यः कर्मचारेभ्यो ददावुपायनानि च ।
लोमशाय ददौ कल्पकन्यां शाश्वतसूत्रजाम् ।। ९९।।
हरेः प्रसादं सर्वेभ्यो ददौ यास्यद्भ्य उत्तमम् ।
मण्डपस्योपसंहारं कारयामास वै ततः ।। 2.21.१०० ।।
वस्तूनि यानि सर्वाणि त्ववशिष्टानि तत्र तु ।
तानि दत्तान्यनाथेभ्यो भिक्षुकेभ्यः समन्ततः ।। १०१ ।।
नृत्यन्तीभ्यश्चाप्सरोभ्यो ददौ शृंगारकोत्तमम् ।
हारान् भूषाः कल्पवृक्षादीन्यमूल्यानि यानि च ।। १ ०२।।
श्रीमद्गोपालकृष्णश्च संहृत्य सायमुत्सवम् ।
रात्रौ शान्तिं परां लेभे भगवान् बालरूपधृक् ।।१ ०३।।
आस्ते दोलासमारूढो लोकरीत्यनुसारतः ।
लोमशः कन्यकाश्चापि लोमशस्याऽऽश्रमं ययुः ।। १ ०४।।
इत्येवं राधिकेऽनादिकृष्णनारायणस्य वै ।
कृतो महोत्सवो दिव्यो द्वितीयवत्सराद्यके ।। १ ०५।।
दिवसे सर्वसौभाग्यवर्धनो मोक्षदस्तथा ।
स्मर्तॄणां पाठकानां च श्रोतॄणां चास्य भावतः ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीबालकृष्णस्य प्रभोर्द्वितीयवर्षारम्भे महोत्सवे मण्डपे महदासनवर्णनं सर्वकृतपूजाशीर्वादाश्चेत्यादिनिरूपणनामैकविंशतितमोऽध्यायः ।। २१ ।।