सामग्री पर जाएँ

अथर्ववेदः/काण्डं १९/सूक्तम् २८

विकिस्रोतः तः
← सूक्तं १९.२७ अथर्ववेदः - काण्डं १९
सूक्तं १९.२८
ऋषिः - ब्रह्मा (सपत्नक्षयकामः)
सूक्तं १९.२९ →
दे. दर्भमणिः, मन्त्रोक्ताश्च। अनुष्टुप्।

इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥
द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥
घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥
भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।
भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥
छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।
छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।
वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।
कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।
पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।
विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥

सायणभाष्यम्

'इमं बध्नामि ते मणिम्' इति सूक्तत्रयम् ‘ऐन्द्रीं जयबलवृष्टिपशुकामस्य परचक्रागमे च' ( शांक १७,२) इति विहितायाम् ऐन्द्र्याख्यायां महाशान्तौ दर्भमणिबन्धने विनियुक्तम् । सूत्रितं हि शान्तिकल्पे- “इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे' इति दर्भमणिम् ऐन्द्र्याम् 'अभीवर्तेन' ( अ १,२९ ) इति रथनेमिमणिं माहेन्द्र्याम्" (शांक १९,४ ) इति ।

इ॒मम्ब॑ध्नामि ते म॒णिं दी॑र्घायु॒त्वाय॒ तेज॑से।
द॒र्भं स॑पत्न॒दम्भ॑नं द्विष॒तस्तप॑नं हृ॒दः ।।१।।
इमम् । बध्नामि । ते । मणिम् । दीर्घायुऽत्वाय । तेजसे ।।
दर्भम् । सपत्नऽदम्भनम् । द्विषतः । तपनम् । हृदः ॥ १ ॥
हे विजयबलादिकाम ते तव इमं मणिं दर्भमयं बध्नामि । किमर्थम् । दीर्घायुष्ट्वाय यथा त्वं दीर्घायुर्भवसि तथाभावाय तेजसे अतिशयिततेजोलाभाय । मणिं विशिनष्टि-दर्भम् । विकारे प्रकृतिशब्दः। दर्भनिर्मितं मणिं सपत्नदम्भनम् शत्रूणां हिंसकं सपत्नीवत् सपत्नः। 'व्यन्त्सपत्ने' (पा ४,१,१४५ ) इति निपातनात् साधुः । दम्भनम् इति । 'कृत्यल्युटो बहुलम्' (पा ३,३,१९३) इति कर्तरि ल्युट् । द्विषतः द्वेषं कुर्वतः शत्रोः हृदः हृदयस्य तपनं तापकम् ।

द्वि॑ष॒तस्ता॒पय॑न्हृ॒दः शत्रू॑णां ता॒पय॒न्मनः॑।
दु॒र्हार्दः॒ सर्वां॒स्त्वं द॑र्भ घ॒र्म इ॑वा॒भीन्त्सं॑ता॒पय॑न् ।।२।।
द्विषतः । तापयन् । हृदः । शत्रूणाम् । तापयन् । मनः ।
दुःऽहार्दः । सर्वान् । त्वम् । दर्भ । घर्म:ऽइव । अभीन् । सम्ऽतापयन् ॥ २ ॥
 हे दर्भमणे त्वं द्विषतः द्वेषं कुर्वतः शत्रोः हृदः हृदयं तापयन् संतप्तं कुर्वन् तथा शत्रूणां मनः च तापयन् एवं दुर्हार्दः दुष्टहृदयस्य । हृद इदं हार्दम् । 'तस्येदम्' (पा ४,३,१२० ) इति अण् । हार्दं करोति । 'तत् करोति' ( पावा ३,१,२६ ) इति णिच् । हार्दयतेः क्विपि 'णेरनिटि (पा ६,४,५१ ) इति णिलोपः । तस्य सर्वम् गृहक्षेत्रपश्वादिकं घर्म इव आदित्य इव । यद्वा 'यद् "घ्रा99३ इत्यपतत् तद् घर्मस्य घर्मत्वम्' (तैआ ५,१,५) इति श्रुतेः घर्मः प्रवर्ग्यः । स इव अभीन् अभयान् संतापयन् भिन्द्धीति संबन्धः ।

घ॒र्म इ॑वाभि॒तप॑न्दर्भ द्विष॒तो नि॒तप॑न्मणे।
हृ॒दः स॒पत्ना॑नां भि॒न्द्धीन्द्र॑ इव विरु॒जं ब॒लम् ।।३।।
घर्म:ऽइव । अभिऽतपन् । दर्भ । द्विषतः । निऽतपन् । मणे ।
हृदः । सऽपत्नानाम् । भिन्द्धि । इन्द्रःऽइव । विऽरुजन् । बलम् ॥ ३ ॥
हे दर्भ। दर्भविकारे दर्भशब्दः। हे दर्भनिर्मित मणे त्वं घर्म इव । उक्तो घर्मशब्दार्थः निदाघकालो वा। स इव द्विषतः द्वेषं कुर्वतः शत्रोर्हृदयम् । यद्वा । कर्मणि षष्ठी। द्विषन्तम् शत्रुम् अभितपन् अभितः संतापं कुर्वन् तथा नितपन् नितरां संतापयन् भिन्द्धि भेदं कुरु । दार्ढ्याय उक्तमेवार्थम् पुनराह - सपत्नानाम् राष्ट्रादिविषये समानः पतिर्येषां ते सपत्नाः । राष्ट्रविषये स्वेषामपि पतित्वं कामयमाना इत्यर्थः । सपत्नीव सपत्नः । 'व्यन्त्सपत्ने' (पा ४,१,१४५ ) इति निपातनात् साधुः । तेषां बलम् शारीरं बाह्यं च इन्द्र इव विरुजन् स यथा शत्रूणां बलं विरुजति एवं विरुजन् नाशयन् तेषां हृदः हृदयानि भिन्द्धि विदारय । भिदिर् विदारणे ।

भि॒न्द्धि द॑र्भ स॒पत्ना॑नां॒ हृद॑यः द्विष॒तां म॑णे।
उ॒द्यन्त्वच॑मिव॒ भूम्याः॒ शिर॑ ए॒षां वि पा॑तय ।।४।।
भिन्द्धि । दर्भ । सऽपत्नानाम् । हृदयम् । द्विषताम् । मणे ।
उत्ऽयन् । त्वचम्ऽइव । भूम्याः । शिरः । एषाम् । वि । पातय ॥ ४ ॥
हे दर्भ मणे द्विषताम् द्वेषं कुर्वतां सपत्नानां हृदयं भिन्द्धि । हृदयभेदनमात्रेण अपरितुष्यन्नाह - उद्यन् ऊर्ध्वं गच्छन् भुजादिप्रदेशम् अधितिष्ठन् त्वं भूम्यास्त्वचम् इव तृणगुल्मौषध्याद्यधिष्ठानभूतां यथा तक्षणेन निपातयति गृहादिनिर्माणार्थं लोके एवम् एषां सपत्नानां शिरः । जात्येकवचनम् । शिरांसि वि पातय अधःपतितानि कुरु।

भि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे भि॒न्द्धि मे॑ पृतनाय॒तः।
भि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ भि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।५।।
भिन्द्धि । दर्भ । सऽपत्नान् । मे । भिन्द्धि । मे । पृतनाऽयतः ।
भिन्द्धि । मे । सर्वान् । दुःऽहार्दः । भिन्द्धि । मे । द्विषतः । मणे ॥ ५ ॥
पृतनायतः पृतना सेना। ताम् आत्मन इच्छन्तः पृतनायन्तः। 'सुप आत्मनः क्यच्' (पा ३,१,८) इति क्यच् । सर्वविधीनां छन्दसि विकल्पितत्वाद् 'कव्यध्वरपृतनस्यार्चि लोपः' (पा ७,४,३९) इति आकारलोपाभावः । तान् भिन्द्धि । भिदिर् विदारणे । दुर्हार्दः दुष्टहृदयान् । हृद इदं हार्दम् । 'तस्येदम्' (पा ४,३,१२० ) इति अण् । हार्दं करोति । 'तत् करोति' ( पावा ३,१,२६ ) इति णिच् । हार्दयतेः क्विपि 'णेरनिटि' (पा ६,४,५१ ) इति णिलोपः । स्पष्टम् अन्यत् ।

छि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे छि॒न्द्धि मे॑ पृतनाय॒तः।
छि॒न्द्धि मे॒ सर्वा॑न्दु॒र्हार्दो॑ छि॒न्द्धि मे॑ द्विष॒तो म॑णे ।।६।।
छिन्द्धि । दर्भ । सऽपत्नान् । मे । छिन्द्धि । मे । पृतनाऽयतः ।
छिन्द्धि । मे । सर्वान् । दुःऽहार्दः । छिन्द्धि । मे । द्विषतः । मणे ॥ ६ ॥
छिन्द्धि । छिदिर् द्वैधीकरणे । शिष्टं समानम् ।

वृ॒श्च द॑र्भ स॒पत्ना॑न्मे वृ॒श्च मे॑ पृतनाय॒तः।
वृ॒श्च मे॒ सर्वा॑न्दु॒र्हार्दो॑ वृ॒श्च मे॑ द्विष॒तो म॑णे ।।७।।
वृश्च । दर्भ । सऽपत्नान् । मे । वृश्च । मे । पृतनाऽयतः ।
वृश्च । मे। सर्वान् । दुःऽहार्दः । वृश्च । मे द्विषतः । मणे ॥ ७ ॥
वृश्च । ओव्रश्चू छेदने इति धातुः।

कृ॒न्त द॑र्भ स॒पत्ना॑न्मे कृ॒न्त मे॑ पृतनाय॒तः।
कृ॒न्त मे॒ सर्वा॑न्दु॒र्हार्दो॑ कृ॒न्त मे॑ द्विष॒तो म॑णे ।।८।।
कृन्त । दर्भ । सऽपत्नान् । मे । कृन्त । मे । पृतनाऽयतः ।
कृन्त । मे । सर्वान् । दुःऽहार्दः । कृन्त । मे । द्विषतः । मणे ॥ ८ ॥
कृन्त । कृती छेदने । 'शे मुचादीनाम्' ( पा ७,१,५९ ) इति नुम् आगमः

पिं॒श द॑र्भ स॒पत्ना॑न्मे पिं॒श मे॑ पृतनाय॒तः।
पिं॒श मे॒ सर्वा॑न्दु॒र्हार्दो॑ पिं॒श मे॑ द्विष॒तो म॑णे ।।९।।
पिंश । दर्भ । सऽपत्नान् । मे। पिंश । मे । पृतनाऽयतः ।
पिंश । मे । सर्वान् । दुःऽहार्दः । पिंश । मे । द्विषतः । मणे ॥ ९॥
पिंश । पिश अवयवे । मुचादित्वाद् नुम् ।

विध्य॑ दर्भ स॒पत्ना॑न्मे॒ विध्य॑ मे पृतनाय॒तः।
विध्य॑ मे॒ सर्वा॑न्दु॒र्हार्दो॒ विध्य॑ मे द्विष॒तो म॑णे ।।१०।।
विध्य । दर्भ । सऽपत्नान् । मे । विध्य । मे । पृतनाऽयतः ।
विध्य । मे । सर्वान् । दुःऽहार्दः । विध्य । मे । द्विषतः । मणे ॥ १० ॥
विध्य । व्यध ताडने । दैवादिकः । 'ग्रहिज्या' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् ।

इत्येकोनविंशे काण्डे चतुर्थेऽनुवाके द्वितीयं सूक्तम् ।


टिप्पणी